संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २४९ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २४९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४९ Translation - भाषांतर श्रीलक्ष्मीरुवाच-भगवन् देवदेवेश भक्तानामभयंकर ।आयुःप्रदं व्रतं सम्यक् श्रावितं भवता विभो ॥१॥श्रुत्वा वरूथविप्रस्य महापातकनाशनम् ।प्रसन्नं जायते चेतः कृपासागर केशव ॥२॥वैशाखशुक्लपक्षे तु किं नाम्न्येकादशी मता ।किं फलं को विधिस्तत्र को देवो वद माधव ॥३॥श्रीनारायण उवाच-पद्मजे कथयिष्यामि लोकानां हितकाम्यया ।पवित्राणां पवित्रं यद्व्रतानामुत्तमं व्रतम् ॥४॥वैशाखस्याऽर्जुने पक्षे नामतो मोहिनी तु सा ।भवेदेकादशी लक्ष्मि! सर्वपातकनाशिनी ॥५॥पापजालानि नश्यन्ति मोहो नश्यति तद्व्रतात् ।महादुःखानि नश्यन्ति सुखं भवति तद्व्रतात् ॥६॥यस्याः कर्तव्यताभावादपि पापं विनश्यति ।दशम्यामेकभक्तेन नक्तेनापि व्रतार्थिना ॥७॥वर्तितव्यं तथा रात्रौ ब्रह्मचर्यव्रतेन च ।प्रातरुत्थाय कृष्णश्च स्मर्तव्यो व्रतिना सदा ॥८॥स्नात्वा हरिः सुपूज्यश्च पूजनीयो व्रतार्थिना ।नित्यविध्यनुसारेण व्रतार्थं प्रार्थनां क्रियात् ॥९॥अद्याहं देवदेवेश करिष्ये व्रतमच्युत ।तवानुग्रहलेशेन संपूर्णं तद्भवेदिति ॥१०॥एवं तु पूजनं नित्यतया प्राप्तं समाप्य च ।कारयेत् सर्वतोभद्रमण्डलं तण्डुलादिभिः ॥११॥तन्मध्ये सुघटः स्थाप्यः सुवर्णस्याऽथ वा नवः ।ताम्रजः सजलः पञ्चरत्नयुक् पञ्चपल्लवः ॥१२॥वस्त्रवेष्टितकण्ठश्च चन्दनाक्षतपूजितः ।फलं न्यस्येन्नारिकेलं पार्श्वे तस्यान्तराऽब्भृतम् ॥१३॥न्यस्येन्मुखोपरि रम्यां स्थालीं तिलप्रपूरिताम् ।तत्र न्यस्येत् स्वर्णरूप्यताम्रद्रव्यं च शर्कराम् ॥१४॥कारयित्वा कनकस्य मूर्तिं त्वेकादशीपतेः ।मधुसूदनदेवस्य माधव्या सह शोभिताम् ॥१५॥मोहिन्या च युतां तत्र स्थाल्यां वै स्थापयेत्तु ताम् ।स्वर्गनिःश्रेणिकां कूप्यमयीं न्यस्येत्प्रपूजयेत् ॥१६॥स्वस्तिकं ब्रह्मसूत्रं च चन्द्रकं तिलकं तथा ।स्वर्णरौप्यं कारयित्वा घटपार्श्वे निधापयेत् ॥१७॥फलानि विविधान्येव पूगीफलादिकानि च ।एलालवंगत्वक्सारजातीफलानि चूर्णकम् ॥१८॥शर्करां गूडधानादीन् नववस्तूनि दापयेत् ।पर्यंकं गेन्दुकं गुप्तदोरकं पार्श्वकं तथा ॥१९॥दर्पणं व्यजनं छत्रं चामरं यष्टिकां शुभाम् ।पादुके केशसंस्कर्त्रीं सुगन्धद्रव्यसंयुताम् ॥२०॥सजलं मृद्घटं नव्यं पक्वान्याम्रफलानि च ।विन्यस्येत् पूजनं कुर्याद् विधिना व्रतकारकः ॥२१॥पुष्पेषु मल्लिकां दद्यान्नैवेद्यं पायसं शुभम् ।अर्घ्यं फलं तु पनसं शय्यादानं समुत्तमम् ॥२२॥प्रथमं तिलपात्रे तं मधुसूदनमच्युतम् ।आवाहयेत् ततो दद्यादासनं चोत्तमोत्तमम् ॥२३॥पादप्रक्षालनवारि तथाऽर्चनजलं शुभम् ।आचमनार्थे सलिलं दद्याद् देवाय भावतः ॥२४॥दन्तधावनमार्द्रं च दद्याच्चूर्णं सुगन्धवत् ।मुखप्रक्षालनं तस्य कारयेत् तीर्थवारिणा ॥२५॥शौचादिकल्पयेद्धस्तपादशुद्धिं प्रकल्पयेत् ।पंचामृतैः स्नापयेच्च शुद्धोदकेन तत्परम् ॥२६॥वस्त्रैरामार्जनं कुर्यात् सुवस्त्राणि समर्पयेत् ।धौत्रं सूक्ष्म शुभं प्रावरणं श्वेतं नवं तथा ॥२७॥अर्पयेच्चन्दनं तैलं सुगन्धं द्रव्यमत्तरम् ।गन्धसारं मणिं ब्रह्मसूत्रं च कज्जलादिकम् ॥२८॥कुंकुमं त्वर्पयेच्चाबीरं गुलालं शुभाक्षतान् ।पुष्पाणि कुन्दकलिकारूपाणि पुष्पमालिकाः ॥२९॥विभूषणानि सर्वाणि शृंगारद्रव्यमुत्तमम् ।अलंकाराणि रम्याणि त्वर्पयेद्धरये तदा ॥३०॥तिलकं चन्द्रकं भाले कारयेच्चन्दनेन वै ।लेपयेच्चाभितो वर्ष्मणि व्रती हृदयादिके ॥३१॥धूपं दीपं च नैवेद्यं दद्यान्मिष्टान्नमुत्तमम् ।शार्करं दधिसारं श्रीखण्डं दद्यात्तु पूरिकाः ॥३२॥शार्करं शीतसलिलं फलं चाम्रं च बीटिकाम् ।नागवल्लीपर्णकृतां दद्यात्त्वन्यत्तु यत् कृतम् ॥३३॥आरार्त्रिकं नमस्कारं स्तुतिं प्रदक्षिणं तथा ।दण्डवच्च क्षमायाञ्चां फलपूर्णत्वयाचनाम् ॥३४॥पुष्पाञ्जलिं दक्षिणां च दद्यात् पश्चाद् विसर्जयेत् ।कुर्याच्चावश्यकं कार्यं व्रती भक्त्यात्मकं तदा ॥३५॥मध्याह्ने पूजयेत् कृष्णं भोजनं कारयेद् बहु ।षट्पंचाशत्प्रभोगाँश्च दद्यादर्थान्वितस्तदा ॥३६॥जलपानं प्रदद्याच्च ताम्बूलं मुखशोधकम् ।दद्याच्च तं नमस्कृत्य व्रती भक्त्यादिकं चरेत् ॥३७॥सायं चारार्त्रिकं कुर्यान्नैवेद्यं च जलार्पणम् ।मण्डपं कदलीस्तंभैः कारयेद् बन्धयेच्च सः ॥३८॥प्रेंखां सुशोभितां रम्यां नवपल्लवतोरणाम् ।आन्दोलयेद्धरिं तत्र स्थापयित्वा स्वयं व्रती ॥३९॥पूजनं षोडशवस्तूत्तमैर्निर्वर्तयेद्व्रती ।रात्रौ भक्तियुतं कालं भक्तैः सह तु यापयेत् ॥४०॥एवं जागरणं कुर्यान्महोत्सवपुरःसरम् ।नर्तनं गायनं गीतिं तालमानादिसंयुताम् ॥४१॥स्मरणं कीर्तनं चापि कथाख्यानानि कारयेत् ।गापयेत् कृष्णपद्यानि नरा नार्यश्च सर्वथा ॥४२॥हरिकीर्तनयुक्ताश्च कुर्युर्जागरणं तथा ।प्रातः स्मरेद्धरिं स्नात्वा पुनः पूजनमाचरेत् ॥४३॥व्रती दानानि दद्याच्च गुरवेऽतिसुभावतः ।भोजयेद् ब्राह्मणान् साधून् साध्वीर्बालाँच पूजयेत् ॥४४॥दीनान् कृपणान् बालिकाश्च पराधीनाँश्च भोजयेत् ।आश्रितान् कर्मचाराँश्च प्रमदाश्च कुटुम्बिनः ॥४५॥पूज्याँश्च भोजयेन्मिष्टं मातृँश्च जनकाँस्तथा ।वृद्धाँश्च भोजयेन्नम्रभावनां च प्रदर्शयेत् ॥४६॥ततो व्रती स्वयं कुर्यात्पारणां तु हरिं स्मरन् ।शय्यादानं गजवाजिगोदानं भूगृहार्पणम् ॥४७॥सुसत्पात्रे प्रकुर्यात्तु यानवाहधनार्पणम् ।एवं व्रती व्रतं कुर्वन्नाप्नोति परमं पदम् ॥४८॥शाश्वतं च सुखं स्वर्गे यथेष्टं कृपया हरेः ।शृणु लक्ष्मि! कथां पूर्वभवां वैश्यस्य पावनीम् ॥४९॥सौराष्ट्रे तु सरस्वत्याः प्राच्या नातिविदूरके ।उत्तरे तु प्रदेशे वै भद्रावत्यास्तु दक्षिणे ॥५०॥भाण्डीराख्यनगर्यां वै धृतिसिंहोऽभवन्नृपः ।तस्य श्रेष्ठी धनपालो ह्यभवद्धनशेवधिः ॥५१॥धनपालः सदा ख्यातः पुण्यकार्यप्रवर्तने ।प्रपाकूपमठारामतडागगृहकारकः ॥५२॥विष्णुभक्तः साधुसेवी परोपकृतिसद्व्रतः ।कथाश्रवणसुश्रद्धः सर्वदा भक्तितत्परः ॥५३॥पुत्रास्तस्याऽभवन् पञ्च श्रेष्ठिनो धनशालिनः ।सुमना द्युतिमाँश्चैव मेधावी सुकृतिस्तथा ॥५४॥चत्वारः पुण्यपात्राणि पञ्चमश्चातिपापकृत् ।धृष्टबुद्धिरिति ख्यातः परस्त्रीसंगसंरतः ॥५५॥द्यूतादिव्यसनासक्तो वारस्त्रीरतिकारकः ।देवपूजाविहीनश्च पितृतर्पणनास्तिकः ॥५६॥द्विजानां निन्दको वेदनिन्दको न्यायवर्जितः ।दुष्टात्मा स्वपितुर्द्रव्यनाशको मदिरापिबः ॥५७॥अभक्ष्यभक्षक पापी सर्वसम्पत्क्षयंकरः ।चौर्यादिकर्मनिरतो दुष्टसंगो ह्यकर्मकृत् ॥५८॥पित्रा चतुष्पथे दृष्टो वेश्यास्कन्धस्थहस्तकः ।पापाचाररतश्चैवं विज्ञातो बन्धुभिस्ततः ॥५९॥पित्रा निष्कासितो गेहाद् बान्धवैश्च विवासितः ।दायभागेन यत्किंचिल्लब्धं निर्वाहकं धनम् ॥६०॥सर्वं नीतं क्षयं तेन वेश्यासंगेन नित्यदा ।आभूषणानि पात्राणि वस्त्राण्युपस्कराणि च ॥६१॥क्षयं नीतानि तेनैव गणिकासंगकारिणा ।धनहीनः परित्यक्तो गणिकाभिस्ततः स तु ॥६२॥चिन्तातुरोभवद् वस्त्रधनहीनः क्षुधार्दितः ।किं करोमि क्व गच्छामि जीवनोपायवर्जितः ॥६३॥तस्मात् कार्यं तस्करत्वं चौर्यं कार्यं प्रसह्य च ।लुण्ठनापहरणे च कृत्वा जीवामि नान्यथा ॥६४॥एवं बलाऽपहरणं करोति वनगे पथि ।पितुस्तु नगरे रात्रौ तस्करत्वं करोति च ॥६५॥सुरां पिबति नित्यं स मांसं खादति नित्यदा ।चौर्यं नित्यं करोत्येव पुंश्चलीसंगतिं गतः ॥६६॥रात्रौ चौर्यं सुवर्णस्य कृतं तेन तु तत्क्षणे ।राजदूतैर्धृतो रात्रौ किन्तु स्वर्णं धनं तदा ॥६७॥लुंचारूपं राजदूतेभ्योऽर्पयित्वा विबन्धनः ।मुक्तिं प्राप्य गतोऽरण्ये पुनश्चौर्यं चकार सः ॥६८॥पुनर्धृतो राजदूतो पुनर्लुंचाप्रदानतः ।बन्धनान्मुक्तिमासाद्य गतोऽरण्यं पुनस्तथा ॥६९॥पुनश्चौर्यं समारेभे धनापहरणं तथा ।जनानामर्दनं चक्रे संघानां लुण्टनं तथा ॥७०॥पुनश्च नगरे चौर्ये कर्तुं रात्रौ ययौ तदा ।मनुष्यैः स दुराचारो निबद्धो रश्मिभिर्दृढैः ॥७१॥निगडैर्दण्डितो राज्ञा कशाघातैश्च ताडितः ।कारागारं यथादण्डं क्षपयित्वा पुनर्हि सः ॥७२॥निर्बन्धो वनमासाद्य भोजनार्थं प्रधावति ।सिंहवद्घातयत्युग्रो मृगशूकरवानरान् ॥७३॥आमिषाहारनिरतो वने भ्रमति सर्वथा ।करे धनुः समागृह्य धृत्वा पृष्ठे निषंगकम् ॥७४॥आरण्यकान् पशून् पतत्रिणो हन्ति पदा चरन् ।चक्रवाकान्कपोताँश्च पारावताँश्च तित्तिरान् ॥७५॥कुक्कुटान् सारसान् हन्ति मयूरान्मूषकानपि ।वराहान् गवयाँश्चैव गरुडान् हन्ति हंसकान् ॥७६॥एतानन्यान् हिनस्त्युग्रो धृष्टबुद्धिर्हि निर्दयः ।पूर्वपापैः पापमार्गे प्रवृत्तः पापकर्मसु ॥७७॥दुःखाविष्टः सुखलेशरहितोऽभूदहर्निशम् ।एवं वृक्षेषु शैलेषु दुर्गे चारण्यभूमिषु ॥७८॥अनासनोऽटति दैवात् प्राप्तः कुण्डिननामकम् ।पुरं ह्युद्यानशोभाढ्यं निकटे वनभूमिकम् ॥७९॥नातिदूरे वने तत्र कौण्डिन्याख्यो महानृषिः ।स्वाश्रमे वर्तते नित्यं पान्थानां शान्तिसम्प्रदः ॥८०॥अतिथीन् सत्करोत्येषो भक्ष्यपानासनादिभिः ।गतोऽयं त्वाश्रमद्वारे मुनिं श्रुत्वा तपोधनम् ॥८१॥वैशाखे मासि सरसि कृतस्नानं तपोधनम् ।आससाद धृष्टबुद्धिः स्वोद्धारोदयसन्मुखः ॥८२॥पादयोः पतितः प्रह्वीभावेनैवाऽऽर्द्रमानसः ।तावदृषेरार्द्रवस्त्रबिन्दवः पतितास्तदा ॥८३॥मस्तके धृष्टबुद्धेस्तु स्कन्धयोः करयोस्तथा ।नारायणाय विद्महे वासुदेवाय धीमहि ॥८४॥वदतो मुनिराजस्य शब्दोऽपि श्रवणे गतः ।एवं मन्त्रेण ऋषिणा सलिलेन तु पावितः ॥८५॥चरणस्पर्शमात्रेण नष्टपापो बभूव सः ।मुमुक्षुतांकुरोद्भेदो जातस्तत्र क्षणेऽस्य च ॥८६॥कौण्डिन्यस्याऽग्रतः स्थित्वा समुवाच कृतांजलिः ।भो भो ब्रह्मन्मोक्षदातर्दयां कृत्वा ममोपरि ॥८७॥येन पुण्यप्रभावेण मुक्तिर्भवति पापिनः ।तादृशं पुण्यकार्यं मे व्रतं वा वद मोक्षदम् ॥८८॥महात्मनां प्रसंगेन महापातकिनोऽपि च ।तरन्ति पावना भूत्वा पावयन्त्यपरानपि ॥८९॥तस्माच्चौर्यसुरापानाऽऽमिषभक्षणमैथुनम् ।कृत्वा पापदुराचारान् पतितोऽस्मि च सर्वतः ॥९०॥पावयित्वेदृशं मां च मोक्षभाजं कुरु प्रभो ।श्रुत्वा प्राह तदा कौण्डिन्यर्षिस्तं शरणागतम् ॥९१॥वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ।एकादशी भवत्येषा व्रतं तस्याः समाचार ॥९२॥मेरुतुल्यानि पापानि क्षयं यास्यन्ति तद्व्रतात् ।बहुजन्मार्जितान्याशु नश्यन्ति व्रतिनो ध्रुवम् ॥९३॥इति कौण्डिन्यसद्वाचं श्रुत्वा धृष्टसुधीस्तदा ।व्रतं चकार विधिवत् कौण्डिन्याश्रमसन्निधौ ॥९४॥धौतपापोऽभवच्छुद्धो वासनाऽस्य लयं गता ।आयुश्चापि गतं त्वन्तं कर्मलेशो न विद्यते ॥९५॥द्वादश्यां सः फलपत्राहारः सन् सरसस्तटे ।सुप्तो मुनिं स्मरन् कृष्णं नारायणं भजन् रटन् ॥९६॥शरीरं भौतिकं त्यक्त्वा दिव्यदेहो बभूव सः ।जगाम वैष्णवं लोकं गरुडोपरि संस्थितः ॥९७॥एवं लक्ष्मि! मोहिनीसद्व्रतं मोक्षप्रदं शुभम् ।नातः परतरं किञ्चित् त्रैलोक्ये सचराचरे ॥९८॥यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम् ।व्रतस्याऽस्याऽघहर्तुर्वैं मोक्षदातुर्हरेर्बलात् ॥९९॥मायामोहप्रसक्तानां मोहिनी मोहनाशिनी ।ब्रह्मपूजातिरिक्तानां मोहिनी मोहनप्रदा ॥१००॥मोहं नास्ति यतो यस्यां मोहिनी प्रोच्यते ततः ।मोही पापी यया धाम्नि स्वर्गे वा नीयते तु सा ॥१०१॥मोहिनी कृष्णसम्बन्धात्प्रोच्यते नित्यसौख्यदा ।कोटियज्ञफलाधिक्यफलदात्री व्रतेन सा ॥१०२॥पालनीया प्रयत्नेन स्वर्गमोक्षफलप्रदा ।पूर्वजन्मकृताऽनेककर्मपापापनुत्तये ॥१०३॥वैष्णवेन विशेषेण कर्तव्या मोहशान्तये ।कृष्णनारायणपादाम्बुजमोहाभिलब्धये ॥१०४॥पुत्रपौत्रधनदारास्मृद्धियानगृहादिकम् ।सकामो लभते सर्वं व्रतेनाऽस्याः कृतेन यत् ॥१०५॥लभेद्धनं धनहीनो ह्यबुद्धो बुद्धिमाप्नुयात् ।यद्यत्संकल्पयेच्चापि संप्राप्नुयात्तु तद्व्रती ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैशाखशुक्लमोहिन्येकादशीव्रतमाहात्म्यं धृष्टबुद्धिनाम्नः पापिवैश्यस्य कौण्डिन्योपदेशाद् व्रतकरणेन मुक्तिरित्यादिनिरूपणनामैकोनपञ्चाशदधिकद्विशततमोऽध्याय ॥२४९॥ N/A References : N/A Last Updated : March 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP