संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४८८

कृतयुगसन्तानः - अध्यायः ४८८

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
भगवन् श्रोतुमिच्छामि शारदं रासमण्डलम् ।
कृष्णनारायणगोपीलीलामयं निशामय ॥१॥
श्रीनारायण उवाच-
शृणु तत्ते प्रवक्ष्यामि रासरमणमुत्तमम् ।
गोपीभिर्नवलक्षाभिर्नवलक्षैश्च माधवैः ॥२॥
शरच्चन्द्रपूर्णिमायां किशोरः स युवाऽभवत् ।
युवतीभिर्युवानश्च श्रीकृष्णा रेमिरे प्रिये ॥३॥
विचार्य श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ।
शुभो, चन्द्रोदये सर्वगोपीसंकल्पपूर्तये ॥४॥
चकार तत्र कुतुकाद् विनोदमुरलीरवम् ।
तच्छ्रुत्वा राधिका विनिःससार च द्रुतं गृहात् ॥५॥
त्रयस्त्रिंशद्वयस्याश्च सुशीलाद्या ययुर्मुदा ।
समा वेषेण वयसा रूपेण च गुणेन च ॥६॥
ययुस्त्वन्या नवलक्षगोप्यस्त्यक्त्वा गृहादिकम् ।
सर्वा बभूवुरेकत्र मालाहस्तास्तु काश्चन ॥७॥
चारुचन्दनहस्ताश्च श्वेतचामरहस्तकाः ।
काश्चित् कस्तूरिकाकराः काश्चित् कुंकुमवाहिकाः ॥८॥
काश्चित् ताम्बूलपात्राश्च काश्चित् कांचनभाम्बराः ।
कृष्णकृष्णवदन्त्यश्च ददृशू रासमण्डलम् ॥९॥
सुनिर्जनं कुसुमितं वासितं पुष्पवायुभिः ।
शुश्रुवुस्ता द्विरेफाणां कोकिलानां मधुध्वनिम् ॥१०॥
राधा गोप्यः प्रविविशुः शोभितं रासमण्डलम् ।
राधां गोपीश्च संवीक्ष्य हसन् कृष्णोऽप्यदृश्यत ॥११॥
नवयौवनसम्पन्नो रत्नाभरणभूषितः ।
कन्दर्पकोटिलावण्यरूपोज्ज्वलो मनोहरः ॥१२॥
वक्रलोचनकोणेन ददर्श गोपिका मुहुः ।
गोपीनां नवलक्षाणि कृष्णानां च तथैव हि ॥१३॥
लेक्षाण्यष्टादश युगलानि वै रासमण्डले ।
रासं रेमे कीर्तनैः सत्तालैश्च कूर्दनैर्मुहुः ॥१४॥
हस्तानां मेलनैस्तालीदानैर्वक्रविभङ्गिभिः ।
दण्डैश्च स्कन्धसंयोगैश्चुम्बनैः करपीडनैः ॥१५॥
एवं वै रासमाक्रीड्य श्रान्ता निषेदुरुन्मुखाः ।
पुपूजुस्ताः प्रियं कान्तं ददुस्ताम्बूलमुत्तमम् ॥१६॥
जगृहुर्मुखताम्बूलं परस्परं स्मरान्विताः ।
कामरूपः स्वयं कृष्णो ज्ञात्वा तन्मानसानि वै ॥१७॥
कामभावेन ताः सर्वा जग्राह च चुचुम्ब च ।
शृंगाराऽष्टप्रकारं च संयोगं त्वंगयोस्तथा ॥१८॥
नखदन्तकराणां च प्रहारं वै यथोचितम् ।
चुम्बनाष्टविधं चापि चकार रसिकेश्वरः ॥१९॥
अंगैरंगानि प्रत्यंगैः प्रत्यंगानि युयोज च ।
चकाराश्लेषणं तासां कामुकीनां सुखावहम् ॥२०॥
नवलक्षस्थले कृष्णः कान्तासक्तो विराजते ।
तासां दत्वा रतितृप्तिं तूर्ध्वरेताः स्वयंप्रभुः ॥२१॥
स्थलक्रीडां तथा कृत्वा जलक्रीडार्थमाययौ ।
नवलक्षयुगलानि रेमिरे यमुनाजले ॥२२॥
सवस्त्राश्च विवस्त्राश्च रमन्ते कामतृप्तये ।
चुचुम्बुः स्वामिनं मूर्छां प्रापुरानन्दवारिधौ ॥२३॥
समाश्लिषुर्दृढं कान्तं कृत्वा वक्षसि वर्ष्मणि ।
एवं तृप्तिं ददौ कृष्णो जलेऽपि सुचिरं प्रभुः ॥२४॥
अथ निर्गत्य वस्त्राणि धारयामासुरुत्सुकाः ।
ततश्च खेलनं चक्रे भिन्नं भिन्नं सुरञ्जनम् ॥२२॥
शृंगारं च विविधं ताश्चक्रे कृष्णस्य गर्विताः ।
कृष्णस्तासां कबर्यादिशृगारं त्वसृजन्नवम् ॥२६॥
काचित् कान्तं पुरः कृत्वा चकार केशसाधनम् ।
काचिद् ददौ तु चूडायां मयूरपिच्छमुत्तमम् ॥२७॥
काचिद् ददौ चक्षुषोस्तु कज्जलं भालकुंकुमम् ।
गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ॥२८॥
काचिद् वस्त्रं ददौ सूक्ष्मं स्वामिने चोत्तरीयकम् ।
काचिद् ददौ कुसुमानां मालां कण्ठे मनोहराम् ॥२ ९॥
काचिच्चकार तिलकं चन्द्रकं काचिदादधत् ।
काचिदलक्तकं हस्तपादतलनखेष्वदात् ॥३०॥
काचिद् वंशी ददौ हस्ते काचित्ताम्बूलकं ददौ ।
अन्या सुदर्पणे रम्यं दर्शयामास चाननम् ॥३१॥
परा चकार कृष्णस्य पादसंवाहनं मुदा ।
अन्या जलं ददौ काचिद् ददौ सत्पवनं शनैः ॥३२॥
काचिच्चन्दनलेपं च चकार कृष्णवर्ष्मणि ।
अपरा हस्तमादाय ग्रन्थिस्फोटं चकार ह ॥३३॥
इतरा जंघयोः सक्थ्नोर्मर्दनं प्रचकार वै ।
ननृतुश्च जगुः काश्चित् काश्चिच्चुचुम्बुरुत्सुकाः ॥३४॥
काचित् कृष्णं समादाय निकुंजे प्रजगाम ह ।
अन्या तं शयने कृत्वाऽऽददे रतिसुखं मुदा ॥३५॥
नर्तनं कारयामास तं तु काचिद् बलेन वै ।
सोऽपि कस्याश्चित्कबर्याः सुनिर्माणं चकार ह ॥३६॥
सिन्दूरं प्रददौ भाले कस्तूरीं बिन्दुभिः सह ।
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात् तदधो ददौ ॥३७॥
पत्रावलीं सुललितां सुकपोले चकार ह ।
पादयोर्मञ्जिरे दत्वाऽलक्तकं सुन्दरं ददौ ॥३८॥
भूषणैर्भूषयामास लोपयामास चन्दनम् ।
प्रददे नासिकामध्ये दुर्लभं गजमौक्तिकम् ॥३९॥
एवं कृष्णा नवलक्षं नवलक्षं च गोपिकाः ।
अन्योन्यं भूषयामासुः रमे! कामातिचेष्टिताः ॥४०॥
बहुमूर्तीः संविधाय योगिनां परमो गुरुः ।
पुनश्चकार शृंगारं गोपीनां कामसौख्यदम् ॥४१॥
मूर्छामवापुः सततं कामानन्दपरिप्लुताः ।
एवं रामा रमयित्वा कृत्वा षाण्मासिकीं निशाम् ॥४२॥
निद्रां दीर्घां भुवि कृत्वा कृत्वाऽर्कस्य स्थिरां गतिम् ।
कामतृप्तिं परां दत्वाऽप्यूर्ध्वरेताः परेश्वरः ॥४३॥
अप्रस्खलितः श्रीकृष्णो बभूव कामगर्वहृत् ।
पुनर्जगाम रासस्य मण्डपे रासखेलनम् ॥४४॥
चकार बहुभ्रमणैर्विविधैः कीर्तनैस्तदा ।
सर्वे देवादयो व्योम्नि स्थिताः पत्नीप्रजायुताः ॥४५॥
चिक्षिपुः पुष्पवृष्टिं च ददृशू रासमण्डलम् ।
कस्तूरीचन्दनादीनां वृष्टिं चक्रुर्मुनीश्वराः ॥४६॥
जयकारं स्तुतिं कृत्वा ययुस्ते यमुनातटे ।
श्रीकृष्णो रमयामास विश्रम्य तु पुनश्च ताः ॥४७॥
विजहाराऽपि सर्वत्र निर्जनेषु यथेष्टकम् ।
पुष्पोद्यानेषु रम्येषु सरसां सुतटेष्वपि ॥४८॥
कन्दरे कन्दरे रम्ये नदेषु च नदीष्वपि ।
वाञ्च्छितेषु प्रमदानां त्रयस्त्रिंशद्वनेष्वपि ॥४९॥
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ।
तुलसीकानने कुन्दवने चम्पककानने ॥५०॥
निम्बारण्ये मधुवने जम्बीरकानने तथा ।
नालिकेरवने पूगवने च कदलीवने ॥५१॥
बदरीकानने बिल्ववने नारिंगकानने ।
अश्वत्थकानने वंशवने दाडिमकानने ॥५२॥
मन्दारकानने तालवने चाम्रवने तथा ।
केतकीकाननेऽशोकवने खर्जूरकानने ॥५३॥
आम्रातकवने जम्बूवने शालसुकानने ।
कटादिकानने पद्मवने जातिवने तथा ॥५४॥
न्यग्रोधगहने रम्ये तथा श्रीखण्डकानने ।
प्रकृष्टकेसरवने रेमे षाण्मासिकीं निशाम् ॥५५॥
कामिनीनां यथा कामः शृंगारेण विवर्धते ।
तथा तथा हरी रेमे तासामानन्ददायकः ॥५६॥
तथापि मानसं पूर्णं कामिनीनां बभूव न ।
आप्रातरेवं रासेषु ददौ कामसुखं हरिः ॥५७॥
सर्वासां च यदा कामतृप्तिर्जाता मुमोच ताः ।
ततो यम्यां गता वार्षु क्रीडनार्थं ततः परम् ॥५८॥
कृष्णस्त्वदृश्यतां यातो गोप्यो ययुर्निजालयान् ।
एता गोपांगनाः सर्वा नेश्वरं मेनिरे पतिम् ॥५९॥
कामुक्यः कामभावेन रतिशूरं हि मन्वते ।
तथापि तन्मनस्कास्ताः प्रापुर्दिव्यगतिं प्रियाः ॥६०॥
दिव्ययोगाज्जडं चापि दिव्यभावं व्रजत्यपि ।
कृष्णं लोष्टं वह्नियोगाद् वह्निभावं हि ऋच्छति ॥६१॥
अथ रासस्य वै श्रेष्ठान्मण्डपान् कृत्रिमान् शुभान् ।
विश्वकर्मकृतान् दिव्यान् शतयोजनविस्तृतान् ॥६२॥
नवलक्षासनान् रम्यान्पर्यंकान्नवलक्षकान् ।
विश्वकर्मा तिरोहिताँश्चकार क्षणमात्रतः ॥६३॥
अथैकलः किशोरोऽयं श्रीकृष्णः स्वगृहं प्रति ।
यावद्गच्छति मार्गे तं ददर्श मुनिपुंगवः ॥६४॥
अष्टावक्रः कृष्णवर्णो दिगम्बरो जटान्वितः ।
नखश्मश्रुसुदीर्घश्च शान्तः प्रणतकन्धरः ॥६५॥
स वै प्रणम्य गोविन्दं तुष्टाव मुनिपुंगवः ।
प्राणाँस्तत्याज योगेन निपत्य चरणाम्बुजे ॥६६॥
तत्तेजस्तु समुत्तस्थौ सप्ततालप्रमाणकम् ।
सुदिव्यः पुरुषो भूत्वा तस्थौ कृष्णसमीपतः ॥६७॥
दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ।
षष्टिवर्षसहस्राणि निराहारोऽभवन्मुनिः ॥६८॥
रक्तमांसाऽस्थिहीनं तद्वर्ष्म भस्मभृतं ह्यभूत्॥
तदुद्धृत्य ददौ कृष्णश्चितायां भस्म मिश्रितम् ॥६९॥
एतस्मिन्नन्तरे व्योम्नः स्यन्दनः प्रसमाययौ ।
पार्षदप्रवरैर्युक्तः श्रीकृष्णसदृशैर्वरैः ॥७०॥
पार्षदाः श्रीहरिं नत्वा नीत्वा तं दिव्यपूरुषम् ।
अष्टावक्रं मुक्तदेहं जग्मुर्गोलोकमुत्तमम् ॥७१॥
शृणु लक्ष्मि! ब्रह्मणस्तु प्रचेतास्तस्य चाऽसितः ।
सुतः सपुत्रविहीनस्तपस्तेपे सहस्रकम् ॥७२॥
अब्दानां सकलत्रोऽपि न लेभे च यदा सुतम् ।
तदा प्राणान् विहातुं सोऽभवदुद्यमितोऽथ वै ॥७३॥
तं सम्बोद्धुं बभूवाऽथ सत्या वागशरीरिणी ।
कथं त्यजसि प्राणाँस्त्वं गच्छ शंकरसन्निधिम् ॥७४॥
सिद्धं कुरु गृहीत्वा तु मन्त्रं शंकरवक्त्रतः ।
वरेणाऽभीष्टदेव्याश्च पुत्रस्ते भविता ध्रुवम् ॥७५॥
श्रुत्वा ययौ स कैलासं सकलत्र उवाच तम् ।
महादेव कृपासिन्धो देहि पुत्रं नमाम्यहम् ॥७६॥
हरः प्राह भविता ते पुत्रो मदंशमत्समः ।
जप मन्त्रं 'राधिकायै श्रीकृष्णाय नमोऽस्तु ते' ॥७७॥
राधा मन्त्रेण प्रत्यक्षा शतवर्षोत्तरं ह्यभूत्॥
पुत्रवान् भव चेत्युक्त्वाऽदृश्या बभूव राधिका ॥७८॥
असितस्य ततः पुत्रो देवलाख्यो बभूव ह ।
सुयज्ञनृपतेः कन्यां रत्नमालावतीब्रुवाम् ॥७९॥
जगृहे स विवाहेन शतवर्षोत्तरं स च ।
विरक्तः शयने त्यक्त्वा तां स्वयं तु वनं ययौ ॥८०॥
तपसे पर्वते गन्धमादनेऽब्दसहस्रकम् ।
तपश्चचार दिव्योऽभूद् देहेन सूर्यवद् द्विजः ॥८१॥
रंभा तं देवलं दृष्ट्वा त्वेकदा काममोहिता ।
तपोभंगार्थमागच्छज्जग्राह देवलो न ताम् ॥८२॥
रुष्टा शापं ददौ कोपादन्तर्दुःखान्विता सती ।
कामदुःखेन दुःखार्ता यतो मां स्वीकरोषि न ॥८३॥
भव कुब्जश्चाष्टवक्रो जर्जरो नीलविकृतः ।
तपोहीनः कुरूपश्च कामिनीजनगर्हितः ॥८४॥
रम्भा शप्त्वा ययौ स्वर्गमृषिर्नाम्नाऽष्टवक्रकः ।
देवलः स प्रसिद्धोऽभूत् प्रययौ मलयाचलम् ॥८५॥
षष्टिवर्षसहस्राणि तपः पुनश्चकार सः ।
सोऽयं ज्ञात्वा रासखेलं दर्शनाय समागतः ॥८६॥
ध्यानमग्नो दीर्घसूत्री न प्राप्तो रासदर्शनम् ।
कृष्णयोगाद् ययौ धाम गोलोकं भक्तिमान् मुनिः ॥८७॥
कृष्णनारायणो विष्णुर्ययौ नन्दगृहं ततः ।
प्रातः स्मरन्ति सर्वास्ता विकृताः कृष्णतन्मयाः ॥८८॥
इति लक्ष्मि! कथितं ते रासमण्डलमुत्तमम् ।
पठनाच्छ्रवणात्त्वस्य कृष्णप्राप्तिर्भवेद्ध्रुवम् ॥८९॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रासमण्डले गोपीभिः कामभावेन कृष्णस्य चरित्रम्, देवलस्य रंभायाः शापेनाऽष्टावक्रत्वं, तस्य मोक्षणं चेतिनिरूपणनामाऽष्टाशीत्यधिकचतुश्शततमोऽध्यायः ॥४८८॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP