संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४८६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४८६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४८६ Translation - भाषांतर श्रीनारायण उवाच-आनर्तदेशे सौराष्ट्रे चमत्कारपुरान्तिके ।नदी नागमतीनाम्ना वर्तते पूर्वतः शुभा ॥१॥यस्यां स्नानाद् विमुच्यन्ते मुक्ता भवन्ति मानवाः ।तत्र लक्ष्मि! मृगी काचित् व्याधबाणप्रपीडिता ॥२॥अवाततार सलिले प्राणाँस्तत्याज वारिषु ।चैत्रशुक्लतृतीयायां मध्याह्नेऽर्यमदैवते ॥३॥सूर्यवारे च तत्पुण्यान्मेनका नाम साऽभवत् ।अप्सरास्त्रिदशेन्द्रस्य सुरूपा पतिधर्मिणी ॥४॥एकदा तत्र मुनिराड् विश्वामित्रः समाययौ ।तीर्थार्थं नागनद्यां स सस्नौ नगरपूर्वतः ॥५॥यत्र सा मेनका नित्यमायाति स्नानकामुकी ।स्नान्तं सुरूपं दिव्यं च पुष्टं मुनिं विलोक्य सा ॥६॥यौवनस्थं पतिं कर्तुमीयेष कामपीडिता ।सानन्दा सुरतार्थाय समीपं समुपागमत् ॥७॥ननाम चरणे वाक्यैस्तुष्टाव सुमनोहरैः ।सधैर्यः स मुनिस्तां वै मेने नागरिकीं स्त्रियम् ॥८॥आशीर्वादान् प्रदायैव प्रहृष्टेनाऽन्तरात्मना ।उवाच देवीं तां पृच्छन् स्त्रीधर्मांश्च विशेषतः ॥९॥शुभलाभोऽस्तु ते कच्चिन्मनसा कर्मणा गिरा ।भक्तिः संवर्तते कृष्णनारायणे च शाश्वती ॥१०॥कच्चित्त्वं वर्तसे बाले पतिंपादपरायणा ।चारित्रविनयोपेता सदा मधुरभाषिणी ॥११॥कच्चित्त्वं सर्वदाऽभीष्टा पत्युर्दानैस्तथाऽर्चसि ।बन्धून् स्वमित्रवर्गं च तत्पुरः पृष्ठतोऽपि वा ॥१२॥कच्चिद् भर्तरि संसुप्ते त्वं निद्रावशमेष्यसि ।उत्थानमप्रबुद्धेन करोषि ब्राह्मकालिके ॥१३॥कच्चित् प्रातः समुत्थाय करोषि पतिसेवनम् ।ततो गृहं मार्जयित्वा करोषि मण्डनादिकम् ॥१४॥कच्चित् स्नात्वा स्नापयित्वा पतिं संपूज्य भावतः ।बालापत्यानि संभाल्य वर्तसे भक्तियोगिनी ॥१५॥कच्चिद्देवान्नमस्कृत्य गुरुं गां च पतिं तथा ।करोषि त्वं प्राणयात्रां दत्त्वाऽन्नं शक्तितो जलम् ॥१६॥कच्चिन्मध्याह्नवेलायामतिथीन् सेवसेऽन्नकैः ।कच्चिद् गृहागतनिराश्रितायान्नं ददासि वै ॥१७॥कच्चिदस्तं गते सूर्ये नाऽन्नमश्नासि भामिनि! ।अदत्त्वा निजभृत्येभ्यः साधुभ्यश्च विशेषतः ॥१८॥कच्चित् पिबसि पानीयं वस्त्रपूतं सुराऽर्पितम् ।कच्चिद् दयावती भूत्वा गात्रक्लेशकरानपि ॥१९॥यूकामत्कुणदंशादीन् पुत्रवत्परिरक्षसि ।कच्चित् साधुजनान्नित्यं कृष्णधर्मं सुभक्तितः ॥२०॥शृणोषि भक्तितो भद्रे भक्तिं करोषि सादराम् ।कच्चिछ्रुत्वा दिनं पुण्यं प्रकरोषि व्रतादिकम् ॥२१॥गुरुमाचार्यमीशं वाऽऽगतं करोषि पूजितम् ।शास्त्रस्य वाचकस्यापि व्याख्यातुश्च विशेषत ॥२२॥कञ्चिच्छास्त्राणि रम्याणि साधुभ्यः संप्रयच्छसि ।श्रुत्वा कथां निष्क्रयं च वाचकाय प्रयच्छसि ॥२३॥कच्चित् कृष्णालये नृत्यं गीतं वाद्यं सुकीर्तनम् ।बलिपूजोपहाराँश्च त्व करोषि स्वशक्तितः ॥२४॥कच्चित्प्रावरणं वस्त्रं साधुभ्यः सम्प्रयच्छसि ।वृथा पर्यटनं नान्यगृहे करोषि भामिनि ॥२५॥कच्चिन्नाऽश्नासि पूर्वं त्वं स्वभर्तरिबुभुक्षिते ।आज्ञाभंगं कदाचिच्च भर्तुः करोषि नैव तु ॥२६॥कच्चित् प्रकुपिते कान्ते कोपं न यासि सद्व्रते ।कच्चित् त्वं कुपिता भर्त्रे नोत्तराणि प्रयच्छसि ॥२७॥अथाऽपराधशान्त्यर्थं प्रियं हृद्यं प्रजल्पसि ।कच्चित्त्वं प्रोषिते कान्ते मलिनाम्बरधारिणी ॥२८॥दीना विवर्णवदना कच्चिद् भवसि वा कृशा ।कच्चिन्मन्दिरमालिन्यं दूरीकरोषि सेवया ॥२९॥कच्चिद्भिन्नं तथोच्छिष्टं पात्रं धत्से न वै गृहे ।कच्चिद् व्रजसि रात्र्यादौ नोत्सवेषु स्थलान्तरे ॥३०॥कच्चिन्न कुरुषे मैत्रीं पुंश्चलीभिः कदाचन ।कच्चिद् दधासि सौभाग्यचिह्नानि पतिरंजनी ॥३१॥कच्चित्ते पातिव्रत्ये वै विघ्नो नायाति कश्चन ।पतिपुत्रवती साध्वी कच्चिद् भवसि भामिनि ॥३२॥इत्युक्ता सा ऋषिं प्राह पातिव्रत्योपदेशकम् ।अन्यास्ता योषितो विप्र यासां धर्मास्त्वयोदिताः ॥३३॥वयं स्वर्गस्याऽप्सरसः स्वेच्छाचारिण्य एव वै ।अपतिकाः स्वतन्त्राश्च मुनिमानसमोहिकाः ॥३४॥अक्षताः सर्वदा शुद्धाः प्रेमसेवापरायणाः ।नवरूपधराः कन्याः सेवारसपरायणाः ॥३४६॥कामधर्मेण सत्सेवां कुर्मो यतितपस्विनाम् ।साधूनां वा गृहस्थानामस्मत्सत्कारवेदिनाम् ॥३६॥रञ्जयित्वा सुबहुधा तदाशीर्वादमाप्नुमः ।तेन पुण्येन वै स्वर्गं नित्यमस्मत्कृतेऽस्ति हि ॥३७॥कामसेवासमं पुण्यं नान्यन्मन्यामहे वयम् ।कामभंगसमं पापं नान्यच्छापप्रदं भुवि ॥३८॥सुखभंगो महत्पापं सर्वस्वदाहकं ऋषे ।सुखदानं महादानं भोजनसेवनाम्बरैः ॥३९॥अंगानां मर्दनैः पादसंवाहनादिभिः सदा ।नर्तनैः कीर्तनैः प्रशंसनैः पुण्यमवाप्यते ॥४०॥यैः परे रञ्जितास्तेषां परे लोकाः सुखप्रदाः ।यैः परे दुःखितास्तेषां परे लोकास्तु दुःखदाः ॥४१॥परलोकस्य सौख्यार्थं सेवयामो वयं जनान् ।परोपकारं कुर्मो वै यथेष्टसर्वदानकैः ॥४२॥धनं वस्त्रं भूषणं च भोजनं देहमित्यपि ।सर्वं दद्मः प्रसौख्यार्थं यत्फलं पुनराप्नुमः ॥४३॥भोजनं जिह्वया त्वात्मतृप्त्यर्थं दीयते जनैः ।स्पर्शनं तु त्वचा त्वात्मतृप्त्यर्थं दीयते तथा ॥४४॥श्रवणं गीतिकानां तु दीयते कर्णतृप्तिकृत् ।दर्शनं रूपशृंगारादीनां चक्षुसुखप्रदम् ॥४५॥एवमन्येन्द्रियैश्चापि त्वात्मतृप्त्यर्थमुत्तमम् ।दानं सन्दीयतेऽस्माभिः पुण्यार्थं हरितोषणम् ॥४६॥आत्मतोषे हरेस्तोषस्तेन चात्मनिवेदिता ।पाल्यते सर्वदाऽस्माभिः फलं कृष्णार्पितं महत् ॥४७॥विधात्रा त्रिविधाः सृष्टा नार्यः संसारसेविकाः ।विवाहिताश्च सामान्या ब्रह्मचर्यपरास्तथा ॥४८॥विवाहितानां धर्मास्तु पतिसेवापरायणाः ।ये त्वयोक्तास्तु सत्प्रश्नमिषेण युग्मवाहकाः ॥४९॥द्वितीया यास्तु सामान्या अप्सरसश्च ता वयम् ।अस्मद्धर्मास्ततो भिन्नाः सर्वसेवापरायणाः ॥५०॥तृतीयास्तु ब्रह्मचर्यपराः साध्व्यो भवन्ति ताः ।कामधर्मपरित्यक्ताः साधुशीलपरायणाः ॥५१॥स्वधर्मस्था दिवं यान्ति परधर्मा भयावहाः ।वयं सेवापरा भृत्याः किंकर्यः सर्वदा स्मृताः ॥५२॥दास्यो वा ह्युपपत्न्यश्च देव्यो दिव्या यतो वयम् ।त्वादृशासामृषीणां सेवया कृतार्थभावनाः ॥५३॥वद त्वं क्षत्रियवरस्तापसो हृदयंगमः ।मम मानसतोषार्थं तव धर्मोऽस्ति चेन्मुने ॥५४॥भजस्व मां समायातां नारायणपरायणाम् ।त्वां तु नारायणं मत्वा सेवयिष्ये न दूषणम् ॥५५॥विश्वामित्रस्तदा प्राह हितं तापसधार्मिकम् ।अहं व्रतधरः सुभ्रु ब्रह्मचर्यपरायणः ॥५६॥सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ।आस्तां दूरं तव संगः संस्पर्शो भाषणं तथा ॥५७॥गच्छ दूरं स्वर्गदेवि न मे त्वया प्रयोजनम् ।व्रतिनां प्रमदाग्राहः पापदः पुण्यनाशकः ॥५८॥संसारभ्रमणं नारी विवाहमण्डपे गताः ।वह्नेर्भ्रमणव्याजेन पतिं दर्शयति ध्रुवम् ॥५९॥तस्मात् स्त्रीभिः समे संगं स्पर्शं योगं च वर्जयेत् ।अंगारसदृशी नारी घृतकुंभसमः पुमान् ॥६०॥अस्पर्शाद् दृढतामेति तत्संपर्काद् विलीयते ।स्त्रियो मूलमनर्थानां निरोधः स्वर्गगामिनाम् ॥६१॥कुलीना वीरवत्यश्च नाथवत्योऽपि योषितः ।एकस्मिन्नेव भर्तरि सन्तुष्टाः स्वर्गगास्तु ताः ॥६२॥स्त्रीणां संगं समासाद्य संसारे भ्रमते नरः ।नृणां संगं समासाद्य संसारे भ्रमतेऽबला ॥६३॥मया त्यक्तौ हि संसारस्तद्बीजं त्वमुपस्थितम् ।ममापि यमलोकानां दुःखं तेऽपि त्वया भवेत् ॥६४॥तस्मान्मया न वै ग्राह्या गच्छाऽन्यत्र प्रिया भव ।इत्युक्ता मेनका प्राह विश्वामित्रवचः शृणु ॥६५॥हिमाचले प्रतपतो नरनारायणस्य वै ।तपश्चोग्रं परं ज्ञात्वा महेन्द्रस्त्वप्सरोगणैः ॥६६॥कामवसन्तबाणैश्च सहितः संययौ द्रुतम् ।तपोभंगविधानाय प्रारंभन्नृत्यगीतिकाम् ॥६७॥नारायणो नरं प्राह चूतपुष्पाणि चानय ।सक्थ्नि संमर्दय समुत्पादय त्वप्सरोवराम् ॥६८॥नरः सम्मृद्य पुष्पाण्युत्पादयामास चोर्वशीम् ।अतिरूपवतीं यस्या अग्रे सर्वास्तमस्त्वचः ॥६९॥अदृश्यन्ताऽत्सरसस्ता महेन्द्रस्य तदेन्द्रकः ।साश्चर्यं समुवाचेदं शृण्वतां तु दिवौकसाम् ॥७०॥शतशो मेऽप्सरसश्च मया कान्त्याऽन्धकी कृताः ।तस्याः प्रभुं कथं शक्तः पातयितुं भवाम्यहम् ॥७१॥इति गर्वं विहायैव पतितः पादयोर्हरेः ।ययाचे तूर्वशीं नारायणान्नारायणो ददौ ॥७२॥तदा नरस्य पुत्री सा प्रार्थयामास माधवम् ।भगवन् कन्यका चाहं नरनारायणस्य वै ॥७३॥अयोनिजा सती साध्वी ब्रह्मचर्यपरायणा ।तापसी भगवत्पुत्री कथं यामि दिवं प्रभो ॥७४॥सामान्याऽहं कथं भूत्वा वर्तिष्ये तान्सुरान्प्रति ।अप्सरसां तु के धर्मास्तान्मे श्रावय तत्त्वतः ॥७५॥इत्युक्तः श्रीहरिस्तस्यै श्रावयामास तद्वृषान् ।दासीवत् सर्वदा स्थेयं सुरान्प्रति दिविस्थितान् ॥७६॥नृत्यं गीतं सेवनं च कर्तव्यं देवयोषिता ।सर्वे देवाः समाः सेव्याः पतिरूपेण वै दिवि ॥७७॥मानवा वा मुनयोऽपि तापसाः पतिरूपिणः ।सेवनीया भविष्यन्ति गच्छ तिष्ठ यथासुखम् ॥७८॥ऊर्वशी प्रसमाकर्ण्य पितरं प्राह सद्व्रता ।परपुंसां प्रसंगेन नरकं यातनामयम् ॥७९॥प्रभोक्तव्यं भवेत् तस्मान्मया स्वर्गं न चेष्यते ।नारायणस्तदा प्राह स्वर्गस्याऽप्सरसां कृते ॥८०॥तव कृते तथा पुत्रि नास्ति वै यमयातनाः ।अप्सरसो देवपुण्यात् ससृजे विश्वसृट् स्वयम् ॥८१॥तासां पापं न चैवास्तीत्याह ब्रह्मा तथा पुरा ।तवापि पुत्रि देवानामसंख्यानां प्रसेवया ॥८२॥कामधर्मेण युक्ताया अपि पापं न वै भवेत् ।इत्यपापं पुरा प्राह ब्रह्मा नारायणस्तथा ॥८३॥अस्माकं सर्वथा देवकिंकरीणां हि योषिताम् ।तस्माद् भजस्व मां विश्वामित्र हठं परित्यज ॥८४॥पण्यस्त्रियो वयं यावद् वाचां बन्धनमस्ति वै ।तावत्पतिव्रताः स्मश्च पतिर्भव सदा मम ॥८५॥इत्युक्त्वा संस्थिता तत्र निकटे सन्मुखे हठात् ।विश्वामित्रः स्थलं त्यक्त्वाऽन्यत्र ययौ तदा तु सा ॥८६॥शशाप तं मुनिश्रेष्ठं कामखण्डनपीडिता ।अद्यैव भव दुर्बुद्धे वलीपलितजर्जरः ॥८७॥एवमुक्तोऽभवत् तादृक् शापने जरया युतः ।मुनिः प्राह न ते पापं मम पापं तु संभवेत्। ॥८८॥तस्माद् विहाय चान्यत्र प्रयामि तेन रोचते ।तस्माद् भव त्वमप्याशु जराजर्जरितांगका ॥८९॥सापि तद्वचनात् सद्यस्तादृग्रूऽपा व्यजायत ।ततः क्रोधस्य शान्त्यर्थं नागवत्यां तु सा सती ॥९०॥सस्नौ तावत्पूर्वरूपा यथावद् युवती प्रिया ।समभवत् ततो विश्वामित्रः सस्नौ नदीजले ॥९१॥सोऽपि पूर्वरूपोऽभूत् शापौ नष्टौ परस्परम् ।एतादृशं महत्तीर्थं नागनद्यां प्रवर्तते ॥९२।यत्र स्नात्वा नरा नार्यो भवन्ति यौवनान्विताः ।स्वर्गदेवीसमा नार्यो नराः स्वर्गसुरा इव ॥९३॥ततः सा मेनका मुनिं नत्वा स्वर्गं ययौ स्वतः ।ऋषिस्तपः परं चक्रे नारायणपरायणः ॥९४॥इति ते कथितं लक्ष्मि गूढधर्मप्रवर्तनम् ।यद्विज्ञानेन व्रतिनो लभन्ते स्वर्गमोक्षणे ॥९५॥शृणु लक्ष्मि! प्रवक्ष्यामि महेन्द्रगर्वभंजनम् ।चमत्कारपुरे जातं निशामय मतिप्रदम् ॥९६॥पुरा शतमखो दर्पात् कृत्वा शतमखान् मुदा ।बभूव सर्वदेवानामध्यक्षः सम्पदा युतः ॥९७॥दिने दिने तदैश्वर्यं वर्धते तपसां फलात् ।ददौ मन्त्रं सिद्धिदं वै बृहस्पतिस्तु पुष्करे ॥९८॥स जजाप नमो राधेश्वराय ओं नमो नमः ।शतसवत्सरं जप्त्वा जातः पूर्णमनोरथः ॥९९॥ब्रह्मस्वरूपां प्रकृतिं सम्पन्मूढो न मन्यते ।प्रकृतिर्जडदिव्या च तं शशाप ततः परम् ॥१००॥गुरुं दृष्ट्वा समुत्थाय न ननाम मुदान्वितः ।गुरुः शशाप तं कोपाद् यातु सम्पद्धरेरिति ॥१०१॥एवं भ्रष्टमतिरिन्द्रस्त्वहल्यां परिपश्य च ।चकमे गौतमरूपं धृत्वा रेमे तया सह ॥१०२॥ददर्श गौतमस्तं च धिक्कृत्य तं शशाप ह ।योनीनां तु सहस्रं वै तव गात्रे भवत्विह ॥१०३॥पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि ।ततः सूर्यं समाराध्य सहस्राक्षो भविष्यसि ॥१०४॥मम शापाद् गुरोः शापद् भ्रष्टश्रीर्भव साम्प्रतम् ।अथेन्द्रः प्रययौ तीर्थं पुष्करं तपसे ततः ॥१०५॥निष्कृतिं संविधायाऽथ गृहं ययौ ततः पुनः ।इन्द्रस्त्यक्तगुरुर्दैवाद्ब्रह्माणं शरणं ययौ ॥१०६॥तदाज्ञया विश्वरूपं प्रचकार पुरोहितम् ।दैत्यदौहित्रमेवैनं ज्ञात्वा दैत्याभिपक्षिणम् ॥१०७॥यज्ञे दैत्येभ्य एवैनं ददतं हव्यमुत्तमम् ।प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन वै ततः ॥१०८॥विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ।इन्द्रशत्रो विवर्धस्वेत्युक्त्वा चक्रे क्रतुं परम् ॥१०९॥यज्ञकुण्डात् समुत्तस्थौ वृत्रो नाम महासुरः ।इन्द्रो जघान वज्रेण वृत्रं वै देवकण्टकम् ॥११०॥ब्रह्महत्या रक्तवस्त्रा सप्तनालोच्छ्रया तथा ।ईषाप्रमाणदशना खड्गहस्ता बभूव ह ॥१११॥धावन्तं धावमाना सा महेन्द्रं तं जगाम ह ।दुद्रावेन्द्रः संविवेश मानसाख्यसरोवरे ॥११२॥मृणालसूक्ष्मसूत्रे वै सापि वटे तटे स्थिता ।नहुषस्त्वभवत्त्विन्द्रो ययाचे कामतः शचीम् ॥११३॥शची गुरोर्हि शरणं याता ररक्ष तां गुरुः ।बृहस्पतिस्ततो यातो मानसाख्यसरः स्वयम् ॥११४॥रक्षणाय स्वशिष्यस्य चाजुहाव शचीपतिम् ।स्वरं वृहस्पतेर्ज्ञात्वा बहिः समाययौ गुरुम् ॥११५१॥नत्वा तुष्टाव च गुरुं पादयोः पतितस्तदा ।क्षमस्व भगवन् दोषं कृपां कुरु कृपानिधे ॥११६॥भृत्यापराधं सततं न गृह्णाति सदीश्वरः ।स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ॥११७॥इति श्रुत्वा गुरुः प्राह गच्छ राज्यं दिवः कुरु ।हतशत्रुर्मत्प्रसादाद् गत्वा पश्य सतीं शचीम् ॥११८॥संसारविजयं वर्म गृहाणेदं ततः परम् ।ब्रह्महत्यां भस्मसाच्च कुरु गच्छ मया सह ॥११९॥एवं कृत्वा महेन्द्रस्तु ययौ स्वर्गं तदा पुनः ।दैत्यैर्विनाशितां स्वस्य राजधानीं पुनर्नवाम् ॥१२०॥कारयामास रचितां नाम्नाऽमरावतीपुरीम् ।विश्वकर्मकृतां वीक्ष्य न तुतोष सुरेश्वरः ॥१२१॥विश्वकर्मा गृहं गन्तुं न शशाक विनाऽऽज्ञया ।विश्वकर्मा हरिं कृष्णं सस्मार कमलापतिम् ॥१२२॥नारायणो विप्ररूपं धृत्वाऽऽजगाम तां पुरीम् ।अतिखर्वो वैष्णवश्च युयुजे शक्रमाशिषम् ॥१२३॥मधुपर्कादिकं दत्वा शक्रः सत्कारमाचरत् ।पप्रच्छाऽऽगमनं कस्माद् वदेति विप्रबालकम् ॥१२४॥विप्रबटुस्तु तं प्राह नूतनां नगरीं तव ।समाद्रष्टुमागतोऽस्मि प्रष्टुं वचनमीप्सितम् ॥१२५॥चित्रं नगरनिर्माणं समाकर्ण्याऽद्भुतं तव ।कतिवर्षाणि निर्माणे भवान् संकल्पितो यथा ॥१२६॥कतिचित् तां विश्वकर्मा निर्माणं वा करिष्यति ।एवंभूतं विनिर्माणं न केनेन्द्रेण निर्मितम् ॥१२७॥नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ।बालकस्य वचः श्रुत्वा जहास स सुरेन्द्रकः ॥१२८॥सम्पन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ।कतीन्द्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ॥१२९॥विश्वकर्मा कतिविधस्तं ये ब्रूहि शिशोऽधुना ।शक्रस्य वचनं श्रुत्वा विप्रबटुरुवाच तम् ॥१३०॥जानामि कश्यपं तव तात प्रजापतिं तथा ।मुनिं मरीचिं जानामि तत्तातं वेधसं तथा ॥१३१॥कल्पं च प्रलयं कतिविधं जानामि सर्वथा ।ब्रह्मजनकं वैराजं तत्पितरं हिरण्मयम् ॥१३२॥जानाम्यण्डं कतिविधं ब्रह्मविष्णुमहेश्वरान् ।ब्रह्माण्डेषु कतिविधानिद्रान् जानामि सर्वशः ॥१३३॥यदि संख्याऽस्ति रेणूनां धरायां तु सुरेश्वर ।तथापि संख्या शक्राणां नास्त्येव किं वदामि ते ॥१३४॥शक्रस्याऽऽयुश्चाधिकारो युगानामेकसप्ततिः ।अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ॥१३५॥विधेरष्टोत्तरशतमायुरेव प्रमाणतः ।सुरेन्द्राणां तु का संख्या नास्ति संख्या विधेरपि ॥१३६॥महाविष्णोर्लोमकूपे वैराजाः सन्त्यनेकशः ।वैराजस्य रोमकूपे ब्रह्माद्याः सन्त्यनेकशः ॥१३७॥एवं लोम्नः प्रमाणेन ब्रह्माण्डाः सन्त्यसंख्यकाः ।ब्रह्माण्डे च कतिविधाः सुराः सन्त्येव त्वत्समाः ॥१३८॥विप्रबटौ वदत्येवं पार्श्वतो निर्गतं तदा ।पिपीलिकासमूहं च व्यायतं धनुषां शतम् ॥१३९॥क्रमशस्तान् सन्निरीक्ष्य जहासोच्चैर्द्विजार्भकः ।नोवाच किञ्चिन्मौनी च गंभीरः सगणो यथा ॥१४०॥इन्द्रः प्राह कथं विप्रवटो हससि मे वद ।विप्रबटुरुवाचेन्द्रं दृष्टाः पिपीलिकास्त्वया ॥१४१॥सृष्टः पिपीलिकासंघ एकैकः क्रमशो मया ।सर्वे ते क्रमशस्त्वासन्निन्द्राः पूर्वात्प्रपूर्वजाः ॥१४२॥इदानीं ते तु सम्प्राप्ता भूतजातिं पिपीलिकाम् ।कर्मणा क्रमशो यान्ति जीवाः कीटनृदेवताः ॥१४३॥कर्मणा द्रुमतां यान्ति यक्षतां नागतां तथा ।पक्षित्वं च पशुत्वं च नारीत्वं नरतां तथा ॥१४४॥प्रेतत्वं च सुरत्वं च ऋषित्वं कर्मणा तथा ।ब्रह्मत्वं सुरराजत्वं कर्मणा प्राप्यतेऽपि तु ॥१४५॥मृत्युस्तु मस्तकस्थायी सर्वेषां विद्यते सदा ।जलबुद्वुदवत्सर्वं शक्र नश्यति नित्यशः ॥१४६॥मूढा मुह्यन्ति लोकेऽत्र मुह्यन्ति नैव पण्डिताः ।इत्युक्त्वा स विप्रबटुस्ततत्र तस्थौ च सस्मितः ॥१४७॥विस्मितस्त्रिदशाध्यक्षो गर्वहीनो बभूव ह ।एतस्मिन्नन्तरे तत्राऽऽजगाम तापसो जनः ॥१४८॥अतिवृद्धो महायोगी जटाधारी मृगाजिनी ।सर्वं वक्षःस्थलं तस्य रोमचक्राभिसंभृतम् ॥१४९॥मध्ये किञ्चिद्रोमहीनं समुत्पाटितलोमकम् ।मस्तके च वर्तुलं संदधन् कटं समायतम् ॥१५०॥आगत्य मध्ये तस्थौ स विप्रपुत्रमहेन्द्रयोः ।महेन्द्रो वृद्धरूपं तं मधुपर्कादिकं ददौ ॥१५१॥प्रणनामाऽथ पप्रच्छ कुत आगम्यते त्वया ।किन्नामा त्वं गृहं कुत्र कथमागमनं तव ॥१५२॥करं कथं मस्तके ते लोमचक्रं च वक्षसि ।मध्यदेशे रिक्तभागो लोमोत्पाटनजः कथम् ॥१५३॥वृद्धः प्राह च वैकुण्ठादद्य त्वागम्यते मया ।लोमशोऽहं ऋषिर्नाम्ना तीर्थार्थं गमनं मम ॥१५४॥अल्पायुषा मया चेन्द्र कुत्रापि न कृतं गृहम् ।न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना ॥१५५॥वर्षणाऽऽतपशान्त्यर्थं मस्तकस्थं कटं मम ।वक्षोरोमाणि यावन्ति तावत्कल्पायुरस्म्यहम् ॥१५६॥कल्पैकेऽपगते चेन्द्र लोमैकोत्पाटनं मम ।उत्पाटितरोमसंख्याः कल्पा नष्टा ममाग्रतः ॥१५७॥जातं त्वंगुलमात्रं तद् वर्तुलं रोमहीनकम् ।वक्षोलोमानि यावन्ति प्रतिकल्पैकरोमकम् ॥१५८॥भविष्यन्त्युत्पाटितानि तदा मे मरणं भवेत् ।दशाधिकशते याते ब्रह्माऽब्दानां मृतिर्मम ॥१५९॥असंख्यविधयः सृष्टौ मरिष्यन्ति मृता अपि ।कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम् ॥१६०॥वैराजपतने चक्षुर्निमेषस्तु हरेर्भवेत् ।श्रीहरेश्चरणं नित्यं चिन्तयामि स्थले स्थले ॥१६१॥दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तेर्गरीयसी ।स्वप्नवत् सर्वमैश्वर्यं तद्भक्तिव्यवधायकम् ॥१६२॥एवमुक्त्वा वृद्धविप्रश्चान्तर्धानं जगाम ह ।शिशुविप्रस्ततश्चेन्द्रं कृत्वा गर्वविहीनकम् ॥१६३॥अदृश्यतां गतस्तूर्णमिन्द्रो वैराग्यमाप्तवान् ।सर्वं विन्यस्य पुत्रे तु त्यक्त्वा राज्यश्रियं शचीम् ॥१६४॥उत्सुकोऽभूदरण्यं वै हरेर्भक्त्यर्थमादरात् ।बृहस्पतिः स्वकं शिष्यं बोधयामास वै तदा ॥१६५॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।इति नित्यं जपं ध्यानसहितं कुरु शार्ङ्गिणः ॥१६६॥तेन मुक्तिश्च ते भाव्या मा याहि वनमन्यथा ।इत्युक्तो भजमानः स भूत्वा च वैष्णवो महान् ॥१६७॥चकार राज्यं धर्मिष्ठश्चान्ते मुक्तिं जगाम ह ।पठनाच्छ्रवणाच्चास्य ज्ञानवान् जायते जनः ॥१६८॥श्रद्धा सुवर्धते भक्तो भक्तौ गर्वो नश्यति सर्वथा ।वृथा मानं याति दूरं याति त्वन्ते हरेः पदम् ॥१६९॥इति ते कथितं लक्ष्मि! भुक्तिमुक्तिप्रदं शुभम् ।विज्ञानं गर्वनाशार्थं भक्तेर्वृद्ध्यर्थमेव च ॥१७०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेनकां प्रति विश्वामित्रपृष्टपातिव्रत्यप्रश्रेऽप्सरसामन्यधर्मपरत्वे परस्परशापेन जरा, नागमतीनद्यां स्नानेन शापनिवारणं चेत्यादि ॥तथा इन्द्रस्य गर्वनाशार्थं प्रकृतेः शापः, गुरोः शापः, गौतमशापश्च, गुरोरपमानाच्छापेन सम्पन्नाशः, वृत्रनाशः, ब्रह्महत्या, गुरोः कृपया ब्रह्महत्यानाशः, नवीनप्रासादनिर्माणं, विश्वकर्मनिरोधः, नारायणस्य विप्रबटुरूपेणाऽऽगमनं पिपीलिकासमूहदर्शनं, लोमशस्यागमनं, तदायुर्लोमक्षरणे निश्चित्येन्द्रस्य वैराग्यं विश्वकर्मणो निर्बन्धतेन्द्रगर्वनाशश्चेतिनिरूपणनामा षडशीत्यधिकचतुश्शततमोऽध्यायः ॥४८६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP