संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २३७

कृतयुगसन्तानः - अध्यायः २३७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रुणु लक्ष्मि महानिद्रा पुण्यक्षयविधायिनी ।
सर्वथा परिहर्तव्या व्रतरात्रौ दिवाऽपि च ॥१॥
निद्रावृत्तिर्महाघोरा तामसी चित्तधूम्रिणी ।
अभावप्रत्ययालम्बनात्मिकाऽऽलस्यकारिणी ॥२॥
स्वाप्नदोषादिकर्त्री च भक्तिसेवाविघातिनी ।
कदाचिद्दोषबाहुल्ये राजसे पुष्टतां गते ॥३॥
ब्रह्मचर्यव्रतभंगप्रदस्रावादिकारिणी ।
व्रतनाशकरी स्यात् सा वायुवीर्यजवादिना ॥४॥
तस्माज्जागरणं कार्यं व्रतस्य निशि सर्वथा ।
बह्वाहारेऽन्नसंभारे प्रायः शारीरधातवः ॥५॥
पुष्टा भवन्ति तद्योगात् क्वचिद्धातुक्षयेऽवशात् ।
ब्रह्मचर्यव्रतभंगे तूपवासो निरर्थकः ॥६॥
तस्मात् तदा फलाहारादिकं संक्षेपतो मतम् ।
अन्नाहारः सदावर्ज्यो व्रतस्य दिवसे जनैः ॥७॥
निद्रा तु सर्वथा वर्ज्या सत्त्ववृत्तिविनाशिनी ।
पुण्यक्षयप्रदा सर्वदोषाधाराऽतितामसी ॥८॥
विजेतव्या प्रयत्नेन भक्तेन व्रतिना खलु ।
व्रतपुष्टिकरं जागरणं कार्यं प्रयत्नतः ॥९॥
एकादश्यां जनः कृष्णं संपूज्य प्रेमतो निशि ।
वैष्णवैः सह सम्मील्य कुर्याज्जागरणं व्रते ॥१०॥
गीतवाद्याभिनृत्यादि संहिताकथनादिना ।
वार्तया भगवप्कीर्त्यात्मिकया सेवया च वा ॥११॥
कुर्याज्जागरणं भक्तो व्रतसाफल्यहेतवे ।
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥१२॥
फलमर्घ्यं तथा श्रद्धां भूषणं प्रेमभावनम् ।
विनिद्रं च व्रतं सर्वं दद्यात्कुर्याच्च भक्तितः ॥१३॥
स सर्वपापाऽतिसंशुद्धो जायते पार्षदो हरेः ।
व्रते जागरणे प्राप्ते सोत्साहा वैष्णवास्तदा ॥१४॥
सोपवासं व्रतं जागरणं कुर्युः सताण्डवम् ।
तद्व्रतं विष्णुसंज्ञं वै कुर्युर्नाम्नां च कीर्तनम् ॥१५॥
मनसा श्रीहरिं ध्यात्वा मुहुर्नाम वदन्ति वै ।
ते तु धन्यतमा लोके तारका मम पार्षदाः ॥१६॥
प्रश्वासे च तथा श्वासे हरेर्नाम चतुर्गुणम् ।
प्रहरे नामरटणं फलदं कोटिसद्गुणम् ॥१७॥
चतुर्यामे नामभक्तिस्त्वसंख्यफलदा मता ।
जागरं निमिषार्धं च कृतं मूर्तेश्च सन्निधौ ॥१८॥
तत्फलं कोटिकोट्यब्जगुणितं स्यादनुत्तमम् ।
कृष्णाग्रे नर्तनं कुर्यात् साश्चर्यं प्रेमसंभृतम् ॥१९॥
सोत्साहं च प्रमादालस्यादिवर्जितमेव च ।
प्रदक्षिणं तथा कुर्यात् नमस्कारं मुहुर्मुहुः ॥२०॥
आरार्त्रिकं तथा कुर्याद् यामे यामे पुनः पुनः ।
चेतसा चार्द्रभावेन पश्यन्मूर्तिं क्षणे क्षणे ॥११॥
तालिकावादनं कुर्यादित्येवं जागरं भवेत् ।
एवं बहुगुणैर्युक्तं कुर्याद् यो जागरं व्रते ॥२२॥
वित्तशाठ्यं न च कुर्यान्न लोभं पूजने तथा ।
एवं यः कुरुते भक्त्या न पुनर्जायते भुवि ॥२३॥
जागरणं प्रकुर्वन् वै व्रती विष्णौ हि लीयते ।
नास्तिकत्वेन चात्मानं व्रते नैव प्रतारयेत् ॥२४॥
नारायणव्रते जागरणे तु ह्युपहासकृत् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते ( कृमिः) ॥२५॥
वेदवेत्ता च यो विप्रो नर्तने चोपहास्यकृत् ।
दोषलिप्तो भवेदत्र चाण्डालादधमो हि सः ॥२६॥
क्षणं वा प्रहरं वापि जागरं नर्तनान्वितम् ।
करोति यो भावयुक्तश्चतुर्वर्गफलं व्रजेत् ॥२७॥
याजको वैदिकश्चापि जागरे प्रविनिन्दकः ।
एकविंशतिकुलयुक् नरकं प्रतिपद्यते ॥२८॥
नास्तिकभावसर्पेण दंष्टाः स्वपन्ति वै व्रते ।
मायया मोहिता नैव कुर्वन्ति जागरं हि ते ॥२९॥
विनष्टास्ते न सन्देहो मोक्षात्प्रच्यविता हि ते ।
नेत्रहीना ज्ञानहीनाः पुमर्थविगता हि ते ॥३०॥
जागरे वाचके प्राप्ते हरेः कथां प्रकारयेत् ।
श्रावयेद् विविधान् दिव्याँश्चमत्कारान् हरेर्मुहुः ॥३१॥
वाचकस्याऽप्रलाभे तद्कीर्तनं कारयेन्मिथः ।
गायनं नर्तनं कुर्यात् हास्यादि हरियोगजम् ॥३२॥
उत्सवो रासरमणं कृष्णलीलां प्रगापयेत् ।
अश्वमेधसहस्रस्य वाजपेयाऽयुतस्य च ॥३३॥
पुण्यं भवेत् कोटिगुणं व्रते जागरणे कृते ।
विना जागरणं व्रते व्रतपुण्यक्षयो भवेत् ॥३४॥
पितृपक्षा मातृपक्षा भार्यापक्षास्तथा युजः ।
शतशश्चोद्धरन्त्येव व्रते जागरणे कृते ॥३५॥
उपोषणस्य रात्रिर्वा दिनं वा निद्रया यदि ।
विध्यते तद्व्रतं विद्धं चासुरं व्रतमेव तत् ॥३६॥
फलं त्वासुरभावात्म शापात्मकं च तद्भवेत् ।
विष्णुस्तत्र न चायाति त्वागत्यापि विगच्छति ॥३७॥
हरिर्निद्राकृते स्थाने शापं दत्त्वा विगच्छति ।
कृते तु जागरे स्थाने लक्ष्मीरुद्धोपि वै हरिः ॥३८॥
समागच्छति दृष्टः सन् भक्तेषु नृत्यति स्वयम् ।
प्रेमपूर्णप्रभक्तेषु प्रविष्टोऽतीव हृष्यति ॥३९॥
यावद् व्रतानि कुरुते जागरं हरिसन्निधौ ।
तावद् युगानि व्रतकृद् विष्णुलोके महीयते ॥४०॥
एकादश्यादिव्रताहे शश्वन्निद्रालुसद्गृहे ।
असुरा राक्षसा याम्या नृत्यन्त्यनिष्टकारकाः ॥४१॥
हरेर्व्रतदिने गानं पाठं जपं समाचरेत् ।
मूकवन्निर्गमे सप्तजन्मसु मूकता भवेत् ॥४२॥
हरेरग्रे नर्तनं यो नाचरत्यतिलज्जया ।
पंगुत्वं तस्य विज्ञेयं चात्र परत्र जन्मनि ॥४३॥
गीतनृत्यजपजागरणकर्तुस्तु मत्पदम् ।
वासाय वैष्णवं सर्वश्रेष्ठं मया विनिर्मितम् ॥४४॥
कारयेच्चान्यभक्तान् यो जागरं वै हरेर्दिने ।
अनिमेषो मम पार्षदाग्र्यो वसेत् स धामनि ॥४५॥
निद्रालुं जाग्रति भावे योजयेद्यो हरेर्दिने ।
वसेच्चिरं तु वैकुण्ठे पितृकोटिभिरन्वितः ॥४६॥
मतिं ददाति यः कृष्णव्रते जागरणं प्रति ।
षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेद्धि सः ॥४७॥
कामदोषकृतं पापं जन्मन्यन्यत्र वां कृतम् ।
श्रीहरेर्जागरे सर्वं निशि नाशं प्रगच्छति ॥४८॥
हरेश्चाग्रे तथा शालग्रामस्याग्रे प्रजागरम् ।
कुर्वन्ति तु फलं तेषां कोटितीर्थकृतं भवेत् ॥४९॥
अन्यथा सुकृतं सर्वं नश्यत्येव हि निद्रया ।
निन्दयापि व्रतं नश्यत्येव फलं कृतो भवेत् ॥५०॥
पूरुषार्थाः सम्पदश्च पुत्रा कीर्तिर्धनादिकम् ।
शाश्वताः स्वर्गलोकाय लभ्यन्ते जागरे व्रते ॥५१॥
विना जागरणं नैव विष्णोः प्रसन्नता भवेत् ।
यज्ञायुतैः शाश्वतो वै लोको नैवाप्यते क्वचित् ॥५२॥
व्रते च जागरे लब्धे लभ्यते धाम शाश्वतम् ।
जागरार्थं गच्छतः स्यात्पदेऽश्वमेधजं फलम् ॥५३॥
पादयोः पांसवः सक्तास्तावद्वर्षसहस्रकम् ।
जागरी तिष्ठते दिव्ये वैकुण्ठे च परे दिवि ॥५४॥
व्रतरात्रौ जागरार्थं गन्तव्यं हरिमन्दिरम् ।
पादलग्नरजःसंख्ययुगवासो हरेर्गृहे ॥५५॥
एकादश्यास्तथा द्वादश्याश्च रात्रौ प्रजागरम् ।
प्रकर्तव्यं प्रयत्नेन जीवाऽज्ञानविधूतये ॥५६॥
उत्तमं च मध्यमं च कनिष्ठं चेति वै मतम् ।
त्रिधा जागरणं तत्र चोत्तमं कार्यमेव तत् ॥५७॥
कथायुक्तं गानयुक्तं नृत्ययुक्तं विशेषतः ।
सात्त्विकीभावनायुक्तं जागरं तूत्तमं मतम् ॥५८॥
गान्धर्वहरिकीर्त्यादियुतं तालादिसंयुतम् ।
दीपधूपादिशोभाढ्यं जागरं चोत्तमं मतम् ॥५९॥
भक्तिभावसमायुक्तं नामोच्चारसमन्वितम् ।
नैर्मल्यतुष्टिजनकं जागरं चोत्तमं मतम् ॥६०॥
लोकरंजनकोत्साहप्रोत्सवादिसमन्वितम् ।
नैवेद्यफलपानादियुतं जागरमुत्तमम् ॥६१॥
हरेरारार्त्रिक यत्र हरेर्यत्र प्रदक्षिणम् ।
हरेरग्रे राशयोगस्तद्वै जागरमुत्तमम् ॥६२॥
शास्त्रज्ञानं गुरोः सेवा देवसेवा च यत्र वै ।
स्मरणं पादसेवा च जागरं चोत्तमं हि तत् ॥६३॥
सर्वभावा हरौ यत्र वैष्णवाग्र्याश्च यत्र वै ।
तज्जागरं हि कर्तव्यं पक्षयोः शुक्लकृष्णयोः ॥६४॥
व्रतदानतपोहोमस्वाध्यायादिभिरित्यपि ।
किं चान्यैः पुण्यकार्यैर्वा न व्रते जागरं यदि ॥६५॥
प्रवासे च वने क्षेत्रेऽरण्ये ग्रामान्तरेऽपि च ।
वाटिकायां समाजे वा नद्यां शैलेऽतिगे रणे ॥६६॥
खिन्नाऽवस्थाऽतिकाले वा पराधीने महापथे ।
जागरणप्रकर्ता मे व्रते सोऽतीव मे प्रियः ॥६७॥
यस्य कस्यापि भक्तो वा मम भक्तोऽपि सर्वथा ।
व्रतेऽह्नि सर्वथा निद्रात्यागं कुर्याद् व्रजेत् फलम् ॥६८॥
शैवः सौरश्च शाक्तश्च गणेशभक्त इत्यपि ।
मम विभूतिभक्तोऽपि व्रते जागरणं चरेत् ॥६९॥
निद्रालुस्तु पशुर्ज्ञेयः इन्द्रियाराम एव सः ।
विप्रियं मे कृतं तेन व्रते नो जागरं कृतम् ॥७०॥
निद्रा च भोजनं चैवेन्द्रियाहारान् करोति यः ।
व्रते मे स भवेत् तिर्यग्योनौ प्रतिकणं मुहुः ॥७१॥
निहताः पितरस्तेन देवानां च वधः कृतः ।
पुण्यरेखा हता तेन सौभाग्यं नाशितं तया ॥७२॥
सम्पदो विपदां पात्रं कृतं तेनातिमानिना ।
जागरं च व्रतं येन कृतं नैव हरेर्दिने ॥७३॥
सतालीवादनं कुर्वन् गालवाद्यं च वादयन् ।
नृत्यन् गायन् कौतुकं दर्शयन् वै जागरं चरेत् ॥७४॥
चरित्राणि स्मारयैश्च रंजयन् वैष्णवान् जनान् ।
रोमाणि प्रेमपूर्णानि संप्रहृष्टानि दर्शयन् ॥७५॥
आलापान् जनयन् रम्यान् मिष्टान् भावान् प्रकाशयन् ।
हावान् व्यंग्यान् शक्तलक्ष्यान् कीर्तनार्थान् विवेचयन् ॥७६॥
एवं व्रते प्रकुर्वन् जागरं प्रेम प्रदर्शयन् ।
निमिषे निमिषे तस्य पुण्यं स्यान्नैमिषं तथा ॥७७॥
तीर्थकोटिफलं तस्य यज्ञकोटिफलं महत् ।
स्वर्गकोटिफलं चैव दानकोटिफलं महत् ॥७८॥
शान्तेन मनसा धूपं दीपं नीराजनं तथा ।
कुर्याच्च जागरं रात्रौ सप्तद्वीपाधिपो भवेत् ॥७९॥
महापापातिपापानि कोटिहत्यासमानि वै ।
सजागरे व्रते सम्यग् विलयं यान्ति खण्डशः ॥८०॥
एकतः सर्वपुण्यानि चैकतो व्रतजागरम् ।
जागरस्य महत्पुण्यं विशिष्यतेऽन्यपुण्यतः ॥८१॥
काशी द्वारावती रैवताचलः सोमपाट्टणम् ।
अर्बुदश्चारुणश्चैव मन्दरो हिमपर्वतः ॥८२॥
सह्याद्रिर्नवलक्षश्च विन्ध्यो द्रोणाचलस्तथा ।
महाकालवनं वृन्दावनं चावन्तिका तथा ॥८३॥
पुष्करं च प्रयागं च रेवा स्वर्णा यमस्वसा ।
गया च गोकुलं गोदावरी गंगा च भद्रिका ॥८४॥
गण्डकी ताम्रपर्णी च ब्रह्मपुत्रादयो नदाः ।
कुकुमवापिका माया कांची श्रीपुरुषोत्तमा ॥८५॥
सर्वे ते तीर्थविधिना कृता अपि न ते तथा ।
फलं यच्छन्ति वै यादृक् फलं हरिदिनव्रतात् ॥८६॥
सजागरात् कृतात् पुण्यं सर्वपुण्यातिगं यतः ।
तीर्थानि पर्वता नद्यः सागराश्च वनानि च ॥८७॥
अरण्यानि च चैत्यानि द्वीपाश्च पृथिवी तथा ।
तत्त्वानि देवाः ऋषयो मुनयः पितरोऽग्नयः ॥८८॥
गन्धर्वाः किन्नराः नागाश्चारणा ब्राह्मसृष्टयः ।
वैमानिकाश्च वैराजाः - कालाभिमानिकेश्वराः ॥८९॥
ये केचित्तारकाः प्रोक्तास्ते सर्वे लोकधारकाः ।
एकादश्या जागरे वै समागच्छन्ति सर्वतः ॥९०॥
ततो जागरकर्तारो देवा एव न संशयः ।
तत्र समागतान् देवान् प्रसादैश्च सुतर्पयेत् ॥९१॥
प्रासादिकं सुनैवेद्यं रक्षणीयं प्रयत्नतः ।
द्वादश्यां पारणायां तद् भक्षणीयं व्रतार्थिना ॥९२॥
प्रातःकाले ब्राह्मभागे स्नात्वा हरिं प्रपूज्य च ।
समर्पयेदुपवासं जागरं व्रतमित्यपि ॥९३॥
हरये चार्पयेत् सर्वं व्रतं च फलमित्यपि ।
प्रसीद श्रीहरे मे त्वं व्रतेनाऽनेन सर्वथा ॥९४॥
इत्युच्चार्य जलं दद्यात् पृथिव्यां हरिसन्निधौ ।
ज्ञानदो मुक्तिदो भक्तसुखदो भव सर्वथा ॥९५॥
इत्युक्त्वा च ततो नत्वा भोजयेद्वैष्णवान् व्रती ।
पारणां च ततः कुर्याद् यथासंभवमग्रतः ॥९६॥
दानं दद्यात्सर्वतोभद्राख्यमण्डलमित्यपि ।
सधान्यं गुरवे दद्याद् घटादिकं समूर्तिकम् ॥९७॥
प्रातर्यदा द्वादशी तु स्वल्पापि न भवेत्तदा ।
रात्रौ तु पारणां कुर्याद् द्वादश्यामेव सर्वथा ॥९८॥
न तत्र रात्रिदोषोऽस्ति निषेधो नास्ति पारणे ।
निशि स्नानं पारणं च तत्र दोषप्रदं नहि ॥९९॥
तत्पूर्वापरयामाभ्यां दिनवत् कर्म कारयेत् ।
यर्हि भवति स्वल्पापि द्वादशी पारणादिने ॥१००॥
उषःकाले द्वयं कुर्यात् प्रातर्मध्याह्निकं तदा ।
साधिता द्वादशी येन फलं तस्य ह्यनन्तकम् ॥१०१॥
एवं व्रतं कृतं येन साधितं सकलं भवेत् ।
द्वादशीं च व्रतं कृत्वा साधयित्वा हरेर्दिनम् ॥१०२॥
बहवो वैष्णवा दिव्या गता वैष्णवधाम यत् ।
नास्ति हरेः समो देवो न तिथिर्द्वादशीसमा ॥१०३॥
व्रतं नैकादशीतुल्यं त्रयं मोक्षप्रदं यतः ।
हरेर्योगाच्च तत्सर्वं भवेत् पूर्णं च शाश्वतम् ॥१०४॥
भक्तानां वल्लभं कुर्याद् भक्तानां वल्लभो हरिः ।
व्रतजागरणपूजाप्रकर्ता वल्लभो हरेः ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीव्रतजागरणादिमहिमनिरूपणनामा सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥२३७॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP