संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २५३

कृतयुगसन्तानः - अध्यायः २५३

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
कालो माया तथाऽऽत्मानः शक्तयः सन्ति यस्य ताः ।
नमस्तस्मै भगवते शक्तिस्वामिपरात्मने ॥१॥
योगिनीफलदात्रे ते योगपुण्यफलात्मने ।
योगिलभ्याय योगाय योगिनीपतये नमः ॥२॥
त्वमेव फलदाताऽसि त्वमेवाऽसि च मुक्तिकृत् ।
त्वमेवाऽधिपतिश्चासि नमस्तस्मै महात्मने ॥३॥
सर्वदेवस्वरूपस्त्वं सर्वतीर्थात्मकोऽसि च ।
सर्वव्रतात्मकस्त्वं वै तस्मै सर्वात्मने नमः ॥४॥
आषाढस्य सिते पक्षे किंनाम्न्येकादशी भवेत् ।
को देवः को विधिस्त्वस्याः फलं दानं च मे वद ॥५॥
श्रीनारायण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् ।
शयनीं नाम नाम्ना तु सर्वपापविनाशिनीम् ॥६॥
नियमां भामिकां चापि तामेव विद्धि नामतः ।
यस्या व्रतेन पापात्मा पूतो भवति तत्क्षणात् ॥७॥
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ।
अतः परा न चान्यास्ति स्वर्गमोक्षप्रदा शुभा ॥८॥
अस्यास्त्वधिपतिर्देवो वामनोऽस्ति हरिस्ततः ।
कमलाख्यप्रियायुक्तः पूजनीयो हि वामनः ॥९॥
वामनः पूजितो येन कमलैः कमलेक्षणः ।
नियमाख्यशयन्यां तु तेनार्चितं जगत्त्रयम् ॥१०॥
त्रयो देवाः पूजिताश्च पूजिताः सर्वदेवताः ।
कृता त्वेकादशी येन हरिवासर उत्तमः ॥११॥
आषाढशुक्लैकादश्यां शेते क्षीरनिधौ हरिः ।
सर्वेन्द्रियप्रवाहाँस्तु परावृत्यातियोगतः ॥१२॥
तस्य पूजा त्वपामार्गैः पूरिकादिनिवेदनैः ।
नालिकेरीफलाद्यैश्च स्वर्णगोदानपूर्विका ॥१३॥
कर्तव्या व्रतिना भक्त्या नियमग्रहणं तथा ।
श्रूयतां च महालक्ष्मि! कथा पुण्यप्रदायिनी ॥१४॥
बलिर्वै दानवः पूर्वमासीत् त्रेतायुगे प्रिये ।
पूजयँश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥१५॥
यज्ञैस्तु बहुभिर्दैत्यो विधिना यजति स्म माम् ।
परया स्नेहसद्भक्त्या व्रतोपोषणपूजनैः ॥१६॥
एवं पुण्यप्रभावेण ममोपासनया तथा ।
रसातलात्समायातः पृथिव्यां स नृपोऽभवत् ॥१७॥
पृथ्व्यां चापि मम पूजाबलेन वर्धितोऽभवत् ।
स्वर्गं तेनैव देहेन ययौ पुण्यप्रभावतः ॥१८॥
कृतं राज्यं वशे स्वस्य स्वर्गभूलोकसंयुतम् ।
इन्द्रादयोऽपि तस्याऽग्रे त्वभवन्निर्बलाः सुराः ॥१९॥
दानवा वर्धिताः पुष्टास्त्रिलोक्यामभवन्नृपाः ।
इन्द्रादिभिस्तदा देवैरर्थितः परमेश्वरः ॥२०।
हरिः शंभुस्तथा ब्रह्मा तैस्तु युक्तिः परा कृता ।
बलिः करोतु यज्ञं च दाता भवतु चाध्वरे ॥२१॥
भूत्वा तु भिक्षुकः कृष्णो महीभिक्षां करोतु सः ।
एवं तु समयं कृत्वा यज्ञार्थं प्रैरयद् बलिम् ॥२२॥
ऋषयो मुनयो देवा ह्यहं सर्वे गताः कृतौ ।
रेवताचलसान्निध्ये यत्र यज्ञः प्रवर्तते ॥२३॥
तत्र वामनरूपेण ह्यवतारे हि पंचमे ।
अतिमहत्स्वरूपेण सर्वब्रह्माण्डयोगिना ॥२४॥
वाक्छलेन जितो दाता सत्यमाश्रित्य यः स्थितः ।
शुक्रस्तं वारयामास यन्नारायण इत्यहम् ॥२५॥
याचिता वसुधा लक्ष्मि मया सार्धपदत्रया ।
संकल्पोदकमात्रे तु करे तेनैव चार्पिते ॥२६॥
रूपं ब्रह्माण्डपूर्णं वै तदा लक्ष्मि मया कृतम् ।
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ॥२७॥
स्वर्लोके तु कटिं कृत्वा महर्लोके तदोदरम् ।
जनलोके तु हृदयं तपोलोके गलं तथा ॥२८॥
सत्यलोके मुखं न्यस्य वैराजे मस्तकं न्यधाम् ।
सूर्यचन्द्रग्रहतारा नक्षत्रधूम्रकेतवः ॥२९॥
देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः ।
अस्तुवन्वेदमन्त्रैस्ते सूक्तैश्च विविधैस्तदा ॥३०॥
बलिं धृत्वा करे तत्र पदेनाऽऽपूरिता मही ।
द्वितीयेन स्वराप्तं चाण्डकटाहसमन्वितम् ॥३१॥
तृतीयं तु बलेः पृष्ठे तदा न्यस्तं पदं मया ।
गतो रसातलं लक्ष्मि दानवो मम पूजकः ॥३२॥
न्यस्तो रसातले राज्ये सोऽपि मामभजत्ततः ।
प्रार्थयन्मां भवने स्वे सदा स्थातुं स भक्तराट् ॥३३॥
तदाऽहं विनयी भूत्वा निजभक्तपरायणः ।
अकुर्वित्युभयं रूपं त्वेकेन तद्गृहे स्थितः ॥३४॥
अपरेण स्वरूपेण शेषे शयनमास्थितः ।
अषाढशुक्लैकादश्यां शयनं श्रमनुत्तये ॥३५॥
नैमित्तिकं गृहीतं वै मया तस्माद्दिनात्ततः ।
भक्तास्तां शयनीं प्राहुस्त्वेकादशीं सुपुण्यदाम् ॥३६॥
इत्येवं शेषपृष्ठे वै क्षीरसागरमध्यतः ।
स्वपिम्यहं महालक्ष्मि यावदागामिकार्तिकी ॥३७॥
चातुर्मास्यं तु तत्प्रोक्तं भुक्तिमुक्तिप्रदं परम् ।
शयनीव्रतकृच्चापि भुक्तिंमुक्तिमवाप्नुयात् ॥३८॥
शयनीं तु समारभ्य चातुमास्यावधिं पुमान् ।
तावद्भवेत्सुधर्मात्मा व्रतादिनियमी यमी ॥३९॥
नाऽतः परतरं किंचिद्व्रतं यावद्व्रतोत्तमम् ।
यत्र स्वपिति देवेशः शंखचक्रगदाधरः ॥४०॥
एवं यः कुरुते लक्ष्मि! शयन्यास्तु व्रतोत्तमम् ।
सर्वपापहरं चापि भुक्तिमुक्तिप्रदायकम् ॥४१॥
स तु क्षुद्रोऽपि मे लोके जायते मे प्रियंकरः ।
दशम्यामेकभुक्तेन नक्तेनापि सुवर्तयेत् ॥४२॥
रात्रौ च ब्रह्मचारी स्यात्प्रातर्वै ब्राह्मसंज्ञके ।
काले तूत्थाय भगवत्स्मरणं संविधाय च ॥४३॥
स्नात्वा देवार्चनं कृत्वा षोडशोपसुवस्तुभिः ।
पूजाया नैत्यकं सर्वं समाप्याथ स्वयं व्रती ॥४४॥
कारयेन्नवधान्यैस्तु सर्वतोभद्रमण्डलम् ।
मध्ये स्वर्णघटं पञ्चरत्नपल्लवसंयुतम् ॥४५॥
जलवस्त्रफलाढ्यं वै स्थापयेत् तं प्रपूजयेत् ।
तिलपात्रं स्थापयित्वा वामनं तत्र पूजयेत् ॥४६॥
कमलां शयनीं चापि पूजयेद् बहुवस्तुभिः ।
आवाहनादिकं कुर्यात् पञ्चामृतसुसेचनम् ॥४७॥
वस्त्रालंकारभूषादिहारचन्दनकज्जलम् ।
सर्वशृंगाररागाँश्च त्वर्पयेत्तिलकादिकम् ॥४८॥
धूपदीपसुनैवेद्यजलताम्बूलसत्फलम् ।
नीराजननमस्कारस्तुतिबन्दिक्षमापनम् ॥४९॥
विसर्जनांऽजलिं दत्वा स्वीयव्रतस्य पूर्तये ।
निर्विघ्नं मे व्रतं चास्तु प्रार्थयेदेवमेव ह ॥५०॥
बलद्रव्यानुसारेण महापूजादि कारयेत् ।
मण्डपं कारयेद्रम्यं राज्यमण्डपसन्निभम् ॥५१॥
वैष्णवान्पूजयेत्प्रातर्दानानि प्राऽर्पयेत्तथा ।
साधूनामग्रतः स्थित्वा चातुर्मास्यव्रतानि च ॥५२॥
धारयेन्नियमाँश्चापि सुखमोक्षकराँस्तदा ।
जैह्वशैश्ननियमान् संगृह्णीयात्तु तपःकृते ॥५३॥
हर्यग्रे वा गुरोरग्रे गृह्णीयान्नियमान् व्रतम् ।
शारीरनियमौंस्तद्वन्मानसान्सयमाँस्तथा ॥५४॥
भोग्यभौतिकनियमान्मुक्तिदान्नियमानपि ।
व्रतानि दाननियमान्गृह्णीयात्प्रातरेव हि ॥१५॥
इन्द्रियाणां मनसश्च वृत्तीनां संयमस्तपः ।
अभ्यासेन तु कर्तव्यश्चातुर्मास्ये विशेषतः ॥५६॥
विषयाः परिहर्तव्याः क्षोभका विघ्नकारिणः ।
रसपुष्टिर्न वै कार्या यतः सा क्षोभिका मता ॥५७॥
रसो जैह्व्यो महान् दोषः सर्वेन्द्रियसुपुष्टिकृत् ।
जेतव्यः स विशेषेण चातुमास्यव्रतार्थिभिः ॥५८॥
फलाहारः पयःपानं ह्येकान्नमेकभोजनम् ।
शाकाहारः शाकवर्ज्यो घृतत्यागोऽथवा तपः ॥५९॥
दधित्यागस्तिलत्यागो दधिप्राशस्तिलादनम् ।
कन्दाहारः कणाहारो भाजाहारो दलादनम् ॥६०॥
जलाहारः शर्करायास्त्यागो गूढस्य नीरसः ।
श्रावणे शाकवर्ज्यं च भाद्रे दधिविवर्जितम् ॥६१॥
आश्विने दुग्धहीनं च कार्तिके द्विदलोज्झितम् ।
भुञ्जीत मूलकं कन्दं वृन्ताकं न कलिंगकम् ॥६२॥
वर्जयेद् व्रतमेवोक्तं चातुर्मास्ये शुभे तपः ।
धारणापारणाख्यं वा व्रतं प्रोक्तं महाफलम् ॥६३॥
मौनं धार्यं कथा कार्या हरेर्नाम्ना च मालिकाः ।
उच्चारणेन युक्ताश्चाऽऽवर्तनीयाः शतंमिताः ॥६४॥
रूपाणां दर्शनं नातिकर्तव्यं चक्षुषोर्व्रतम् ।
शब्दानां श्रवणं नातिकर्तव्यं कर्णयोर्व्रतम् ॥६५॥
गन्धास्तु राजसा नातिग्राह्यास्तन्नासिकाव्रतम् ।
नारीनरमिथःस्पर्शो नातिकार्यस्त्वचो व्रतम् ॥६६॥
चातुर्मास्ये सदैकत्र वस्तव्यं पादयोर्व्रतम् ।
पत्रशाखाद्यभंगश्च हस्तयोः परमं व्रतम् ॥६७॥
वीर्यादेः रक्षणं त्वेतद् ब्रह्मचर्यं महद् व्रतम् ।
वातुलं तामसं नाऽदनीयं दैह्यं महत्तपः ॥६८॥
पञ्चाग्नितपनं वृक्षालम्बनं सूर्यदर्शनम् ।
एकपादेन संस्थानं हस्तस्योर्ध्वविधापनम् ॥६९॥
अधोमस्तकताधारो नखाद्यकर्तनं तपः ।
केशानां वर्धनं भस्मधूलीकर्दममर्दनम् ॥७०॥
अनुपानत्तया स्थेयं विवस्त्रेण विशेषतः ।
जलधारातले स्थेयं जले स्थेयं तथाऽऽतपे ॥७१॥
अविताने सदा स्थेयं वृक्षाधोवास इत्यपि ।
भूमौ वासो भूशयनं वालुकाशयनं तथा ॥७२॥
बाणशय्या लोहशय्या कण्टके शयनं तथा ।
अशयनमनिद्रा च जलपानं तु नो पुनः ॥७३॥
स्नानं त्रिषवणं चैव मूर्तेश्चापि विचिन्तनम् ।
ध्यानं च स्मरणं चापि पूजनं पञ्चधा दिने ॥७४॥
मन्त्रजपस्तदर्थस्याभिध्यानं मानसं तपः ।
ऐकाग्र्यं धारणा चेति कर्तव्यं तु विशेषतः ॥७५॥
अहिंसा मनसा वाचा शरीरेणापि सर्वथा ।
जात्या देशेन कालेन प्रसंगेनापि वर्जिता ॥७६॥
तृणच्छेदोपि नो कार्यो व्रतं चाऽहिंसनं हि तत् ।
अद्रोहः सर्वभूतानामनिन्दा च महद्व्रतम् ॥७७॥
अन्यवृत्ताऽनवलोकनादिकं परमं व्रतम् ।
सत्यं प्रियं हितं तथ्यं सुखकृद्वचनं तपः ॥७८॥
अस्तेयं सर्वथा सर्वैरिन्द्रियैर्मनसा तपः ।
कामनाया विचारस्यानुद्भवः परमं तपः ॥७९॥
अग्राह्यं तु न रक्ष्यं वै किंचिच्चापि महत्तपः ।
भिक्षानिर्वाह एवास्तु देहयात्रा परं तपः ॥८०॥
यदृच्छया तु संलाभे त्वनासक्तिर्महत्तपः ।
परसौख्यप्रदातृत्व परोपकरणं तपः ॥८१॥
परार्थं च दयालुत्वं देहेनापि परं तपः ।
शौचं ज्ञानजलाभ्यां च नैर्मल्यं परमं तपः ॥८२॥
अकापट्यं हृदि वाचि क्रियायामेकता तपः ।
सन्तोषो नातितृष्णत्वमनाशा परमं तपः ॥८३॥
स्वीये तृप्तिः परकीये प्रौदासीन्यं परं तपः ।
मोक्षमार्गावलम्बस्तु तपसां तप उत्तमम् ॥८४॥
अक्लेशः सर्वदा शान्तिरक्रोधस्तु महद्व्रतम् ।
अनुद्वेगोऽनधिक्षेपो नाऽऽक्रोशो नकलित्तपः ॥८५॥
अलुंचाग्रहणं नान्यद्रव्याशा मानसं तपः ।
ईशदत्ते सदा तृप्तिः परकीये न वाञ्च्छना ॥८६॥
भोग्यं नार्यादिकं त्याज्यं खट्वागेन्दुकपार्श्वकम् ।
सुगन्धस्तैलमर्दादि भूषणं च सुरूपणम् ॥८७॥
वस्त्रशृंगारसन्त्यागो भोगत्यागो विशेषतः ।
भोग्यसाधनसंत्यागो देहिनां परमं तपः ॥८८॥
यानवाहनधूम्रादिपानद्यूतसुनाटनम् ।
व्यसनं मिष्टपानं च त्याज्यं चेति परं तपः ॥८९॥
चातुर्मास्ये प्रतिपातः साधूनां चरणामृतम् ।
पातव्यं च प्रसादश्च भक्षणीयं इतिव्रतम् ॥९०॥
साधूनां च सतीनां च साध्वीनां पूजनं तथा ।
पादयोर्मर्दनं त्वंगवाहनं मुक्तिदं व्रतम् ॥९१॥
देहेन मनसा वाण्या धनेनान्नेन वाससा ।
पुत्रेण प्रियया साकं तोषणं वै महद्व्रतम् ॥९२॥
दर्शनं स्पर्शनं नित्यं नमनं पादसेवनम् ।
पूजनं भोजनं साधोस्तोषणं तन्महद्व्रतम् ॥९३॥
सतां निकटे संवासः स्नानज्ञानक्रियादिषु ।
शुश्रूषणं सदा कार्यं पावनाः साधवो यतः ॥९४॥
देवसेवा पितृसेवा साधुसेवा महाव्रतम् ।
पत्नीतोषः स्वामिसेवा व्रतं पत्युः प्रतोषणम् ॥९५॥
यस्यापेक्षितमेवैतद्दातव्यं प्रेमगर्भितम् ।
अक्षयं तस्य पुण्यं स्यात् तस्मान्नास्ति परं व्रतम् ॥९६॥
स्वाश्रितानां तोषणं च स्वर्णाऽन्नज्ञानकाऽर्पणम् ।
ग्रामक्षेत्रमणिरत्नोद्यानाऽऽलयजलार्पणम् ॥९७॥
देहेन सेवनं नित्यं सार्वभौमं व्रतं भवेत् ।
क्षमा दयाऽनसूया चाऽनीर्ष्या दोषविवर्जनम् ॥९८॥
गुणग्राहो यशःकीर्तिकारिता परमं तपः ।
अमानित्वं मानदत्वं समानात्माऽवलोकनम् ॥९९॥
अनौष्ण्यं वैपरीत्येऽपि शैत्यं नाप्यनुकूलके ।
हर्षाऽमर्षभयोद्वेगवर्जनं परमं तपः ॥१००॥
फलधान्यदलपत्रपुष्पकणतृणादिकम् ।
अर्पणीयं श्रीहरये नवं नित्यं व्रतं महत् ॥१०१॥
काष्ठकरीषशाखाप्रशाखानालकरण्डकम् ।
प्रत्यहं त्वर्पणीयं तद् यथायोग्यं शुभं व्रतम् ॥१०२॥
शाकपाकसुमिष्टान्नलवणार्द्रकधानकम् ।
भर्जितं तण्डुलाद्यं च देयं नित्यं तु तद् व्रतम् ॥१०३॥
खाद्यं पेयं भक्ष्यभोज्ये चोष्यं स्वाद्यं च लेह्यकम् ।
दुग्धं दधि रसो मिष्टः कणा देया व्रतं महत् ॥१०४॥
वस्त्रं भूषा कज्जलं चन्दनं चात्तरमुत्तमम् ।
कस्तूरी कुंकुमं चूर्णं देयं त्वलक्तकं व्रतम् ॥१०५॥
एतानि स्वर्गदान्यत्र सुखदानि व्रतानि वै ।
श्रीहरेः स्मरणं भक्तिः पूजनं च निवेदनम् ॥१०६॥
द्वात्रिंशद्भिरुपचारैरर्चनं मुक्तिदं व्रतम् ।
परोपकरणं कृष्णबुद्ध्या पुण्यप्रदं व्रतम् ॥१०७॥
यजनं विविधैर्यज्ञैर्दीनानां च सहायता ।
कूपानां खननं वृक्षारोपणं चापि तद् व्रतम् ॥१०८॥
मार्गाणां चापि निर्माणं त्वाश्रमस्थलबन्धनम् ।
आश्रयसत्रशालादिनिर्माणं स्वर्गदं व्रतम् ॥१०९॥
कलाकौशल्यशिक्षा च कृष्युत्तेजनमित्यपि ।
यन्त्रवाहोपकारादि स्वर्गदं सुखदं व्रतम् ॥११०॥
मत्स्यपिपीलीकादीनां पिष्टदानं सदाव्रतम् ।
वृक्षाणां जल्रसेकश्च तृषितानां जलार्पणम् ॥१११॥
क्षुधितानां भोज्यदानं नग्नानां वाससोऽर्पणम् ।
आर्तानां विविधानां तु तदार्तिशमनं व्रतम् ॥११२॥
रोगिणामोषधदानं वृत्तिदानं च जीविका ।
पोषणं पालनं चापि रक्षणं परमं व्रतम् ॥११३॥
नित्यमध्यात्मयोगस्याऽभ्यसनं शास्त्रवाचनम् ।
कृष्णकथाश्रवणं च मोक्षदं परमं व्रतम् ॥११४॥
दण्डवच्च नमस्काराः प्रदक्षिणं च तद् व्रतम् ।
दीपदानं वारिदानं नैवेद्याद्यर्पणं व्रतम् ॥११५॥
नित्यं फलार्पणं धान्यार्पणं चापि रसार्पणम् ।
शर्कराखण्डिकागूडमध्वाद्यर्पणकं व्रतम् ॥११६॥
मार्जनं लेपनं स्वच्छीकरणं मंजनं व्रतम् ।
पात्रवस्त्रक्षालनं च नीराजनसमर्पणम् ॥११७॥
नेत्रैर्मूर्तेः प्रपानं च प्रपासत्रादिचालनम् ।
मन्दिराग्र्ययसुसौधादिनिर्माणं परमं व्रतम् ॥११८॥
चित्राद्यं शिल्पिताद्यं च वयनं भगवत्कृते ।
ग्रथनं ग्रन्थरचनं छन्दश्लोकादिवर्णनम् ॥११९॥
व्याख्यानं कथनं भक्तवाञ्च्छापूरणकं व्रतम् ।
सुखदं स्वर्गदं मोक्षप्रदं चोपकृतिर्व्रतम् ॥१२०॥
व्रतान्यन्यानि वक्ष्यामि शृणु लक्ष्मि! तपांसि वै ।
चातुर्मास्ये कथा श्रव्या भोजनीयाश्च साधवः ॥१२१॥
नित्यं कार्या महापूजा व्रतत्रयं सुसिद्धिदम् ।
श्रीकृष्णस्य महापूजा नित्यं कार्या महद्व्रतम् ॥१२२॥
शतादिसंख्यया मालाऽऽवर्तनं मम नामतः ।
भक्तपूजा हविर्होमोऽर्चासेवा मोक्षदं व्रतम् ॥१२३॥
अहन्ताममतात्यागो ब्रह्मचर्यप्रपालनम् ।
पायसैक्षवलावण्यफालेयवर्जनं व्रतम् ॥१२४॥
कृष्णसम्बन्धिधर्मो यस्तदव्रतं मे परं मतम् ।
कृतेन व्रतिना येन भगवाँस्तज्जनास्तथा ॥१२५।
प्रीयेरँस्तद्व्रतं प्रोक्तं कर्तव्यं तु तदेव यत् ।
कार्तिके शुक्लपक्षेऽथ द्वादश्यां देवपूजनम् ॥१२६॥
कृत्वा भगवतस्त्वग्रे निवेद्यं भक्तिभावतः ।
इदं व्रतं मया देव कृतं त्वत्प्रीतये प्रभो ॥१२७॥
न्यूनं सम्पूर्णतां यातु तेन तुष्टो भवेर्मयि ।
एवं समाप्य नियमान् पारणामाचरेत्ततः ॥१२८॥
प्रातःस्नानं देवपूजां नित्यं वृद्धाभिवन्दनम् ।
संविभज्याऽऽश्रितानां च भोजनादिविधापनम् ॥१२९॥
अक्लेशश्च सुमेलश्च कुटुम्बे स्नेहिता त्वति ।
मिष्टं चेष्टं गृहं यस्य स्वर्गं तस्यास्ति भूतले ॥१३०॥
व्रतेषु यद्व्रतं चातुर्मास्येऽतिवाञ्छितम् भवेत् ।
कर्तव्यं तच्छयनीप्रभातमारभ्य सर्वथा ॥१३१॥
मध्याह्णे हरये दद्याद् भोजनं सुजलं तथा ।
ताम्बूलं मिष्टपानं च सायं चापि तथाऽऽचरेत् ॥१३२॥
आरार्त्रिकं स्तवनं च दोलारोहणमित्यपि ।
आन्दोलयेद्धरिं तत्र भोजयेद्दुग्धपूरिकाः ॥१३३॥
रात्रौ जागरणं कुर्यान्नृत्यगीतकथामृतैः ।
द्वादश्यां ब्राह्मकाले च स्नात्वा कृष्णार्चनं चरेत् ।! १३४
दानानि स्वर्णमुख्यानि दद्यात् कुर्याच्च पारणाम् ।
भोजयेत्तु सतः साध्वीस्तोषयेद्विनयान्वितः ॥१३५॥
एवं त्वाषादशुक्लाया व्रतं सनियमं शुभम् ।
कर्तव्यं सर्वयज्ञानां फलदं भुक्तिमुक्तिदम् ॥१३६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आषाढशुक्लशयन्येकादशीव्रतमाहात्म्यं वामनावतारकृतशयनं चातुर्मास्ये चापि यमनियमसंयमव्रतदमनतपःशोषणत्यागसेवनदानोपकारादिसद्व्रतादि चेति निरूपणनामा त्रिपंचाशदधिकद्विशततमोऽध्यायः ॥२५३॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP