संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३०८ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३०८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३०८ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ब्रह्मविष्णुमहेशजनकस्य वै ।वैराजपुरुषस्यापि वैराज्ञ्याप्तिर्व्रताद्यथा ॥१॥प्राकृतपुरुषस्याऽस्ति पुत्रः प्रधानपूरुषः ।तस्य हिरण्यगर्भाख्यो महाविष्णुः सुतोऽस्ति वै ॥२॥ततो विराडजायत वैराजो वेधसः पिता ।तस्यायुः शतवर्षं वै तस्यैव वर्षसंख्यया ॥३॥यदा पूर्णं भवत्येव तस्यास्ति निधनं ततः ।वैराजोऽन्यश्च तत्पश्चाद् वैराज्यं प्रतिपद्यते ॥४॥एवं वै क्रमशः सृष्टौ वैराजानामसंख्यता ।पारम्पर्यप्रवाहेण महाविष्णोर्दिने दिने ॥५॥एकैकस्य विनाशोऽस्ति वैराजस्येश्वरस्य वै ।महाविष्णोर्वर्षमध्ये पञ्चषष्ट्यधित्रिंशतम् ॥६॥वैराजानां भवंत्येव क्रमेण शतवर्षके ।षटत्रिंशत्तु सहस्राणि तथा पञ्चशतानि वै ॥७॥वैराजानां भवन्त्येव तत्सर्वं वेद्म्यहं प्रिये! ।अस्य वै वर्तमानस्य वैराजस्य कथां शृणु ॥८॥महाविष्णोस्तु साम्राज्ये ऐश्वरीसृष्टिके स्तरे ।अष्टावरणपारे वै त्वस्मात्पूर्वो विराट् पुमान् ॥९॥स्वस्याऽन्तिमस्य वर्षस्याऽन्तिमाह्नस्त्वन्तिमक्षणे ।वर्तमानेऽन्तिमवेधोब्रह्माण्डेऽस्तमनक्षणे ॥१०॥सम्राडासीत्सहस्राक्षाऽभिधश्चक्रप्रवर्तकः ।भक्तिमान् स सहस्राक्षः सत्ये पातालके भुवि ॥११॥विमानेन सदा याति शृणोति व्योमतन्तुना ।स्वच्छद्रव्येण संचष्टे स्पृशति क्षिप्रवायुना ॥१२॥क्षणेन सर्वलोकानां व्यवहारं करोति च ।सर्वसाधनयुक्तस्य गन्तव्यं नाऽवशिष्यते ॥१३॥स्थित्वैकत्र गृहे तस्य प्रजाश्चतुर्दिशास्थिताः ।व्यवहरन्तीव निकषा विदन्ति करगं यथा ॥१४॥सहस्राक्षः स्वयं - सत्यलोके संसदि वेधसः ।यात्यायाति यथाकालं पूरितायां महाजनैः ॥१५॥दिक्पालैर्मनुभिश्चापि सूर्येण शशिना तथा ।ऋषिभिश्च महादेवैः सार्वभौमैर्नृपैस्तथा ॥१६॥तत्रासनं स्वकीयं स न लेभे प्रथमे स्थले ।इति वैषम्यदोषेण प्रेरितः स हृदन्तरे ॥१७॥आहूय ब्रह्मविज्ञानान् पप्रच्छाऽभ्युदयं प्रति ।पारमेष्ठ्यादधिकं चोत्तमं स्थानं मिलेत् कथम् ॥१८॥विप्रा विज्ञापयामासुस्तमध्वरवरान् कुरु ।अग्निष्टोमं वाजपेयं राजसूयं च वैष्णवम् ॥१९॥महारौद्रं नरमेधं वाजिमेधं वृषक्रतुम् ।सौत्रामणिं सुतेष्टिं च वह्निहोत्रं जपादिकम् ॥२०॥एतान् यज्ञान् महारंभान् शतसंवत्सरान् कुरु ।तेन पुण्येन ते राजन् पारमेष्ठ्योत्तरं पदम् ॥२१॥भविष्यति ध्रुवं राज्यं स्थानं कारय तान्मखान् ।शते पूर्णे त्विन्द्रपदं सहस्रे तु रवेः स्थलम् ॥२२॥ध्रुवराज्यमयुते तु लक्षे तु वेधसः स्थलम् ।कोटियज्ञेषु पूर्णेषु शतास्यब्रह्मणः पदम् ॥२३॥यज्ञपरार्धे सम्पूर्णे वैराजपदमाप्यते ।न तथाऽऽयुश्च समयः कस्याऽप्यत्र तु गोलके ॥२ ४॥तस्माद् राजँस्तेन दत्तं भुञ्जीथा भव शान्तिमान् ।तृष्णायास्तु पिशाचिन्या अन्तो भोगेन नाप्यते ॥२५॥अत्रैवाप्तान् प्रभोगाँश्च संप्राऽनुभूय सर्वथा ।रागद्वेषौ महादोषौ क्षपयित्वा हितं कुरु ॥२६॥श्रेयं मत्तो महानस्ति लक्ष्म्या बुद्ध्या जनैश्च वा ।इति चिन्तयितुर्नैव सुखप्राप्तिर्भवेत् क्वचित् ॥२७॥अहमस्मि महानात्माऽऽनन्देन पूरितो हरेः ।इति मन्तुर्न वै दुःखं तृष्णादोषादिजं भवेत् ॥२८।अन्येषामधिकं दृष्ट्वा दुःखं मन्तव्यमेव न ।स्वोपार्जितेन यत्प्राप्तं तत् सुखं शान्तिदं मतम् ॥२९।यदृच्छयोपपन्ने तु वस्तुनि तूद्यमार्जिते ।अलंबुद्धिर्भवेद्यस्य स सदात्र सुखी भवेत् ॥३०।त्रैलोक्याऽहतशास्तिसाम्राज्यं तवास्ति वै दृढम् ।यदि नाप्ता ततः शान्तिरधिकात् का भविष्यति ॥३१।अयं मम परश्चेति द्रष्टुर्नास्ति क्वचित् सुखम् ।तारतम्यं तु सर्वत्र मायालोकेऽस्ति सर्वथा ॥३२प्रकृतौ विकृतौ कार्ये निरतिक्रमवर्जिते ।नहि क्वापि परा शान्तिर्लब्धा केनापि भूपते ॥३३।न कश्चिल्लप्स्यते शान्तिं यदि स्यात्प्रकृतेः पतिः ।प्रधानस्य पतिर्वापि काऽन्यस्यात्र कथा नृप ॥३४॥तस्माच्छान्तिं लभ राजन् मा तृष्णां वर्धय प्रभो ।विरेमुश्चेति सन्दिश्य ब्राह्मणाः पारदर्शिनः ॥३५॥सहस्राक्षस्तु कर्णौ तानदत्वैव मखान् बहून् ।कारयामास विधिवत् प्रत्यब्दं तु महत्तमान् ॥३६॥एतैः पुण्यं शतब्रह्मार्जितं प्राप्तं च तेन वै ।अथाऽऽयुषोऽन्तिमे वर्षेऽधिमासेऽपरपक्षके ॥३७॥दिने प्रतिपदि प्रातर्हरेः शुश्राव दुन्दुभिम् ।यज्ञेषु वर्तमानस्य सहस्राक्षस्य भूपतेः ॥३८॥पुरुषोत्तममासस्य दुन्दुभिः श्रवणं गतः ।अधिमासे द्वितीये तु पक्षे वै प्रतिपद्गते ॥३९॥कृष्णनारायणः सर्वेश्वरः श्रीपुरुषोत्तमः ।यदिष्टं यस्य तद् दास्ये कोटिकल्पैरलभ्यकम् ॥४०॥कोटियज्ञैः कोटिदानैर्यदलभ्यं ददाम्यहम् ।अत्र व्रते प्रकर्तव्यं राज्ञा दानं यथाबलम् ॥४१॥पूजनं मे प्रकर्तव्यं यथालब्धोपचारकैः ।भोजनं मे च दातव्यं यथायोग्यान्नसद्रसैः ॥४२॥दक्षिणा मे प्रदातव्या यथाश्रद्धा तथा धनैः ।परोपकारः कर्तव्यः पुरुषोत्तमतुष्टये ॥४३॥यदि सम्राट् सार्वभौमश्चतुर्दशभुवां पतिः ।यथाविभवं कृष्णं मां पूजयेदुत्तमोत्तमैः ॥४४॥प्रातः स्नानं स्वयं कृत्वा पञ्चरत्नजलेन माम् ।सुगन्धसारवार्भिश्च दन्तशुद्धिं प्रकारयेत् ॥४५॥सुगन्धं मञ्जनं दद्यान्नूतनं दन्तधावनम्।सुगन्धजलगण्डूषैर्जिह्वाशुद्ध्यादि कारयेत् ॥४६॥पुष्परसाग्र्यसारैश्च सुगन्धिभिर्जलैश्च मे ।शौचादि कारयेद् राजा हस्तशुद्ध्यादि कारयेत् ॥४७॥चन्दनाक्तसुमृद्भिश्चाऽवयवानां पवित्रताम् ।सुगन्धवारिभिश्चाऽद्भिः कारयेत् स्नापयेत्ततः ॥४८॥दुग्धेन दध्ना चाप्येकाक्षरेण मधुना तथा ।शर्कराभिश्चामृतैश्च स्नापयेद् वारिभिस्ततः ॥४९॥सुगन्धितैलसारैश्च मर्दनं कारयेन्नृपः ।तीर्थवार्भिः स्नापयेच्च वस्त्रैश्च मार्जयेज्जलम् ॥५०॥अतिसूक्ष्मातिमूल्यैः सत्सुवर्णतारचन्द्रकैः ।मृदुचित्रैश्चातिसूक्ष्मवस्त्रैर्मां शोभयेत् ततः ॥५१॥राज्यासनार्हसौवर्णैर्मुकुटैः कटकादिभिः ।स्वर्णोर्मिका शृंखलाद्यैः कुण्डलैर्हारशेखरैः ॥५२॥कोट्यधिकैर्मणिरत्नैर्मौक्तिकैर्नद्धभूषणैः ।पुष्परागप्रवालैश्च वैदूर्यैः सूर्यकान्तकैः ॥५३॥चन्द्रकान्तैर्मारकतैर्माणिक्यैः स्फटिकैस्तथा ।वज्रैर्गारुत्मतैर्मुक्ताभिश्च सत्पद्मरागकैः ॥५४॥इन्द्रनीलैः पुष्पराजैः कर्केतनैश्च भीष्मकैः ।पुलकैः रुधिरैः स्वर्णै राजतैर्भूषणैस्तथा ॥५५॥सामुद्रिकैः खनिजैश्च वह्निजैः स्वर्भवैस्तथा ।रत्नमालाविभूषाभिः पूजयेत्परमेश्वरम् ॥५६॥ऊर्णावस्त्रोत्तमैश्चान्यैः कार्पासकैश्च कौशुकैः ।वार्क्षैः सुवर्णजैश्चान्यैः रसजैस्त्वक्कृतैश्च वै ॥५७॥वस्त्रैः संशोभयेत् कृष्णं तैलैः सुगन्धसारकैः ।कज्जलैर्नवनीतैश्च मर्द्यद्रव्यैः सुगन्धकैः ॥५८॥सगन्धं कारयेत् कृष्णं कस्तूरीचन्दनादिभिः ।कर्पूरैः केसरैर्मिश्रैः पूजयेत् तिलकादिभिः ॥५९॥कुंकुमाऽक्षतपुष्पैश्च स्वर्णचम्पककुन्दकैः ।पारिजातस्थलपद्मैः कमलैस्तुलसीदलैः ॥६०॥कल्पपुष्पैः स्वर्णवल्लीकुसुमैः पूजयेत्प्रभुम् ।स्वर्णाक्षतैर्वर्धयेच्च हारमालाः समर्पयेत् ॥६१॥करपादतले गण्डौ कपोलौ कर्णसीमकौ ।भुजौ जंघे नखानोष्ठौ रंगैः संरंजयेद्धरेः ॥६२॥सुवर्णमणिरत्नादिनद्धोपानद्युतौ पदौ ।नक्तकयष्टिकागुच्छशृंखलासहितौ करौ ॥६३॥शोभयेत् तिलकं पीतं रक्तं चन्द्रं प्रकारयेत् ।धूपं दीपं कारयेच्च भोजनं शतमष्ट च ॥६४॥अम्ब्लं मधुरं लवणं कटु तिक्तं कषायकम् ।यथारुचि यथापेक्षं स्वादु सुगन्धि चार्पयेत्। ॥६५॥भक्ष्यं भोज्यं चोष्यलेह्ये पेयं चास्वाद्यमित्यपि ।अन्नं शाकद्विदलाश्चौदनानि सुफलानि च ॥६६॥पायसान्नं सुवर्णैः संस्कृतानि सद्रसानि च ।अमृताढ्यानि मिष्टानि मृष्टानि दापयेन्नृपः ॥६७॥मुखवासानि चूर्णानि ताम्बूलं चान्यचर्वणम् ।उत्तेजकानि चान्यानि त्वर्पयेद्धरये नृपः ॥६८॥शीतलान्यपि पेयानि चूर्णितरसवन्ति च ।मादकानि विविधानि त्वर्पयेद्धरये नृपः ॥६९॥गायनानि तु राज्ञीभिस्तालवाद्यस्वरान्वितैः ।नर्तनैर्हावभावाद्यव्यंग्यरसप्रपूरितैः ॥७०॥सखीभिः कारयेद्राजा वर्धयेद् बहुभावनैः ।लाजाभिश्चन्दनकणैरक्षतैः स्वर्णतण्डुलैः ॥७१॥मणिरत्नादिभिर्देवं वर्धयेत्तु पुनः पुनः ।जयकारान् कारयेच्च नीराजयेत्प्रगे निशि ॥७२॥शतैः सहस्रकैर्वर्तिकर्पूरादिभिरादरात् ।आकटि सप्त चावर्तान् सप्त त्वामस्तकं तथा ॥७३॥ततः सप्ताऽऽवर्तकाँश्च प्रत्येकसप्तचक्रकान् ।ततश्च सप्तलहरीरूर्ध्वाऽधःप्रसृताश्चरेत् ॥७४॥व्यावर्तान्पादयोश्चैवाऽऽवर्तयेत् क्रमशो हरिम् ।ततो वस्त्रेण चावर्तांस्त्रीन् हरिं समवर्तयेत् ॥७५॥ततः शंखजलेनापि व्यावर्तानवतारयेत् ।आरार्त्रिकं तज्जलेन त्रिवारं समवर्धयेत् ॥७६॥धूपं ततस्त्रिवारं चावर्तयेत्परमेश्वरम् ।घण्टावादनमन्येषां वाद्यानां चापि वादनम् ॥७७॥दुन्दुभिझल्लरीघण्टापटहानतिवादयेत् ।ततः स्तुतिं नमस्कारं दण्डवत् प्रार्थनां चरेत् ॥७८॥प्रदक्षिणादिकं कृत्वा पुष्पाञ्जलिमथार्पयेत् ।एवं प्रातश्च मध्याह्ने निशि सम्राट् प्रपूजयेत् ॥७९॥शृंगारयित्वा सत्सैन्यं विमाने च गजे रथे ।स्थापयित्वा राजधान्युद्यानादौ भ्रामयेद्धरिम् ॥८०॥जनता वर्धयेत् कृष्णनारायणं पुमुत्तमम् ।पुनस्त्वानीय च राजसौधं जलादि चार्पयेत् ॥८१॥विश्रामयेत् पादसंवाहनाद्यं वर्तयेन्नृपः ।भगवत्तोषणार्थे च भूरिदानानि वै ददेत् ॥८२॥हस्तिदानं वाजिदानं चोष्ट्रघोटकदानकम् ।वृषभाऽजप्रदानं च गोगरुडप्रदानकम् ॥८३॥शुकदानं सारिकाया मेनाया दानमित्यपि ।नराणां दासदासीनां कन्यानां दानमित्यपि ॥८४॥यानानां वाहनानां च पशूनां दानमित्यपि ।कम्बलाम्बरवेषाद्युत्कृष्टवस्तूनि दापयेत् ॥८५॥भवनानि नगराणि क्षेत्राणि पर्वतांस्तथा ।सरोवराणि खनिजान् खनींश्चारण्यकानि च ॥८६॥दद्याद् दाने द्विजातिभ्योऽनाथेभ्योऽन्नाम्बराणि च ।वृक्षान् वल्लीः प्रदद्याच्च क्षेत्राणि वाटिकास्तथा ॥८७॥दद्यान्नदीर्नदाँश्चैवाऽखातान् स्वर्गं महस्तपः ।सत्यं लोकं प्रदद्याच्च पातालान्ततलानि च ॥८८॥देशं प्रदेशं खण्डं च राज्यं द्वीपं च दापयेत् ।दाता ब्रह्माण्डनेता चेद् ग्रहीताऽपि तथा भवेत् ॥८९॥मिलेन्नैव ग्रहीता चेत् संकल्प्य हरये ददेत् ।विश्वंभरो विश्वपोष्टा विश्वरक्षाकरः प्रभुः ॥९०॥गृह्णात्येव न सन्देहो भावनाक्षुधितो हरिः ।साम्राज्यमुकुटं दद्याद् दद्याद् राज्ञीं सुतास्तथा ॥९१॥सर्वे दद्याच्छर्मदाय कृष्णाय परमात्मने ।कोशं सैन्यानि राष्ट्राणि दद्याच्छ्रीकेशवाय वै ॥९२॥यथाश्रद्धं प्रदद्याच्च सकामायाऽधिकारिणे ।सत्पात्राय प्रदद्याच्च नारीभ्योऽपि ददेद् बहु ॥९३॥बालाभ्यो विधवाभ्यश्च साध्वीभ्यो जीविकां ददेत् ।सतीभ्यो योगिनीभ्यश्च रंकाभ्यो भोजनं ददेत् ॥९४॥सन्तर्पयेद् यज्ञभागैस्त्रिलोकसुरमानवान् ।काश्यपान् प्राणिनः सर्वांस्तोषयेदन्नवारिभिः ॥९५॥एतत्सर्वं प्रदद्याद्वा दद्यादेकं च वा नृपः ।वित्तशाठ्यं न चेत् कुर्याद् दद्याच्च श्रद्धया यदि ॥९६॥कांस्यपात्रपुटदानं सुवर्णपुटदानकम् ।अष्टावरणसंयुक्तं चतुर्दशदलान्तरम् ॥९७॥सुवर्णरत्नसंव्याप्तं पुटं दद्यात्पुटानि च ।तत्फलं सर्वथा कृष्णनारायणो यथेष्टकम् ॥९८॥ददाति मास्यधिके वै शाश्वतं बहुतृप्तिदम् ।सकामं चापि निष्कामं दास्यामि पुरुषोत्तमः ॥९९॥कुर्वन्तु दानं वितरन्तु लक्ष्मीं क्षिपन्तु पात्रे भगवत्प्रबुद्ध्या ।श्रीकृष्णनारायण एव दाता वैराजकं चापि ददामि राज्यम्॥१००॥इत्येवं दुन्दुभिर्वक्ति मासि श्रीपुरुषोत्तमे ।सहस्राक्षः शृणोत्येव श्रीदं तं प्रतिपत्तिथौ ॥१०१॥प्रातरेव तु राजाऽसौ कृष्णनारायणं प्रभुम् ।श्रुत्वा तं दुन्दुभिं नत्वाऽपूजयच्छुद्धिमान्नृपः ॥१०२॥दुन्दुभिना यथाप्रोक्तं राज्ञः श्रद्धा च यादृशी ।तथा राज्ञा कृतं सर्वं पूजनं सविसर्जनम् ॥१०३॥अथ दानं ददौ प्रातः पत्नीव्रतद्विजन्मने ।आहूय ब्रह्मणः सत्ये लोके संसदि तं द्विजम् ॥१०४॥ब्राह्ममूर्ते! द्विजश्रेष्ठ! त्वमेव पुरुषोत्तमः ।अधिमासाधिदैवात्मन्! फलदाताऽसि मूर्तिमान् ॥१०५॥अहं वै दुन्दुभिं श्रुत्वा करोम्यद्य दिने व्रतम् ।वैराजपदलब्ध्यर्थं दानं गृहाण सार्थकम् ॥१०६॥चतुर्दशभुवनानां राजाऽस्मि च ददाम्यहम् ।स्वर्णदीजलसाक्ष्येऽत्र वेधसः संसदि द्विज ॥१०७॥चतुर्दशभुवनानि ददामि फललब्धये ।दत्तानि च गृहीतानि प्रत्युवाच द्विजोत्तमः ॥१०८॥तावत्पत्नीव्रतरूपे भगवान् पुरुषोत्तमः ।प्राविर्बभूव सहसा कोटिभास्करकान्तिमान् ॥१०९॥प्रहसंस्तं सहस्राक्षं प्रोवाच पुरुषोत्तमः ।दानं प्राप्तं मया राजन् द्विजरूपेण सर्वथा ॥११०॥मया दत्तं फलं तस्य ते वैराजपदं ध्रुवम् ।आयुषोऽन्ते तु लब्धाऽसि वैराजं पदमैश्वरम् ॥१११॥इति कृत्वा प्रसादं तं नृपं प्रदर्श्य विग्रहम् ।तिरोबभूव सहसा स्पृशन् मूर्ध्नि नृपस्य सः ॥११२॥राज्ञा व्रतं तथा पूजां सर्वं वै श्रद्धया कृतम् ।ददौ ब्रह्माण्डदानं स यत्र किञ्चिन्न शिष्यते ॥११३॥स्वयं दासोऽभवत्तस्य किंकरो ब्राह्मणस्य वै ।वर्षान्तः पूर्णतां प्राप्तः सहस्राक्षः समाधिना ॥११४॥पश्यति स्वकृते चाग्रे वैराजं पदमस्ति यत् ।पूर्ववैराजविगमे नैकट्ये दृश्यते हि तत् ॥११५॥इत्येवं वर्तमानेन राज्ञा तेन महात्मना ।क्रमयोगाद् दैवयोगात् त्यक्तं देहं नृपात्मकम् ॥११६॥सहस्राक्षशरीरं च विहायेमं तु गोलकम् ।दिव्यमार्गे ययौ चेशसृष्टौ यत्रास्ति तत्स्थलम् ॥११७॥प्राप्तवान् स सहस्राक्षो वैराजं पदमैश्वरम् ।योऽद्यास्ति नाभिकमलः पिता वै वेधसः प्रभुः ॥११८॥सोऽयं वैराजसाम्राज्यं प्राप्तवान् प्रतिपद्व्रतात् ।भूम्ना हैरण्यगर्भेण तथाऽन्यैरीश्वरैरपि ॥११९॥तत्राभिषिक्तो राजा सः योऽसौ नारायणोऽभवत् ।यत्कमलेऽभवद् ब्रह्मा यल्ललाटाच्छिवापतिः ॥१२०॥यस्य वै हृदयाद्विष्णुर्यस्योदरे त्विदं जगत् ।सोऽयं व्रतप्रभावेण सहस्राक्षो नृपः खलु ॥१२१॥पुरुषोत्तमसद्भक्त्या जातो नारायणो विराट् ।एवं त्वधिकमासस्य मध्योऽर्ध्वप्रतिपद्दिने ॥१२२॥व्रतपूजनदानेन फलं ते कथितं प्रिये ।प्रसन्नः श्रीहरिस्तत्र किं न ददाति पद्मजे ॥१२३॥अस्य श्रावयिता चापि पाठकर्तापि तादृशम् ।फलं संलप्स्यते लक्ष्मि! वदामि पुरुषोत्तमः ॥१२४॥नास्तिकश्चाऽश्रद्दधानो मृषावादी प्रदूषकः ।न प्रसादं फलं वापि लभते मम निन्दकः ॥१२५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सार्वभौमेन सहस्राक्ष-नामकराज्ञा सहस्रेषु यज्ञेषु कृतेषु ततोऽधिकमासोत्तर-पक्षीयप्रतिपद्व्रतदानादिना प्राप्तं वैराजनारायण-पदमित्यादिनिरूपणनामाऽष्टाधिकत्रिशत-तमोऽध्यायः ॥३०८॥ N/A References : N/A Last Updated : March 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP