संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १९८

कृतयुगसन्तानः - अध्यायः १९८

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
कामो नारायणमूर्तेः समुत्पन्नः पुरा श्रुतम् ।
ईश्वरेषु निवासोऽस्य तदाऽभून्मानसात्मकः ॥१॥
पुनश्चायं वेधसस्तु कदा सृष्टौ प्रकाशितः ।
तद् ब्रूहि मे यथातत्त्वं पुराणपुरुषोत्तम ॥२॥
श्रीनारायण उवाच-
नारायणं समाराध्य ब्रह्मा लोकपितामहः ।
प्रजाः ससर्ज सर्वास्ताः सुरासुरनरादिकाः ॥३॥
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् देवसत्तमान् ।
ससर्ज मानसीं चारुरूपां सन्ध्यां जपन्तिकाम् ॥४॥
अतीव सुन्दरीं सुभ्रू मुनिचेतोविमोहिनीम् ।
दृष्ट्वा तां नरयोग्यां च सम्पूर्णगुणशालिनीम् ॥५॥
सर्वेषां मानसा भावास्तदासन्प्रमदामयाः ।
सुभगाः सन्तु चेदृश्यो नार्यो रतिगुणाश्रयाः ॥६॥
तेषां तु मिथुनानां च स्नेहवर्धनकारकम् ।
सामर्थ्यं सर्वदा चास्तु समाकर्षणरूपकम् ॥७॥
इति तेषां तु संकल्पान् विज्ञाय सृष्टिकृत्स्वयम् ।
तथैवास्त्विति मनसाऽकल्पयत् तादृशं नरम् ॥८॥
तावत्तु ब्रह्मणस्तत्र मानसो मञ्जुलो नरः ।
प्राविरासीत्स्वर्णवर्णः पीनोरस्का सुनासिकः ॥९॥
सुवृत्तोरुकटिजंघो नीलाऽऽभुग्नाऽग्रकेशरः ।
लग्नभ्रूयुगलो लोलः पूर्णचन्द्राऽतिभाऽऽननः ॥१०॥
सुदृढाऽऽयतसद्वक्षा रोमभ्रमरराजितः ।
सुरूपो मेघवर्णश्च पीनो नीलसुवासकः ॥११॥
आरक्तपाणिनयनमुखपादकरोद्भवः ।
तनुमध्यश्चारुदन्तः प्रमत्तगजगंधनः ॥१२॥
प्रफुल्लपद्मपत्राक्षस्ताम्बूलमुखवासकः ।
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥१३॥
पंचपुष्पायुधो गर्वी पुष्पकोदण्डमण्डितः ।
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥१४॥
चंचलश्चारुनेत्राभ्यां शृंगाररससेवितः ।
यं वीक्ष्य पुरुषाः सर्वे दक्षाद्याः ब्रह्मणः सुताः ॥१५॥
औत्सुक्यं परमं प्राप्ता विस्मयाऽऽकृष्टमानसाः ।
अभवद्विकृतं तेषां सर्वेषां च मनो द्रुतम् ॥१६॥
धैर्यं नैवाऽभवत्तत्र कामाऽऽकुलितचेतसाम् ।
ततः कामः स्वयं नत्वा ब्रह्माणं प्राह सत्वरम् ॥१७॥
किं करोमि च दासोऽस्मि ब्रह्मन् कार्ये नियोजय ।
गुणरूपानुसारेण योज्यो दासस्तु जानता ॥१८॥
श्रुत्वा ब्रह्मा स्वकं पुत्रं काममाह सुखप्रदम् ।
अनेन त्वं स्वरूपेण पुष्पवाणैश्च पंचभिः ॥१९॥
मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।
सप्राणाश्चेतनाः सर्वे त्वहं विष्णुस्तथाऽपरे ॥२०॥
भविष्यामस्तव वशे तव पोषणकारकाः ।
जनानां मानसेऽदृश्यरूपो भूत्वा प्रविश्य च ॥२१॥
सुखप्रदो महान् भूत्वा कुरु सृष्टिं सनातनीम् ।
प्राणिनां त्वद्बाणलक्ष्यं मानसं सुखलालसम् ॥२२॥
भवत्वेति तव स्थानं कृतं सत्त्वं तु देहजम् ।
इन्द्रियं ते समुद्यानस्तत्राऽस्तु मदकृद्भवान् ॥२३॥
इति ते कर्म कथितं सृष्टिप्रावर्तकं महत् ।
यथा प्रमन्थस्यस्माकं मानसानि ततस्तव ॥२४॥
मन्मथाख्या तथाऽन्योन्यकामनात् काम इत्यपि ।
मनसो जायमानेन मनोभव इति प्रथा ॥२५॥
मदकारान्मदनस्त्वं कन्दर्पः कस्य दर्पणात् ।
पुष्पबाणो रतिपतिरिति ख्यातिर्भविष्यति ॥२६॥
देवेषु त्वत्समः कश्चिद् व्यापिवीर्यो न वै भवेत् ।
अतः स्थानानि सर्वाणि भवन्तु व्यापिनस्तव ॥२७॥
हर्षणं रोचनं चैव मोहनं शोषणं तथा ।
मारणं चेति चोक्तानि तवाऽस्त्राणि सदाऽनघ ॥२८॥
तैः सहितस्य तु ते स्याद् विजयः सर्वसृष्टिषु ।
इत्याशीर्वचनं लब्ध्वा सन्ध्यायाः सन्निधौ हि सः ॥२९॥
साफल्यस्य परीक्षार्थं बाणान्मुमोच वेधसि ।
एवं पुनः पुनर्धनुर्योजयामास मार्गणैः ॥३०॥
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं ववुर्वाताः सुगन्धिनः ॥३१॥
मुनींश्च मानसान्सर्वान्मोहयामास मोहनः ।
सन्ध्यां सर्वे निरीक्षन्तो विकाराऽऽवेगपूरिताः ॥३२।
आसन्प्रवृद्धमदना इन्द्रियोत्तेजनान्विताः ।
सन्ध्यां दृष्ट्वोनपंचाशद्भावा जाताः शरीरतः ॥३३॥
कामेन ब्रह्मणोद्दिष्टं कर्तुं शक्यं विभावितम् ।
अथ ब्रह्मशरीरात्तु धात्वंभः पतितं तदा ॥३४॥
अग्निष्वात्ताः पितृगणा जातास्ते पितरः स्मृताः ।
नीलवर्णाश्च यतयः संसारगृहशून्यकाः ॥३५॥
चतुःषष्टिसहस्राणि त्वग्निष्वात्ता हि पावनाः ।
षडशीतिसहृस्राणि तथा बर्हिषदोऽपरे ॥३६॥
अथ दक्षशरीराच्च धात्वंभः पतितं भुवि ।
समस्तगुणसम्पन्ना तस्माज्जाता वरांगना ॥३७॥
सौम्यांगी तनुमध्या च स्वर्णसूक्ष्मशिरोरुहा ।
मृद्वंगी कलिदशना तेजोमण्डलसूज्ज्वला ॥३८॥
स्वर्णाभाऽवयवा रम्या चन्द्रकान्तिमयांऽगना ।
द्वादशवर्षशरीरा रतिनाम्नी सुमोहिनी ॥३९॥
कामभावप्रपूर्णा च सर्वसौन्दर्यसत्खनिः ।
अथ क्रतोर्वशिष्ठस्य पुलस्त्याऽङ्गीरसोस्तथा ॥४०॥
अनिगृहीतेन्द्रियाणां बीजं भूमौ पपात च ।
तेभ्यः पितृगणा जाताः सोमपा आज्यपास्तथा ॥४१॥
सुकालिनस्तथा हविष्मन्तस्ते कव्यवाहकाः ।
क्रतोस्तु सोमपा जाता वाशिष्ठा ऊर्ध्वकालिनः ॥४२॥
पुलस्त्यस्याऽऽज्यपा जाता हविष्मन्तोंऽङ्गिरःऽसुताः ।
अयं पितृगणः सर्वः कव्यवाट् सर्वथाऽभवत् ॥४३॥
सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।
अथ दक्षः काममाह सद्रूपगुणसंयुताम् ॥४४॥
एनां गृह्णीष्व भार्यार्थं मत्पुत्रीं सदृशीं गुणैः ।
इत्युक्त्वा प्रददौ तस्मै देहस्वेदाम्बुसंभवाम् ॥४५॥
रतिनाम्नीं तु भार्यार्थं कन्दर्पाय सहार्थिनीम् ।
विवाह्य तां स्मरः सोपि मुमोदाऽतीव सद्रतिम् ॥४६॥
तस्या भ्रूयुगलं वीक्ष्य विसस्मार धनुः स्वकम् ।
कटाक्षयोर्गतिं दृष्ट्वा विसस्माराऽस्त्रनिर्गतिम् ॥४७॥
सुगन्धिश्वसमाघ्राय विसस्मार सुमाऽनिलम् ।
कान्तवृत्ताऽऽननं दृष्ट्वा विसस्मार शशांकिनम् ॥४८॥
सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
दृष्ट्वा चूचुकयुग्माढ्यं सस्मार तारकाद्वयम् ॥४९॥
दृढपीनोन्नतस्तनद्वयमध्यसुलम्बिनीम् ।
आनाभिपत्तलं मालां दृष्ट्वा सस्मार कौमुदीम् ॥५०॥
विसस्मार स्वधनुषो ज्यां च शिञ्जितषट्पदाम् ।
अक्षिद्वन्द्वं समालोक्य विसस्माराऽब्जपत्रिके ॥५१॥
उदरं तनु चालोक्य सस्मार स्वर्णवेदिकाम् ।
ऊरुद्वयं समालोक्य सस्मार कदलीद्वयम् ॥५२॥
आरक्तपार्ष्णिपादाग्रप्रान्तभागान् विलोक्य च ।
सस्मार चानुरागाख्यं मित्रं तच्चरणस्थितम् ॥५३॥
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।
वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥५४॥
दृष्ट्वा सस्मार हरिभुजंगसन्मणिभोगकम् ।
तस्याश्च बाहुयुगलं मृणालयुगलायतम् ॥५५॥
मृदु स्निग्धं प्रवालाभं दृष्ट्वा कामो जहर्ष वै ।
नीलनीरदसंकाशकेशपाशो मनोहरः ॥५६॥
चमरीवालधिप्रख्यो विभाति स्मरजीवनः ।
एतादृशीं चक्रपद्मां मृणालशकलान्विताम् ॥५७॥
सर्वलावण्यसदनां सर्वांगरामणीयिकाम् ।
द्वादशाऽऽभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥५८॥
मोहिनीं तां रतिं वीक्ष्य कामो जग्राह सोत्सुकः ।
विवाहं विधिवत्तत्र तयोर्ब्रह्मा चकार वै ॥५९॥
तदा महोत्सवस्तत्र बभूव सुखवर्तनः ।
दक्षः प्रीततरश्चासीन्मुमुदे तनया रतिः ॥६०॥
कामोऽतीव सुखं प्राप्तो रराजाऽति तया सह ।
वारं वारं च तां दृष्ट्वा जगृहे हृदयोपरि ॥६१॥
या च सन्ध्या ब्रह्मसुता मनोजाता पुराऽभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥६२॥
मेधातिथेः सुता भूत्वा वव्रे पतिं वशिष्ठकम् ।
चन्द्रभागानदीतीरे तेपे युगचतुष्टयम् ॥६३॥
ततो वै प्रार्थितं जातमात्रान्माऽऽविशतु स्मरः ।
ब्रह्मणाऽपि तथास्त्विति प्रदत्तं वरदानकम् ॥६४॥
तद्दिनात्तु स्मरो द्वादशोत्तरं विशति प्रजाः ।
साप्येवमुपसंहृत्य तपो जगाम चाम्बरम् ॥६५॥
सप्तर्षिमण्डले चास्ते वशिष्ठसहचारिणी ।
इति ते कथितं लक्ष्मि! पुनः कामकथानकम् ॥६६॥
कल्पादौ साऽभवत्पुत्री चाण्डालस्याऽतिधर्मिणी ।
ऋषयो द्वादशेऽवग्रहकालेऽन्नसमीहया ॥६७॥
भिक्षार्थं च समाजग्मुस्तदा पित्रा समर्पिता ।
साकं तु भिक्षया वशिष्ठाय पावनकारिणे ॥६८॥
निःसारिता च गोमध्यात् पाविता च विवाहिता ।
सैवास्त्यरुन्धती देवी पातिव्रत्यपरायणा ॥६९॥
इति ते कथितं सर्वं यथा भवति तत्तथा ।
कल्पभेदे सृष्टिभेदं किमन्यच्छ्रोतुमिच्छसि ॥७०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जीवसृष्टौ सन्ध्यापितृकामरत्यरुन्धत्युत्पत्तिप्रदर्शननामाऽष्टनवत्यधिकशततमोऽध्यायः ॥१९८॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP