संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ७९

कृतयुगसन्तानः - अध्यायः ७९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
ब्रह्मणो मानसः पुत्रोऽत्रिऋषिर्लोकविश्रुतः ।
काष्ठवदूर्ध्वबाहुः सँस्तपश्चचार दुश्चरम् ॥१॥
त्रीणि वर्षसहस्राणि दिव्यानि विगतानि वै ।
तस्याऽनिमिषनेत्राभ्यां तपस्तेजोमयं जलम् ॥२॥
सुस्राव द्योतयन्दश दिशः कान्त्या सुदुग्धया ।
तं तु जलात्मकं गर्भं दिशो विध्याज्ञया दश ॥२॥
दधुस्तथाप्यशक्तास्तद्धारणेऽतो जलं हि तत् ।
घनीभूतं शुक्लवर्णं शीतहिमसुगोलकम् ॥४॥
पतितं वै पृथिव्यां तत् समादाय तु पद्मजः ।
रथमारोपयामास लोकानां हितकाम्यया ॥५॥
तुष्टुवुर्ब्रह्मणः पुत्राः पुलस्त्यः पुलहः क्रतुः ।
भृगुरंगिरा मरीचिर्वशिष्ठाश्चेति मानसाः ॥६॥
ऋग्भिर्यजुभिर्बहुभिरथर्वांगिरसैरपि ।
एवं विवर्धमानस्य तेजः सोमस्य बृंहितम् ॥७॥
आर्द्रीकुर्वच्च लोकाँस्त्रीन्सर्वत्र पुष्टिमादधत् ।
शुक्लं शीतं च तेजस्तत्पृथिवीमन्वपद्यत ॥८॥
ओषध्यस्ताः समुद्भूतास्तेजसा पोषणं गताः ।
ब्रह्मणाऽपि रथो वाजिसहससहितः शुभः ॥९॥
सोमायाऽर्पित एवेति तेन प्रोच्चरिते दिवि ।
एवं पोष्टाऽभवद् देवो जगतः सर्वदेहिनाम् ॥१०॥
तपस्तेपे पुनश्चन्द्रः पद्मानां दशतीर्दश ।
हिरण्यवर्णा लक्ष्म्यस्तु धारयन्त्यात्मना जगत् ॥११॥
विभुस्तासां धरः सोमो बभार ताः स्वतेजसा ।
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ॥१२॥
बीजौषधिषु सर्वासु चाऽप्सु विप्रेषु रात्रिषु ।
स तत्प्राप्य महद्राज्यं सोमः सोमवतां प्रभुः ॥१३॥
यज्ञं चक्रे राजसूयं सहस्रशतदक्षिणम् ।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमाप्तवान् ॥१४॥
सदस्यस्तत्र भगवान् हरिर्नारायणः स्वयम् ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥१५॥
दक्षिणायां त्रिलोकान्वै सोमोऽर्पयन्तु सर्वथा ।
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः ॥१६॥
कीर्तिर्द्युतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।
प्राप्याऽवभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥१७॥
अतिराजातिराजेन्द्रः प्राप्यैश्वर्यं तु गर्वितः ।
पत्नीं बृहस्पतेस्तारानाम्नीं जहार कामतः ॥१८॥
स याच्यमानो देवैश्च देवर्षिभिश्च वै पुनः ।
नैव व्यसर्जयत्तारां बृहस्पतय इत्यत ॥१९॥
शुक्रो बृहस्पतेर्द्वेषादग्रहीत्सासुरोडुपम् ।
हरो गुरुसुतं स्नेहात्सर्वभूतगणावृतः ॥२०॥
सर्वदेवगुणोपेतो महेन्द्रो गुरुमन्वयात् ।
जग्राह तेन रुद्रोऽपि स्वीयमाजगवं धनुः ॥१॥
सुराऽसुरविनाशोऽभूत्सर्वेषां कदनं महत् ।
संजातं च तदा दैवास्तुषितानामकाश्च वै ॥२॥
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।
ततो निवार्योशनसं रुद्रं ज्येष्ठं च शंकरम् ॥२३॥
ददौ बृहस्पतये तु तारां स्वयं पितामहः ।
अन्तर्वत्नीं च तां तारां दृष्ट्वा प्राह बृहस्पतिः ॥२४॥
तारे! चन्द्रमसो गर्भं समुत्सृज्य त्विमं बहिः ।
तारा नाऽवसृजत्तं तु कुमारं दस्युहन्तमम् ॥२५॥
तदा बृहस्पतिर्गर्भाकर्षणं त्वकरोत्स्वयम् ।
जातमात्रः सचेताः स देवेभ्योऽप्यतिभास्वरः ॥२६॥
अभात् स रूपवान् सर्वदेवाधिदेवसदृशः ।
तं विलोक्य बृहस्पतिर्लुलोभ पुत्रके नवे ॥२७॥
ममाऽयमिति जग्राह पुत्रः प्राह न तेऽस्म्यहम् ।
अहं चन्द्रमसः पुत्रो मा मां स्पृश बृहस्पते! ॥२८॥
तदानीं ब्रह्मणा पुत्रः सोमायैव समर्पितः ।
बुध इत्यकरोन्नाम तस्य पुत्रस्य चन्द्रमाः ॥२९॥
बुधस्येलाख्यपत्न्यां तु पुत्रः पुरुरवा ह्यभूत् ।
तस्य रूपगुणौदार्यशीलौजस्कपराक्रमान् ॥३०॥
नारदेनेन्द्रभवने गीयमानान्महागुणान् ।
श्रुत्वौर्वशी मनश्चक्रे पुरूरवसमीक्षितुम् ॥३१॥
मित्रावरुणौ तत्राऽऽस्तां गायकौ तु तया सह ।
ऊर्वश्या तु मनस्तत्र मानुषे संगतं परम् ॥३२॥
ज्ञात्वा तु मित्रावरुणौ प्राहतुरूर्वशीं प्रियाम् ।
देवौ विहाय मानुष्ये स्वैरिण्याश्चलते मनः ॥३३॥
तस्मात्स्वर्गादधो गच्छ नरेण संगता भव ।
एवं शापात्तु द्रागेव स्वर्गादूर्वश्यधोगता ॥३४॥
भूमौ तु मार्गयामास पुरूरवसमेव सा ।
कोकिलालापमधुरवीणयोपवने जगौ ॥३५॥
तादृशीमूर्वशीं तत्र राजा पुरूरवस्तदा ।
उवाच सुन्दरीं दृष्ट्वा भार्या मम भवेति च ॥३६॥
साऽपि तत्र सकामाऽऽसीत् ततस्तं प्रत्यभाषत ।
भवत्वेवं महाराज! समयं यदि मे भवान् ॥३७॥
करोतु चेन्निवसामि करोमीत्यब्रवीन्नृपः ।
ऊर्वशी प्राह मेषौ द्वौ पुत्रभूतौ मतौ मम ॥३८॥
यावद् रक्षिष्यसि राजँस्तावद्वत्स्यामि ते गृहे ।
न नग्नो दृश्यसे राजन् कामादन्यत्र वै क्षणे ॥३९॥
नोच्छिष्टं मे यावद् दद्यास्तावद्वत्स्यामि तेऽन्तिके ।
अत्स्यामि घृतमात्रं वै रमिष्ये च त्वया सह ॥४०॥
एवमस्त्विति राजोक्त्वा जगृहे तत्करं वरम् ।
विमाने तां समारोप्याऽलकायां तु हिमालये ॥४१॥
वने चैत्ररथे पृथ्व्यां सरित्सु च सरस्सु च ।
अन्तरीक्षे च मेरौ च मानसेऽपि सरोवरे ॥४२॥
कमलानां वने कुन्दवने च रैवताचले ।
सरस्वतीतटे तद्वद् रेमे वर्धितरागतः ॥४३॥
एकषष्टिं स वर्षाणि रममाणां ह्यरंजयत् ।
सापि स्वर्गं तु विस्मृत्य तस्मिन्नेव स्पृहावती ॥४४॥
नाऽमन्यत देवलोकं रमणीयं च तं विना ।
अथ विश्वावसुनामा गन्धर्वस्तां विनाऽऽकुलः ॥४५॥
तामानेतुं स्वर्गलोकाद्भूर्लोकमगमत् क्षणात् ।
ऊर्वश्या सह राज्ञस्तु कृतं वाक्समयं ततः ॥४६॥
विदित्वा सह गन्धर्वैः संयुतश्च निशान्तरे ।
ऊर्वश्याः शयनाभ्याशाज्जहारोरणकं जवात् ॥४७॥
ऊर्वश्याहोरणः केन गृह्यते त्यज्यतामयम् ।
पुरूरवास्तदा श्रुत्वा वस्त्रहीनो विचार्य वै ॥४८॥
मां न नग्नं निरीक्षेत देवीति न ययौ तदा ।
जहाराऽन्यं तु तन्मेषं विललापोर्वशी तदा ॥४९॥
अनाथाया मम बालौ गृह्येते तस्करैरहो ।
नास्ति मे रक्षकः कश्चित् कं यामि शरणं नरम् ॥५०॥
अमर्षवशमापन्नं श्रुत्वा तद्वचनं नृपः ।
खड्गमादाय निर्वस्त्रो नग्नोऽधावत्तमोमये ॥५१॥
को दुष्टो हरते मेषं कुतो यासि स्थिरो भव ।
सन्तिष्ठ मत्प्रियामेषावादाय नैव जीवसि ॥५२॥
तावद्विद्युल्लता दीप्ता गन्धवैर्जनिता भृशम् ।
तत्प्रकाशैस्तदा देवी राजानं विगताम्बरम् ॥५३॥
दृष्ट्वा समाप्तसमया तद्गृहात्सा विनिर्ययौ ।
त्यक्त्वा मेषौ च गन्धर्वश्चित्ररथोऽपि निर्ययौ ॥५४॥
राजा मेषौ समादायाऽगमत्स्वशयनान्तिकम् ।
ऊर्वशीं तत्र नाऽऽलोक्य बभ्रामोन्मत्तवद्भुवि ॥५५॥
मार्गयन्नूर्वशीं भूमौ कुरुक्षेत्रमवाप ह ।
रम्ये सरोवरे तत्र कमलैः सर्वतोवृते ॥५६॥
चतुर्भिरप्सरःस्त्रीभिः क्रीडमानां विलोक्य सः ।
हे जाये क्वाऽऽगता चात्र स्नानार्थं मां विहाय वै ॥२७॥
आगच्छ मद्गृहं त्वेहि रमस्वाति मया सह ।
त्वां विना नैव जीवेयं प्रिये कस्मादिहाऽऽगता ॥२८॥
इत्येवं लपमानं तं प्रोवाचोर्वशिका ऋतम् ।
राजराजाऽलमेतेन चाऽऽग्रहेण तव प्रिय! ॥९९॥
त्वत्तोगर्भिण्यहं वर्ते रतिं नैव करोम्यहम् ।
वर्षपूर्वं भवानत्र चायातु पुत्रलब्धये ॥६०॥
पुत्रजन्मोत्तरमेकां रात्रिं वत्स्यामि वै त्वया ।
इत्युक्तो नृपतिः प्रायात् राजधानीं सचिन्तनः ॥६१॥
ऊर्वशी वर्णयामास पतिं क्ष्मेशं सुसद्गुणम् ।
उषितास्मि सहानेन राज्ञा कामवशा चिरम् ॥६२॥
श्रुत्वा तदूर्वशीसख्यः साधु साध्विति चाऽब्रुवन् ।
प्राहुः सर्वा वयमपि रंस्यामोऽनेन भूभृता ॥६३॥
अथाऽब्दे तत्र राजाऽपि ययौ तटाकसन्निधौ ।
ऊर्वशीं पुत्रयुक्तां वै दृष्ट्वाऽतिहर्षमाप सः ॥६४॥
आयुषाख्यं सुपुत्रं सा ददौ तस्मै यथा पुनः ।
सकामा तेन साकं तां रात्रिमेकां निनाय वै ॥६२॥
पञ्चपुत्रप्रदं गर्भं दधारोवाच तं पुनः ।
गन्धर्वेभ्यो वरान् राजन् गृहाण मनसि स्थितान् ॥६६॥
तावत्तत्रापि गन्धर्वा दृष्टा राज्ञाऽथ चाह तान् ।
अहं सम्पूर्णकोशश्च विजिताऽरातिमण्डलः ॥६७॥
ऊर्वश्या सह वासेन कालं नेतुं सदा वृणे ।
गन्धर्वास्तत्समाकर्ण्य स्वर्गारोहणकारिणीम् ॥६८॥
अग्निस्थालीं स्त्रियं राज्ञे ददुः प्रोचुर्नृपं तदा ।
अग्निं त्रेधा विभज्य त्वं यज्ञं कुर्वनया सह ॥६९॥
तेन त्वमूर्वशीलोकं प्राप्स्यसी नात्र संशयः ।
अग्निस्थालीं गृहीत्वाऽथ राजा तस्मिन् वनेऽनया ॥७०॥
अग्निस्थाल्या स्त्रिया साकं रेमे तृप्तमना अलम् ।
अथ स्त्र्यग्रे तु यत् पात्रं स्थालीरूपं तदाऽभवत् ॥७१॥
राजा चिक्षेप तत्पात्रं वने व्यर्थं विदित्य हि ।
तावत् सा स्त्रीरग्निवर्णा तूर्णमदृश्यतां गता ॥७५॥
पात्रं चापि तदाऽदृश्यं जातं तदवमानतः ।
राजा निराशतां प्राप्तश्चाययौ निजमन्दिरम् ॥७३॥
किन्तु कामप्रवेगेन चिन्तयामास तन्मुहुः ।
अहो नारी गता पात्रं गतं क्षिप्तं वने मया ॥७४॥
ऊर्वशीलोकसंप्राप्त्यै गन्धर्वेणार्पितं हि मे ।
तदाहरिष्ये तत्पात्रं विचार्येत्थं वनं ययौ ॥७५१॥
गत्वा ह्याराधनां चक्रेऽग्निस्थालीपात्रयोर्मुहुः ।
तावत्तत्राग्निस्थाली सा वृक्षरूपेण चोद्गता ॥७६॥
अग्निनारी शमीरूपा पात्रं स्थाली तु पिप्पलः ।
शमीं च पिप्पलं राजा गृहीत्वा गृहमाययौ ॥७७॥
तयोर्विश्वासमापन्नश्चोर्वशीलब्धिदाविमौ ।
यद्वा नारी तथा स्थाली पुनः स्यातामिमाविति ॥७८॥
गृहे राजा संप्रतर्क्य निर्ममन्थोभयं सह ।
अधोऽरणीं शमीं चक्रे पिप्पलं चोत्तरारणीम् ॥७९॥
गायव्यक्षरसंख्याकांगुलमानारणीद्वयात् ।
निर्मथनात् समुत्पन्नं तत्राग्नित्रयमेव तत् ॥८०॥
जुहावाग्नित्रयं राजा यज्ञे चोर्वशिकाप्तये ।
यज्ञेष्वग्निः प्रसन्नोऽभूद्विमानं चानयत् दिवः ॥८१॥
तेनैव दिव्ययानेन यज्ञपुण्यप्रतापतः ।
ऊर्वशीलोकमासाद्य रेमे राजा तया सह ॥८२॥
अथेन्द्रस्य सभायां तु नृत्यं सुरांगनाकृतम् ।
राजा व्यलोकयत् तत्रोर्वशीनृत्यं मुहुः कृतम् ॥८३॥
नृत्याभिनयसामर्थ्यगर्वयुक्तोर्वशी तदा ।
पुरूरवसं सान्निध्ये जहासातीव मोदतः ॥८४॥
राजा प्रसन्नतां प्राप्तो जहासापि निजां पुरः ।
नाट्याचार्यस्तुम्बुरुस्तौ विलोक्य क्रोधमाप वै ॥८५॥
असंख्यदेवसदसि नृत्ये वै हसनं वृथा ।
तस्मात्तु युवयोस्तावद्वियोगो भवतु द्रुतम् ॥८६॥
एवं शप्तौ तदेन्द्रं तौ जग्मतुः शरणॆ ततः ।
इन्द्रः प्राह दयां कृत्वा पृथ्व्यां वै गन्धमादने ॥८७॥
पर्वते तु युवां गत्वा तीर्थे साध्यामृताभिधे ।
सुस्नानॆ कुरुतं तेन शापमोक्षो भविष्यति ॥८८॥
सदा योगश्च युवयोः सुसम्पन्नो भविष्यति ।
इत्येवं कृतवन्नौ तौ ततो दिविं विमानगौ ॥८९॥
रेमाते पञ्चपुत्राश्च तयोरासन् महाबलाः ।
एको ज्येष्ठतमस्त्वायुर्मिलित्वा षट् सुपुत्रकाः ॥९०॥
गन्धर्वलोके विदिताः-आयुः, धीमान्, अमावसुः ।
विश्वायुश्च, शतायुश्च, गतायुश्चोर्वशीसुताः ॥९१॥
राज्यॆ चक्रुः प्रयागे ते प्रतिष्ठाने सुभूतले ।
तद्वॆशेऽभूद्धन्वन्तरिर्भगवांस्तं वदाम्यथ ॥९२॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अत्रेः सोमस्तस्य बृहस्पतिपत्नीतारायां बुधोत्पत्तिस्तस्य पुरूरवास्तस्योर्वश्यप्सरायां षट् पुत्रा
इत्यादिप्रदर्शननामा एकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP