संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३७५ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७५ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! पतिव्रताऽहल्यासामर्थ्यमद्भुतम् ।गौतमस्य ऋषेः पत्नी त्वहल्याऽभूत् पतिव्रता ॥१॥कुमारे शरीरे यस्यास्तेजोराशिः समन्ततः ।अभूच्चन्द्रस्य परिधिर्यथा तथाऽत्र सर्वदा ॥२॥गंगातीरेऽवसत्काश्यां गौतमो ज्ञानवानृषिः ।ब्रह्मपुर्यां पर्णकुट्यां समुच्छ्राये स्थले सदा ॥३॥एकदा हिमशैलेऽभून्मुशलधारवर्षणम् ।जलपूराणि तटयोर्मर्यादा सरितो जहुः ॥४॥विपथेषु प्रवाहाश्च दद्रुवुर्वै भयंकराः ।ग्रामान् खेटान् खर्वटाँश्च नीत्वा पूराणि चावहन् ॥५॥काशीमभितः सलिलं पर्यवर्तत चोच्छ्रयम् ।ऋषयो मुनयश्चान्ये प्रजाश्च निम्नभूमिगाः ॥६॥जले मग्ना मृताः सर्वे हाहाकारो बभूव ह ।लक्षशः कोटिशस्तत्र मग्ना जानपदस्थिताः ॥७॥मानवाः पशवः पक्षसहाया वनिनस्तथा ।गौतमो ध्यानमग्नश्च दृष्टवान् विप्लवं लयम् ॥८॥ध्यानाद् बहिः समागम्य प्राह पत्नीमहल्यिकाम् ।अरे! पश्य लयं वारिकृतं सर्वस्वनाशकम् ॥९॥जलान्येतानि गंगाया गृहं तेऽभिद्रवन्त्यपि ।उच्छ्रयेऽपि प्रदेशे वै समागच्छन्ति वेगतः ॥१०॥पर्णशाला तथाऽहं त्वं बहिष्यामश्च धेनवः ।बहुधा प्रलयो जातो नाऽद्याऽपि स निवर्तते ॥११॥किं कार्यं वद कल्याणि! जलं सोपानमागतम् ।पश्य वत्सा वत्सतर्यः क्रोशन्ति जलदर्शनात् ॥१२॥कुरु शीघ्रं तथा यत्नं जीवामस्तु यथा वयम् ।नाऽस्मद्गृहादपरोऽत्रोच्छ्रयदेशो गृहं विना ॥१३॥मनुष्या द्रुममालम्ब्य जीविष्यन्ति यथाकथम् ।गवां का वा दृशा साध्वि! महाकष्टमुपस्थितम् ॥१४॥इत्युक्त्वा गौतमो देवः शुशोचाऽश्रुभृदीक्षणाः ।अहल्या प्राह तं स्वामिन्! यद्भावि तद्भविष्यति ॥१५॥परं पतिमुपस्पृश्य चलो प्रयतामि वै ।इत्युक्त्वा प्रययौ साध्वी शीघ्रं पर्णगृहान्तरम् ॥१६॥अग्निं प्रज्वालयामास घृतेन होममाचरत् ।सस्मार गंगां चाहल्या पातिव्रत्यबलेन वै ॥१७॥एहि गंगे! भगिनि! मे कथं नाशं करोषि वै ।यदि नाऽऽयासि कल्याणि! करोमि त्वां हि भस्मसात् ॥१८॥गंगा भीता समायाता मूर्तिरूपा सुकन्यका ।ववन्दे किंकरी भूत्वाऽहल्यां गौतमयोषितम् ॥१९॥अहल्या प्राह तां तूर्णं का गंगे दुर्दशा कृता ।प्रलयं ते जलान्यद्य कुर्वन्ति प्राणिनामति ॥२०॥.शीघ्रं वार्युपसंहारं कुरु गंगेऽन्यथा क्षणात्॥हवनं ते करिष्यामि मृता यास्यसि वै लयम् ॥२१॥चकम्पे तत्समाश्रुत्य प्राह दीना सतीं प्रति ।किं करोमि महासाध्वि! न मे दोषोऽत्र विद्यते ॥२२।हिमालयो विशालाद्रिर्जलानि न रुणद्धि हि ।रक्षत्येव नहि स्वस्मिंस्तेनाऽयं विप्लवोऽस्ति वै ॥२३॥श्रुत्वाऽहस्यऽऽह तां गंगां तिष्ठ सुन्दरि मद्गृहे ।आह्वयामि हिमाद्रिं च तदुपायं करोम्यपि ॥ २४॥इत्युक्त्वा गौतमपत्नी सस्मार वह्निसन्निधौ ।हिमालय! समायाहि त्वन्यथा हवनं तव ॥ २५॥करिष्ये मा चिरं पश्य प्राणिनां कदनं महत्॥तावच्चकम्पे गिरिराट् मूर्तिमान् समुपागतः ॥२६॥काश्यामहल्या यत्राऽस्ति नत्वा प्रोवाच तां सतीम् ।वद देवि! कथं चाऽहं स्मृतश्चात्र द्रुतं दिश ॥॥२७॥पश्य वारिप्रलयं त्वं कथं वारि न रक्षसि ।निरोधं कुरु चाऽरण्ये वारीणां पर्वतेषु च ॥॥२८॥हिमालयस्तदा प्राह मातः शक्तोऽस्मि तत्र न ।नास्ति तत्र मम दोषो मया रक्ष्यं जलं सदा ॥ २९॥शिखरेषु जलं मेऽस्ति द्रोणीषु च गुहासु च॥उदरे चोच्छ्रये चाऽधित्यकोपत्यकिकास्वपि ॥३०॥अरण्येषु वनेषूर्ध्वं नदीष्वपि स्थलीष्वपि ।यावच्छक्यं जलान्येव धारयामि समन्ततः ॥३१॥किन्तु वृष्टिरतिवृष्टिः सततं सप्तवासरात् ।दिवानिशं पतत्येव मुशलधारसदृशी ॥३२॥अहं जले निमग्नोऽस्मि किं करोमि न शक्तिमान् ।मत्प्रमाणाजलान्यद्य वर्धन्तेऽतिपतन्ति च ॥३३॥न संहरन्ति मेघा वै वृष्टिं प्रलयकारिणीम् ।यदि मेघाः संहरेयुर्जलानि संययुः क्षयम् ॥३४॥श्रुत्वाऽहल्या तमुवाच तिष्ठाऽऽहृयामि वार्धरम् ।आहुत्या जलदं तत्र सस्मार द्रुतमानसा ॥३५॥मेघा मृत्युभयोद्विग्नास्तूर्णं तत्र समाययुः ।प्रकम्पन्तः प्रतस्थुश्च तानाह गौतमप्रिया ॥३६॥रे रे मेघा घातकाः स्थ किं प्रालयो विचारितः ।जलानामुपसंहारं कुर्वन्तु द्राङ् न चेन्मृताः ॥३७॥ ।भयंकरं तु तच्छ्रुत्वा कम्पमानास्तु तां सतीम् ।प्राहुर्मातर्न नो दोषो दोषस्त्विन्द्रस्य विद्यते ॥३८॥वयं तु किंकरास्तस्य वर्षामो वै तदाज्ञया ।त्रस्ताः शान्ताः परिश्रान्ता जलहीनाः क्रुधाऽपि नु ॥३९॥वज्रेण निहताः सर्वे वर्षामोऽत्र क्षमस्व नः ।सदाऽकिंचित्कराश्चेन्द्रनिदेशकृतजीवनाः ॥ ४०॥न तदाज्ञां विना किंचित् कर्तुं शक्ताः स्म साध्विके ।इति श्रुत्वा च मेघानां वचनानि महासती ॥ ४१॥इन्द्रं सस्मार मन्त्रेण वह्निमध्ये जुहाव च ।तावदिन्द्रासनादिन्द्रः पतितो मन्त्रकर्षितः ॥४२॥व्योममार्गेण तु शीघ्रं पर्णकुट्यां समापतत् ।मृतोऽहं नाशितोऽहं च रक्षन्तु देवतागणाः ॥४३॥इति ब्रुवन् पर्णकुट्यां तस्थौ साध्वीप्रतापतः ।नत्वोवाच महासाध्वी महेन्द्रं देवभूभृतम् ॥४४॥अरे चेन्द्र! पृथिव्यां वै प्राणिनां कदनं महत् ।जातं वृष्ट्याऽनया कस्मात्। संहारं न करोषि वै ॥४५॥जलसंहारमेवाऽद्य शीघ्रं वै रोधनं कुरु ।अन्यथा ते वह्निमध्ये करिष्ये हवनं सुर! ॥४६॥इत्युक्तः स महाक्रुद्धः किन्तु दृष्ट्वा पतिव्रताम् ।विनाशं क्षणमध्ये च समुपस्थितमीक्ष्य च ॥४७॥समयं तं प्रविज्ञाय नम्रतायाः पुरन्दरः ।प्रोवाच वै तदा मेघान् शीघ्रं कुर्वन्तु रोधनम् ॥४८॥मेघाः संकुचितास्तत्र हिमाद्रौ च तथापि वै ।जलानां निम्नता नासीत् तदा प्राह पतिव्रता ॥४९॥इन्द्र! मेघाः! गिरे! गंगे! कथं नावतरन्ति वै ।निम्नगानि न दृश्यन्ते जलानि प्रवदन्तु माम् ॥॥५०॥इन्द्रः प्राह महासाध्वि! वरुणो वारिषु स्थितः ।स संकोचं जले कुर्यात् स्युर्निंम्नगानि वै तदा ॥५१॥सस्मार तु तदा साध्वी वरुणं यादसां पतिम् ।जलाधिदेवरूपं च तावत्सोऽपि समागतः ॥५२॥प्राहाऽहल्या जलेशं तं नैव पश्यसि मर्दनम् ।कीदृशोऽयं लयो जातः संकोचय जलानि वै ॥५३॥अन्यथा ते भवेन्मृत्युर्वह्नौ नात्र विचारणा ।तावत्सोऽपि द्रुतं नत्वा प्राणायामाँश्चकार ह ॥५४॥तावज्जलानि संवेगाज्जातानि घट्टकानि हि ।निम्नगानि बभूवुश्च संकुचितानि सर्वतः ॥५५॥अथ दृष्ट्वा दुःखितान् वै मृतान् सम्बन्धिबान्धवान् ।दयावती तदाऽहल्या वह्निं पप्रच्छ जीवनम् ॥५६॥मृतानां वै पुनश्चात्र भवेदुपाय उच्यताम् ।वह्निश्चेन्द्रो वरुणश्च गंगा मेघाश्च पर्वतः ॥५७॥सर्वे प्राहुर्यमराजो जीवाऽजीवप्रदो मतः ।अहल्या तं प्रसस्मार समायातो यमस्तदा ॥५८॥समुवाच प्रांजलिस्तां किं कार्यं मेऽत्र साध्विके! ।तमुवाच सती शीघ्रं जलेऽत्र प्रलयेऽतिगे ॥५९॥मृतान् मनुष्यान् वनिनो गृहिणोऽरण्यवासिनः ।पशूंश्च प्राणिनः पक्षिजातीश्चान्यान् सरीसृपान् ॥६०॥सर्वानकालानिधनान् समुज्जीवय मद्बलात् ।यदि नोज्जीवयेश्चाद्य तव मृत्युरुपस्थितः ॥६१॥होष्यामि त्वां तृणमात्रं शीघ्रं जीवय वै मृतान् ।सोऽपि चकम्पे यमराट् प्रोवाच दीनमानसः ॥६२॥अहं रुद्राधीनसत्त्वः संकर्षणानुगः सदा ।मरणं वै तदधीनं यथाकर्म च देहिनाम् ॥६३॥सती सस्मार रुद्रं तं संकर्षणं च तत्क्षणात् ।कालकालौ समायातौ सतीं नत्वा ह्युपस्थितौ ॥६४॥सती प्राह मृतान्सर्वानुज्जीवयतां चेश्वरौ ।अन्यथा पातिव्रत्येन हरिष्ये वां प्रजीवनम् ॥६५॥रुद्रः संकर्षणश्चाह सृष्टिः पुष्टिर्विनाशनम् ।भवत्येव क्रमात्त्वत्र नारायणविनिर्मितम् ॥६६॥वयं कर्तुं तथाऽकर्तुमन्यथाकर्तुमित्यपि ।न समर्था भवामोऽत्र समर्थः श्रीहरिः परः ॥६७॥सती सस्मार च तदा कृष्णनारायणं हरिम् ।पातिव्रत्यप्रतापेन हरिस्तत्राऽऽययौ क्षणात् ॥६८॥हरिं प्राह सती नत्वा महाविनयमानसा ।अहो नारायण! स्वामिन्! कृष्णनारायण! प्रभो! ॥६९॥महावृष्टिलये चात्र कोटिशः प्राणिनो मृताः ।मानवाः पशवः पक्षिजातयो जन्तवस्तथा ॥७०॥जीवयैतान् हरे कृष्ण त्वकालमृत्युमास्थितान् ।भगवाँस्तां तदा प्राह कुरु संकल्पमेव ह ॥७१॥यदि धर्मः पातिव्रत्यात्मकः संपालितो मया ।तदा वृष्टिप्रवेगेन मृता जीवन्तु जन्तवः ॥७२॥इत्याज्ञया हरेस्तत्र तयाऽहल्याख्यया कृतः ।संकल्पस्तावदेवैते जीविता देहिनोऽखिलाः ॥७३॥तेषां यत्र शवान्यासँस्तत्र तत्र समुत्थिताः ।आसमुद्रप्रपर्यन्तं यावन्तो जीवितास्तदा ॥७४॥ताँस्तु हर्याज्ञया गंगा मेघाश्चेन्द्रादयः सुराः ।हिमाद्रिः सलिलेशश्च रुद्रः संकर्षणस्तथा ॥७५॥नारायणो यमः कालो मृत्युश्च पार्षदा हरेः ।सर्वान्नीत्वा यथापूर्वस्थानं तेषां गृहाणि च ॥७६॥प्रापयामासुरेवेशाः पातिव्रत्यप्रभावतः ।सुरूपां सुसमर्थां तां नवयौवनसुन्दरीम् ॥७७॥नत्वा सर्वे ययुर्देवास्ततो नैजालयाँस्तदा ।जनुषा जीविता ये जाताः सुखिन एव ते ॥७८॥इन्द्रो दृष्ट्वा मुमोहाऽत्र गौतमस्य तु योषिति ।पतिव्रतायां देवेन्द्रो दूरं गत्वाऽऽजगाम ह ॥७९॥तदा दृष्ट्वाऽपि पश्चात्तां नाऽपश्यद् देवराड् यतः ।ययौ निराशः स्वर्गं वै पुनः कालान्तरेऽगमत् ॥८०॥तदापि पर्णकुट्यां तां स्थितां नैव ददर्श सः ।यतो मलिनहृदयो न ददर्श पतिव्रताम् ॥८१॥पुनर्गत्वा ततः स्वर्गं कालान्तरे स आययौ ।तदापि तां पर्णकुट्यां नैवाऽपश्यत् स्थितामपि ॥८२॥पापानां चाऽप्यशुद्धानां मलिनाऽगुणशालिनाम् ।नार्यः पतिव्रताः क्वापि नाऽऽयान्ति दृष्टिगोचरम् ॥८३॥एवमिन्द्रो बहुवारं समागतो गतोऽपि च ।धर्षणार्थमहल्यायाः कम्पमानोऽपि मूर्छितः ॥८४॥कामान्धो न विजानाति मृत्युं स्वस्य परस्य च ।ततः कालान्तरे रात्रौ समायातो भुवस्तलम् ॥८५॥यत्राऽऽस्ते सा धर्ममयी साध्व्यहल्या पतिव्रता ।तत्र रात्रौ त्वन्धकारे परितः प्रासरन्महत् ॥८६॥तेजो दृष्टं महेन्द्रेण गौतमस्याऽऽश्रमाऽभितः ।सोऽवातरत्पृथिव्यां वै तेजः पश्यति केवलम् ॥८७॥यथा वै पूर्णिमाचन्द्रकौमुदीमण्डलं न्विदम् ।तत्राऽहल्यां न चाऽपश्यत् पुनर्नाकं ययौ तदा ॥८८॥चन्द्राय कथयामास मानसीं विकृतिं तथा ।तेजोमयं दिव्यरूपं भोग्याहं चिरवाञ्छितम् ॥८९॥चन्द्रेणाऽऽवेदितं तस्मै भवान् गौतमरूपधृक् ।अहं भवामि ब्राह्मस्य सूचकः कुक्कुटः खलु ॥९०॥गच्छावो यत्र सा चास्ते कुर्वंश्छद्मं फलं भवेत् ।न भवेच्चेद्भवेन्मृत्युर्नात्र कार्या विचारणा ॥९१॥इति सम्मन्त्र्य तावास्तां तदा बिडालकुक्कुटौ ।अर्धरात्रोत्तरं गत्वा गौतमस्य गृहान्तिकम् ॥९२॥जगौ तु कुक्कुटश्चन्द्रो ब्राह्ममुहूर्तकूजनम् ।गौतमस्तत्तदा श्रुत्वा ययौ स्नानाय स्वर्णदीम् ॥९३॥बिडालस्तु महेन्द्रो वै प्रविवेश गृहे नलात् ।धृत्वा गौतमरूपं स जगाम शयने प्रियाः ॥९४॥अहल्या तु पतिं दृष्ट्वा कामभावेन चागतम् ।चूम्बनं त्वर्पितवती कामभोगेहयाऽऽदृता ॥९५॥तावत्तु गौतमाय द्युनद्या द्राक् संप्रभाषितम् ।न ब्राह्मोऽयं ऋषे! कालो गृहे ते कपटं भवेत् ॥९६॥याहि शीघ्रं सतीं पश्य श्रुत्वैतत् गोतमो द्रुतम् ।समायात् स्वगृहं यावत्तावद्भोक्तुं स्थितं हरिम् ॥१७॥इन्द्रं स्वरूपमापन्नं ददर्श कपटान्वितम् ।गौतमस्तं तुराषाहं भगलुब्धं विभाव्य वै ॥९८॥मुनिः शशाप शक्रं च भगांगस्त्वं भवेति हि ।अहल्याऽपि ज्ञातवती पत्यन्यं तं तथापि सा ॥॥ ९९॥पतिप्रतिमारूपं तं न शशाप पतिव्रता॥नाऽऽलिंगनं ददौ यावद् गौतमाऽन्यं विवेद सा ॥१००॥गौतमाय स्वरूपाय दण्डयोग्याय चापि सा ।समर्थापि महादण्डं न ददौ पतिरूपिणे ॥१०१।पतिरेव समायाति जानाति गौतमः स्वयम् ।यावन्नाऽऽलिंगनं कुर्वे तावद् दण्डं प्रदास्यति ॥१०२ ॥इति कृत्वा तदाऽहल्या पतिरूपाऽतिमानिनी ।न ददौ शापमिन्द्राय प्रतिर्दण्डं ददौ स्वयम् ॥१०३॥इन्द्रो योनिसहस्राढ्यो ययौ स्वर्गं मलान्वितः ।चन्द्रो गुप्ततया तस्माद् दुद्राव भयविह्वलः ॥१०४ ॥गौतमः स्वां तदा पत्नीं प्राह सौम्ये! किमिच्छसि ।नातिरूपं सुखदा तु नारीमत्त्वं च दुःखदम् ॥१०५॥त्वं प्रिये! धर्ममूर्धन्यं पालयस्येव सर्वथा ।अहं तप्तुमनाः शश्वत् द्वयोः साह्यं न सौख्यदम् ॥१०६॥यदि त्यजामि वैराग्याद् दुःखिता त्वं भविष्यसि ।यदि रक्षामि मत्पार्श्वे चिन्तेदृशी हि जायते ॥१०७॥तस्माद् वद प्रिये! त्वां वै किं करोमि यथा पुनः ।मम चिन्ता न ते धर्मविघ्नो मा च भवेत्पुनः ॥१०८॥इति पत्युः सती श्रुत्वा पतिं प्राह पतिव्रता ।निवसामि सदा स्वामिन्! स्थाल्यामत्राऽऽत्मपार्वती ॥१०९॥तथा तवाऽऽसनरूपा ह्युपला संवसाम्यहम् ।नित्यं तवाऽऽश्रिता स्वामिन्! त्वयाऽधिष्ठितभूमिका ॥११०॥भवामि तेन ते चिन्ता न स्यान्न धर्मविघ्नता ।पातिव्रत्यं सदा मे च रक्षितं संभविष्यति ॥१११॥समुद्धारश्च वै स्वामिंस्तव योगाद्भविष्यति ।इत्युक्त्वा सा पतिं नत्वाऽभिषिक्ता स्वामिना द्रुतम् ॥११२ ॥बभूव ह्युपला तत्र पतिपादाश्रया सदा ।पतिः प्राह दयिता स्वां रामः श्रीभगवान् स्वयम् ॥११३॥आगमिष्यति चात्रैव विश्रान्तिं यास्यति त्वयि ।तदा मया सह पत्नि! वैकुण्ठं यास्यसि ध्रुवम् ॥११४ ।तावत्तत्र मनोऽभीष्टं तपः करोम्यहं सदा ।निराशिनो महाशान्तिर्मम ते च सदाऽत्र वै ॥११५॥आशावन्तः सदा दुःखसागराब्धौ निमज्जिताः ।पारं यान्ति न संसारिवासनानां कदाचन ॥११६॥मुक्तिः पाषाणकल्पा च प्रिये! विघ्नादिवर्जिता ।त्वया लब्धा पतिसेवा शिलासनमयी सदा ॥११७॥अहं स्थास्ये शिलामूर्ध्नि करिष्येऽत्र तपश्चिरम् ।त्रेतायां रामयोगेन यास्यावः परमं पदम् ॥११८॥दिव्यरूपेण तु साध्वि! द्वितीयेन सदा मम ।सेवाया सुस्थिरा भूत्वा वर्तस्वेदं ममेप्सितम् ॥११९॥इत्युक्तो साऽभवत्तत्रोपलाऽहल्या पतिव्रता ।स्वामी तस्या उपलायां तेपे तु गौतमस्तपः ॥१२०॥त्रेतायां रामयोगेन मतौ तौ परमं पदम् ।इति ते कथितं लक्ष्मि! त्वहल्यैश्वर्यमद्भुतम् ।पठनाच्छ्रवणाच्चास्य पातिव्रत्यं दृढं भवेत् ॥१२१॥इति श्रीलक्ष्मीनारायाणीय संहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽहल्यायाः पातिव्रत्यप्रतापेनाऽतिवृष्टौ काशीसम्प्लवे गंगाहिमाद्रिमेघेन्द्रवरुणरुद्रसंकर्षणयम-नारायणाद्यागमोऽतिवृष्टिशमनं मृतानां जीवन-मिन्द्रस्याऽहल्यास्पर्शमात्रे भगांगताऽहल्यायाउपलात्वं मोक्षणं चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥३७५॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP