संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३८० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३८० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८० Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! मृगीं वन्यां पातिव्रत्यपरायणाम् ।पुष्करे साऽभवत्पत्नी ऋषेर्मृगस्य पाशवी ॥१॥यथा वै मानुषे देहे वर्तते तु पतिव्रता ।तथा सा मृगदेहेऽपि पातिव्रत्ये ह्यवर्तत ॥२॥मृगी मृगे कामधर्मा समाश्लिष्यत्तु यद्दिनात् ।तत एव दिनात् कान्तं मृगमेकं पतिं शुभम् ॥३॥स्वीकृत्यैव तमाश्रित्य प्रावर्तत पतिव्रता ।नान्यं मृगं सा स्मरति नान्यं पश्यति भावतः ॥४॥नान्यं स्पृशति नान्येन रमते सा कदाचन ।मृगयूथे पुनर्जाता मृगी सा तु रजस्वला ॥५॥तदा बलिष्ठाः सारंगाः पतन्त्यनु च तां मृगीम् ।किन्तु सा स्वपतिं हित्वा नान्ययोगं समिच्छति ॥६॥तदाऽन्यैः क्रोधमापन्नैर्मृगैर्यूथाद् बहिष्कृता ।सा तु पतिं मृगं नीत्वा मृगयूथं विहाय च ॥७॥धर्मरक्षार्थमेवाऽऽयान्निर्मृगं काननान्तरम् ।मध्यमे पुष्करे तीर्थे शाद्वले निर्भये स्थले ॥८॥तत्र सा सेवते नित्यं पतिं समनुवृत्तिभिः ।शृंगाग्रैः स्वामिनः कण्डूनाशयत्येव भावतः ॥९॥लेलिहाना जिह्वया स्वकान्तं स्नेहमयी तथा ।स्पृशमाना मुखाद्यैश्च रञ्जयत्येव तं मृगम् ॥१०॥घट्टेषु द्रुस्तबकेषु घासान्वितस्थलीषु च ।यत्र शैत्यं न वा वृष्टिर्न वा तापो भवेद् रवेः ॥११॥तत्र छायामूलमध्ये स्तम्बान्तःस्थलमाप्य च ।रात्रिं कान्तेन वै साकं विनिर्गमय्य सा मृगी ॥१२॥कान्तस्य जाग्रतः पूर्वं निद्रां त्यक्त्वा तु वै शनैः ।कान्ताननं विलोक्यैव प्रलेढि जिह्वया सती ॥१३॥मृगस्तु जाग्रतिं प्राप्य कान्तां दृष्ट्वा पतिव्रताम् ।शृंगेण जिह्वया कान्ताकण्डूयनमथैति हि ॥१४॥एवं परस्परं पत्नीव्रतस्वामिव्रतान्वितौ ।शय्यां स्थलीं प्रविहाय समायातो बहिःस्थलीम् ॥१५॥यावत्कान्तो न गृह्णाति तृणं वा कोमलं दलम् ।तावन्मृगी न चाऽऽदत्ते पत्रं तृणं च वाऽङ्कुरम् ॥१६॥प्रातः कान्तेन चेद्दत्तं पत्रं तदा मृगी ह्यपि ।पत्रमेव समादत्ते नान्यत् तृणं च वाऽङ्कुरम् ॥१७॥यदि कान्तः समादत्ते तृणं तदनु सा मृगी ।भक्षयत्ति तृणमेव तत्र पतिप्रसादजम् ॥१८॥पत्यभक्ष्यं न चाऽऽदत्ते सरसं श्रेष्ठमित्यपि ।भक्ष्यमाणे तृणादौ च यदि प्राप्नोति नूतनम् ॥१९॥मिष्टं श्रेष्ठं मृदु भक्ष्यं पत्रं पुष्पं फलं तृणम् ।अंकुरं कन्दमूलं वा सस्यं शाखादिकं यदि ॥२ ०॥तदा कान्तं समाहूय स्वामिने तद् ददाति सा ।जलपानेऽपि पूर्वं वै मृगः पिबति वै जलम् ॥२१॥तदन्वेव मृगी पाने जलस्याचरतीति वै ।प्रयाते यात्यनु नित्यं स्थिते भवति सा स्थिता ॥२२॥पलायमाने तु तदनु सा करोति पलायनम् ।तर्जिता ताडिता वापि न सा गणयति व्यथाम् ॥२३॥मृगश्चेत्! सूर्यकिरणे तापे तिष्ठति वै मुदा ।यावत् तावच्च सा धर्मं मत्वा तापे प्रतिष्ठति ॥२४॥एवं छायां गते पत्यौ ततश्छायां प्रतीच्छति ।सदा कान्तस्य सेवायां कल्याणं मन्यते सती ॥२५॥एवं वै वर्तमानायां वने तत्राऽप्यवग्रहः ।समभूत् तेन सस्यानि नाऽप्ररोहन् जलं विना ॥२६॥स्थली शुष्काऽभवच्चापि तत्र खाद्यं क्षय गतम् ।मृग्यमाणं क्वचिच्छुष्कं शलाकाकाण्डपत्रकम् ॥२७॥लभ्यते च क्वचिन्नैव प्राप्यते तु तदा निशा ।क्षुधिताभ्यां याप्यते च स्वधर्मिभ्यां वने वने ॥२८॥अथ प्राग् यत्परित्यक्तं मृगव्रातं सुधान्वितम् ।भ्रमद्वनं समायातं यत्रास्ते सा पतिव्रता ॥२९॥दुःखं क्षुधितं चालोक्य कुटुम्बियूथमेव सा ।हृष्टा स्मृत्वा पतिं तत्र कृत्वा वृद्धान्नतिं मुहुः ॥३०॥प्रोवाच तेषां भोज्यार्थं यद्यस्म्यहं पतिव्रता ।तदैतेषामतिथीनां सत्कारार्थं वनं मम ॥३१॥वृष्टिं विनापि सदलं नूतनांकुरशोभितम् ।शाद्वलं सफलं सस्योत्तमश्रीललितं तथा ॥३२॥सतृणं सजलं चापि भवत्वत्र मुहूर्तकम् ।इत्येवं कथिते तद्वै वनं हरितमेव च ॥३३॥सम्पन्नं भक्ष्यपौष्कल्यप्रपूर्णं ह्लादकारकम् ।सर्वे कुटुम्बिनो जग्ध्वा जलं पीत्वा ययुस्तदा ॥३४॥पतिव्रताया माहात्म्यं गायन्तः स्मृद्धिकारकम् ।तैस्तु सर्वत्र वार्ता सा कथिताऽऽश्चर्यकारिणी ॥३५॥मृगा वनान्तरेभ्यश्च समायाताः क्षुधातुराः ।इयं पतिव्रता नित्यं पतिं नत्वा पुनः पुनः ॥३६॥अतिथीनां भोजनार्थं नित्यं संकल्पमाचरत् ।नित्यं मुहूर्तमात्रं च शुष्कं भवति चार्द्रकम् ॥३७॥हरितं शाद्वलं भक्ष्यं भक्षयन्ति मृगास्ततः ।तृप्त्वा गच्छन्ति भूभागान् पुनः शुष्कायते वनम् ॥३८॥अथैकदाऽभवत्तत्र वने दावानलोद्भवः ।प्रालेयवह्निसदृशः पशुपक्षिक्षयंकरः ॥३९॥तदा सर्वैः स्मृता सा च मृगी वह्निप्रशान्तये ।मृगी पतिक्षुरं स्पृष्ट्वा नत्वा प्रोवाच वै पतिम् ॥४०॥यदि नाथ कृता सेवा तव भक्त्या सदा मया ।तेन पुण्येन दावोऽयं शान्तिमेतु क्षयावहः ॥४१॥इति सकल्पिते तत्र वह्निः कृष्णमृगोऽभवत् ।समायातो यत्र साऽस्ति मृगी स्वामिव्रता सती ॥४२॥ननाम तां सतीं प्राह देवि! शान्तोऽस्मि ते भयात्॥नातः प्रज्वालयेऽरण्यं विहरन्तु मृगाः सुखम् ॥४३॥बिभेम्यहं सतीशापात् क्षमस्व मां पतिव्रते! ।इत्युक्त्वा च सतीं नत्वा ययौ शान्तिं दवानलः ॥४४॥अथ सिंहास्तथा व्याघ्रा भल्लुका हिंस्रकास्तु ये ।तेऽपि यातान्पशूँस्तत्र ज्ञात्वाऽऽययुस्तु तद्वने ॥४१॥हिंस्राः पशून् विहिंसन्ति दुःखाऽऽक्रोशोऽभवद् वने ।पशवोऽपि तु संभूय त्रस्तास्तत्र समाययुः ॥४६॥पतिव्रता मृगी यत्र पुष्करे वर्तते भुवि ।तदा तेषां महद्दुःखविनाशायाऽर्थयच्छिवम् ॥४७॥मृगीश्वरो महादेवस्तत्र साक्षात् समागमत् ।प्राह सा तं हरं नाथ! रक्षां कुरु वने सदा ॥४८॥हिंस्राः खादन्ति ते भक्तानस्मानवितुमर्हसि ।महादेवस्तदा रूपं धृत्वा शरभमुत्कटम् ॥४९॥वने चचार हिंस्राणां विद्रावणाय सर्वतः ।प्रहिंस्राः पशवः क्रूरा दूरं यान्ति स्म तद्वनात् ॥५०॥अथैनं शरभं देवं दृष्टवान् पर्शुरामकः ।जामदग्न्यस्तपः कर्तुं यश्च तिष्ठति पुष्करे ॥५१॥धनुरादाय बाणेन यावद्धन्तुं प्रवर्तते ।तावद्देव गिरा प्राह शंकरः शरभः स्वयम् ॥५२॥रे रे राम! महाभाग! भक्तरक्षाकरोऽस्म्यहम् ।पतिव्रताया मृग्या वै संकल्पेन समागतः ॥५३॥शंकरस्तवरूपोऽहं मा यत्न त्वं वृथा कुरु ।इत्युक्त्वा तु हरस्तस्मायदर्शयद्धरं तनुम् ॥५४॥देवौ रामहरौ षष्वजाते परि परस्परम् ।शंभु प्रदर्श्य सुखदां स्वर्णदीं तापसस्थलीम् ॥५५॥तिरोऽभवत् ततो रामो ययौ तत्र फलाप्तये ।स्तोत्रं चकार कृष्णस्य तेन तुष्टोऽभवद्धरिः ॥५६॥जगाम दर्शनं तस्य जामदग्न्यस्य केशवः ।ददावस्त्राणि शस्त्राणि क्षत्रवर्गलयाय वै ॥५७॥तिरोभवच्च स कृष्णो रामोऽपि प्रति पुष्करम् ।स्नानाद्यर्थं समागच्छद् दृष्टवान् स मृगीं सतीम् ॥५८॥यत्प्रभावेन हरितं वनं तज्जायते मुहुः ।यत्प्रतापेन शान्तोऽभूत् तत्र दावानलो वने ॥५९॥यत्प्रभावाच्च शरभं रूपं वै धृतवान् हरः ।तां तु दृष्ट्वा सतीं दिव्यां मृगीमाश्चर्यमाप्तवान् ॥६०॥मृगी रामं कृष्णनारायणांशं दिव्यसद्धिया ।ज्ञात्वा ननाम तुष्टावाऽतिथिसत्कारमाचरत् ॥६१॥मृगोऽपि तं पर्शुरामं ननाम प्रणयान्वितः ।तावत्तत्र समायातो व्याधो वै मृगयारतः ॥६२॥पिपासितो घर्मतप्तो जलपानसमुत्सुकः ।रामस्य पश्यतस्तत्र सरसस्तटमागतः ॥६३॥मृगीमृगौ तु पिबतस्तत्र वारि भयान्वितौ ।व्याधो मृगीमृगौ दृष्ट्वा मृगयार्थं धनुर्दधौ ॥६४॥किन्तु दृष्ट्वा पर्शुरामं तस्थावक्षिप्तसायकः ।शंकितश्चिन्तयामास तदा भीतस्तु रामतः ॥६५॥पीत्वा मृगीमृगौ वारि वृक्षछायासमाश्रितौ ।दृष्ट्वा रामं मृग्युवाच कान्तं निर्भयमानसा ॥६६॥कान्त! चात्रैव तिष्ठावो यावद्रामोऽत्र संस्थितः ।अस्य वीरस्य सान्निध्ये व्याधो नौ प्रहरिष्यति ॥६७॥तदा दृष्टः स मुनिना भस्मीभूतो भविष्यति ।मृगश्चाह तथास्त्वेनं रामं जानामि भार्गवम् ॥६८॥शिवस्य नारदस्यापि शुकस्यापि च मारुतेः ।अम्बरीषस्य च बलेर्विभीषणस्य चोत्तमा ॥६९॥प्रह्लादस्य रन्तिदेवस्योद्धवस्यापि चोत्तमा ।गोपीनां च प्रभायाश्च पार्वत्याश्च यथोत्तमा ॥७०॥माणिक्यायाश्च लक्ष्म्याश्च भक्तिः कृष्णे यथाऽस्ति वै ।तथा भक्तिं प्रकुर्वन् वै रामोऽयं तपसि स्थितः ॥७१॥जातिज्ञानं त्वद्य जातं रामस्याऽस्य तु दर्शनात् ।शृणु प्रिये! प्रवक्ष्यामि यथाऽऽवां मृगतां गतौ ॥७२॥पुरा द्रविडदेशे वै ब्राह्मणानां कुले शुभे ।जातः कौशिकगोत्रो मे सत्रायणाऽभिधः पिता ॥७३॥वेदसूरिस्तस्य पुत्रश्चाऽहमासं सुभक्तिमान् ।गुरुशुश्रूषणे रक्तो वेदाध्ययनतत्परः ॥७४॥एकदा कृतमालायां स्नात्वा ह्युषसि पर्वतम् ।समारूढस्तत्र चैका मृगी त्वागात् पिपासिता ॥७५॥वारिपानपरां तां च वीक्ष्याऽहं कृपया द्रुतम् ।तस्याः समीपमगमं सापि विश्वासशालिनी ॥७६॥मम वै पादयोस्तत्रागत्य नम्रा बभूव वै ।तावत्तत्र समायातः शार्दूलोऽतिभयंकरः ॥७७॥मृगी पलायिता त्रस्ता शार्दूलो जगृहे च ताम् ।अहं शार्दूलनाशार्थं कृतवान् बहुयत्नकम् ॥७८॥मृग्याः प्राणाऽवनार्थ च सा तथापि क्षता तदा ।कन्यारूपं चोनपञ्चदशवर्षं विधाय वै ॥७९॥मत्समीपं समागत्य पतिता पादयोस्तु मे ।अहमाश्चर्यमापन्नः पृष्ठवाँस्तां कुमारिकाम् ॥८०॥देवि! देवीसमा का त्वं मृगीरूपा हि कन्यका ।कस्य पुत्री कथं चाद्रौ त्वैकाकिनी समागता ॥८१॥कन्या प्राह तदा मां सा पुत्र्यहं परमेष्ठिनः ।देवीनां ब्रह्मसरसां मध्ये नाम्ना हरिण्यहम् ॥८२॥वरयोग्याऽभवं चाहं ब्रह्मणा प्रेषिताऽत्र वै ।सात्रायणिं वेदसूरिमुद्वहितुं समागता ॥८३॥मृगीरूपेण चायाता मां यथाऽन्यो न धर्षयेत् ।सारंगी चाऽक्षता चाऽप्यरजस्वलाऽस्मि कन्यका ॥८४॥ऋतुयोग्याऽस्मि सञ्जाता समुद्वहतु मां भवान् ।इत्युक्ता सा मया तत्र गान्धर्वेण विवाहिता ॥८५॥अग्निं प्रज्वाल्य तत्रैव हृत्वा फलादिकं वने ।कृत्वा प्रदक्षिणं पुष्पमालां धृत्वा च दम्पती ॥८६॥गार्ह्यंधर्म समापन्नौ कामरूपौ हि योगिनौ ।कदाचिद्ऋषिसद्रूपं कदाचिन्मृगरूपिणौ ॥८७॥कदाचिद् देवरूपौ च कदाचिद्वै पतत्त्रिणौ ।कदाचिज्जलमत्स्यौ च हंसौ च गरुडौ तथा ॥८८॥भूत्वा भूत्वा यथेष्टं स्म वने वर्तावहे गिरेः ।पातिव्रत्यपरा त्वं च तथा पत्नीव्रतोऽप्यहम् ॥८९॥गाढानुरागावन्योन्यमास्तां धर्मपरायणौ ।जातिस्मरौ त्रिकालज्ञौ धर्मकर्मपरौ सदा ॥९०॥गिरौ चासन् मृगा मृग्यश्चान्ये शतसहस्रशः ।ते यथा न विजानीयुरावां मृगात्मकौ तथा ॥९१॥भूत्वा तेषु मिलित्वैव विहरावः स्म नित्यदा ।एकदा स्तम्बपर्णानां निचये वृष्टिकारणात् ॥९२॥वृक्षस्तम्बाश्रयं कृत्वा तिष्ठावो निर्भयं स्थलम् ।वियुज्य तन्मृगव्रातात् कामधर्मसुखेच्छया ॥९३॥निशा तु क्षपिता प्रातर्वृष्टिर्नैव निवर्तते ।तावत्तत्र च क्षुधितः सिंहः कश्चित्समागतः ॥९४॥ह्यकस्माद् विधृतौ तेन क्षतौ जातौ मृगौ तदा ।पातव्रत्येन धर्मेण हरिण्या रक्षितावपि ॥९५॥कालधर्मं हि सम्प्राप्तौ मृगरूपौ मृगस्मृती ।अन्ते या च स्मृतिर्यस्य गतिस्तस्य तथा भवेत् ॥९६॥इति भावनया तत्र व्याघ्रव्यापादनोत्तरम् ।सा मृता त्वं मृगी जाता मृगश्चाऽहं त्वया सह ॥९७॥पत्नीव्रतस्तथा त्वं च मे प्रियाऽसि पतिव्रता ।आवाभ्यां भार्गवो रामो दुष्टः साक्षाद्धरिः स्वयम् ॥९८॥गमिष्यामः शुभान् लोकान् येषु गत्वा न शोचति ।ययतुस्ताविति प्रोच्य रामस्य शरणं ह्युभौ ॥९९॥प्रोचतुः परशुरामं सहस्रवर्षजीवितौ ।राम राम हरे कृष्णनारायण जगद्गुरो! ॥१००॥जातिस्मरौ मृगीमृगौ स्वस्वधर्मपरायणौ ।शरणं ते च मुक्त्यर्थं प्राप्तौ मोचय बन्धनात् ॥१०१॥एवमुक्त्वा पर्शुरामं तुष्टुवतुर्मृगीमृगौ ।यावत्तच्चरणौ स्पृष्टौ तावत्स्वर्यानमागतम् ॥१०२॥चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः ।अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा ॥१०३॥रामस्य चरणौ नत्वा समारुरुहतुर्मुदा ।दिव्यदेहधरौ भूत्वा शंखचक्रादिचिह्नितौ ॥१०४॥गतौ च वैष्णवं लोकं सर्वदेवनमस्कृतम् ।शृण्वतां पठतां चैतल्लक्ष्मि! मोक्षगतिर्भवेत् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये ब्रह्मणः पुत्र्या हरिण्या वेदसूरिणा सह विवाहः, मृगीमृगदेहे पातिव्रत्यपत्नीव्रततापालनम्, वृष्टिं विनापि वनस्य हरितीकरणम्, दावानलप्रशमनम्, हिंस्रप्राणिनाशाय शिवस्य शरभरूपेणागमनम्, पर्शुरामदर्शनम्, पुष्करे प्राग्वृत्तान्तकथनम्, हरिणयोर्मुक्तिश्चेत्यादिनिरूपणनामाऽशीत्यधिकत्रिशततमोऽध्यायः ॥३८०॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP