संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३९३ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३९३ Translation - भाषांतर श्रीनारायण उवाच-अथ प्रातर्नृपपुत्रः ऋतध्वजः सुमंगलैः ।वाद्यैश्च गीतिभिश्चापि पातालाख्यानकैस्तथा ॥१॥नागकन्याभिरत्यर्थं मिष्टस्वरैः प्रबोधितः ।स्नापितोऽम्बरितः शृंगारितोऽर्चितो विभूषितः ॥२॥भोजितः पायितश्चापि सुस्पर्शैः रंजितो मुहुः ।विज्ञापितश्च बहुधा रत्नादिग्रहणाय सः ॥३॥रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।यद्वाऽभिमतमत्यर्थं ग्रहणार्थं निवेदितः ॥४॥ऋतध्वजस्तदा प्राहाऽश्वतरं नागयोगिनम् ।तव प्रसादाद् भगवन् रत्नाद्यस्ति गृहे मम ॥५॥ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।न न्यूनं विद्यते किञ्चित्स्वर्गमन्यद् गृहेऽस्ति मे ॥६॥तत्रापि सात्त्वतानां तु तृणवन्मायिकं खलु ।तत्र लुब्धा जना नूनं धातृमायासुवंचिताः ॥७॥तवाऽनया सुमधुरया वाण्या सत्कृतिशीलया ।कृतकृत्योऽस्मि भावेन सफलं जीवनं तु मे ॥८॥पित्रा वै जीवनं सार्थं मात्रा च जीवनं सुखम् ।आरोग्येण च राज्येन वृद्धानां सेवया तथा ॥९॥त्वादृशानां कृपाभिश्च जीवनं सार्थकं मम ।अश्वतरस्तदा प्राह गार्हस्थ्यं भार्यया सुखम् ॥१०॥तत् तवास्ति न वा सौम्य! वद किं ब्रह्मवानसि ।इति पृष्टः समुवाच भार्या मम पतिव्रता ॥११॥सुता गन्धर्वराजस्य नाम्ना ख्याता मदालसा ।केनापि कृतवैरेण विप्रलब्धाऽत्यजत् तनुम् ॥१२॥तत आरभ्य लोके मे प्रतिज्ञां कृतवानहम् ।नान्या भार्या भवित्री मे वर्जयित्वा मदालसाम् ॥१३॥इत्यारभ्य सदा चास्मि ब्रह्मचर्यव्रतान्वितः ।ब्रह्मचर्येण वै लोका वैराजाः सन्ति निर्मिताः ॥१४॥मुक्तिलोको ब्रह्मचर्यपरस्याऽस्ति विनिर्मितः ।मानुषस्य जनेर्लाभः संहितायां प्रपठ्यते ॥१५॥स लाभोऽस्ति मदर्थं वाऽप्येकपत्नीव्रतस्य च ।अश्वतरस्तदा प्राह शृणु राजकुमारक! ॥१६॥भाग्येन वर्धसे नित्यं चैकपत्नीव्रतेन वै ।पातिव्रत्येन ते पत्नी सौभाग्येन प्रवर्धते ॥१७॥या सा मदालसा राज्ञी श्रुत्वा पत्युर्विनाशनम् ।समाधिना लयं प्राप्ता गता स्वर्याम्यकं पुरम् ॥१८॥पतिमन्वेषितुं नैजं धर्मराजश्च तां जगौ ।पतिस्ते वर्तते साध्वि! जीवितो यमुनातटे ॥१९॥योगायाऽश्वतरस्तस्य यतते तिष्ठ वै क्षणम् ।इत्युक्ता सोषिता तत्र मया तप्त्वा हरात्खलु ॥२०॥वरदानं परं प्राप्य पुत्रीरूपा तव प्रिया ।आसादिता दिव्यरूपा जातमात्रा सुकामिनी ॥२१॥तादृशी तव योग्या च पूर्वं यादृश्यभूद्धि सा ।त्वदर्थं मानसी कन्या मद्गेहे वर्तते सती ॥२२॥तुभ्यं दानाय सौम्याऽत्र मयाऽस्ति निश्चितं यतः ।तस्मात् पश्येह वत्स त्वं सतीं चेद् द्रष्टुमिच्छसि ॥२३॥अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ।इत्युक्त्वा त्वानयामास तस्य पुत्रीं मदालसाम् ॥२४॥प्राह सेयं न वा वत्स! भार्या ते या मदालसा ।स दृष्ट्वा तां सम्मुखं द्राक् हृष्टरोमा बभूव ह ॥२५॥रुरोद पूर्वां संस्मृत्य प्रेमपूरितमानसः ।अश्वतरस्तदा कामफलं बद्ध्वा करेऽस्य वै ॥२६॥अग्निं प्रज्वाल्य विधिवत् कन्यारत्नं ददौ पुनः ।प्राप्य भार्यां सतीं सोऽपि यौतकं च धनं बहु ॥२७॥नागकन्यास्तथाऽन्याश्च दासीर्दासाँश्च सेवकान् ।मणीन् हिरण्यभूषाँश्च मदालसां नवीकृताम् ॥२८॥प्रतिलभ्य प्रणम्याथ नागेशं श्वशुरं मुहुः ।शालकौ द्वौ समाश्लिष्य श्वश्रू नत्वा तथाऽपरान् ॥२९॥निर्गतः स्वाययौ नैजं पुरं यानेन वायुना ।आगम्य स्वपुरं पित्रोर्नत्वा सर्वमशेषतः ॥३०॥कथयामास तन्वंगी पुनः प्राप्ता यथा तथा ।ननाम सा च चरणौ श्वश्रूश्वशुरयोः सती ॥३१॥अन्यांश्च पूजयामास यथान्यायं यथावयः ।ततो महोत्सवो जातः पौराणां सर्वथा प्रियः ॥३२॥ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया ।अथ कालेन महता शत्रुजिन्मरणं गतः ॥३३॥ऋतध्वजोऽभवद्राजा पत्नीव्रतः सुधार्मिकः ।मदालसाऽभवद् राज्ञी राजमाता पतिव्रता ॥३४॥शतसाहस्रदासीषु सतीष्वपि मदालसा ।लक्ष्मीवत् स्वपतिं नित्यं सिषेवेऽङ्गक्रियादिषु ॥३५॥पतिं मत्वा कृष्णनारायणरूपं हरिं प्रभुम् ।सम्पन्मोक्षकरं नित्यसम्बद्धं सेवते स्म सा ॥३६॥भोजयित्वा सदा भुंक्ते वस्तु समर्प्य सेवते ।युंक्ते सा च स्वके कार्ये पतिप्रासादिकं सदा ॥३७॥प्रातर्ध्यानं हरेः पूजां दानं चात्मविमर्शनम् ।अतिथेर्भोजनं दत्वा स्वात्मार्थं युक्त एव सा ॥३८॥ब्रह्मार्पणं ब्रह्मसेवां ब्रह्मध्यानं तु सात्त्वती ।महाभागवती साध्वी निष्पाद्य वर्तते परे ॥३९॥दिवानिशं हरेर्लीलाकीर्तनं सा करोति वै ।अन्यान् श्रावयति हरेश्चमत्कारान् मुहुर्मुहुः ॥४०॥एवं वै वर्तमानायाः संजज्ञे प्रथमः सुतः ।तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥४१॥तुतुषुस्तेन वै सर्वे जहास च मदालसा ।यस्या ब्रह्मस्वरूपायां हर्षशोकौ समौ यतः ॥४२॥पुत्रं तु विक्रमं साध्वी बालमुत्तानशायिनम् ।रुदन्तमभिशान्त्यर्थमुल्लापनमिषेण सा ॥४३॥स्मृत्वा हरिं तथात्मानं नित्यशुद्धं निरञ्जनम् ।पुत्रं मुक्तं देहधर्महीनं प्राह मदालसा ॥४४॥शुद्धः स्वयं ब्रह्मसुरूपवानसिप्रकल्पितं नाम च तेऽद्य कृत्रिमम् ।अपूर्वदेहादिकमाप्तवानसिह्यशोकनो रोदिषि कस्य शोकवान् ॥४५॥हानौ सदा रोदिति देहधर्मवान्सा न त्वयि ब्रह्मनिरञ्जनेऽस्ति वै ।सदाऽसि पूर्णो निजतृप्तिसंभृतःसदा प्रतप्तस्य कथे नु रोदनम् ॥४६॥आगन्तुका ये तु गुणाः सुखादयोनियोजयन्त्येव तदिष्टवेदने ।ततः प्रवृत्तौ च फले शुभाऽशुभेअसारचक्रे हि मुहुः क्षिपन्ति ते ॥४७॥शान्ताश्च घोराश्च तथा प्रमूढादेहा विशेषाः परिवर्त्तयन्ति ।तद्वेगवेगी गुणवेगहीनोममत्वभाक् तापविभर्जितः स्यात् ॥४८॥नानेन देहेन तु किंचिदस्तिप्राप्तव्यमर्थं न च शाश्वतं वा ।येनाऽस्ति लभ्यं स तु नित्यपूर्णःकथं प्रपूर्णस्य नु रोदनं ते ॥४९॥लब्धं गतं सर्वमनित्यमेतद्दृष्टं मया जन्मनि चात्र तत्र ।गतिस्वभावं पुरु नश्वरं चशोकास्पदं त्वं नहि तादृशोऽसि ॥५०॥आस्ते जलं जायते वर्धते चसन्तिष्ठति क्षीयते नाशमेति ।एते तु धर्मा हि भूतेषु सन्तिन ते कथं कस्य हानेर्हि शोकः ॥५१॥न तेऽस्ति वृद्धिर्न च तेऽस्ति हानि-स्तादृक्स्वभावेऽत्र न कंचुके त्वम् ।शोकं व्रजेथाः कुरु चात्मवित्तिंनैसर्गिकानन्दमयीं प्रशस्तिम् ॥५२॥तातेति किञ्चित् तनयेति कञ्चि-दम्बेति कांचिद् दयितेति कांचित् ।ममेति किंचिन्न ममेति किंचिद्भूतात्मकं मा त्वयि मानयेथाः ॥५३॥भोगः सदा मिश्रित एव वर्ततेमिष्टस्तथाऽमिष्ट इति प्रतीतितः ।विज्ञस्य मिष्टेऽपि न मिष्टताऽस्ति वैमूढस्य दुःखेऽपि न दुःखताऽस्ति च ॥५४॥अहंममेत्यस्ति कृतं नवं नवंगतं गतं वक्ति न तेऽस्त्यहंममः ।वृथा मतं दुःखकरं हि बाल्यतःशीर्णे विकारेऽपि न तद् वियास्यति ॥५५॥चक्षुश्च कर्णश्च सुनासिका चमुखं रदास्त्वक् श्रवणं मनश्च ।जिह्वा करौ पत् मलमूत्रमार्गौनाभिश्च नामानि न ते हि सन्ति ॥५६॥क्षेत्राणि यद्वत् खलु मृत्तिकायाःसरांसि यद्वत् खलु सजलाद्याः ।स्वर्गाणि यद्वत् खलु तेजआद्याःप्राणाश्च वाता न हि ते त्वदीयाः ॥५७॥यथाऽत्र याने बहुमार्गगामिनिसचेतनस्त्वं सुरथी प्रगच्छसि ।त्वदात्मके दिव्यचिदम्बराऽनसितथैव यन्ताऽस्ति तमच्युतं स्मर ॥५८॥इदं वपुर्गत्वरमेव ते च मेपितुश्च तद्वद् गतमेव तत्पितुः ।यथैवं भूतं सदृशं तु भाविन-स्ततोलभस्वाऽङ्ग! वपुस्तु शाश्वतम् ॥५९॥श्रीकृष्णनारायण! राधिकापते!रमापते! माधव! पार्वतीपते! ।लक्ष्मीपते! भक्तपते! प्रभापते!'रटांग! यच्छाश्वतमाप्यसे तनुम् ॥६०॥न तेऽस्ति निद्रा न च तेऽस्ति तन्द्रान तेऽस्ति माता न च मेऽस्तिपुत्रः ।न तेऽस्ति बाल्यं न च मेऽस्ति वृद्धिःक्रमाऽक्रमौ ब्रह्मणि ते न मे च ॥६१॥आत्मेति जानन्परमात्मसेवकोहृदाचिता वा मनसा च विज्ञया ।आनन्दमग्नोऽनुभवेऽपरोक्षकेकार्ष्णं रसं चूषति तृप्तिमश्नुते ॥६२॥पृथ्व्यां यथा सन्ति सुदोलनांघ्रयोदोलोपरिस्तंभगताः पटांघ्रयः ।पटान्तराले चरणौ तव स्थितौस्वदन्तरे यच्चरणौ हि तं भज ॥६३॥अमूर्तके मूर्त इव स्थितः प्रभुःसंरक्षको मोक्षद ईश्वरेश्वरः ।स एव माता च पिता विशालदृगविक्रान्तनामाऽपि स एव तं भज ॥६४॥आत्माऽसि मुक्तोऽसि सदीश्वरोऽसिब्रह्माऽसि दिव्योऽसि सदासुखोऽसि ।नरोऽसि नारायणरक्षितोऽसिनिजस्वरूपोऽसि भजाऽक्षरेशम् ॥६५॥विद्विज्ञानमित्युक्तं क्रान्तं-क्रिया मता ततः ।ज्ञानक्रियायुतश्चात्मा विक्रान्तं त्वं निजं वद ॥६६॥वि-पक्षी तस्य वै पक्षौ संकल्पः शक्तिरित्यमू ।संकल्पशक्तिपक्षाभ्यां क्रान्तस्त्वं स्वं निजं वद ॥६७॥विश्च ज्ञानेन्द्रियं प्रोक्तं क्रं च कर्मेन्द्रियं तथा ।तयोरन्तर्गतश्चात्मा विक्रान्तं त्वं निजं वद ॥६८॥आत्मानं त्वं विजानीहि देहगेहविलक्षणम् ।सच्चिदानन्दमेवेशं शोकस्त्वां न स्पृशेत् ततः ॥६९॥इत्येवं प्रथमं पुत्रं बोधदानेन सा सती ।मुक्तं कृतवती बाल्ये योगिराजं कृतार्थकम् ॥७०॥वर्धमानं सुतं नित्यं नवं नूत्नं प्रबोधनम् ।आत्मज्ञानमयं माता ददात्युल्लापनादिषु ॥७१॥निरहंकारतां प्राप्तो निर्ममत्वं च सर्वथा ।आत्मबलं परं लेभे ज्ञानं लेभे च सन्मयम् ॥७२॥माता सा जननी सैव यया बालोऽतिबोधितः ।मुक्तिमार्गगतः स्याच्च बन्धाद्भवाच्च मुच्यते ॥७३॥मातृभाषापरिबोधे त्वात्मबोधमवाप्तवान् ।इत्थं मात्रा स तनयो जन्मप्रभतिबोधितः ॥७४॥देहसौख्यातिगो जातो विरागो विषयाऽहतः ।यौवनेऽपि न रागात्मा द्वेषश्चास्य न कुत्रचित्। ॥७५॥स्त्रीपुंभावे कुणपेऽत्राऽनित्ये दुःखे विनाशिनि ।भोगबुद्धिरनुत्पन्ना ब्राह्मरूपेण वर्तिनः ॥७६॥रूपं रसं तथा गन्धं स्पर्शं च श्रवणं तथा ।अनात्मीयं परं मत्वा न बबन्धापि तत्र वै ॥७७॥काये पुष्टे बले जाते बलं पाषाणवन्मतम् ।इन्द्रियाणां गोलकानि कोष्ठलानीव मन्यते ॥७८॥एवं रागविहीनः स निर्द्वन्द्वः स्वस्वरूपवान् ।चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥७९॥स्वशरीरेऽनहंकारो राज्येऽहंकारवर्जितः ।क्षेत्रे हस्तिनि याने च वाहने राष्ट्रके तथा ॥८०॥स्नेहभावविहीनोऽसौ बन्धनं नाऽऽप्तवान् किल ।दासेषु भृत्यवर्गेषु दासीषु नगरीष्वपि ॥८१॥भवनेषु वस्त्रभूषाऽतिभोग्यवस्तुकेष्वपि ।न वै चक्रे मनः किञ्चिन्मुक्तवर्यो यथाऽभवत् ॥८२॥भोजने रमणे पाने खाद्ये जैह्व्येऽपि सर्वथा ।रसास्वादविहीनोऽसौ यतिराडिव लक्ष्यते ॥८३॥रत्नहारादिभूषासु गन्धसुगन्धिवस्तुषु ।द्रवद्रव्येषु तैलादौ कज्जलादौ विरागवान् ॥८४॥प्रदर्शनेषु मल्लानां क्रीडासु वारयोषिताम् ।गीतिषु नर्तकीनां च नृत्येषु विमना इव॥ ॥८५॥राज्ञां समाजे चोत्साहे प्रजोत्सवेषु केलिषु ।अरण्यादिप्रवासेऽपि मृगयादौ विरागवान् ॥८६॥दण्डदानेषु हिंस्रेषु कर्मसु व्याहृतौ तथा ।व्यवहारेषु च क्रूरनिर्दयेषु विरागवान् ॥८७॥ब्रह्मचर्ये तथा शौचे सन्तोषे तपसि ध्रुवे ।स्वाध्याये देवपूजायां सदा प्रोत्साहवानभूत् ॥८८॥सत्ये सर्वविधे मौने चाऽस्तेये मानसे बहिः ।अपरिग्रहणे चापि धैर्ये कामादिवर्जने ॥८९॥गुरोः प्रसेवने पित्रोः सेवने वृद्धमानने ।अतिथिस्वागते भक्तदर्शने मुक्त एव सः ॥९०॥श्रद्धालुः सर्वदा चास्ते सर्वथा चास्तिकः कृतिः ।विवेकी च विमोकाढ्यो ब्रह्माभ्यासपरः सदा ॥९१॥सतां सेवापरश्चापि सदा हरिक्रियापरः ।कल्याणकृत्प्राणिनां च हर्षोद्वेजनवर्जितः ॥९२॥एवं सनकतुल्यः स व्यजायत शिशुत्वतः ।दृष्ट्वा सुतं महामुक्तं वैष्णवं परमं समम् ॥९३॥माता चातीव जहृषे पिताऽप्यानन्दवानभूत् ।प्रजा भृत्यास्तथा चान्ये मेनिरे देवमेव तम् ॥९४॥अणिमा महिमा त्वस्य गरिमा लघिमा तथा ।प्राप्तिः कामावसाना च वशितेशित्वरूपिणी ॥९५॥शब्दऊहश्चाध्ययनं दुःखनाशास्त्रयस्तथा ।सुहृत्प्राप्तिर्ज्ञानदानं तथा तारा सुतारिका ॥९६॥सर्वा आसन् पादयोश्च सिद्धः सः परमो ह्यभूत्॥अप्रतिहतकामः स मुक्तो बभौ सुजातवत् ॥९७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पाताले कृतध्वजस्य मदालसालग्नितस्य पितृराज्यं प्रत्यागमनं, विक्रमाख्यपुत्रजन्म, तस्मै मदालसाकृतविवेकोपदेश इत्यादिनिरूपणनामा त्रिनवत्यधिकत्रिशततमोऽध्यायः ॥३९३॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP