संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १४९

कृतयुगसन्तानः - अध्यायः १४९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! रैवतस्थतीर्थानि कथयाम्यहम् ।
यात्राफलसुयुक्तानि भुक्तिमुक्तिप्रदानि च ॥१॥
वस्त्रापथस्य तीर्थानि यानि येन कृतानि च ।
तान्यपि ते कथयिष्ये स्वर्गमोक्षप्रदानि च ॥२॥
पूर्वे कृतयुगे कान्यकुब्जे भोजनृपोऽभवत् ।
तस्मै वनात् समभ्येत्य वनपालब्रवीदिदम् ॥३॥
आश्चर्यं भ्रमता राजन् मया दृष्टं वनेधुना ।
मृगयूथगता नारी मया दृष्टा मृगानना ॥४॥
ततस्तु भोजराजः सः सेनाध्यक्षमुवाच ह ।
इदानीमेव गन्तव्यं यत्र सा युवती स्थिता ॥५॥
साऽश्वाश्च पत्तयो यान्तु वेष्टयन्तु वनं गिरिम् ।
स्त्रीवेषधारिणी नारी वशं नेया मृगी हि सा ॥६॥
गिरिं संवेष्टयामास भोजः सैन्यपदातिभिः ।
प्लवमाना तु सैन्येन विधृता हरिणानना ॥७॥
नारीदेहां समानिन्ये कान्यकुब्जे मृगीं नृपः ।
दृष्ट्वाऽऽश्चर्यं तु सर्वेषां जायते नृपमन्दिरे ॥८॥
राजा तां स्नापयामास दिव्यगन्धानुलेपनैः ।
एकान्ते निर्जने राजा बभाषे समलंकृताम् ॥९॥
का त्वं कस्य सुता केन हेतुना च मृगानना ।
इति पृष्ठापि नोवाच न भुंक्ते न पपौ तथा ॥१०॥
तदा भोजस्तु दैवज्ञान् मन्त्रज्ञान् भिषजस्तथा ।
तान्त्रिकान् सुनमस्कृत्य बभाषे पश्यत द्विजाः! ॥११॥
नारीदेहा कथं न्वेषा कथं च हरिणाऽऽनना! ।
मनुष्यवाणीवदना कथमेषा भविष्यति ॥१२॥
विप्राः प्राहुः कुरुक्षेत्रे सारस्वताख्यभूसुरः ।
जानाति स च वृत्तान्तं यथातथं स वक्ष्यति ॥१३॥
भोजो जगाम तं विप्रं तपन्तं तप इत्यमुम् ।
नमस्कृत्योपविष्टं तं भोजं प्राह स भूसुरः ॥१४॥
गच्छामो यत्र सा नारी वक्ष्यति स्वयमेव तत् ।
इत्यागता यत्र नारी ततः सारस्वतो द्विजः ॥१९॥
उपलिप्य च भूभागं स्वस्तिकं सन्निवेश्य च ।
सजलं कलशं न्यस्य चाग्निकार्यं निधाय च ॥१६॥
इन्द्रं देवांश्च दिक्पालान् कलशे सन्निवेश्य च ।
हुत्वाऽग्निं च चरुं कृत्वा ग्रहपूजामकारयत् ॥१७॥
अभिषेकं स्वयं चक्रे तां नारीं चाभिषेचयत् ।
तावता दिव्यदृष्ट्या सा बभाषे प्राग्भवान् बहून् ॥१८॥
भोज! त्वं सप्तमे पूर्वे जन्मनि भ्वां मया सह ।
कलिंगदेशनृपतिरहं पत्नी च बङ्गजा ॥१९॥
दुष्टात्मा त्वमनाचारो दयाधर्मविवर्जितः ।
गोभूविप्रगुरुवेददेवशास्त्रविनाशकृत् ॥२०॥
मिलित्वा च प्रजाभिस्त्वं हतो लोकविरोधकः ।
मृतं कान्त गृहीत्वाऽग्नौ प्रविष्टाऽहं मृता सह ॥२१॥
मृतं कान्तं समादाय भार्याऽग्नौ प्रविशेद् यदि ।
महीयेते ह्युभौ स्वर्गे यावदाभूतसम्प्लवम् ॥२२॥
ततस्तु मालवे देशे विप्रस्त्वं नास्तिकोऽभवः ।
अहं तु ब्राह्मणी भक्तिमती भार्याऽभवं तव ॥२३॥
त्वयाऽर्जितं धनं स्वर्णं त्यक्त्वाऽऽप्तं मरणं यदा ।
सहाऽहं न मृता लोभात् किन्तु कालान्तरे मृता ॥२४॥
श्वेतसर्पोऽभवस्त्वं वै विप्रकन्याऽभवं त्वहम् ।
परिणीताऽन्यविप्रेण विप्रं त्वमदशश्च तम् ॥२५॥
अहन्तु विधवा जाता सर्पस्त्वं मारितो जनैः ।
वैधव्यं मम दत्वा तु द्विजसर्पावुभौ मृतौ ॥२६॥
त्वं मृत्वा मकरो जातो गोदावर्यां तदाऽप्यहम् ।
तीर्थं भीमेश्वरं द्रष्टुं समायाता जनैः सह ॥२७॥
यावत् स्नातुं प्रविष्टाऽहमाकृष्टा मकरेण वै ।
लोकैः कुन्तादिघातेन मकरो विनिपातितः ॥२८॥
अहं मकरदंष्ट्राभिस्तदानीं च मृतिं गता ।
त्वं ततो लुब्धको जातोऽहं शबर्यभबद्वने ॥२९॥
अग्नेर्जलाच्च सर्पाच्च गजात् सिंहाद्धयादपि ।
रोषाद्विस्फोटकान्मृत्युर्येषां ते नरकंगमाः ॥३०॥
आत्महा भ्रूणहा स्त्रीघ्नो ब्रह्मघ्नः कूटसाक्षिणः ।
कन्याविक्रयकर्ता च मिथ्यापवाददायकः ॥३१॥
विक्रीणाति क्रतुं यस्तु मद्यं पाति द्विजस्तु यः ।
राजद्रोही स्वर्णचौरो ब्रह्मवृत्तिविलोपकः ॥३२॥
गोघ्नश्च निक्षेपहरो ग्रामसीमहरस्तु यः ।
सर्वे ते नरकं यान्ति या च स्त्री पतिवञ्चकी ॥३३॥
शबर्यहं मृता रोगात् क्रौंची जाता वने तदा ।
क्वचित् क्रौंचेन कामेन क्रीडितुमुद्यताऽभवम् ॥३४॥
तावद्व्याधेन स क्रौंचो बाणेन विनिपातितः ।
क्रौंचेन च तदा शप्तः क्रूरो भव महावने ॥३५॥
स्त्रीहीनः शार्दूलरूपो दुःखी भव पुनः पुनः ।
ततस्त्वं शार्दूलरूपो रैवते च गिराबभूः ॥३६॥
मृता दैववशात् क्रौंची मृग्यभूद् रैवते गिरौ ।
भवेश्वरात्पश्चिमे तु स्वर्णरक्षानदीजलम् ॥३७॥
पातुं चाहं समायाता दृष्टा केसरिणा तदा ।
उत्प्लुता तद्भयाच्चाहं पतिता चाऽपरं तटम् ॥३८॥
तावत् सिंहः समुत्प्लुत्य मदग्रे पतितो बलात् ।
अहं यावत्परावृत्योत्प्लवितुमुपचक्रमे ॥३९॥
पार्श्वस्थकीचकस्तम्बे जलस्थे मम मस्तकम् ।
द्वयोः कीचकयोर्मध्ये प्लवने पाशवत् ह्यभूत् ॥४०॥
शरीरं जलमध्ये मे मस्तकं वंशमध्यगम् ।
सिंहेन संधृतं कण्ठाद्दंष्ट्राभिश्च वियोजितम् ॥४१॥
यावत् सिंहोऽपि मे वर्ष्म जलमध्याद् विकर्षति ।
तावत् सैबलयोगेन पद्भ्यां सृप्त्वा जलेऽपतत् ॥४२॥
अगाधाच्च जलात् शैवालबाहुल्यात्समन्ततः ।
न निर्गन्तुं शशाकाऽसौ मृतिमापत् स केसरी ॥४३॥
स्वर्णरक्षाजले सिंहो मृतो भोजोऽभवन्नृपः ।
तस्य तीर्थप्रभावेण नृपत्वं समजायत ॥४४॥
इदं हि सप्तमं जन्म राजाभोजेति विश्रुतम् ।
लम्बते मे शिरो वंशे शरीरं जलमध्यगम् ॥४५॥
स्वर्णरेखाजले तत्र विशीर्णं मम तद्वपुः
न तु वक्त्रं निपतितं त्वङ्मांसं शिरसि स्थितम् ॥४६॥
ततोऽहं हरिणीगर्भे जाता मानुषरूपिणी ।
जातं वक्त्रं मृगीणां मे यस्मान्न पतितं जले ॥४७॥
नाऽहं हरिणकन्याऽस्ति किन्तूद्दालकसन्मुनेः ।
कन्याऽस्मि चैकदा स्वर्णरक्षायां स्नातुमागतः ॥४८॥
स तदानीं च तत्रैव योगिन्यः स्नातुमागताः ।
योगिनीभिस्तदा तत्र मुनिः परीक्षितो मुहुः ॥४९॥
कीदृशोऽयं ब्रह्मचारी दृढो वाऽदृढ इत्यमुम् ।
गृहीत्वा कण्ठपाशैश्च समाश्लिष्य मुहुर्मुहुः ॥५०॥
क्रीडयन्ति बहुरीत्या ऋषिर्न विकृतिं गतः ।
अथैका योगिनी नाम्ना कामदाहाऽभिधा तदा ॥५१॥
उद्दालकस्य देहेऽन्तःप्रविष्टा योगसद्बलात् ।
तावत्कामोऽभवद्भीतो विदुद्राव ऋषेस्तनोः॥ ॥५२॥
अन्यथा दग्धतां कुर्याद् योगिनी साऽऽन्तरस्थिता ।
कामदेवस्य विद्रावाद् योगिन्या उष्णतावशात् ॥५३॥
यौवनोद्भेदवेगाच्च सहक्रीडनकादिकात् ।
स्तम्भितोऽपि तदा धातुर्वेगाच्च पतितो जले ॥५४॥
प्रवाहेण सह धातुर्नारायणह्रदे गतः ।
तत्रैका हरिणी वारि पपौ तद्धातुमिश्रितम् ॥५५॥
तद्गर्भे मम वासोऽभूत् पूर्वकर्मानुसारतः ।
अहमुद्दालकऋषेः पुत्री जाता मृगानना ॥५६॥
योगिनीभिर्वर्धिताऽस्मि योगिनीनां सुता यतः ।
योगिन्यस्मि मृगीमुखा दिव्याऽपि मानुषी तथा ॥५७॥
राजँस्तव तथा मेऽपि सप्तमं जन्म विद्यते ।
जानात्ययमृषिः सारस्वतो योगबलाद्धि तत् ॥५८
प्रविश्याऽग्नौ मृता पूर्वे त्वया सार्धं तु सप्तमे ।
त्वां विना मे पतिर्मा भून्मरणे याचितं मया ॥५९॥
तदाऽन्तरीक्षे राजेन्द्र वागुवाचाऽशरीरिणी ।
राजाऽसौ दुष्टकर्माऽस्ति हिंस्रः क्रूरोऽतिलुब्धकः ॥६०॥
न वेदशास्त्रकुशलो दयाधर्मविवर्जितः ।
कामी मानी महाक्रोधी सत्याचारविवर्जितः ॥६१॥
न देवं न गुरुं विप्रान्न जानाति दुराशयः ।
न साधून्न च साध्वींश्च पूजयत्यतिमानवान् ॥६२॥
असत्यवादी दुष्टात्मा यज्ञधर्मविनाशकः ।
पललाशी च वै विष्णोर्निन्दको वृत्तिहारकः ॥६३॥
वेश्यागामी स्नानदानधर्मकर्मविवर्जितः ।
चण्डालतामयं प्राप्तस्तस्य पापं कियद्गुणम् ॥६४॥
गणयितुं न शक्येत तादृशः पापवानयम् ।
यद्यपि त्वं सती नारी दग्धा भवसि तेन वै ॥६५॥
ततस्त्वं सप्तजन्मानि सहयुक्ता भविष्यसि ।
किन्तु चाऽस्य महापापैः स्वर्गं नाऽस्य भविष्यति ॥६६॥
आदौ पापफलं भुक्त्वा पश्चाद् राज्यं भविष्यति ।
अष्टमं चास्य सज्जन्म देवजन्म भविष्यति ॥६७॥
तदा त्वं मानुषी भूत्वा पश्चात्स्वर्गं गमिष्यसि ।
इत्युक्त्वा सा विरराम सर्वं स्मरामि योगतः ॥६८॥
अपि मे मस्तकस्यास्ति खर्परं वंशसंस्थितम् ।
यदि वस्त्रापथे गत्वा शिरः कश्चिद् विमुञ्चति ॥६९॥
स्वर्णरक्षाजले राजन् मानुषं स्यान्मुखं मम ।
अस्म्यहं मानुषवक्त्रा दृश्यतेऽन्यैर्मृगानना ॥७०॥
पापच्छायावृतं चैतन्मृगाकृतिमुखं मम ।
श्रुत्वैतद्भोजराजेन प्रतीहारस्तु तत्स्थलम् ॥७१॥
प्रेषितस्तेन दृष्टं तत् स्वर्णरेखाजलोपरि ।
वर्तते तन्मृगशिरो वंशप्रोतं महावने ॥७२॥
गृहीत्वा पातितं यावत् स्वर्णरेखाजले तदा ।
भोजराजगृहे तस्या मुखं चन्द्रसमं शुभम् ॥७३॥
मानुष चाऽभवद् दिव्यं पद्मपत्रसुलोचनम् ।
सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम् ॥७४॥
कम्बुग्रीवं पद्मगन्धं सर्वलक्षणसंयुतम् ।
न देवी न च गान्धर्वी नाऽऽसुरी न च किन्नरी ॥७५॥
यादृशी सा तदा जाता तीर्थभावेन सुन्दरी ।
परिणीता तु सा तेन भोजराजेन सुन्दरी ॥७६॥
मृगाननेति विख्याता देवी सा भोजसुन्दरी ।
कुताऽसौ पट्टमहिषी भोजराजेन धीमता ॥७७॥
देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ।
क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम् ॥७८॥
गंगासरस्वतीरेवाः स्वर्णरेखाजले स्थिताः ।
ब्रह्मा विष्णुश्च सूर्यश्च सर्वे रुद्रादयः सुराः ॥७९॥
नागा यक्षाश्च गन्धर्वा अस्मिन् क्षेत्रे व्यवस्थिताः ।
स्वर्णरक्षानदीवार्षु स्नात्वा नारायणे ह्रदे ॥८०॥
मृगीतीर्थे तथा स्नात्वा कुण्डे दामोदराभिधे ।
तथा च रेवतीकुण्डे स्नात्वा स्वर्मोक्षमाप्नुयात् ॥८१॥
गंगा सरस्वती पुण्या यमुना स्वर्णरूपिणी ।
नद्यामागत्य तिष्ठन्ति दृश्यन्ते स्वर्णपत्रिकाः ॥८२॥
सरस्वती स्वर्णरूपा गंगा रजतपत्रिकाः ।
यमुना ताम्रपत्राणि नद्यप्सु प्रचकासति ॥८३॥
एवं सुवर्णरक्षाख्या स्वर्णरेखाभिरन्विता ।
सरित् सा रैवते भूध्रे वर्तते मोक्षदायिनी ॥८४॥
ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ।
स्वर्णरेखाजले स्नात्वा मुच्यते सर्वपातकैः ॥८५॥
ये च कीटपतंगाद्याः स्वर्णरेखाजले मृताः ।
वृक्षवल्लीतरुगुल्मास्तेऽपि यान्ति परां गतिम् ॥८६॥
भोजः सारस्वतं विप्रं स्तुत्वा वचनमब्रवीत् ।
ब्रह्मा विष्णुर्हरः सूर्यं इन्द्रोऽग्निर्मरुतां गणाः ॥८७॥
ब्रह्मचर्येण तपसा त्वया सन्तोषिताः प्रभो ।
त्वया सह मया चापि यात्रार्थं रैवते गिरौ ॥८८॥
कृपा चेत् तर्हि गन्तव्यं कृतार्थश्च भवाम्यहम् ।
किं ग्राह्यं किं च भोक्तव्यं किं देयं किं न दीयते ॥८९॥
तीर्थोपवासः स्नानं च सन्ध्यास्नानविधिक्रमः ।
पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद ॥९०॥
इति सारस्वतः पृष्ठो भूभृता प्राह तद्विधिम् ।
दानादिकं फलं सर्वं प्राह विप्रो यथातथम् ॥९१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पूर्वकृतयुगे भोजाख्यराज्ञस्तत्पत्न्याश्च मृगाननायाः सप्तजन्मवृत्तान्तमुखेन स्वर्णरक्षानद्या माहात्म्यवर्णननामोनपंचाशदधिकशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP