संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३९

कृतयुगसन्तानः - अध्यायः ३९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पितॄँस्तु मानसान् बहून्।
ब्रह्मणः सृजतः पुत्रान् जज्ञिरे पितरोऽस्य वै ॥१॥
मध्वाद्यः षड्ऋतवः पितरः समजज्ञिरे ।
अग्निष्वात्तास्तथा बार्हिषदास्ते मानसाः खलु ॥२॥
आज्यपाः सोमपाश्चैते पितरो मानसा अपि ।
अयज्वानस्तथा तेषामासन्वै गृहमेधिनः ॥३॥
अग्निष्वात्तास्तु ये ते वै पितरोऽनाहिताग्नयः ।
यज्वानस्तेषु ये ते तु पितरः सोमपीथिनः ॥४॥
ये च बार्हिषदास्ते वै पितरस्त्वग्निहोत्रिणः ।
ऋषयः पितरश्चैते ब्रह्मसंकल्पजा हि ते ॥५॥
मधुमाधवौ रसाक्तौ शुचिशुक्रौ तु शुष्मिणौ ।
नभनभस्यौ जिवाविषोर्जौ तु सुधया प्लुतौ ॥६॥
सहसहस्यौ समन्यू तपस्तपस्यौ घोरकौ ।
त इमे ऋतवो द्वन्द्वाः कार्यकारणरूपिणः ॥७॥
तत्र ये ब्रह्मणः पुत्रा मानसास्तेऽभिमानिनः ।
कार्यस्थलं कलाकाष्ठामाससंवत्सरादिकम् ॥८॥
स्थानिनस्त्वभिमानज्ञाश्चेतनाः पितरो हि ते ।
संवत्सरो महान् कालस्तत्पुत्राः ऋतवः स्मृताः ॥९॥
युगाः कल्पास्तु ये ते तु महत्तर महत्तमाः ।
कार्यकारणरूपा वै पितरो ब्रह्मसूद्भवाः ॥१०॥
ऋत्वात्मजा दिनाद्या आर्तवास्तेषां कलादयः ।
आर्तवेयाः सुताः स्थानेश्वराः स्थात्मका अपि ॥११॥
प्रजापतिः स्वयं ब्रह्मा संवत्सरादिरूपधृक् ।
संवत्सरः स्वयमग्निर्ऋतमित्यर्थकस्तु सः ॥१२॥
ऋतात्तु ऋतवस्तेभ्यो मासाश्च आर्तवा मताः ।
द्विपदां च चतुष्पदां पक्षिणां सर्पतां तथा ॥१३॥
स्थावराणां च यत्पुष्पं तद्वै कालार्तवं मतम् ।
कार्यहेत्वोरभेदाश्च नामैक्यं पितृबोधकम् ॥१४॥
इत्येवं पितरो ज्ञेया ऋतवश्चार्तवास्तथा ।
सर्वभूतानि तेभ्योऽथ ऋतुकालात्प्रजज्ञिरे ॥१५॥
तस्मादेतेऽपि पितरः आर्तवा ब्रह्मणाः कृताः ।
जज्ञातेऽथ च पितृभ्यः कन्ये मेना च धारणी ॥१६॥
योगिन्यौ ब्रह्मवादिन्यौ पित्र्यौ ते चापि सम्मते ।
बार्हिषदास्तु तां मेनां पत्नीं हिमवते ददुः ॥१७॥
मैनाको मेनया जातो धारण्या मन्दरस्ततः ।
कन्या वेला नियतिश्च आयतिश्चापि जज्ञिरे ॥१८॥
धातुश्चैवाऽऽयतिः पत्नी विधातुर्नियतिः स्मृता ।
सुषुवे सागराद्वेला सामुद्रीं कन्यकां शुभाम् ॥१९॥
सावर्णिना च सामुद्री सुषुवे दशपुत्रकान् ।
प्राचीनबर्हिषस्ते व प्रचेतस इति दश ॥२०॥
तेभ्योऽथ कन्यकां वार्क्षी ददुर्वक्षास्ततः परम् ।
प्राचेतसोऽभवद् दक्षः, दक्षान्ताः पितरः स्मृताः ॥२१॥
पत्न्यश्च ताः पित्र्यो बह्व्यस्तपोलोके वसन्ति वै ।
सर्वा सा मानसी सृष्टिर्मन्वन्तरे तु योनिजाः ॥२२॥
अथापि सत्यलोकस्था ये वै ऋषय ईरिताः ।
तेषां वंशेषु चोत्पन्नाः पितरस्तेऽपि कीर्तिताः ॥२३॥
भृगुरंगिरा मरीचिः पुलस्त्यः पुलहः क्रतुः ।
अत्रिश्चैव वशिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ॥२४॥
एभिस्तु मानसैः पुत्रैर्ब्रह्मणा प्रेरितैस्तदा ।
उत्पादितास्तपोलोकवासिनः पितरस्तथा ॥२५॥
ते भार्गवाश्चांगीरसो मारीचाश्च तथा परे ।
पौलस्त्याः पौलहाश्चैव क्रातवाश्च तथा परे ॥२६॥
आत्रेयाश्च तथा वाशिष्ठा इति लोकविश्रुताः ।
पितॄणा ते गणाः प्रोक्तास्तपोलोकनिवासिनः ॥२७॥
तत्र केचिदमूर्ताश्च प्रकाशाश्च तथाऽपरे ।
ज्योतिष्मन्तस्तथा चान्ये भवन्ति पितरो हि ते ॥२८॥
दक्षपुत्राश्च हर्यश्वाः शवलाश्वास्तथा पुनः ।
दशसाहस्रसंख्याकाः सहस्राणि च पंच च ॥२९॥
ते सार्धैकसहस्रं वै सर्वे तु ब्रह्मवर्चसः ।
एते तपःपथं प्राप्य वर्तन्ते तपआस्थिताः ॥३०॥
नारदस्योपदेशेन ब्रह्माऽन्वेषणतत्पराः ।
तपोलोकमुपागम्य तिष्ठन्ति दिव्यकान्तयः ॥३१॥
त एते पितरः सर्वै प्रजाकल्याणकारकाः ।
ऋभुः सनत्कुमाराद्याः क्वचित्तिष्ठन्ति तापसे ॥३२॥
तपसि कार्यवाहार्थं, ध्यानार्थं तु सति स्थिता ।
मरीचिः कश्यपो दक्षो वशिष्ठश्चांगिरा भृगुः ॥३३॥
पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ।
पूर्वं तु सम्प्रसूयन्ते ब्राह्मणो मनसा सह ॥३४॥
ततः प्रजाः प्रतिष्ठाप्य जनमेवाऽऽश्रयन्ति ते ।
यामादयो गणाः सर्वे महर्लोकनिवासिनः ॥३५॥
महर्लोकविनाशे तु जनमेवाऽऽश्रयन्ति ते ।
सर्वे सूक्ष्मशरीरास्ते तत्र गत्वा भवन्ति हि ॥३६॥
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्तिधरास्तथा ।
जनलोके विवर्तन्ते यावद्रात्रिस्तु वेधसः ॥३७॥
तत्रापि पूर्वकल्पानां पुण्यख्यातिबलान्विताः ।
प्रजापतय ये चाऽऽसन्निवृत्ताधिपतित्वतः ॥३८॥
निवृत्तवृत्तयः सर्वै स्वस्थाः सुमनसस्तथा ।
तपोलोकं प्रपद्यन्ते जनमुत्सृज्य तैः सह ॥३९॥
मन्वन्तराणां च स्वायंभुवाद्यानां जने स्थितिः ।
विनिवृत्ताधिकाराणां देवानां महसि स्थितिः ॥४०॥
शुक्राद्याश्चाक्षुषान्ताश्च मन्वन्तरा भवन्ति ये ।
ते महर्लोकसंस्थाश्च ब्रह्ममानससंभवाः ॥४१॥
मरीचिः कश्यपो दक्षस्तथा स्वायंभुवोंऽगिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥४२॥
लोकयात्राप्रवाहाय महर्लोकेऽपि यान्ति हि ।
प्रजानां पतयः सर्वे वर्तन्ते तत्र तैः सह ॥४३॥
सत्यस्था अपि कार्यार्थमिह चायान्त्यभीक्ष्णशः ।
कार्यं सम्पाद्यते सर्वे पुनर्यान्ति स्वकं गृहम् ॥४४॥
लोकाः सोमपदा नाम महर्जनमिति स्मृताः ।
पितरस्तत्र वर्तन्ते ह्यग्निष्वात्तादयश्च ते ॥४५॥
वसवश्चापि वर्तन्ति अमावस्वादयस्तु ते ।
सुसूक्ष्मा अग्निस्फुल्लिंगा ते वै पितरो देवताः ॥४६॥
विरजायास्तु ये पुत्रा वैराजा नाम ते गणाः ।
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः ॥४७॥
स्वधापुत्रास्तथा स्वाहापुत्रा ये ज्योतिभास्वराः ।
मरीचिगर्भास्ते तत्र पितरो ह्यग्निरूपिणः ॥४८॥
आज्यपा नाम पितरो ये भवन्ति विहंगमाः ।
मानसा नाम तल्लोका भवन्ति यत्र ते स्थिताः ॥४९॥
विरजस्य तु पुत्रा ये वैराजा नामतो मताः ।
भास्वराः पुण्यभक्ष्याश्च ह्यमूर्तय गणास्तु ते ॥५०॥
पितॄणां या दुहितरो दौहित्राश्च तु ये मताः ।
पितरो वंशविस्तारा बोध्या भिन्ननिवासिनः ॥५१॥
पृथ्व्यां साध्वीसाधुरूपा अन्तरिक्षेऽनिलात्मकाः ।
स्वर्गे देवात्मका महर्जनतपस्सु मानसाः ॥५२॥
पितरः संवसन्तीति मूर्ताऽमूर्तस्वरूपिणः ।
आदिदेवास्तु ते सर्वे महासत्त्वा महौजसः ॥५३॥
सर्वकामप्रदास्तृप्ता रुष्टाः सर्वहरा मताः ।
तस्मात् सर्वप्रयत्नेन तोषणीयाः सदा हि ते ॥५४॥
महरादौ स्थिता ये वै तेषां सिद्धिस्तु मानसी ।
सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ॥५५॥
इत्येवं तु प्रिये लक्ष्मि! सर्वे महर्षयः स्थिताः ।
तपोलोके जनलोके पितरः सर्वथा स्थिताः ॥५६॥
महर्लोके लोकपाला रुद्राः प्रजेश्वरास्तथा ।
मनवः पितरश्चैव यथाकार्यं समस्थिताः ॥५७॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महर्जनतपोलोकेषु मानसीसृष्टिपितॄणां निर्देशनामा एकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : March 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP