संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १४० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १४० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४० Translation - भाषांतर श्रीनारायण उवाच-प्रह्लादोऽन्ये च दैतेया निश्चिक्युर्नैव वस्तु यत् ।कुतः कस्मादयं शब्दो लोकस्फोटनकृन्महान् ॥१॥दृश्यते शब्दमूलं न नाकृतिर्नाभिभावकम् ।निशम्याऽपूर्वनिर्ह्रादं सुरभिन्ना वितत्रसुः ॥२॥सत्यं प्रकुर्वन् प्रह्लादाभिहितं ब्रह्मणोदितम् ।वरं चायं हरिः कृष्णो नृहरिः समजायत ॥३॥मूर्तेर्द्राक्सुमहत्तेज्ञोऽव्याप्नोदाब्रह्मलोकगम् ।शनैः शनैश्च तत्तेजोऽन्तःसभायां व्यलीयत ॥४॥तावत्स्तंभान्तरे सत्त्वं महाक्रूरं व्यलोकि तत् ।नाऽयं मृगो न मनुषः किमेतन्नृमृगेन्द्रवत् ॥५॥यावद्दैत्याश्च दैत्येशो व्यक्तं पश्यति नृहरिम् ।भयानकं ललज्जिह्वं स्फारलोहितलोचनम् ॥६॥सूर्यवच्चाकचक्यास्यं हरीवज्जृम्भिताननम् ।महातेजःस्फुरत्स्वर्णविद्युद्वल्लीभकेसरम् ॥७॥करालदंष्ट्रं भ्रूकुटीचण्डकोपाऽनलान्वितम् ।स्तब्धोर्ध्वकर्णं व्यात्ताऽऽनननासं च कलासहम् ॥८॥चन्द्रांशुवालं महाखङ्गातितीक्ष्णनखायुधम् ।तावत्तद्विवृधे सत्त्वं महाकायं महाबलम् ॥९॥दिव्यं यन्मन्दरसमं प्रासादस्तु व्यलीयत ।दिव्ये नारायणे सिंहे नरेऽपूर्वकृताकृतौ ॥१०॥ददर्श तस्य गात्रेषु प्रह्लादो भुवनानि वै ।लोकान् समुद्रान् सद्वीपान् सुरगन्धर्वमानुषान् ॥११॥अण्डजानि सहस्तानि सटाग्रे स ददर्श वै ।ददर्श नेत्रयोस्तस्य सूर्यचन्द्रादिकान् गृहान् ॥१२॥कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा ।ललाटे ब्रह्मरुद्रौ च नभो वायुं च तन्नसि ॥१३॥इन्द्राग्नी तस्य वक्त्रान्ते जिह्वायां च सरस्वतीम् ।दंष्ट्रासु सिंहशार्दूलशरभाँश्च महोरगान् ॥१४॥कण्ठे ददर्श मेर्वद्रिं स्कन्धे हिमाचलादिकान् ।देवतिर्यङ्मनुष्याँश्च बाहुष्वपि परात्मनः ॥१५॥नाभौ चाऽस्याऽन्तरीक्षं च पादयोः पृथिवीं तथा ।रोमस्वस्यौषधीन् सर्वान्पादपान्नखपंक्तिषु ॥१६॥निःश्वासेऽस्य चतुर्वेदान् सांगोपागान्ददर्श सः ।आदित्याँश्च वसून् रुद्रान् विश्वेदेवान्मरुद्रणान् ॥१७॥अप्सरसश्च गन्धर्वान् विद्याध्रोरगराक्षसान् ।एवमापाललोकान्सोपस्करप्रजान्वितान् ॥१८॥ददर्शांगेषु प्रह्लादस्ततः सौम्यं ददर्श तम् ।श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥१९॥शंखचक्रगदाखड्गशार्ङ्गादिहेतिभिर्युतम् ।सर्वोपनिषदामर्थं दृष्ट्वा ननाम दंडवत् ॥२०॥हर्षाश्रुजलसिक्तांगो ध्यायन्पार्श्वे ह्युपस्थितः ।तावद्धिरण्यकशिपुः क्रोधान्मृत्युवशे स्थितः ॥२१॥किंस्विदयं नु हन्ता मे हन्मि तं पुरतो जये ।योद्धुं खड्गं समुद्यम्य नृसिंहं तमथाऽद्रवत् ॥२२॥देवाश्च मुनयः सर्वे प्राणिनो ब्रह्मसृष्टिजाः ।आजग्मुः श्रीहरेस्तस्य युद्धस्य दर्शनाय च ॥२३॥अथ दैत्यगणाः सर्वे सज्जशस्त्रा महाबलाः ।जघ्नुर्हरिं महावेगाः पेतुर्वह्नौ पतंगवत् ॥२४॥नृहरिणा सटोद्भूतवह्निना दानवा भृशम् ।निर्भस्मिताः क्षणात्सर्वे सहस्राण्यायुधानि च ॥२५॥अन्ये च राक्षसा दैत्या दानवा ह्यसुरास्तथा ।ये चापतन् रणं कर्तुं तान् द्वेधाऽपातयद्धरिः ॥२६॥काँश्चिद् दंष्ट्राभिरुग्राभिः काँश्चिन्नखैः सुतीक्ष्णकैः ।काँश्चिच्छस्त्रैर्महाघोरैर्नाशयामास केशवः ॥९७॥प्रह्लादं सानुगं हित्वा भस्मिते रक्षसां बले ।नाशिते दैत्यसैन्ये च कालानलशिखोपमः ॥२८॥हिरण्यकशिपुर्यावदुद्यम्याऽसिं तु नृहरेः ।वधाय कृतयत्नोऽभूत् तावज्जग्राह तं प्रभुः ॥२९॥खड्गमाच्छिद्य देवेशो मोचयामास तं रिपुम् ।गदामादाय दैत्येशश्चकार मण्डलानि च ॥३०॥गदापि पातिता यावत् चर्मखड्गान्तरं महत् ।गृहीत्वाऽभ्यद्रवद् दैत्यस्तं हरिर्मण्डलेन वै ॥३१॥निनाय च गृहद्वारे मध्ये चोत्प्लुत्य धर्षितम् ।बहुबलं प्रकुर्वन्तं क्षिपन्तं पत्करादिकान् ॥३.॥पातयामास देवेशस्तदा चैकेन पाणिना ।गृहीत्वा पतितं भूमौ मुहुः सम्पद्य चाऽसुरम् ॥३२॥पादघातैश्चार्धमृत्यु कृत्वोत्संगे निधाय च ।नखैर्विदारयामास तीक्ष्णैर्वज्रनिभैर्घनैः ॥३४॥विष्णुनिन्दाकृतं पापं तथा वैष्णववैरजम् ।नृहरेः स्पर्शनादेव निर्भस्मितमभूत्तदा ॥३५॥वक्षो दैत्येश्वरस्याऽसौ विददाराऽस्थिमण्डलम् ।तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः ॥३६॥आकृष्याऽऽन्त्राणि दीर्घाणि गले संसक्तवान् प्रभुः ।स निर्मलात्मा दैत्येन्द्रः पश्यन् साक्षान्मुखं हरेः ॥३७॥हरिहस्ताऽऽगतमृत्युः कृतार्थो विजहावसून् ।नाकाशे न क्षितौ मृत्युर्नान्तर्बहिर्न सृष्टिजैः ॥३८॥न शुष्कैर्नाऽऽर्द्रतत्त्वैश्च सत्यं कर्तुं हरिः स्वयम् ।असृष्टेः रूपमास्थाय धामाकाशं विधाय च ॥३९॥निधायाऽङ्के नखैः सायं मध्ये द्वारि जघान तम् ।हरिर्जानाति यत्कर्तुं नान्यो जानाति तत्तथा ॥४०॥अथ दैत्येन्द्ररक्तेन किंशुकीभूतनृहरिम् ।हन्तुमुदायुधा दैत्याः समन्तात् शस्त्रपाणयः ॥४१॥अभ्यधावँस्तदा ताँश्चाऽहन् पार्ष्णिनखदोर्मुखैः ।चक्रे च गर्जनां ब्रह्माण्डावृतीन् प्रविभिद्य या ॥४२॥अट्टहासान्विता व्याप्ता ब्रह्मलोके च धामसु ।जलदाश्चापतन् व्योम्नो ग्रहाश्च कम्पिताः स्थलात् ॥४३॥चुक्षुभुर्वारिनिधयो दिगिभाश्च विचुक्रुशुः ।द्यौर्भ्रमिता विमानानि स्तब्धानि भूश्च कम्पिता ॥४४॥उत्पेतुः भूभृतः शैलाः खं ककुभो न रेजिरे ।दैत्यशून्ये च भक्ताढ्ये प्रासादे नृहरिं तदा ॥४५॥प्रहर्षपूरिता देव्यो ववृषुः कुसुमानि वै ।देवर्षिमुनयो दिव्यविमानस्थास्तदा हरिम् ॥४६॥पश्यन्ति स्म च वादित्रान्दुन्दुभिप्रभृतीँस्तदा ।वादयामासुराप्रेम्णाऽप्सरसो ननृतुस्तथा ॥४७॥गन्धर्वा गायनं चक्रुर्जगुः स्वस्ति सुरस्त्रियः ।ब्रह्माण्डवासिनस्तत्राऽऽगत्येडिरे च नृहरिम् ॥४८॥ब्रह्मा रुद्रेन्द्रगिरीशपितृसिद्धार्षिचारणाः ।प्रजापतयो मनवो विद्याधरमहोरगाः ॥४९॥यक्षाः किन्नरवेतालाः गन्धर्वाऽप्सरसां गणाः ।किम्पुरुषाः साध्यदेवा विश्वेदेवाश्च याज्ञिकाः ॥५०॥भूदेवाः पार्षदा नन्दसुनन्दकुमुदादयः ।ईडिरे तं नरसिंहं महाभयकरदृशम् ॥५१॥नमोऽक्षरपररूपाक्षरान्तर्यामिणे च ते ।नमो मुक्ताभिवन्द्याय नमो व्यूहात्मने च ते ॥५२॥नमः प्रकृतिरूपाय प्रधानपुरुषाय ते ।महाकालस्वरूपाय भूमरूपाय ते नमः ॥२३॥अप्रतर्क्यस्वरूपायाऽनन्तरूपाय ते नमः ।अभक्तानाशकर्त्रे ते भक्तरक्षणकारिणे ॥५४॥वरदानानुरूपाय तथैव दैत्यघातिने ।सर्वात्मने करालाय विकरालाय ते नमः ॥५५॥यज्ञभागप्रदात्रे ते रक्षकाय नमोनमः ।हृदि बोधाय देवानां त्रात्रे तस्मै नमोनमः ॥५६॥तपोमार्गप्रवृत्ताय ऋषिगम्याय ते नमः ।श्राद्धतृप्तिप्रदायाऽत्र परत्रदायिने नमः ॥५७॥योगगतिप्रसाराय सिद्धिस्मृद्धिगृहाय च ।तपोबलप्रकृष्टाय धर्मात्मँस्ते नमोनमः ॥५८॥स्तुतिस्तुत्याय विद्यायाः शुभाधिपतये नमः ।रत्नप्रदात्रे न्यायाय नीतिधात्रे नमोनमः ॥५९॥मनुत्वसंरक्षकाय प्रजापतित्वदायिने ।नटनाट्यगायकानां क्रीडागीत्यात्मने नमः ॥६०॥वाहकत्वप्रदात्रे ते सपर्यादिप्रदायिने ।विष्टिकार्यनियोक्त्रे ते जगदीशाय ते नमः ॥६१॥वैष्णवानां रक्षकाय बहुरूपधराय ते ।नारायणाय कृष्णाय श्रीहरये नमो नमः ॥६२॥नित्यं शान्तस्वरूपायेदानीं भयंकराय ते ।अविस्मृतस्वरूपायाऽद्भुताय हरये नमः ॥६३॥इत्याकाशात् तुष्टुवुस्तेऽन्तिकं केऽपि न चाययुः ।उग्रमृत्योर्मुखे गन्तुं श्रीमृते कः पतेत् श्वसन् ॥६४॥ते प्रसादयितुं भीता ज्वलितं विश्वतोमुखम् ।मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ॥६५॥हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् ।विष्णोर्नित्याऽनवद्यांगीं ध्यात्वा नारायणीं शुभाम् ॥६६॥श्रीसूक्तं संजपन्तो वै नमश्चक्रुः परेश्वरीम् ।चिन्त्यमाना तु सा देवी तत्रैवाऽऽविरभूत्तदा ॥६७॥चतुर्भुजा विशालाक्षी सर्वभूषाद्यलंकृता ।दुकूलशाटिकायुक्ता कौस्तुभस्रक्सुमंगला ॥६८॥तां दृष्ट्वा देवदेवस्य पत्नीं मां जगतां ततः ।ऊचुः प्रांजलयो देवाः प्रसन्नं श्रीहरिं कुरु ॥६९॥इत्युक्ता सहसा लक्ष्मीः प्रियं दूरात्पतिं हरिम् ।प्रणिपत्य नमस्कृत्य प्रसीदेति ह्युवाच तम् ॥७०॥तथापि श्रीहरेस्तस्य क्रोधः शशाम नो मनाक् ।अदृष्टाऽभूतपूर्वत्वात् सा नोपेयाय चान्तिकम् ॥७१॥तदा ते प्रेषयामासुर्भक्तं ब्रह्ममयं शिशुम् ।प्रह्लादं स जगामाऽशु पादयोः पतितस्तदा ॥७२॥ननाम दण्डवद्देवं प्रहसन् विधृतांजलिः ।दृष्ट्वा तमर्भकं रक्ष्यं कृपालुः श्रीहरिस्तदा ॥७३॥तमुत्थाप्याऽभयहस्तं तन्मूर्ध्न्यधान्मुहुर्मुहुः ।आश्लिक्षद्धृदये कृत्वा ददौ स्वचरणौ हृदि ॥७४॥तावच्छ्रीरपि देवेशं गत्वा नत्वा च संस्थिता ।अंकमादाय तां देवीं समाश्लिष्य दयानिधिः ॥७५॥कृपासुधार्द्रदृष्ट्या वै निरैक्षत महाहरिः ।ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा ॥७६॥तद्यथादृष्टितुष्टानां सानन्दः संभ्रमोऽभवत् ।ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥७७॥ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् ।द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते ॥७८॥अत्युग्रं ते नवं रूपं द्रष्टुमपि न शक्नुमः ।कथंकारं समीपे ते स्थातु शक्नुम ईश्वराः ॥७९॥अत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् ।न शशाम च रौद्रं तद्रूपं प्रह्लाद ईश्वरम् ॥८०॥नृसिंहं हृद्ये ध्यात्वाऽस्तौषीद्धरिं समाहितः ।नमो देवाधिदेवाय सत्त्वविलीनमूर्तये ॥८१॥ब्रह्मादयो बिभ्यति यद्रूपात् तद्रूपिणे नमःघनाऽभिजनसौन्दर्यतपःश्रुतबलादिभिः ॥८२॥स्मृद्धिवाक्पटुताभिश्चाऽतुष्यते ते नमोनमः ।तवाऽङ्घ्रिविमुखो विप्रो यमैश्च नियमैर्युतः ॥८३॥भक्तश्वादात् कनीयान्स भक्तहृष्टाय ते नमः ।मानहीनाय दीनाय तुष्यते ते नमोनमः ॥८४॥भक्तिमार्गाश्रितसौख्यकर्त्रे ते हरये नमः ।रक्षाविभूतिसम्पत्सुसौख्यदात्रे पुनर्नमः ॥८५॥ब्रह्मादयोऽपि देवाश्च शान्तदर्शनकांक्षिणः ।स्तुवन्ति त्वां परात्मानं शान्तरूपं ततः कुरु ॥८६॥नाऽहं बिभैमि देवेश क्रूरान्नृसिंहरूपणात् ।बिभेमि कामरोषादेस्ततो रक्षां विधेहि मे ॥८७॥असुराद्रक्षणां तत्तु देहस्य रक्षणं कृतम् ।तद्वै मे रक्षणं नास्ति तस्मान्मद्रक्षणं कुरु ॥८८॥क्लेशकर्मविपाकादेरजाया बन्धनात् खलु ।रक्षणं कुरु विश्वेश तन्मतं रक्षणं भवेत् ॥८९॥ईहाः पुत्रकलत्रादेर्धनैश्वर्यदिवस्पतेः ।कदापि नैव पूर्यन्ते ताभ्यो मे रक्षणं कुरु ॥९०॥दैत्येन्द्रस्य मया दृष्टाः स्मृद्धयस्ता न रक्षिकाः ।ऐश्वर्याणि मया दृष्टान्येतान्यवन्ति नैव हि ॥९१॥सिद्धयश्चापि देवानां रक्षा कुर्वन्ति नैव च ।भक्तानां त्वं रक्षणाय बहुरूपी भवस्यथ ॥९२॥उद्धारयसि विश्वात्मन् तथोद्धारं च मे कुरु ।राज्यं तु बन्धनं प्रोक्तं पापं पापतरं महत् ॥९३॥यत् सतां सेवने विघ्नं मानसत्तादिदूषणैः ।दीनत्वे तप आस्थाय वांच्छन्ति कामनामयान् ॥९४॥भोगानासाद्य पश्चात् त्वां विस्मरन्तीति किल्बिषम् ।ततो देवाधिदेवत्वं दारासत्ताधनादिषु ॥९५॥मा योगं मे देहि नाथ देहि त्वच्चरणाम्बुजे ।तव दासस्य दासानां मध्ये योगं प्रदेहि मे ॥९६॥इमे दिवास्तव रूपं सौम्यं कांक्षन्ति दर्शने ।तस्मात् सौम्यं सुखदं वै रूपं दर्शय माधव ॥९७॥इत्यर्थितः स भगवान् तेजस्तदतिभीषणम् ।रोषान्वितं तु संहृत्य बभूव सुखदर्शनः ॥९८॥शरत्कोटीन्दुसंकाशः पुण्डरीकनिभेक्षणः ।सुधामयसटापुंजविद्युत्कोटिनिभप्रभः ॥९९॥सद्रत्नाढ्यकटककेयूरोर्मिकादिभूषितः ।शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ॥१००॥वरदाऽभयहस्ताभ्यामितराभ्यां सुशोभितः ।श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ॥१०१॥कुण्डलहाररशनामणिस्वर्णविराजितः ।सव्यांगस्थश्रिया युक्तोऽभवत्तदा नृकेसरी ॥१०२॥लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः ।आनन्दाश्रुजलैः सिक्त्वा नमश्चक्रुर्निरन्तरम् ॥१०३॥अर्पयामासुरात्मेश दिव्यपुष्पादिपूजनम् ।रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् ॥१०४॥वस्त्रैराभरणैर्गन्धैः पुष्पैर्धूपैर्मनोरमैः ।दिव्यैर्निवेदितैर्दीपैरर्चयित्वा जनार्दनम् ॥१०५॥तुष्टुवुर्दिव्यसत्स्तोत्रैर्नमश्चक्रुर्मुहुर्मुहुः ।पादयोः पतितान्सर्वान्दत्वेष्टाशीर्वचांसि सः ॥१०६॥प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् ।वरार्थं प्रेरयामास प्रसन्नो भगवान्पुनः ॥१०७॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नृसिंहस्पष्टदर्शनतत्तेजोव्यापनहिरण्यकशिपुविदारण-देवादिकृतस्तवनप्रह्लादकृतस्तुतिसौम्यदर्शन-लक्ष्मीकृतस्तवनादिनिरूपणनामा चत्वारिंशदधिकशततमोध्यायः ॥१४०॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP