संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७१ Translation - भाषांतर श्रीनारायण उवाच-अथ वैराजपुरुषात् नाभौ पद्मेऽभवत् त्वजः ।विष्णुश्च हृदयाज्जातस्तदा वै विष्णुपद्मजौ ॥१॥महामहं महाँश्चाहमितिश्रैष्ठ्यविवादिनौ ।तयोर्मध्ये महत्तेजःकिरणं समभूत्तदा ॥२॥तत्र देवस्तृतीयो वै शंभुः प्रादुर्बभूव ह ।गोलोकात्प्रेषितश्चास्याऽण्डस्य देवाधिवृत्तये ॥३॥श्रीकृष्णेन स्वयं चात्र प्रेषितः शंकरो मुदा ।वैष्णवो भक्तवर्यश्च समुत्पन्नो हरीच्छया ॥४॥हरेस्तदैव किरणं मूर्तेर्वेराजनेत्रयोः ।समागत्य बभूवातिस्थिरं तस्य प्रभावतः ॥५॥ललाटात्स समुत्पन्नः किरणाढ्यो महेश्वरः ।किरणं दिव्यबाणं वैं ब्रह्मणश्चिह्नमेव तत् ॥६॥महेशस्तत्र वैराजात्मजो जातः सुतामसः ।शिवा च तस्य देहे वै वामभागेऽप्रकाशिता ॥७॥कृष्णाज्ञया समायाता शिवो वेत्ति न तां तदा ।शिवो जानाति चैकं स्वं देवं तत्र शिवां विना ॥८॥किन्त्वदृश्या शिवा शंभोर्वामे शक्तिस्वरूपिणी ।आसीद् या कृष्णनेत्रस्था सैवाऽऽसीच्छिवनेत्रयोः ॥९॥ब्रह्मणा प्रेरिता रात्रिः सा संबभूव दाक्षिणी ।सतीतिनाम संचक्रे तस्या दक्षस्तदाज्ञया ॥१०॥अथ तां च सुतां माता सुसंस्कृत्य यथोचितम् ।शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥११॥पालिता साऽथ वीरिण्याऽसिक्न्या दक्षेण ववृधे ।तस्यां सुसद्गुणाः सर्वे विविशुः शैशवेऽपि वै ॥१२॥सखीमध्यगता क्रीडाचरणेऽपि स्वभावतः ।लिलेख शंभुदेवस्य प्रतिमां वै क्वचित्क्वचित् ॥१३॥बाल्योचितेषु गीतेषु जगौ रुद्रं हरं मुहुः ।हरे त्वेवं भक्तिमती सस्मार स्मरनाशकम् ॥१४॥तस्यां पित्रोः सुकरुणा ववृधेऽतीव नित्यदा ।बालाऽपि गुणवृद्धा सा तोषयामास जन्मदौ ॥१५॥एकदा नारदो ब्रह्मा जग्मतुर्दक्षमन्दिरम् ।दृष्टा ताभ्यां दक्षपार्श्वे त्वासीना सा सती शुभा ॥१६॥पित्रा नमस्कृतौ चोभौ सत्या चापि नमस्कृतौ ।प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ॥१७॥स्थितावातिथ्यविधिना सत्कृतावूचतुर्मुदा ।ब्रह्मा प्राह मुनिं पश्य नारदेवं महेश्वरी ॥१८॥कस्य भार्या सुयोग्या स्याद् रेखाः पश्याऽथ मां वद ।नारदस्तत्र देवेशीं नत्वा प्राह सुकन्यके ॥१९॥एहि पश्यामि ते हस्तरेखाः का भवसीति यत् ।विहस्य कन्यया हस्ततले सन्दर्शिते तदा ॥२०॥धनुर्मीनस्तथा केतुः स्वस्तिकश्च त्रिशूलकम् ।प्रदीपः कमलं बाणोंऽकुशः शंखश्च चक्रकम् ॥२१॥परशुः सायकः शक्तिः षड्वामे षट् च दक्षिणे ।क्रमाद्धस्ते नारदेन दृष्टान्येतानि रेखया॥०२२॥ललाटेऽक्षि तृतीयं च कला चन्द्रस्य वक्रगा ।हृद्ये शिवमूर्तिश्च स्वर्णरेखामयी शुभा ॥२३॥नाभेरूर्ध्वं चर्मचिह्नमधश्च करवालकम् ।धनुर्बाणेन युक्तं च पदोः सिंहो वृषस्तथा ॥२४॥शिखरं वल्लिका नागदलं सिंहासनं तथा ।ऊर्ध्वे रेखे सर्पफणा दृष्टान्येतानि रेखया ॥२५॥कथितं ब्रह्मणे चापि दक्षाय नारदेन तु ।नेयं वै मानवी पुत्री नापि दैवी न चाऽपरा ॥२६॥जगन्माता गुरूणां च गुर्वी परा तु वैष्णवी ।कृष्णांगना च वा नारायणवामा परेश्वरी ॥२७॥ब्रह्मांगना च वा विष्णोरंगना परमेश्वरी ।शिवांगना भवेद्यद्वा नान्या स्याज्जगदंबिका ॥२८॥मन्येऽस्या हृदि शर्वोऽस्ति नेत्रचन्द्रौ ललाटके ।करे त्रिशूलरेखाऽस्ति चरणे वृषभो हरिः ॥२९॥अतः शिवस्य रत्नं स्यान्नान्यस्य कस्यचिद् ध्रुवम् ।सलज्जाऽधोमुखी श्रुत्वा भूत्वा विहस्य सत्वरम् ॥३०॥गृहान्तरे जगामाथ मात्रे न्यवेदयच्च तत् ।असिक्न्या च गृहात्तत्र बहिरागत्य तौ तदा ॥३१॥नमस्कृतौ जलभोज्यफलाद्यैश्च प्रपूजितौ ।दक्षेण वन्दितौ वृद्धौ सती तावद्गृहात्पुनः ॥३२॥भर्गचित्रं स्वलिखितं नीत्वा बहिरुपागता ।सहासा दर्शितवती ओमित्यर्थं महर्षये ॥३३॥ननाम नारदं सा च ब्रह्माणं प्रणनाम सा ।ब्रह्मा प्राह तदानीं मस्तके दत्वा करांजलिम् ॥३४॥यस्त्वां कामयते यं त्वं तथा कामयसे सति! ।तमाप्नुहि पतिं देवं सर्वज्ञं जगदी श्वरम् ॥३५॥यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥३६॥इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।विसृष्टौ तेन संयातौ स्वस्थानं तौ समुद्रजे ॥३७॥दक्षोऽभवत् तदा प्रीतो मन्यमानः स्वधन्यताम् ।सती च वर्धमानाऽऽप किंचिद्यौवनभावनाम् ॥३८॥दक्षश्च चिन्तयामास सतीयोग्यं वरं शिवम् ।बाल्यं व्यतीतं पुत्र्या मे कौमार्यं विगतं तथा ॥३९॥प्रोद्भिन्नान्तर्वयोयुक्तामुद्वाहाऽर्हसुकन्यकाम् ।तपोभिः स्वर्णरूपाढ्यां दास्ये भर्गाय सर्वथा ॥४०॥सती स्वयं तथा भर्गं प्राप्तुमैच्छत् हृदन्तरे ।पितुश्च निर्णयं ज्ञात्वा मातरं प्राह सा सती ॥४१॥शंकरस्य कृते मातस्तपोव्रतादि दर्शय ।तवाऽज्ञया व्रतं कुर्वे शिवसन्तोषणाय वै ॥४२॥मातुराज्ञां तु सा लब्ध्वा शिवं प्राप्तुं दृढव्रता ।गृहे त्वाराधयामास व्रतैश्च विविधैः सती ॥४३॥ईषशुक्लाऽष्टमीनन्दातिथावानर्च शंकरम् ।गुडौदनैः सलवणैः षोडशाद्युपचारकैः ॥४४॥कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।षोडशाद्युपचारैश्च पुपूज शंकरं सती ॥४५॥मार्गशीर्षेऽसिताष्टम्यां सतिलैः स यवौदने ।षोडशाद्युपचारैश्च पुपूज शंकरं सती ॥४६॥पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।प्रातः सा कृशरान्नेन पुपूज शंकरं सती ॥४७॥माघे तु पूर्णमास्यां सा कृत्वा जागरणं निशि ।आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ॥४८॥फाल्गुने शिवरात्र्यां च व्रतं जागरणं निशि ।शैलूषैः षोडशार्थैश्च साऽऽनर्च तं दिवानिशम् ॥४९॥चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।षोडशाद्युपचारैश्च दिवा रात्रावपूजयत् ॥५०॥राधशुक्लतृतीयायां तिलाहारयवौदनैः ।नवैश्च षोडशाथैंश्चाऽपूजयच्छंकरं सती ॥५१॥ज्येष्ठस्य पूर्णिमारात्रौ निराहारा च शंकरम् ।वसनैर्बृहतीपुष्पैरपूजयद्व्रते सती ॥२॥आषाढस्य चतुर्दश्यां शुक्लायां कृष्ण वाससा ।बृहतीकुसुमैः शंभुमपूजयद्व्रते सती ॥५३॥श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥५४॥भाद्रे कृष्णत्रयोदश्यां बहुपुष्पफलैः सती ।पूजयित्वा चतुर्दश्यां चकार जलभोजनम् ॥५५॥नानाविधपत्रपुष्पफलैस्तत्कालजैः सती ।चक्रे सुनियताऽऽहाराऽधिकमासे शिवव्रतम् ॥५६॥नित्यं च सर्वमासेषु शिवपूजापरायणा ।दृढव्रताऽभवददेवं नान्यत् सस्मार तं विना ॥५७॥इत्थं नन्दाव्रतं कृत्स्नं समाप्य तापसी सती ।दध्यौ शिवं व्यवस्थासु योगिनीव कृतादरा ॥५८॥कृशाकृशांगी तपसा तेजोमूर्तिः सुरूपिणी ।जाता शिवमयी सौम्या शिवांऽकाऽर्हणतां गता ॥५९॥जन्मजयन्त्यां सत्याश्च द्वादशाब्दे महोत्सवे ।दक्षेणाऽऽकारिता देवा मनवोऽन्ये महर्षयः ॥६०॥तदा तु सर्वतो देवा मुनयश्चाखिलाः प्रिये ।अहं ब्रह्मा च दिक्पाला लोकपालाः सुरादयः ॥६१॥आशीर्वादान् प्रदातुं च जग्मुर्दक्षगृहे तदा ।सत्कृताश्च महत्यां वै सभायां सर्वदेवताः ॥६२॥आशीर्वादान् ददुः सत्यै प्रणनाम सती च तान् ।पूर्वं दृष्टा सती पुष्टा तपसाऽर्धापि नास्ति यत् ॥६३॥दृष्ट्वा सतीतपस्तादृक् ज्ञात्वा शिवार्थमेव तत् ।प्रसन्नाः सर्वदेवाद्याश्चक्रुर्देव्यै नतिं मुहुः ॥६४॥प्राहुः सति! तपश्चातिकष्टप्रदं तु मा कुरु ।अवश्यं ते पतिः शर्वो महादेवो भविष्यति ॥६५॥आशीर्वादान्प्रयुज्यैवं गृहीत्वाऽर्हणमित्यथ ।प्रशशंसुस्तपस्तस्याः सिद्धावस्थां गतां सतीम् ॥६६॥दक्षोक्तिं च सतीच्छां च सम्प्राप्य मुनयः सुराः ।पूजां प्राप्य सतीं नत्वा जग्मुः कैलासभूभृतम् ॥६७॥सावित्रीहितो ब्रह्मा लक्ष्मीनारायणस्तथा ।रमया सहितो विष्णुर्देवीभिः सहिताः सुराः ॥६८॥सप्तर्षयः स्वपत्नीभिः सहिता मनवस्तथा ।जग्मुः कैलासशिखरं यत्र देवो महेश्वरः ॥६९॥गत्वा शंभुं प्रणम्यैव दृष्ट्वा शान्तं च योगिनम् ।तुष्टुवुर्विविधैः स्तोत्रैर्बद्धांजलिपुटा मुदा ॥७०॥नमोऽक्षरस्वरूपाय कृष्णनेत्रात्मने नमः ।नमः सदाशिवाख्याय तेजःपूजाय ते नमः ॥७१॥वैराजपुत्ररूपाय ब्रह्मचर्याय ते नमः ।नमो ब्रह्मस्वरूपाय सदा शान्ताय ते नमः ॥७२॥निर्गुणाय गुणाढ्याय वैष्णवाय नमोनमः ।अव्यक्तरात्रिदेहाय निर्विकाराय ते नमः ॥७३॥महेशाय परेशाय शिवाऽधिपतये नमः ।क्वचिच्छान्तिकृते कादाचित्कसंहारिणे नमः ॥७४॥नमः शेषाय संकर्षणस्वरूपाय ते नमः ।नमो वैराग्यवासाय सतीरागाय ते नमः ॥७५॥न यस्य देवा ऋषयः सिद्धाः साध्व्यश्च साधवः ।विदुः पदं स्वरूपं च तस्मै शिवाय ते नमः ॥७६॥पदं दिदृक्षवो यस्य यतन्ते योगिनः सदा ।तस्मै नमः परेशाय योगस्थाय नमोनमः ॥७७॥अनन्तसिद्धियुक्ताय गिरां दूराय ते नमः ।नम आत्मप्रकाशाय निर्वाणस्थाय ते नमः ॥७८॥ज्ञानिने ते नमश्चास्तु निष्क्रियायाऽऽत्मवेदिने ।तपसा द्राक् प्रसन्नाय सर्वदात्रे च ते नमः ॥७९॥त्रिनेत्राय सचन्द्राय सर्वाध्यक्षाय ते नमः ।शरणायातप्रार्थ्यार्थलाभदाय च ते नमः ॥८०॥ऐश्वर्याणां प्रदात्रे ते मोक्षदाय च ते नमः ।भक्तेष्टपूरकायाऽम्नायोदधये च ते नमः ॥८१॥स्वप्रकाशाय नित्याय प्रत्यक्द्रष्ट्रे च ते नमः ।सकामा वाथ निष्कामा भक्तास्ते शरणागताः ॥८२॥अप्राप्य सिद्धिं यस्मान्न निवर्तन्ते च ते नमः ।काचित्कन्या त्वदर्थं वै करोति तप उत्कटम् ॥८३॥त्वं कथं चाऽकरुणोऽसि प्रसन्नो भव ते नमः ।लोककार्यप्रवाहार्थं विचारं कुरु शंकर ॥८४॥अध्यात्मयोगगम्य त्वां प्रणमामः स्तुमो वयम् ।न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न् द्विजः पशुः ॥८५॥न स्त्री न षंढो न पुमान् योऽसि सोऽसि च ते नमः ।विश्वलयकृते विश्वधारिणे प्रणता वयम् ॥८६॥सांख्या ज्ञानेन पश्यन्ति समाधौ योगिनश्च यम् ।भक्ताः कृपया पश्यन्ति त्रयीमयं च ते नमः ॥८७॥नमो भक्तोद्धारकर्त्रे नमस्ते गूढवर्चसे ।नमः प्रत्यक्षदेवाय चाऽपरोक्षानुभूतये ॥८८॥कालरात्रिविलासाय दक्षपुत्र्यार्थिताय च ।प्रवृत्ताय नमस्तुभ्यं निवृत्ताय च ते नमः ॥८९॥भक्तेच्छापूरक! स्वामिन् पूरयेच्छां च वेधसः ।तूष्णीमासन्नितिस्तुत्वा श्रुत्वा शंभुर्जहास वै ॥९०॥दृष्ट्वा देवमुनींश्चान्यान् सस्त्रीकाँश्च यथोचितम् ।स्वागतं चातिथेयं च कृत्वा पप्रच्छ कारणम् ॥९१॥हे विष्णो हे विधे देवा हे मुनिप्रवरर्षयः ।निजागमनहेतुं वै कथयध्वं यथार्थतः ॥९२॥सस्त्रीका आगताः सर्वे किं कार्यं विद्यते मम ।इति पृष्टास्तदा ब्रह्मा विष्णुना परिनोदितः ॥९३॥प्राह शंभुं मिष्टवाण्या देव तेऽविदितं नहि ।तथापि लोकधर्मत्वात्कथनीयं शृणु प्रभो ॥९४॥विशेषतः सहार्थार्था वयं सुरनरादयः ।असुरा वहुधा सृष्टौ जायन्ते च मुहुर्मुहुः ॥९५॥तत्र केचिन्मम वध्या हरेर्वध्याश्च केचन ।अतिक्रूरास्तव वध्या देवीवध्यास्तथाऽपरे ॥९६॥अन्ये त्वद्वीर्यपुत्रस्य वध्याश्चापि भवन्ति वै ।अनाशयित्वा तान्दुष्टान् जगत्स्वास्थ्यं न निर्भयम् ॥९७॥त्वयि रागद्वेषशून्ये योगमार्गे स्थिते सति ।दयामात्रस्वभावे ते नष्टा न स्युः कदाचन ॥९८॥तपः प्रकुर्वतां तेषां वरैः पुष्टिर्यदि ध्रुवा ।तदा तु सात्विको सृष्टिः कथं सुस्था भविष्यति ॥९९॥अतश्च भविता युक्तमयुक्तेषूच्छ्रितेषु वै ।सृष्टिस्थित्यन्तकर्पाणि कार्याण्यस्माभिरेव ह ॥१००॥वयं त्वेकस्वरूपा हि भिन्नाः कार्यस्य भेदतः ।कार्यभेदो न सिद्धश्चेद् रूपभेदोऽप्रयोजनः ॥१०१॥अहं विष्णुश्च सस्त्रीकौ सुजातौ कार्यहेतुतः ।तथा त्वमपि सस्त्रीको भव विश्वहिताय वै ॥१०२॥परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।स्त्रियं विवाह्य लोकस्य कुरु कार्यं महत्तमम् ॥१०३॥यथा पद्मालया विष्णोः सावित्री च यथा मम ।तथा सहचरीं शंभो कान्तां गृह्णीष्व कामिनीम् ॥१०४॥शंभुर्विहस्य ब्रह्माणं विष्णुं च प्राह तात्त्विकम् ।हे ब्रह्मन् हे हरे मे स्थो युवां प्रियतरौ सदा ॥१०५॥युवयोर्दर्शनादद्याऽऽनन्दो मे जायतेऽधिकः ।भवद्भ्यां तु मदर्थं यन्निश्चितं व्यावहारिकम् ॥१०६॥युक्तमेव भवेत् किन्तु मे हृदि रोचते नहि ।तपस्विनो विरक्तस्य योगमार्गाऽतिगस्य च ॥१०७॥ज्ञानिनः कामशून्यस्य स्वात्मारामस्य सर्वथा ।निवृत्तस्याऽऽत्मद्रष्टुश्च कामिन्या किं प्रयोजनम् ॥१०८॥आत्मनो योगलग्नस्य ममाऽऽनन्दः सदाऽस्ति वै ।नान्यसंसर्गसंप्राप्ताऽऽनन्दशेषी भवाम्यहम् ॥१०९॥विवाहो बन्धनं रौद्रं द्वयोरेव परस्परम् ।योगिनस्तत्किमर्थं वै निराशस्य बलान्नयेत् ॥११०॥तस्मात्पत्न्या रुचिर्मे नो सत्यं वः प्रवदाम्यहम् ।विष्णुः प्राह तदा श्रुत्वा शंभुं श्रीकृष्णदर्शितम् ॥१११॥गोलोके यत्प्रतिज्ञातं सृष्टौ कार्यं यदा भवेत् ।यदावश्यकता ते स्यात्तदा दास्ये विभावरीम् ॥११२॥काले गृहीत्वा प्रकृतिं शृंगारं च करिष्यसि ।काले गृही तथा काले तपस्वी भव वांच्छया ॥११३॥विधुरो मंगलायाऽत्र कल्प्यते नहि कुत्रचित् ।विधुरस्य सस्त्रीकेषु वासोऽपि भयदो भवेत् ॥११४॥समो भूत्वा समेष्वेव मान्यो भवति नाऽसमः ।समेषु विषमो नश्येत् नश्येयुर्विषमात्समाः ॥११५॥सृष्टिशासनकर्तॄणां गृहस्थानां समानता ।सदा चापेक्ष्यते तस्मात् सपत्नीको भवाऽधुना ॥११६॥नहि वै विधुरो भ्राता स्त्रीषु विश्वासभूमिकः ।नहि यज्ञादिपैत्र्यादिकार्ये योग्यो विना स्त्रीयम् ॥११७॥अमंगलः सदा नारीशून्यो भवति कर्मठः ।अकर्मठस्तथा नारीयुक्तश्चाऽमंगलो भवेत् ॥११८॥सूष्टिकार्याधिकृतस्त्वं शंभो माऽमंगलो वस ।सदा सुमंगलो भूत्वा तिष्ठाऽस्मत्सु विचार्य च ॥११९॥संस्मृत्य कृष्णवचनं सदारो भव शंकर ।श्रुत्वैवं वचनं विष्णोः स्मृत्वा कृष्णोक्तिमित्यथ ॥१२०॥नित्यसिद्धशिवाप्राप्तिं धर्मं विचार्य शंकरः ।प्राह विष्णो करिष्यामि भवदुक्तं सदा हितम् ॥१२१॥मत्वा वचो गरिष्ठं वो नियोगं श्रीहरेस्तथा ।करिष्यामि विवाहं वै कृष्णवश्योऽस्म्यहं सदा ॥१२२॥परन्तु यादृशीं कान्तां ग्रहीष्यामि शृणुश्व ताम् ।या मे तेजो ग्रहीतुं धारयितुं सुदृढा भवेत् ॥१२३॥अहं योगी यथा ज्ञानी सापि मत्सदृशी भवेत् ।रणे योगे च विज्ञाने गुणैश्वर्ये रतौ समा ॥१२४॥एवं न चेद्विनोद्वाहं स्थातव्यं सुखतः सदा ।तस्माज्जायां प्रादिश त्वं मत्समा वर्तते यदि ॥१२५॥तत्राप्येकः पणो मे स्यात् तया भाव्यं तथा मयि ।अविश्वासो मदुक्ते चेत् मया त्यक्ता भविष्यति ॥१२६॥इति शंभोर्वचः श्रुत्वा विष्णुर्ब्रह्मा विहस्य तम् ।प्राहतुर्यादृशी प्रेष्ठा तेऽस्त्यस्माभिः सुमार्गिता ॥१२७॥गोलोके कृष्णहृदयात् या शिवा नेत्रयोः स्थिता ।वैराजनेत्रयोः स्थित्वा देवेन्द्रियेषु तैजसी ॥१२८॥स्थिता या शेषशायिश्रीहरेरिन्द्रियम ण्डले ।रात्रिर्विभावरी शंभो या शिवा वामगा च ते ॥१२९॥अपृथक्सिद्धसम्बद्धा सा सती दक्षपुत्रिका ।त्वादृशी सा भवेद् भार्याऽधिकतेजोबलान्विता ॥१३०॥सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।त्वां पतिं प्राप्तुकामा सा दक्षगेहेऽस्ति कन्यका ॥१३१॥दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।तां विवाहय सुप्रीत्या वरं दत्त्वा यथेष्टदम् ॥१३२॥अत्रागतानां देवानां संकल्पं परिपूरय ।मंगलं परमं भूयात् पश्यामश्च तदुत्सवम् ॥१३३॥श्रुत्वा तु शंकरः प्राह ओमिति स्वीकृतं मया ।यामि तपःफलं दातुं भवन्तो यान्तु भो सुराः ॥१३४।पुनर्वो दर्शनं भाव्यं विवाहोत्सवकर्मणि ।इत्याज्ञप्ताः सत्कृताश्च ब्रह्मविष्णुसुरादयः ॥१३५॥दत्वाऽऽशीर्वादवचनं 'सफलोऽस्तु मनोरथः' ।जग्मुः स्वं स्वं निकेतं ते सस्त्रीकाश्चातिहर्षिताः ॥१३६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंभोर्वैराजललाटादुत्पत्तिः, शिवाया दक्षगृहे प्राकट्योत्तरं ब्रह्मनारदागमः, नारदकथितचिह्नरेखाभिः शिवपत्नी-त्वनिश्चयेन सत्या वार्षिकतपोव्रतकरणम्, द्वादशे वार्षिकसतीजन्मजयन्त्या उत्सवे ब्रह्मविष्णुसुराणां सस्त्रीकानामागमनं, सतीतपः प्रेक्ष्य ब्रह्मादीनां कैलासगमनं, सतीपाणिग्रहणवरदानार्थं शंकरायोपदेश इत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP