संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०७

कृतयुगसन्तानः - अध्यायः ४०७

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! जयन्त्या वै चेन्द्रपुत्र्याः कथा शुभाम् ।
या चकार तपःसेवां शुक्रस्य पातिव्रत्यतः ॥१॥
देवदानवयुद्धेषु देवास्तु सबला यदा ।
जेतुमशक्या दैत्यैश्च तदा दानवमण्डलम् ॥२॥
शुक्राचार्यं समस्तौत् तद्यथा दैत्यजयो भवेत् ।
तदा शुक्रः समयं वै बुद्ध्वा देवाश्रयावहम् ॥३॥
सर्वान् दैत्यान् परित्यज्य शुक्रो देवानढौकत ।
तदा दैत्या देवपक्षगतं शुक्रं समाह्वयन् ॥४॥
किं त्वं नो मिषतश्चास्माँस्त्यक्त्वा देवान् समाश्रितः ।
स्थातुं न शक्नुमो भूमौ प्रविशामो रसातलम् ॥५॥
विना हि रक्षकं त्वां तु गुरु स्थास्यामहे कथम् ।
एवमुक्तोऽब्रवीद् दैत्यान् विषण्णान् सान्त्वयन् गिरा ॥६॥
मा भैष्ट रक्षयिष्यामि तत्र स्थितेन तेजसा ।
मन्त्रौषधिवसुसिद्धिरसास्तिष्ठन्ति वै मयि ॥७॥
कृत्स्नशस्तच्चतुर्थांशः सुरेष्वस्ति च वा न वा ।
मद्गतं वः प्रदास्यामि यूयं स्युस्तेन रक्षिताः ॥८॥
एतद्वृतं सुविज्ञाय देवाः सर्वजिघृक्षया ।
चक्रुः सम्मन्त्रणां नेतुं स्ववशं मन्त्रप्रभति ॥९॥
अध्ययनं समारब्धं देवैः शुक्रस्य सन्निधौ ।
किंचित् किंचिद् ददौ तेभ्यस्तदप्यपूर्णमेव वै ॥१०॥
यावद् दैत्येभ्य एवाऽयं शुक्रो नाऽध्यापयत्तु तत् ।
तावद् दैत्यान् सुरा हत्वा पातालं प्रापयन्ति हि ॥११॥
अथ दैत्या दीनभावाः काव्यमेवाभिदुद्रुवुः ।
तदापि च सुरा दैत्यान्निःशंकमभिसञ्जहुः ॥१२॥
शुक्रो रक्षां तदा कर्तुं मन्त्रान् दातुं शशाक न ।
किन्तु दैत्यानुवाचेत्थं युद्धं मास्त्विति मे मतम् ॥१३॥
देवा बलिष्ठाश्चेदानीं यूयं तु निर्वला यतः ।
कालप्रतीक्षां कुरुत गच्छामि तपसेऽप्यहम् ॥१४॥
यास्याम्यहं महादेवं वरार्थं विजयावहम् ।
अप्रतीपान् श्रेष्ठमन्त्रान् प्राप्य देवान्महेश्वरात् ॥१५॥
युद्ध्यामहे यदा देवाँस्तदा प्राप्स्यथ वै जयम् ।
अथ शास्त्राणि सन्त्यज्याऽसुराः प्राहुः सुराँस्तदा ॥१६॥
वयं तपश्चरिष्यामः शान्ताः सवल्कला वने ।
इति श्रुत्वा सुरा अपि न्यवर्तन्त तदर्दनात् ॥१७॥
अथ शुक्रो जगौ दैत्यान् यूयं यात रसातलम् ।
तपोयुक्ता हि कार्यार्थं किञ्चित्कालमुपास्यथ ॥१८॥
इत्युक्त्वा स दैत्यगुरुर्ययौ शंभुं हिमाचलम् ।
तपश्चक्रे दारुणं सः पूर्णं वर्षसहस्रकम् ॥१९॥
अवाक्शिराश्च भूकुण्डे कृत्वा पादौ विहायसि ।
ब्रह्मचारी तथा भूत्वा तपश्चकार दारुणम् ॥२०॥
शिवं जजाप मनसा निराहारोऽपि निश्चलः ।
अथ दैत्याः क्वचित् काले पृथ्व्यां स्थातुं समागताः ॥२१॥
तदा देवैस्ताडितास्ते ययुः काव्यस्य मातरम् ।
शरणं साऽब्रवीत्ताँश्च वोऽस्त्वभयं निरन्तरम् ॥२२॥
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ।
मत्सन्निधौ वसतां वो भयं न स्याद् ब्रवीम्यहम् ॥२३॥
देवास्तत्र गता दैत्यान् ताडयितुं बलात्पुनः ।
ख्यातिः क्रुद्धाऽब्रवीद् देवान्महेन्द्रं नाशयामि वः ॥२४॥
इतिकृत्वा विद्यया सा महेन्द्रं तु जडीकृतम् ।
अभिचारेण तस्तम्भ योगिनी सा तपोधना ॥२५॥
प्राद्रवन्त ततो देवा दृष्ट्वा चेन्द्रं वशीकृतम् ।
अथ विष्णुर्महेन्द्रं स्वे रूपे चाकृष्य तत्क्षणम् ॥२६॥
नीत्वा यावद् दिवं याति तावत् ख्यातिः रुषान्विता ।
विष्णुना रक्षितं दृष्ट्वा ख्यातिस्तत्र वचोऽब्रवीत् ॥२७॥
एषा त्वां विष्णुना सार्धं दहामि मघवन् बलात् ।
तावद्विष्णुः स्वरक्षार्थं चक्रं जग्राह चापदि ॥२८॥
ज्ञात्वा तदानीं प्राणान्तं क्रूरं ख्यात्याश्चिकीर्षितम् ।
सुदर्शनेन वै ख्यात्याः शिरश्चिच्छेद तद्भिया ॥२ ९॥
तं स्त्रीवधं तदा दृष्ट्वा चुक्रोध भृगुरेव यत् ।
शशाप विष्णुं भार्यायाः ख्यात्या वधकरं तदा ॥३०॥
यस्मात्ते जानतो धर्ममवध्या स्त्री निषूदिता ।
तस्मात् त्वमपि कल्पादौ शिरोवधमवाप्स्यसि ॥३१॥
इत्येवं शापतः कृष्णो भूत्वा गणेश एव सः ।
शंकरस्य च हस्तेन चावाप्नोति शिरोवधम् ॥३२॥
अथ भगुणा त्वरितं काये शिरो नियोजितम् ।
एषा त्व विष्णुना देवि! हता तां सञ्जीवयाम्यहम् ॥३३॥
यदि कृत्स्नो मया धर्मः पत्नीव्रतः प्रपालितः ।
तेन सत्येन जीवस्य यदि सत्ये वदाम्यहम् ॥३४॥
तां सम्प्रोक्ष्य शीतजलैरभिजीवेति सोऽब्रवीत् ।
उत्तिष्ठेति व्याहृते ख्यातिः सञ्जीविताऽभवत् ॥३५॥
साधु साध्विति जगदुर्देवाद्याः सर्वतोदिशम् ।
किन्त्विन्द्रो नाऽलभत शं ख्यातिशुक्रभयात्ततः ॥३६॥
शुक्रतपसि विघ्नार्थं विचार्येन्द्रः स्वकन्यकाम् ।
जयन्तीं प्राह पुत्रि त्वं मया शुक्राय चार्पिता ॥३७॥
गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते ।
शुक्रः शंभोः साधनार्थं तपश्चरति दारुणम् ॥३८॥
देवानां स विनाशार्थं मन्त्रार्थं यतते भृशम् ।
गच्छ संसाधयस्वैनं श्रमापनयनादिभिः ॥३९॥
तैस्तैर्मनोऽनुकूलैश्च शयनाद्युपचारकैः ।
एवमुक्ता जयन्ती सा पितुर्वचनसंस्थिता ॥४०॥
अगच्छद् यत्र स घोरे तपसि वर्तते गिरौ ।
तमधःशिरसं कान्तं काव्ये कन्या ह्युपस्थिता ॥४१॥
वधूरस्मीति तं प्रोच्य सेवायां चाप्यवर्तत ।
गीर्भिश्चैवानुकूलाभिर्गात्रसंवाहनादिभिः ॥४२॥
कालेऽपेक्षितवस्त्वाद्यैः सेवमाना त्वचः सुखैः ।
व्रतचर्यानुकूलाभिरुवाच बहुलाः समाः ॥४३॥
पूर्णे वर्षसहस्रे तु पातिव्रत्यपरायाणा ।
सस्मार शंकरं साध्वी कथं तुष्टो न जायते ॥४४॥
यदि शंभुर्न वै तुष्टस्तमत्र प्रदहामि वै ।
शापेनेति रुषं प्राप्ता तावत्तत्राययौ हरः ॥४५॥
जयन्तीं प्राह देवानां विनाशाय च ते पतिः ।
करोति तप उग्रं वै तस्मान्नायामि दर्शने ॥४६॥
किन्तु तवाऽतिबलवत्पातिव्रत्येन कर्षितः ।
आगतोऽहं वरं दातुं वद यत् तत्करोमि ते ॥४७॥
जयन्ती प्राह पित्रा मे स्वकार्यार्थं समर्पिता ।
तत्कार्यं वै प्रकर्तव्यं पत्युः कार्यमथापि च ॥४८॥
कन्या यस्मै प्रदत्ता स्यात्तस्य धर्मं समाचरेत् ।
तद्धितं तस्य कल्याणं तस्याऽभ्युदयमेव च ॥४९॥
पतिः सर्वस्वमबलाजीतानां धर्म उच्यते ।
तद्विरोधे कदाचिन्न नार्याः श्रेयो भवेन्ननु ॥५०॥
तस्मात्पतिमना भूत्वा कृत्यं सर्वं मयोचितम् ।
पितुर्हितकरी कन्या पत्युर्दुःख तु नाचरेत्। ॥५१॥
कुरु शंभो यथायोग्यं द्वयोर्हितं यथा भवेत् ।
मया सेवा कृता चास्य काव्यस्य भावसंभृता ॥५२॥
किन्तु तत्तपसि ब्रह्मचर्ये विघ्नं न वै कृतम् ।
यत इन्द्रेण दत्ताऽस्य धर्मपत्नी भवाम्यहम् ॥५३॥
कथं करोमि कामेन विघ्नमस्य तपःक्षये ।
तस्मात्कामं विनिगृह्य रतिः कृता न वै मया ॥५४॥
तपःसिद्धिः प्रजाताऽस्य मच्छ्रेयसेऽपि सा यतः ।
पातिव्रत्यं पालितं वै मयाऽनिष्टं न वै कृतम् ॥५५॥
तेनैव पातिव्रत्येन कुर्वस्य मनसेप्सितम् ।
इत्युक्ता प्रेमपात्रं सा काव्यस्य विरराम ह ॥५६॥
महादेवः प्रसन्नः सन्नुवाच चकितस्तदा ।
शुक्र! चैतादृशी कन्या यस्यार्थे दत्तजीवना ॥५७॥
पूर्णं वर्षसहस्रं वै पार्श्वे तिष्ठति नित्यदा ।
तथापि न त्वया त्यक्तं ब्रह्मचर्यं व्रतं तथा ॥५८॥
तयापि पतिव्रतया निग्रहीतं मनोऽस्थिरम् ।
सर्वदा षोडशवर्षा ह्यद्यापि सा हि दीव्यति ॥५९॥
अक्षता च तवाऽधीना धन्येयं वै पतिव्रता ।
तेऽपि धन्यप्रवादोऽस्तु पारं गतोऽसि सर्वथा ॥६०॥
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् ।
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च ॥६१॥
तेजसा च सुरान् सर्वांस्त्वमेकोऽभिभविष्यसि ।
तव वध्वाः पातिव्रत्यब्रह्मचर्यप्रभावतः ॥६२॥
प्रपत्स्यसेऽभिलषितं सर्वं वाच्यं न कस्यचित् ।
सुखं यातं दम्पती च प्रजेशतां धनेशताम् ॥६३॥
अवध्यत्वं च सद्विद्यां सञ्जीवनीं गृहाण च ।
इत्युक्तः स शुक्रदेवस्तुष्टुवेऽवाक्शिरःस्थितः ॥६४॥
नमोस्तु ब्रह्मरूपाय भक्तेच्छापूरकाय ते ।
नमः सद्यःप्रतुष्टाय चिरतुष्टाय ते नमः ॥६५॥
नमोऽस्तु नित्यतृप्ताय दिगम्बराय ते नमः ।
नमो भीमाय रुद्राय महादेवाय ते नमः ॥६६॥
नम उग्राय पिनाकधारिणे शंभवे नमः ।
मृगव्याधाय यतये किराताय च ते नमः ॥६७॥
नमस्त्रिचक्षुषे चन्द्रभालाय लिंगरूपिणे ।
सदाशिवाय शर्वाय भवेशाय नमो नमः ॥६८॥
सौम्याय साक्षिणे सतीस्वामिने ते नमो नमः ।
नीलकण्ठाय चण्डाय सद्योजाताय शूलिने ॥६९॥
ईशानाय पिशंगाय चर्माम्बराय ते नमः ।
पशूनां पतये तुभ्यं भूतानां पतये नमः ॥७०॥
नमोऽष्टवर्ष्मणे कृष्णनारायणात्मने नमः ।
पार्वतीपतये प्रभास्वामिने ते नमोनमः ॥७१॥
नमस्ते सर्वतः सर्वदिक्षु सर्वात्मसु प्रभो ।
फलदायानन्दकर्त्रे तै सर्वत्र नमोनमः ॥७२॥
इत्युक्त्वा विररामाऽसौ शंभुः प्राह तपस्तव ।
पूर्णं जातं समुत्तिष्ठ वरं गृहाण वाञ्छितम् ॥७३॥
तथापि शुक्रो नोत्तस्थे शंभुरदृश्यतां ययौ ।
जयन्ती तद्विलोक्यैव प्राप्तकालं जगाद तम् ॥७४॥
कथं नोत्तिष्ठसे नाथ कथं चोपेक्षसे वरम् ।
अवधानं कथं शंभोर्वाक्ये नैव करोषि वै ॥७५॥
श्रुत्वा पत्नीकृतं शब्दं यावदुत्तिष्ठति क्षितेः ।
तावच्छंभुं तिरोभूतं न ददर्श हि तापसः ॥७६॥
परमं खेदमापन्नो विदधे शोकमुल्बणम् ।
उपस्थितस्य वै त्यागे पुनर्योगो हि दुर्लभः ॥७७॥
व्योमवाण्या स वै काव्यो विज्ञापितो गृहं प्रति ।
गन्तुं नीत्वा तपःपुण्यं जयन्तीमादरात्तथा ॥७८॥
पत्नीं गृहं ययौ शुक्रो दशवर्षाणि सर्वथा ।
प्रच्छन्नः सोऽभवत् सौधे जयन्त्या सह भोगवान् ॥७९॥
तस्यां जाता देवयानी पुत्री ययातिभामिनी ।
अथ कृतार्थं शुक्रं तु ज्ञात्वा सर्वे दितेः सुताः ॥८०॥
अभिजग्मुर्गृहं तस्य गुरुं दिदृक्षवः स्वकम् ।
अदृष्ट्वा ते ययुः स्वस्वगृहं तदा बृहस्पतिः ॥८१॥
तुष्ट्यर्थं दशवर्षाणि जयन्त्या हितकाम्यया ।
शुक्ररूपं समासाद्य त्वसुरान् समुपाह्वयन् ॥८२॥
आगतानाह वो विद्या दास्यामि शंकरोदिताः ।
ते तु हृष्टा दशसमा विद्यार्थमुपपेदिरे ॥८३॥
अन्या अन्या अध्यापिता वञ्चिता गुरुणा हि ते ।
नतः काव्यो दशवर्षोत्तरं द्रष्टुं स्वयाजकान् ॥८४॥
ययौ दृष्टा गुरुणा स्वरूपेण वञ्चितास्तु ते ।
वञ्चितान् काव्यरूपेण काव्योऽब्रवीत्तु ताँस्तदा ॥८५॥
काव्यं मां वो विजानीध्वं नाऽयं काव्यो बृहस्पतिः ।
बृहस्पतिस्तदा प्राह काव्योऽहं नाऽयमेव सः ॥८६॥
अयन्तु वञ्चनार्थं वो दशवर्षात्तरं गुरुः ।
समागतोऽस्ति मद्देशान्मा काव्यो ज्ञायतामयम् ॥८७॥
एतच्छ्रुत्वा द्वयोर्वाक्यं सरूपयोस्तु दानवाः ।
प्रेक्षन्तस्तावुभौ तत्र संभ्रान्तास्ते तदाऽभवन् ॥८८॥
हालरेण धृतं काष्ठं मरणान्तं न मुच्यते ।
न शक्यं त्वन्यथाकर्तुं दिष्टं हि बलवत्तरम् ॥८९॥
शुक्रेण बोधिताश्चापि नैवाऽमन्यत तद्वचः ।
यस्तु नो दशवर्षाणि सततं शास्ति वै प्रभुः ॥९०॥
एष वै गुरुरस्माकं काव्यो नागन्तुको ह्ययम् ।
इति निश्चित्य दैत्यास्ते चिराभ्यासेन मोहिताः ॥ ९१॥
प्राहुर्गच्छ द्रुतं चेतो गुरुस्तु शिक्षकोऽस्ति नः ।
भार्गवो वाऽङ्गिरा वापि भगवानेष नो गुरुः ॥ ९२॥
तदा शुक्रः कोपितोऽभूत् शशाप दानवाँस्तदा ।
सर्वे प्रणष्टभाना वै महद्दुःखमवाप्स्यथ ॥९३॥
शुक्रेण शप्ता असुराः कृतार्थोऽभूद् वृहस्पतिः ।
तिरोभवत् ततः स्थानात् ततस्ते ह्यसुराः पुनः ॥९४॥
विभ्रान्ता अभवन् लक्ष्मि! वञ्चिताः स्मेति चावदन् ।
प्रह्लादमग्रतः कृत्वा शुक्राचार्यगृहं ययुः ॥९५॥
ऊचुस्तं नः क्षमस्वेति प्रसादं कुरु भार्गव! ।
नो चेत् प्रसादं कुरुषे प्रविशामो रसातलम् ॥ ९६॥
काव्यो विचारयामास याज्यान्विनाऽप्यहं मृषा ।
ततो मया रक्षणीयाः शोभेऽहं सेवितश्च तैः ॥९७॥
अथाहैतान्न भेतव्यं न गन्तव्यं रसातलम् ।
भान प्रणष्ट यदा वोऽद्य तत्पुनः प्रतिपत्स्यथ ॥९८॥
देवान् जित्वा त्वेकवारं पातालं प्रतिपत्स्यथ ।
इत्युक्ता ह्यसुरा हृष्टा सुरान् जेतुं विनिर्ययुः ॥९९॥
सुरासुराणां संग्रामो ह्यभवद् दारुणस्तदा ।
अजयन्नसुरा देवान् देवाश्चापि ह्यमन्त्रयन् ॥१००॥
यज्ञे चाहूय वै षण्डामर्कौ दैत्यगुरू च तौ ।
आश्रयामः पूजयामो भजामो नो जयो भवेत् ॥१०१॥
देवैराहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ ।
वयं युवां भजिष्यामः सह जित्वा तु दानवान् ॥१०२॥
एवं सन्धाय च सुराश्चक्रुर्युद्धं हि दारुणम् ।
षण्डामर्कपरित्यक्ता दानवाश्च पराजिताः ॥१०३॥
काव्यशापाभिभूताश्च विविशुस्ते रसातलम् ।
एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः ॥१०४॥
जयन्ती स्वपतिं नित्यं सेवते मोहकारिणी ।
शुक्राचार्यो विसस्मार दैत्याभ्युदयमेव च ॥१०५॥
इन्द्रस्यैवं कृतं कार्यं जयन्त्या विजयात्मकम् ।
दैत्यानां निर्बलत्वं च पातिव्रत्यार्थयाऽपि वै ॥१०६॥
पत्युश्चाऽप्यप्रधृष्यत्वं महेन्द्रादेर्जयादिकम् ।
दैत्यानां चापकृष्टत्वं साधितं कन्यया व्रतैः ॥१०७॥
नारायणः परंब्रह्माऽक्षरधामस्थितोऽपि सः ।
करोति रक्षणं काले धृत्वा धर्मात्मिकां तनुम् ॥१०८॥
आद्ये पत्नीव्रताख्योऽभूत् कृष्णो गोलोकवासकृत् ।
ततो नारायणो जज्ञे नरयुक्तो हिमाचले ॥१०९॥
पुनर्यज्ञो धर्मपुत्रोऽभवत् स एव धार्मिकः ।
नरसिंहः स एवाभूत् वामनोऽपि बभूव ह ॥११०॥
दत्तात्रेयो जामदग्न्यो रामादित्यो बभूव ह ।
वासुदेवो वेदव्यासः कृष्णनारायणस्तथा ॥१११॥
काम्भरेयस्तथा कल्की स एव भगवान् स्वयम् ।
जायते युगपर्याये सुरधर्मावनाय वै ॥११२॥
अहमेव स एवाऽस्मि मदंशाश्च सहस्रशः ।
दिने दिने प्रजायन्ते गूढरूपाः सुखप्रदाः ॥११३॥
धनुश्चक्रध्वजमत्स्यस्वस्तिककरचिह्निताः ।
गुल्फत्रयोर्ध्वरेखाऽर्धचन्द्रचक्रपदाम्बुजाः ॥११४॥
यत्पादसेवनात् सन्तः साध्व्यो भवन्ति देहिनः ।
मोक्षदा देवसदृशा मुक्ता एव न संशयः ॥११५॥
इति ते कथिता लक्ष्मि! ख्यातेर्जयन्त्याः सिद्धयः ।
पातिव्रत्यकृताः पाठाच्छ्रवाद् भुक्तिमुक्तिप्रदाः ॥११६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रताख्यातिकृतमहेन्द्रादिजडीभावः, विष्णुकृतख्यातिनाशः, भृगुणा ख्यातिरुज्जीविता, शुक्रस्य तपश्चर्या, इन्द्रेण पुत्री जयन्ती विघ्नार्थे शुक्राय दत्ता, तत्पुत्री देवयानी, तपोनिरोधः, असुरपराजयः, पातिव्रत्यमहिमेत्यादिनिरूपणनामा सप्ताधिकचतुश्शततमोऽध्यायः ॥४०७॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP