संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०९

कृतयुगसन्तानः - अध्यायः ४०९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पातिव्रत्यपरायणाम् ।
कथां त्वाश्चर्यपरमां पूर्वयुगानुसंभवाम् ॥१॥
कन्या विशालराजस्य वीरा धर्मपरायणा ।
विशालेन कृते स्वयंवरे राजन्यशोभिते ॥रे॥
करन्धमस्य पुत्रो वै जिग्येऽवीक्षित् स्वयंवराम् ।
अथराजन्यवर्गैः स बहुभिरेकलो रणे ॥३॥
पराजितः कुमारी सा हुता राजकुलैस्तदा ।
श्रुत्वा करन्धमो यायात्सैन्यलक्षसमन्वितः ॥४॥
नृपान् हत्वा सुतं स्नुषां नीत्वा गृहं ययौ पुनः ।
अवीक्षित् पितरं प्राह किं यशो मेऽवशिष्यते ॥९॥
नाहमेतां गृहीष्यामि न चान्यां योषितं पितः ।
परैर्यस्या निरीक्षन्त्याः संग्रामेहं पराजितः ॥६॥
परैः पराजितोऽहं यत् कातरेयं यथाऽबला ।
किमत्र मानुषत्वं मे पारतन्त्र्ये स्थितस्य वै ॥७॥
नारीमिषेण मे यशोहानिर्जाता परैरिह ।
तस्मान्नारी न वोढव्या पारतन्त्र्यप्रदायिनी ॥८॥
इत्युक्तवन्तं कन्या साऽवीक्षितं प्राह सुन्दरी ।
बहुपार्श्वसहायैस्तु सर्वे युद्ध्यन्ति लीलया ॥९॥
एकेन बहूनां युद्धं शौर्यव्यञ्जकमेव तत् ।
विक्रमस्ते महान् राजन् बहुभिः संपरीक्षितः ॥१०॥
एकेन सह चैकस्य युद्धं चेत् समजायत ।
एते यममहीमाना व्यजायन्तेति धारये ॥११॥
अजेयोऽयं महावीरो बहुभिर्मिलितैर्जितः ।
अत्रार्थस्तु स्फुटो भाति युद्धे तेऽप्यखिला जिताः ॥१२॥
शौर्यविक्रमसंयुक्तमिमं सर्वमहीक्षितः ।
धर्मयुद्धमधर्मेण जितवन्तोऽत्र का त्रपा ॥१३॥
तस्मादयं निर्मितो मे नान्यो मे भविता पतिः ।
यदि राजन्य! चेन्मां त्वे न गृह्णासि पतिव्रताम् ॥१४॥
कृत्वा तपश्चेह दिवि त्वां सम्पत्स्ये हि विद्धि तत् ।
वरं वृणोम्यहं नाथ मां भवान्यदि नेच्छति ॥१५॥
तपसोऽन्यो न मे भर्ता जन्मन्यस्मिन् भविष्यति ।
एवमुक्तेऽप्यवीक्षिति निर्मनस्के व्यलोकिते ॥१६॥
कन्या जगाम तपसे वैराग्यं परमास्थिता ।
निराहारास्त्रिमासा वै गताश्चास्या ततः पुनः ॥१७॥
देहत्यागाय सन्नद्धा ज्ञात्वा देवास्तदन्तिकम् ।
दूतं संप्रेषयामासुर्मात्याज्यो देह आह ताम् ॥१८॥
त्वं भविष्यसि कल्याणि! जननी चक्रवर्तिनः ।
पुत्रेणाऽरयो हन्तव्या म्लेच्छा दुष्टाश्च दस्यवः ॥१९॥
पालनीयं भूतलं च धर्मे स्थाप्यास्ततः प्रजाः ।
यष्टव्यं विविधैर्यज्ञैः षट्साहस्रैश्च संख्यया ॥२०॥
सत्यं विना पतिं पुत्रः कथं मे स्यादुवाच सा ।
अवीक्षितमृते भर्ता नान्यो मे चात्र जन्मनि ॥२१॥
स च नेच्छति मां वीरो बोधितोऽपि विरागवान् ।
दूतः प्राह वने तिष्ठ देहं पोषय भामिनि! ॥२२॥
तपःप्रभावात् सर्वं ते मनोऽभीष्टं भविष्यति ।
इत्युक्त्वा देवदूतः स ययौ देहं पुपोष सा ॥२३॥
अथाऽवीक्षित्प्रसूः प्राह पिता ते वृद्धतां गतः ।
एकस्त्वं तनयोऽवीक्षित्! त्यक्तदारपरिग्रहः ॥२४॥
पितरि स्वर्गते त्यय्यपुत्रे च पृथिवीमिमाम् ।
तवाऽरिपक्षः पुत्रात्र वंशक्षये प्रभोक्ष्यति ॥२५॥
वंशक्षये च पितरः श्राद्धपिण्डोदकक्षयाः ।
पतिष्यन्ति निरये तत् कुरु पित्रुपकारिताम् ॥२६॥
पौत्रस्य दर्शय सुखं हठं सर्वं परित्यज ।
नैष्ठिकतां परित्यज दारधर्मं समाचर ॥२७॥
कुलनाशे समापन्ने पापाय ब्रह्मचारिता ।
कुलोद्धारकरं गृहव्रतं श्रेष्ठं विपद्गृहे ॥२८॥
इत्यादिमातृवचनं स्वीचकार तथास्त्विति ।
अथ यातो वनं तत्र मृगयामचरद् वने ॥२९॥
शुश्राव सहसा शब्दं त्राहि त्राहीति योषितः ।
मा भैर्मा भैरिति वदन् राजपुत्रश्च तां ययौ ॥३०॥
सा चोवाच गृहीता दानवेन भयविह्वला ।
करन्धमसुतस्याहं भार्या साध्वी ह्यवीक्षितः ॥३१॥
ह्रियते रक्षसा पश्य तापसी वनवासिनी ।
इत्याकर्ण्य तदाऽवीक्षित् शरवर्षैरवाकिरत् ॥३२॥
दण्डैर्वृक्षैश्च पाषाणैर्भल्लैश्चान्यायुधैस्तदा ।
युद्धं तयोरभूद्घोरं वीरा वीरं समाश्रिताः ॥३३॥
तपोभागं ददात्यस्मै विजयार्थं जलेन वै ।
पातिव्रत्यप्रभावेण सत्यदार्ढ्यवृषेण च ॥३४॥
अवीक्षितोऽवनं साध्वी करोति समरे तदा ।
कुमारोऽपि बलं प्राप्तश्चिच्छेद दैत्यमस्तकम् ॥३५॥
सा तु हेतिक्षतदेहं सिषेवे स्वामिनं सती ।
वने प्राह तपः सर्वं तथा स्वप्नेऽपि लोकितम् ॥३६॥
परह्योऽहं सुनिद्रायां स्नातुं गंगाह्रदं गता ।
विकृष्टा केनचित् तत्र जलान्तर्मग्नतां गता ॥३७॥
ततो रसातलं नीता तत्र नागास्तदंगनाः ।
सहस्रशस्तुष्टुवुर्मां ययाचिरे सुरक्षणम् ॥३८॥
अपराधं करिष्यन्ति सर्पास्तव सुतस्य वै ।
क्षन्तव्यं तत् निवार्यः सः प्रसादं क्रियतामिति ॥३९॥
तथेति च मया प्रोक्ते पूजिता प्रापिता वनम् ।
दृष्टोऽत्र राजपुत्रोऽवीविक्षित् पतिर्यो हि मन्मतः ॥४०॥
तावन्निद्रा गता दृष्टं वनं प्रातः सुमंगलम् ।
नीलकण्ठः प्रियायुक्तः समागत्य मदन्तिके ॥४१॥
प्रातर्नृत्यं चकारात्र वामांगं मेऽस्फुरत्तदा ।
वामनितम्बगुह्यादिभागाश्चाप्यस्फुरँस्ततः ॥४२॥
शुकः शुकीसमेतश्चामृतपक्वफलं तदा ।
चञ्च्वा गृहीत्वा न्यक्षिपत् मदंके व्योमतो ब्रुवन् ॥४३॥
गतह्यश्च प्रगे श्वेतहस्ती दृष्टोऽत्र कानने ।
करेणुना च कलभैर्युक्तः कमलधृक् करे ॥४४॥
मम पाणिं गृहाण त्वं तवास्मि नापरस्य वै ।
इत्युक्तः सः प्राह भद्रं भवत्वेवं विधिकृतम् ॥४५॥
तदा पतिप्राणया वै तया संस्मारितो गुरुः ।
तुम्बुरुस्तत्र चायातो होमं चक्रे विधानतः ॥४६॥
तस्याः पाणिग्रहं चक्रे चावीक्षित् वनमध्यतः ।
तदा तत्र समायाता देवाः पुष्पाणि ससृजुः ॥४७॥
सस्वनुर्दिव्यवाद्यानि ननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वाः प्रसन्ना वनदेवताः ॥४८॥
उपजह्रुस्तयोस्तत्र मुनिगन्धर्वकिन्नराः ।
भक्ष्यानुलेपनवस्त्रस्रक्पानादिकमुत्तमम् ॥४९॥
स रेमे सहितस्तन्व्या सा च तेन ह्यवीक्षिता ।
ययौ राज्यगृहे स्वस्य पित्रोरभवदुत्सवः ॥५०॥
ददौ दानानि सर्वाणि पौत्रार्थं पितरौ तदा ।
अथ व्योम्ना ययौ भार्यासहितो मेरुपर्वतम् ॥५१॥
तया च रमतस्तस्य भामिन्या सह शोभने! ।
गन्धर्वलोके वीरस्य पुत्रं सा सुषुवे सती ॥५२॥
बभूव पुत्रे सञ्जाते गन्धर्वाणां महोत्सवः ।
जगुः केचित्तथैवान्ये मृदंगपटहानकान् ॥५३॥
अवादयन्त वाद्यांश्च वेणुवीणामयूरकान् ।
ननृतुश्च तदुत्साहे बहवोऽप्सरसा गणाः ॥५४॥
पुष्पवृष्टिमुचो मेघा जगर्जुर्मृदुनिस्वनाः ।
दम्पतीभ्यां स्मृतस्तत्राजगाम तुम्बुरुः स्वयम् ॥५५॥
अतिप्रसन्नो मनसा जातकर्माकरोत्तदा ।
चक्रे स्वस्त्ययनं तस्य बालस्य स्तुतिपूर्वकम् ॥५६॥
चक्रवर्ती महावीर्यो महाबाहुर्महाबलः ।
स्वस्तिमान् स्तात् अशेषायाः क्षितेः शास्ता सतीपतिः ॥५७॥
इमे शक्रादयः सर्वे लोकपालास्तथर्षयः ।
स्वस्ति कुर्वन्तु ते वीर वीर्यं चारिविनाशनम् ॥५८॥
मरुत्तव शिवायाऽस्तु वाति पूर्वो न यो रजः ।
मरुत् ते विमलोऽक्षीणोऽवैषम्यायाऽस्तु दक्षिणः ॥५९॥
पश्चिमस्ते मरुद् वीर्यमुत्तमं ते प्रयच्छतु ।
बलं यच्छतु चोत्कृष्टं मरुत् ते च तथोत्तरः ॥६०॥
इति स्वस्त्ययने गुरुरब्रवीत् मरुत्तं हि तम् ।
मरुत्तोऽयं समभवत् ख्यातः सुतो महर्षिभिः ॥६१॥
मरुत्तं च समादाय दम्पती स्वगृहं गतौ ।
गन्धर्वदेवमुनिभिः सह राज्ञः समीपतः ॥६२॥
बालं न्यस्य पितुस्त्वं के नत्वा वृत्तं च सर्वथा ।
निवेदयामासतुश्च राजापि पौत्रदर्शनात् ॥६३॥
सभाग्योऽस्मीत्यथाऽऽत्मानं प्रशशंस पुनः पुनः ।
राज्ञी चापि पुत्रपुत्रं दृष्ट्वा मुमोद हर्षिता ॥६४॥
ततः पुरे महानासीदानन्दः पौरवेश्मसु ।
राजापि वसुरत्नानि गोऽलंकारान्ददौ तदा ॥६५॥
पुत्रं राज्येऽभिषिच्यैव सभार्यो वनमाविशत् ।
तत्र वर्षसहस्रं स तेपे वै दारुणं तपः ॥६६॥
विहाय देहं नृपतिः शक्रस्याऽऽप सलोकताम् ।
पत्नी वर्षशतं स्थित्वा तमेवाप पतिं दिवि ॥६७॥
अथाऽवीक्षित् बहून् यज्ञान् इयाज स्वाप्तदक्षिणान् ।
तस्याऽप्रतिहतं चक्रमासीद् द्वीपेषु सप्तसु ॥६८॥
पुत्रस्तस्य मरुत्तोऽपि चक्रे यज्ञान् शतायुतान् ।
सौवर्णौ मुञ्जवान्नाम पर्वतश्चाहृतस्ततः ॥६९॥
सुवर्णं सर्वथा दत्तं तृप्त्या त्यक्तं च भूसुरैः ।
प्रासादादि समस्तं च सौवर्णं तस्य यत्क्रतौ ॥७०॥
विप्राणां परिवेष्टारो देवा ह्यासँश्च तन्महे ।
यज्ञभूमौ तदा ह्यासन् विश्वे देवाः सभासदः ॥७१॥
साध्या मरुतो वसवो रुद्रा आदित्यकास्तथा ।
निधयः ऋषयश्चास्य कर्मचारास्तदाऽभवन् ॥७२॥
ऋत्विक् तस्य तु संवर्तो बभूवांऽगिरसः सुतः ।
भ्राता वृहस्पतेर्विप्रो देवानामग्रणीस्तदा ॥७३॥
अथौर्वस्य ऋषेराश्रमोत्तमे नागराट् तदा ।
उपद्रवं चकारास्य नाशार्थं जगृहे धनुः ॥७४॥
तथा कोपान्महदस्त्रं संवर्तकं दधार च ।
मरुत्तो नागराजानां चक्रे तेन च मर्दनम् ॥७५॥
समागच्छत्पुनः स्वस्य राज्यं पृथ्व्यां शशास च ।
तस्य माता सती वीरा पिताऽवीक्षित् वनं गतौ ॥७६॥
स्वर्गं प्राप्तौ पातिव्रत्यपत्नीव्रतसमुद्धृतौ ।
मरुत्तभार्या विदर्भतनया च प्रभावती ॥७७॥
सुवीरपुत्री सौवीरी द्वितीयाऽभूत् सुभामिनी ।
केतुवीर्यसुता केशी तृतीयाऽभूत् सुभामिनी ॥७८॥
मद्रराजसुता चासीत् केकयी तु चतुर्थिका ।
सिन्धुराजसुता भार्यां सौरन्ध्री पञ्चमी ह्यभूत् ॥७९॥
चेदिराजसुता चाभूद् 'भार्या षष्ठी सुलोचना ।
तासां पतिव्रतानां तु पुत्रा अष्टादशाऽभवन् ॥८०॥
तेषां प्रधानो ज्येष्ठश्च नरिष्यन्तो नृपोऽभवत् ।
एते तु वैष्णवाः सर्वे राज्ञ्यः सत्योऽभवन् शुभाः ॥८१॥
महाभागवतो वंशः स्वस्वधर्मपरायणः ।
अभजद्भगवन्तं श्रीकृष्णनारायणं हरिम् ॥८२॥
धनदारा न वै भुंक्ते श्रीकृष्णार्पणमन्तरा ।
सर्वं स्वात्मार्पणं चक्रे श्रीकृष्णे परमात्मनि ॥८३॥
कृष्णनारायणं देव्यः पतिरूपमुपस्थितम् ।
मत्वा सेवां प्रकुर्वन्ति पत्नीर्लक्ष्मीश्च ते तथा ॥८४॥
एवं विष्णुसमास्ते वै ह्यासन् पृथ्व्यां महीक्षितः ।
पत्न्यो लक्ष्मीसमांश्चासन् वैष्णव्यो राजयोषितः ॥८५॥
एकदाऽभून्महाविष्णोः पूजायां समरुत्तकः ।
रुद्रस्तत्र समायातो ध्यानमग्ने तु राजनि ॥८॥
सत्येवं न च संप्राप्तः रुद्रः सत्कारमित्यतः ।
चुकोपाऽस्यातिवेगेन हन्तुं शूलं विचिक्षिपे ॥८७॥
हृदये लग्नमेवैतद् राज्ञोऽसून् हृद् विदार्य तत् ।
विजहार तदा साध्वी वैदर्भी तु प्रभावती ॥८८॥
हस्ते जलं समग्राह्योवाच यद्यहमंजसा ।
आजीवनं पतिसेवाकर्त्री चास्मि पतिव्रता ॥८९॥
तेन सत्येन रुद्रोऽयं मृतिं यातु पुनः पुनः ।
यदि देवाः पूजिताश्चातिथयश्चापि सत्कृताः ॥९०॥
प्रसादितः पतिर्नित्यं शूलं दूरं शनैर्भवेत् ।
यदि श्वश्रूश्वशुरयोः कृता सेवा सुश्रद्धया ॥९१॥
प्रसादितं भर्तृकुलं पतिहृत्सन्धितं भवेत् ।
गृहधर्मपरा नित्यं पतिदेवा भवामि चेत् ॥९२॥
पत्नीव्रतः पतिर्मे चेत् सजीवो भवतु प्रियः ।
सपत्न्यः स्वसृवन्नित्यं मानितास्तोषिता यदि ॥९३॥
मातृवत्पूजिताश्चापि दुहितृवत्सुरक्षिताः ।
तेन पुण्येन मे पापं रुद्रनाशान्न वै भवेत् ॥९४॥
इत्युक्तवती च यथा तथा सर्वं व्यवर्तत ।
हाहाकारो महानासीद् रुद्रनाशोऽतिदुःसहः ॥९५॥
मरुत्तेन तदा साध्वी चानुनीताऽति भामिनी ।
रुद्रस्योज्जीवनार्थं वै तदा शान्ताऽवदत्पतिम् ॥९६॥
समुज्जीवय देवेशं नाथ रुद्रं तु वैष्णवम् ।
अवैष्णवाश्च ये रुद्रास्ते तु कल्पे प्रकल्पके ॥९७॥
ब्रह्ममालासमुत्पन्ना नाशमेष्यन्ति वै ध्रुवम् ।
इति शापो मम रुद्रे कल्पादौ तु पुनः पुनः ॥१८॥
क्रूररुद्रसमुत्सर्गे तान् स्प्रक्ष्यति मुहुर्मुहुः ।
वैष्णवस्तु महारुद्रः स्थास्यत्येव न संशयः ॥९९॥
जलमामन्त्र्य भस्मैव कुर्वार्द्रं तत एव सः ।
मरुत्तेश्वर ईशोऽसौ समुज्जीवो भविष्यति ॥१००॥
इत्युक्तो मरुतः पत्न्या गृहीत्वा जलमेव च ।
यद्यहं त्वाजीवनं वै पत्नीव्रतपरायणः ॥१०१॥
प्रजाधर्मो राजधर्माऽच्युतोऽस्मि वैष्णवः सदा ।
बहुच्छिद्रकृतोऽधर्मो यदि स्पृष्टो न मां क्वचित् ॥१०२॥
तेन पुण्येन रुद्रोऽयं वैष्णवो जीवतात् खलु ।
यदि पत्नी सती भार्या प्रभावती यथा मम ॥१०३॥
तथा पत्न्योऽपराश्चापि पूर्णाः पतिव्रताः खलु ।
अहं तासां समवर्ती पक्षपातं न चाचरम् ॥१०४॥
तेन पुण्येन रुद्रोऽयं सत्रिशूलः प्रजीवतु ।
इत्युक्त्वा प्रददौ वारि भस्मनि यावदेव तु ॥१०५॥
तावत् सौम्यो महारुद्रः सजीवोऽभवदग्रतः ।
वन्दितः पूजितः सोऽथ क्षमापितो मुहुर्मुहुः ॥१०६॥
रुद्रेणापि सती साध्वी प्रभावती प्रसादिता ।
राजा प्रसादितश्चापि राज्ञाऽर्चितः सुवन्दितः ॥१०७॥
मरुत्तेश्वररूपेण तस्थौ तद्भवने हरः ।
दिव्यरूपेण च ययौ कैलासं शंकरस्तदा ॥१०८॥
माहात्म्यं पातिव्रत्यस्य विवेद पार्वतीं जगौ ।
इति ते कथितं लक्ष्मि! महापुण्यप्रदं व्रतम् ॥१०९॥
श्रवणात्पठनाच्चास्य सर्वयज्ञफलं भवेत् ।
कथायाः स्मरणाच्चापि भुक्तिमुक्तिफलं भवेत् ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽवीक्षित्नृपपत्न्या वीराया मरुत्तस्य च पत्न्याः प्रभावत्याश्च पातिव्रत्यचमत्कारे राक्षसनाशो रुद्रनाशसजीवनते चेत्यादिनिरूपणनामा नवाऽधिकचतुश्शततमोऽध्यायः ॥४०९॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP