संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४४५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४४५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! गुरुपत्नीं तारां पतिपरायणाम् ।अप्यकामा चन्द्रभुक्ता पातिव्रत्यान् पपात न ॥१॥अत्रिस्तु ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः ।स च कृत्वा राजसूयं चन्द्रमाः संबभूव ह ॥२॥एकदा चन्द्रमाः सम्पन्मत्तोऽगाज्जाह्नवीतटे ।ददर्श स गुरोर्भार्यां तारां धर्मपतिव्रताम् ॥३॥सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।तनुमध्यां सुरूपां सुदतीं कोमलविग्रहाम् ॥४॥सूक्ष्मवस्त्रपरीधानां युवतीं स्वर्णभूषणाम् ।कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ॥५॥सिन्दूरबिन्दुना चारुफालमध्यस्थलोज्ज्वलाम् ।चन्द्रश्वेतां कनकाभां रक्ताक्षीं कामसंभृताम् ॥६॥शरत्पार्वणचन्द्रास्यां पक्वबिम्बाऽधरां सतीम् ।गच्छन्तीं स्वगृहं स्नात्वा मत्तवारणगामिनीम् ॥७॥निर्जने तां विलोक्यैव शश्यभून्मन्मथाऽर्दितः ।लज्जां विहाय संरुद्ध्य मार्गे तां समुवाच ह ॥८॥नमस्ते सुन्दरि विप्रे सुरूपे ब्रह्मरूपिणि! ।क्षणं तिष्ठ वरिष्ठे! ते पादयोः प्रणमाम्यहम् ॥९॥त्वादृशीनां सतीनां वै योगात्पातकनाशनम् ।भाग्योदयो भवेच्चापि जानीह्यन्तर्गतं मनः ॥१०॥कर्तुं सखीं समिच्छामि रजन्यां शयनस्थिताम् ।यदि मे मानसं साध्वि! कामोद्वेलत्वमागतम् ॥११॥रतिदानेन शान्तं त्वं कर्तुं शक्ताऽसि वै सकृत् ।तदा त्वां संपरित्यज्य गमिष्यामि तथा कुरु ॥१२॥यदि चेन्न रतेर्दानं ददासि त्वां नयाम्यहम् ।प्रसह्याऽपहरणं वै कृत्वा यामीति निश्चितम् ॥१३॥अहो तपस्विना देवगुरुणा त्वं नियोजिता ।किं सुखं सौरतं तेन तव शान्तिकरं भवेत् ॥१४॥अहं चन्द्रो मम राज्यं स्वर्गे साक्षाद् विलोक्यते ।आगच्छ वा भव तत्र शप्तविंशतिमानिता ॥१५॥निष्फलं यौवनं याति वृद्धेन स्वामिना तव ।स्वप्ने जागरणे चापि ध्यायन्नास्ते बृहस्पतिः ॥१६॥अन्यश्च त्वन्मनःकामो गुरोरन्यच्चिकीर्षितम् ।ययोस्तु भिन्नौ विषयौ का प्रीतिः संगमे तयोः ॥१७॥वासन्तीपुष्पतल्पे वा गन्धचन्दनचर्चिते ।भवती युवती भाग्यवती तत्रैव मोदताम् ॥१८॥इत्युक्त्वा मदनोन्मत्तः पपात चरणे पुनः ।निरुद्धमार्गा चन्द्रेण प्रोवाच तं पतिव्रता ॥१९॥शिष्यस्त्वं गुरुपत्नी ते तारा भवामि मातृवत् ।वक्तुं न लज्जसे कामिन् कथमन्धो विजायसे ॥२०॥नाऽस्म्यहं कामिनी चन्द्र! सती चाहं तपस्विनी ।पवित्रा पावनी माता ते भवामि कुपुत्रक ॥२१॥सप्तविंशतिनार्यस्ते सन्ति किम्वधिकं मयि ।मनो यच्छ सुखं गच्छ किं साध्व्या ते प्रयोजनम् ॥२२॥अत्रेरभाग्यात्त्वं जातो व्यर्थं ते जन्म जीवनम् ।धिक् त्वां परप्रियातृष्णं व्यर्थं ते सर्वसुकृतम् ॥२३॥अहं तपस्विनी दुष्ट! तपस्विनां समाश्रिता ।योग्यः स योगिराड् बृहस्पतिर्मे मुक्तिदायकः ॥२४॥त्वादृशो जारकर्मा च क्षुद्रकामजितो यदि ।सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ॥२५॥दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।त्यज मां प्रति संकल्प सत्यं ते शं भविष्यति ॥२६॥इत्युक्त्वा पार्श्वतस्तारा यावद् याति शशी तु ताम् ।प्रसह्य च करे धृत्वा रथे नीत्वा ययौ दिवम् ॥२७॥रुरोदाऽऽक्रन्दनं तारा चकार साक्षिणं रविम् ।धर्मं वायुं धरां वह्निं व्योमाऽजं जलमच्युतम् ॥२८॥कलशस्थं जलं तारा करे कृत्वा पतिव्रता ।सती चन्द्रं भस्म कर्तुं यावद् यतते रोषतः ॥२९॥तावद् व्योमगिरा रुद्धा मा भस्मीकर्तुमर्हसि ।सर्वः कर्मफलं भुंक्ते तथा ते फलमागतम् ॥३०॥शृणु साध्वि सति बाले कृतं चाऽज्ञातया त्वया ।यदा त्वं दशवर्षीया पितृगेहस्थिता तदा ॥३१॥श्वदम्पतीमिथुनस्थौ चालिङ्गितौ तवाऽऽश्रमे ।त्वया दृष्टौ तदा यष्ट्या पाषाणेनापि ताडितौ ॥३२॥अप्राप्तौ कामनिर्वृत्तिं वियोजितौ विद्रावितौ ।कामाऽतृप्त्या तदा शुन्या शप्ता त्वं तद्विभाषया ॥३३॥अहो दुष्टे! यथा पत्युर्वियोगं त्वं करोषि मे ।तथा तवापि पत्युश्च वियोगस्ते भविष्यति ॥३४॥अन्यः श्वा च यथा मयि फलिष्यति तथा त्वयि ।अन्यश्वावद् अपतिस्ते फलिष्यति त्वयि ध्रुवम् ॥३५॥कामासक्तौ क्षुद्रकीटौ यद्वा पशू पतत्रिणौ ।मानवौ वाऽन्यजातीयौ वियोक्तव्यौ न कर्हिचित् ॥३६॥कामतृप्तिमनालब्धौ धार्मिकौ वाऽप्यधार्मिकौ ।कामतृप्तिप्रविद्वद्भिर्वियोक्तव्यौ न कर्हिचित् ॥३७॥रतिविघ्नकृतां भार्यानाशो वां भर्तृनाशनम् ।वियोगो वा महारोगो जायते नात्र संशयः ॥३८॥कामाऽतृप्तौ समुत्थोऽग्निर्भस्मीकरोति विघ्नदम् ।तथा त्वया कृतं कर्म तारे! भुंक्ष्व फलं हि तत् ॥३९॥अन्यथा ते च तत्कर्म भविष्यति न सुकृतम् ।यो ददाति परस्मै च दुःखमेव तु सर्वतः ॥४०॥तस्मै ददाति दुःखं तु शास्ता नारायणः स्वयम् ।अन्यच्छृणु तथा तारे! स्वामिना ते कृतं पुरा ॥४१॥बुहस्पतिरुतथ्यश्च संवर्तश्च त्रयोऽपि ते ।पुत्राश्चांगिरसः सर्वे वेदवेदांगपारगाः ॥४२॥संवर्ताय कनिष्ठाय दायभागं बृहस्पतिः ।किंचिदपि ददौ नैव संवर्तो भिक्षुकोऽस्ति यत् ॥४३॥तस्य निःश्वासदग्धेयं गृहलक्ष्मीर्बृहस्पते ।त्वत्स्वरूपा परेणापि नीयते मा शुचोऽत्र वै ॥४४॥मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम् ।जहार कामतस्तां स भ्रातृजायां बृहस्पतिः ॥४५॥यो हरेद् भ्रातृजायां तु कामी कामादकामुकीम् ।ब्रह्महत्यासहस्रं स लभते मरणादनु ॥४६॥कुंभीपाकं स यात्येव यावत्कल्पं ततः पुनः ।वर्षकोटिसहस्राणि विष्ठाकृमिः प्रजायते ॥४७॥योनिकीटस्ततो गृध्रः शतजन्मानि कुक्कुरः ।ततश्च सूकरो भूत्वा मानवः स्त्रीविहीनकः ॥४८॥नाऽभुक्तं क्षीयते प्राप्तं कर्म सोढव्यमेव यत् ।बृहस्पतेरुतथ्यस्य पत्नीहरणपातकम् ॥४९॥कारणं ते हरणेऽस्ति मा भस्मीकुरु चन्द्रकम् ।एवं कृते द्वितीयं ते ब्रह्महननपातकम् ॥५०॥भविष्यति ततस्तारे! यथाभाग्यं शमं कुरु ।इत्युक्ताऽऽकाशवाण्या सा विरराम शशाप न ॥५१॥सती पतिव्रता साध्वी चन्द्रं प्रसह्य शिश्रिये ।अकामिन्यां प्रसह्यैव रेमे निशापतिर्मुहुः ॥५२॥स्वर्गे सुखमये रम्ये पुष्करे पुष्पकानने ।पृथ्व्यां मेरौ नदे नद्यां शृंगारं कुर्वतोस्तयोः ॥५३॥गतं वर्षशतं हर्षान्मानवं स्वर्मुहूर्तकम् ।गर्भं दधार सा तारा चन्द्रादमोघमुत्तमम् ॥५४॥अथ चन्द्रश्चातिभीतो दैत्येषु शरणं गतः ।शुक्राचार्यगृहे तस्थौ तारया सह सत्कृतः ॥५५॥अभयं तु ददौ तस्यै शुक्राचार्योऽतिगर्वितः ।गुरुं जहास देवानां सुविपक्षं बृहस्पतिम् ॥५६॥सभायां जहसुर्दैत्या भीताया चाभयं ददुः ।सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले ॥५७॥बभूव शशरूपं च कलंकं निर्मले मलम् ।शुक्रश्चन्द्रमसं प्राह त्वया योग्यं न वै कृतम् ॥५८॥त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।दुर्नीतं कर्म ते पुत्र नीचवन्न यशस्करम् ॥५९॥राजसूयफले स्वच्छेऽमृतसागरके दिवि ।कलंकरूपो मदिराबिन्दुस्त्वया समर्जितः ॥६०॥त्यज देवगुरोः पत्नीं प्रसूमिव महासतीम् ।तथ्यं वाच्यं रिपौ मित्रे सत्यं विजयते सदा ॥६१॥शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।सः शत्रुर्मे सुरगुरुर्धर्मो वाच्यो हि संसदि ॥६२॥यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।गौरेकं पञ्च च व्याघ्री सिंही सप्तप्रसूयते ॥६३॥हिंसकाः प्रलयं यान्ति धर्मो रक्षति धार्मिकम् ।देवाश्च गुरवो विप्राः शक्ता यद्यपि रक्षितुम् ॥६४॥तथापि नहि रक्षन्ति धर्मघ्नं पापिनं जनम् ।धर्मं चर महाभाग ब्राह्मणीं त्यज साम्प्रतम् ॥६५॥उपायेन तु ते पापं तूर्णं दूरीभविष्यति ।भीतो दीनः शरणार्थी रक्षणीयः सुधार्मिकः ॥६६॥अधार्मिकस्य रक्षायां विनिपातः समन्ततः ।आगच्छ चन्द्र गंगायां भूतशुद्धिं समाचर ॥६७॥इत्युक्त्वा तं दैत्यगुरुर्मन्दाकिन्यां निनाय च ।स्नापयामास च हरेः कारयामास पूजनम् ॥६८॥कृष्णपादाब्जयुक्तं च तन्नैवेद्यं सुपावनम् ।तुलसीदलमिश्रं स भोजयामास चन्द्रकम् ॥६९॥पापं प्रक्षालयामास कुशहस्तो हरिं स्मरन् ।शुक्राचार्यः कृपां कृत्वा समुवाच पुनः पुनः ॥७०॥यद्यस्ति मे तपः सत्यं सत्यं पूजाफलं हरेः ।सत्यं व्रतफलं चापि सत्यं सत्यवचःफलम् ॥७१॥तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि ।उपवासफलं सत्यं शिष्यभक्तोऽस्म्यहं यदि ॥७२॥वैष्णवः कृष्णभक्तश्च पापान्मुक्तः शशी भवेत् ।विप्रं विप्रकर्महीनं पतिं स्वस्त्रीप्रवञ्चकम् ॥७३॥पतिवञ्चनशीलां च देवप्रसादवर्जितम् ।स्वीयश्लाघाप्रकर्तारं परस्य निन्दकं तथा ॥७४॥पोष्यवर्गाऽपोषकं च कुलटासंगतं तथा ।व्रताऽपालनकं पापं सतीशीलविनाशकम् ॥७५॥अश्वत्थतुलसीबिल्वच्छेत्तारं विष्णुनिन्दकम् ।साधूनां द्रोहकर्तारं साध्वीनां द्वेषिणं तथा ॥७६॥मातापितृदुःखदं च देवादिवृत्तिनाशकम् ।गोविप्रादिप्रहन्तारं यातु तान् चन्द्रपातकम् ॥७७॥चन्द्रपापेन ते यान्तु दारुणां घोरयातनाम् ।स्वपापेन सह ते वै सहन्तां यमयातनाम् ॥७८॥इति चन्द्रं शुचिं कृत्वा समुवाच पुनश्च तम् ।तारा गर्भवती जाता तव योगेन चन्द्रक ॥७९॥त्वं तु शुद्धीकृतश्चात्र मा तारां स्पृश वै पुनः ।अकामेन च कामेन मातरं मा स्पृश क्वचित् ॥८०॥इति चन्द्रं शुचिं कृत्वा समुवाच तु तारकाम् ।त्यक्त्वा चन्द्रं महासाध्वि गच्छ कान्तं बृहस्पतिम् ॥८१॥प्रायश्चित्तं विना पूता त्वमेव शुद्धमानसा ।अकामाऽपि बलिष्ठेन भुक्ता स्त्री नैव दुष्यति ॥८२॥प्राप्ते तु मासिके राजस्वल्ये नारी प्रशुद्ध्यति ।इत्येव मुक्त्वा शुक्रस्तु चन्द्रं च तारकां सतीम् ॥८३॥आशिषः प्रददौ सम्यक् सत्कारं मानमाचरत् ।अथैतस्मिन्नवसरे बृहस्पतिस्तपोनिधिः ॥८४॥शिष्यं पप्रच्छ मातस्ते कथं स्नाने विलम्बते ।पश्य याहि कथं स्नात्वा यथाकालं न चागता ॥८५॥शिष्योऽन्विष्य न संप्राप्य श्रुत्वाऽपहरणं शुकान् ।रुदन्नागत्य ताराऽपहरणं प्राह गीष्पतिम् ॥८६॥श्रुत्वा बुहस्पतिस्तारा चन्द्रेणाऽपहृतां प्रियाम् ।रुरोदोच्चैर्विललाप सशिष्यो दूयता हृदा ॥८७॥प्रोवाच प्राक्कृतं कर्म काले पक्वेऽभिबाधते ।उतथ्यभार्याहर्तुर्मे भार्या चन्द्रेण वै हृता ॥८८॥संवर्ताय धनाऽदातुः सर्वस्वं मे हृतं गृहम् ।दुःखं धर्मविरुद्धो यः स प्राप्नोति न संशयः ॥८९॥भावानुरक्ता सुशीला सुशासिता पतिव्रता ।गृहाधिष्ठातृदेवी च गता यस्य गृहादहो ॥९०॥भार्यामूलं सुखं सर्वं स्वर्गो मोक्षश्च निर्गताः ।अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥९१॥इति विलप्य बहुधा पुरन्दरगृहं ययौ ।स गुरुः पूजितस्तेन त्वाथित्येन मरुत्वता ॥९२॥तमुवाच स्ववृत्तान्तं हृदि शल्यमिवाऽपरम् ।बृहस्पतिवचः श्रुत्वा रुषा प्रज्वलितान्तरः ॥९३॥महेन्द्रः प्रेषयामास चारकर्मणि देवताः ।प्राह गुरुं त्यज चिन्तां कस्य श्रीर्विपदं विना ॥९४॥दूताश्चन्द्रं शक्रसौधे तं प्रपन्नं निरामयम् ।दृष्ट्वा सतारकं भीतं कथयामासुरिन्द्रकम् ॥९५॥श्रुत्वेन्द्रः शोकमापन्नो हृदयेन विदूयता ।प्राह चन्द्रो बलिष्ठस्याऽऽश्रयेऽजय्यो हि वर्तते ॥९६॥अस्माभिः रचनीयं वै चक्रं तस्मान्महत्तमम् ।गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्धमेव हि ॥९७॥ब्रह्मणा सह यास्यामः कैलासे शंकरं वयम् ।इत्येयं ते गताः सत्यं प्रणेमुर्वेधसं तथा ॥९८॥प्रोचुस्ते सर्ववृत्तान्तं श्रुत्वा ब्रह्माऽप्युवाच तान् ।यो ददाति परस्मै तु दुःखं वृथा हि सर्वतः ॥९९॥तस्य दुःखं समायाति न्यायालयाद्धि शासितुः ।संवर्तोतिथ्यगुरव आत्रेयास्त्रय एव ते ॥१००॥संवर्ताय कनिष्ठाय न दायं प्रददौ गुरुः ।मध्योतथ्यस्य गुर्विणी भार्या तु गुरुणा हृता ॥१०१॥तत्फलं तु गुरुः प्राप्तः कृतं भोगेन नश्यति ।तथाप्यत्र यतिष्यामो गत्वा श्रीशंकरं शिवम् ॥१०२॥शंकरः कृष्णपुत्रोऽस्ति गुरुः कृष्णवरोद्भवः ।अंगिरसो मुनेः पत्न्यामतो भ्राता हि गण्यते ॥१०३॥दक्षयज्ञे सती दग्धा शंभुर्विचित्ततां गतः ।आंगिरास्तं ददौ ज्ञानं शिष्यश्चांगिरसः शिवः ॥१०४॥एवंरीत्याऽपि स भ्राता शिवो बृहस्पतेर्भवेत् ।शुक्रो मृत्युञ्जयमात्राद् बिभेति नान्यतः क्वचित् ॥१०५॥शिवस्तस्मै नीतिमुक्त्वा तारां प्रदापयिष्यति ।इति सर्वे गताः श्रेष्ठाः कैलासं शंकरालयम् ॥१०६॥दृष्ट्वा बृहस्पतिं शंभुरुदतिष्ठत् कुशासनात् ।ब्रह्मादिभ्यो ददौ सिंहासनान्युवाच गीष्पतिम् ॥१०७॥कथमेवं विधो भ्रातर्म्लानास्यो लक्ष्यसे वद ।किं वा तपस्या नष्टा ते किं वा सन्ध्याविवर्जितः ॥१०८॥किं वा श्रीमत्कृष्णनारायणसेवाविवर्जितः ।किं वा पित्रोरिष्टदेवे भक्तिहीनो गुरौ च किम् ॥१०९॥किं वा शरणमापन्नं रक्षितुं शक्यते न वै ।किं वाऽतिथयो विमुखाः पोष्यास्ते किं बुभुक्षिताः ॥११०॥किमु वा ते चाऽवशा स्त्री पुत्रो नाऽऽज्ञाकरश्च किम् ।शिष्यभृत्यादयः कि ते प्रत्त्युत्तरप्रदा ननु ॥१११॥किं वा लक्ष्मीर्हासजुषा किं वा रुष्टो गुरुस्तव ।वैष्णवा वाडवाश्चान्ये रुष्टाः किं प्रबलो रिपुः ॥११२॥किं वा कुटुम्बविच्छिन्नो निर्धनो वा प्रशोचसि ।किंवा खलैः कृतः क्लिष्टस्त्यक्तोऽसि बान्धवैश्च किम् ॥११३॥किं वा तीर्थं व्रतं दानं पुण्यं नीतं हि राक्षसैः ।किं वा निन्दा श्रुता साक्षाद् गुरोर्निन्दाऽधिका मृतेः ॥११४॥किं वा ते पापकृत्कर्म बभूव म्लानकारकम् ।वद विपद्गतं तेजस्त्यजत्यपि दिवाकरम् ॥११५॥इत्यापृष्टो गुरुः शंभुं वृत्तान्तमाह दुःखदम् ।तारापहरणं श्रुत्वा नम्रास्योऽभूत् क्षणं शिवः ॥११६॥उवाच तु क्षणं ध्यात्वा कृतकर्मफलं त्विदम् ।यदा गुरो फलं स्वस्य कर्मणः प्राप्यते तदा ॥११७॥निष्कासितं ताडितं च दूरं भवति नैव तत् ।कार्ये पराक्रमे स्मृद्धौ कीर्तौ वंशे कुटुम्बके ॥११८॥जले पुत्रे प्रतापे च भूमौ धने सुते हरौ ।स्वभावे वचने बुद्धौ चाश्रमे चावलम्बने ॥११९॥व्यवहारे तथाऽऽचारे चरित्रे दानकर्मणि ।प्राक्कृतस्याऽनुरूपं वै जायते हृदयं नृणाम् ॥१२०॥चन्द्रस्य हृदयं तादृक् तव कर्मप्रपेरितम् ।यादृग् येषां पूर्वकृत्यं तादृक् तेषां तु मानसम् ॥१२१॥स्वयं तु कर्मजनकः कर्म दैवस्य कारणम् ।दैवं स्वभावहेतुश्च स्वभावात् प्रतिजन्मनि ॥१२२॥सुखं दुःखं भयं शोकः कालुष्यं स्वस्य जायते ।अहोऽनिष्टं कृतं मातृगामित्वं शशिना त्विदम् ॥१२३॥शिवमस्तु तु साधूनां वैष्णवानां सतां सदा ।असतां पापनिष्ठानामशिवं स्यात् पदे पदे ॥१२४॥अन्येषां दुःखकर्ता यो विघ्नस्तस्य पदे पदे ।कृष्णनारायणस्मृतिमनोनैर्मल्यकारणम् ॥१२५॥अहो श्रीकृष्ण भक्तस्य कीदृक् हृदयं निर्मलम् ।हृतभार्यमपि चन्द्रं न शशाप बृहस्पतिः ॥१२६॥गुरुर्यस्य वशिष्ठोऽपि धार्मिकः सात्त्विकः सदा ।शतपुत्रप्रहन्तारं विश्वामित्रं शशाप न ॥१२७॥निःश्वासाद्वै बृहस्पतेर्भस्मीभूतो भवेच्छशी ।ताराया अपि शापेन कृष्णलौहो भवेच्छशी ॥१२८॥तथापि तं क्षेपतुर्न तपोध्वसो न यद् भवेत् ।वर्णेषु ब्राह्मणाः श्रैष्ठ्यं प्राप्ता वै क्षमया किल ॥१२९॥विप्णुभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो वरः ।परिपक्वा अपक्वा वा वैष्णवाः साधवश्च ते ॥१३०॥सततं पाति ताँश्चोग्रं विष्णुचक्रं सुदर्शनम् ।वायुश्च पवनो वह्निः सूर्यो ब्रह्माऽप्यहं हरः ॥१३१॥शेषो धर्मः सर्वसाक्षी वाञ्च्छामो वैष्णवाश्रयम् ।चन्द्रोऽपि दुर्बलो भीतः सुदर्शनाभिरक्षितम् ॥१३२॥दैत्यगुरुं भागवतं तं शुक्रं शरणं ययौ ।तं जेतुं केऽपि शक्ता न यतिष्ये तत्तथापि वै ॥१३३॥भज सत्यं परं ब्रह्म पत्नीं प्राप्स्यसि लीलया ।तावद् भवेत्तु भोगेच्छा स्त्रीसुखेच्छा नृणामिह ॥१३४॥यावद् गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ।संप्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः ॥१३५॥ततो नेच्छति विषयान् मोक्षं वा दास्यमन्तरा ।यदीच्छति चेद् विषयान् विषमत्ति न संशयः ॥१३६॥अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः ।कपिलश्च कुमारश्च नरनारायणावृषी ॥१३७॥स्वायम्भुवो मनुश्चापि प्रह्लादश्च पराशरः ।भृगुः शुक्रश्च दुर्वासा वशिष्ठः क्रतुरंगिराः ॥१३८॥बलिश्च वालखिल्याश्च वरुणश्च हुताशनः ।वायुः सूर्यश्च गरुडो दक्षो गणपतिर्धरा ॥१३९॥सर्वे कृष्णस्य दासाः स्मः कलांशा गर्ववर्जिताः ।भज ओं श्रीकृष्णनारायणाय स्वामिने नमः ॥१४०॥पठ-ओं श्रीं ह्रीं क्लीं श्रीकृष्णाय श्रीपतये नमः ।वयं यामो यत्र शुक्रश्चन्द्रस्तारा वसन्ति वै ॥१४१॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रकृतबृहस्पतिपत्नीपतिव्रताताराऽपहरणं, भयाच्चन्द्रस्य शुक्राचार्यशरणगमनम्, शुद्धता द्वयोर्दर्शिता, बृहस्पतेरुतथ्याख्यानुजस्त्रीहरणस्य फलमिदम्, ताराप्राप्त्यर्थं ब्रह्मविष्णुमहेशेन्द्रबृहस्पतीनां मन्त्रणा चेतिनिरूपणनामा पञ्चचत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४५॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP