संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३२०

कृतयुगसन्तानः - अध्यायः ३२०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! राधिकां तु दृष्ट्वा पुत्रीमतीं वराम् ।
श्रीरपि प्राह देवेशं श्रीकृष्णं परमेश्वरम् ॥१॥
कान्त राधा यथा पुत्रीमती संशोभते हरे ।
मान्यता याति सर्वासु पुत्रीमतीषु सर्वथा ॥२॥
यथा तथा कदा पुत्रीमती स्यां पुरुषोत्तम ।
कृपां कृत्वा तु मह्यं वै देहि पुत्रीं शुभाश्रयाम् ॥३॥
एवं तयाऽर्थितः कृष्णनारायणः श्रियं तदा ।
तथास्त्विति वरं दत्वा रेमे तया सुलीलया ॥४॥
श्रीकृष्णस्येक्षणादेव श्रियः पर्यंकशोभना ।
दिव्या कृष्णसमा रूपे सौन्दर्ये श्रीसमा सुता ॥५॥
प्रादुर्बभूव सहसा जातमात्रा सुयौवना ।
कामदुघेव सम्पन्ना सुदुघा नामतः कृता ॥६॥
श्रीकृष्णेन श्रिया चाप्याहूता सा सुदुघेति वै ।
प्रदोग्धि सर्वकामान् सा सुदुघा कृष्णकन्यका ॥७॥
श्रीतुल्या श्रीस्वरूपा च श्रीरिवाऽतिसमुज्ज्वला ।
सर्वावयवपुष्टा च कानकीं छविमाश्रिता ॥८॥
जातमात्रा निसर्गात् सा गवां दोहनकर्मणि ।
व्यवसायमयी रुच्या दृश्यते गोप्रिया तथा ॥९॥
सा तु जाता यदा तत्र महोत्सवोऽप्यभून्महान् ।
श्रीकृष्णस्य श्रिया वासेऽवतारर्षिसुरकृतः ॥१०॥
देवीनां नर्तनं चाऽप्सरसां गीतं सुनर्तनम् ।
गन्धर्वाणां गायनं वादनं चाभवन्महोत्सवे ॥११॥
मुनीनामाशिषामाप्तिरभूत् कन्यासुरक्षिका ।
गोपगोपीगणानां च वाण्यो ह्यासन् सुवर्धिकाः ॥१२॥
तथांजलिकुसुमानि निपेतुः सुदुघोपरि ।
दुग्धवत्कान्तिनिवहां दृष्ट्वा कन्यां तु कन्यकाः ॥१३॥
वयस्या जहृषुश्चाति रेमिरे च तया मुहुः ।
रामयन्ति रमन्ते च विहरन्ति तया तु ताः ॥१४॥
अथ जिज्ञासमाना सा दुघा कार्यं मुहुर्मुहुः ।
मया किमत्र कर्तव्यं मीमांसते हि भावतः ॥१५॥
पित्रा कृष्णेन चादिष्टं ज्ञात्वा योगबलं तथा ।
ऊर्जाहुति! दुघे! पुत्रि! पयसेन्द्रमवर्धताम् ॥१६॥
इत्याज्ञप्ताऽतिसंहृष्टा सुदुघा पितरौ तदा ।
प्रणम्येन्द्रस्य वृद्ध्यर्थं पुष्ट्यर्थं समचिन्तयत् ॥१७॥
यत्र यत्र च गोलेषु ब्रह्माण्डेषु च यादृशम् ।
माहेन्द्रं तु पदं देवसाम्राज्यं वर्तते दिवि ॥१८॥
तानि सर्वाणि राज्यानि ध्यात्वा हृदा पदानि च ।
तेषां शाश्वतपुष्ट्यर्थं चिन्तयामास साधनम् ॥१९॥
श्रीपुत्री सुदुघा चाहं दुग्धरूपा भवामि च ।
दिवि दुग्धामृतं दत्वा सुरेभ्यो निवसामि च ॥२०॥
महरादौ सुकृतात्माऽमृतं भूत्वा वसामि च ।
पितृभ्यो वारिपिण्डादि पायसादि ददामि च ॥२१॥
पशुमानुषवृक्षेभ्यो दुग्धामृतं रसात्मकम् ।
दत्वा पुष्टिं कारयामि भुवेऽपि सुरसामृतम् ॥२२॥
जले स्नेहामृतं कृत्वा प्रविदधामि पोषणम् ।
वह्नये पाकमाधुर्यं ददामि पाचनामृतम् ॥२३॥
आत्मने देहवासाय ददामि विषयामृतम् ।
इन्द्र आत्मेन्द्रियाण्यस्य शक्तयो विषयाश्रयाः ॥२४॥
ताभिरमृतभोक्तारो भवन्त्यात्मनि एव हि ।
तत्त्वगं नवनीतं च घृतं सर्वकृतेऽमृतम् ॥२५॥
एवं बहुस्वरूपाऽहं कार्यात्मिका भवामि च ।
इन्द्रस्य सौख्यलाभाय दुघा शक्तिर्वसामि च ॥२६॥
यज्ञे ऊर्जाहुती चाहं भूत्वा पुष्टिं करोमि च ।
इन्द्रस्य सर्वथा रक्षा यथा स्यात्तादृशी तथा ॥२७॥
भूत्वा भूत्वैव सर्वत्राद्यैव कुर्यां प्रवेशनम् ।
इति विचार्य सा कन्या सुदुघा बहुरूपिणी ॥२८॥
बभूव दृश्या चाऽदृश्या प्रविवेश यथामतम् ।
इन्द्रस्य रुचिरं स्वर्गं ततः स्मृद्ध्या व्यवर्धत ॥२९॥
सर्वाऽमृतानि दुग्धानि व्यवर्धन्ताऽतिवेगतः ।
लोकेषु श्रीमयी भूमिः सम्पदासीन्मनोरमा ॥३०॥
देवा देव्यो व्यराजन्त पूर्वतोऽप्यधिकाऽधिकम् ।
व्ययमाना भुज्यमाना अपि सर्वाः सुसम्पदः ॥३१॥
न वियन्ति मनाङ् नापि क्षीयन्ते सुदुघाऽन्वयात् ।
अदृष्टा चाऽश्रुता सम्पद् बभूवाऽऽनन्दसम्मुखा ॥३२॥
एवं याते शुभे काले याते चाद्ये कृते युगे ।
ऋषिर्मान्योऽभवन्नाम्ना मेधावी याज्ञिको महान् ॥३३॥
यज्ञान् करोति विधिभिः कारयत्यपि वृष्टये ।
पुत्राद्यर्थं सुखाद्यर्थ स्वर्गार्थं सुकृताप्तये ॥३४॥
पुत्रपुत्रीयुगलार्थं पुत्रेष्टिं स चकार वै ।
विष्णुर्नारायणः कृष्णो बह्वाविर्बभूव ह ॥३५॥
जग्राह स्वकराभ्यां सुपुरोडाशं तदर्पितम् ।
उवाच च प्रसन्नोऽस्मि वरं वृणु यथेप्सितम् ॥३६॥
पृथ्वीं राज्यं रसान् मिष्टं दुग्धं स्वर्गं सुतं सुताम् ।
यथेच्छसि तथा तुभ्यं ददामि कुरु मा चिरम् ॥३७॥
श्रुत्वा विप्रस्तु मेधावी प्राह पुत्रं प्रदेहि मे ।
यज्ञः पुत्रेष्टिनामाऽसौ पुत्रार्थं वर्तितो मया ॥३८॥
भगवान् प्राह पुत्रस्ते सप्तजन्मसु नास्ति वै ।
पुत्रेष्ट्या जायते पुत्रश्चिरायुष्ट्रे तु संशयः ॥३९॥
जन्मना यस्तु सुखदोऽनन्तरं दुःखदो मृतेः ।
तस्माद् विप्र वृणु पुत्रीं यदि चेत् ते प्ररोचते ॥४०॥
तव पत्न्या भालरेखा पुत्र्यर्था भाति चानघ ।
पुत्रादप्यधिका कीर्तौ सेवायां सा भविष्यति ॥४१॥
यया शोको न वै स्याच्च तथा कुरु महीसुर ।
पत्नीमतं समादाय विप्रो जग्राह तद्वचः ॥४२॥
ततो भगवता दत्तः प्रसादो भोजनाय वै ।
गृहीत्वाऽऽह हरिं विप्रः पुत्री श्रीसदृशी मम ॥४३॥
सुखदा नाथ! भवतु शान्ता कामदुघेव सा ।
या शक्तिः सर्वभूतानां सुधापानप्रदायिनी ॥४४॥
तथाऽस्त्विति हरिः प्राह प्रैरयच्छ्रीसुतां दुघाम् ।
मेधाविनस्तु पुत्र्यर्थं सुदुघापि तदाज्ञया ॥४५॥
प्राविर्बभूव मेधाविभार्यायाः शयने तदा ।
मानसी साऽभवद् दिव्या शोभते श्रीरिवाऽपरा ॥४६॥
जातमात्रातिसंशोभियौवना पुष्टिसंभृता ।
रूपलावण्यललिता नयनाऽपांगमोचिनी ॥४७॥
चातुर्यादिगुणोपेता पित्रोरेकैव शंस्थली ।
अति वै वल्लभा पित्रोः सर्वसद्गुणसुन्दरी ॥४८॥
लालिता पुत्रवन्नित्यं नोपालब्धा कदापि तु ।
नीतिसाहित्यकुशला चात्मतत्त्वविशारदा ॥४९॥
सेविका सर्वदा पित्रोः सेवया तुष्यतश्च तौ ।
कालेन गच्छता लक्ष्मि! तन्माता निधनं गता ॥५०॥
पित्रा सा पालिता हर्षात् पुत्रस्थानां कुमारिकाम् ।
सापि काले गते चासीद् योगिनीव तथापि तु ॥५१॥
पार्श्वस्थाऽऽलिसुखं दृष्ट्वा पुत्रपौत्रसुखस्पृहा ।
मेधावती कुमारी सा गार्हस्थ्यार्थमनोरथा ॥५२॥
तर्कयति च मामेव सुखं भाग्य कथं भवेत् ।
गुणभाग्योदयो भर्ता सुखदाश्च सुताः कथम् ॥५३॥
तदर्थं कं मुनिं यद्वा कमुपास्ये सुरेश्वरम् ।
युवत्यहं सखीमध्ये कुमारी दुःखवेदिनी ॥५४॥
नाऽहं स्वामिसुखाऽभिज्ञा यथा मम सखीगणः ।
एवं चिन्ताकुलां बालां विज्ञायाऽपि च तत्पिता ॥५५॥
मेधावी विचचारोर्व्यां विचिन्वन् तत्समं वरम् ।
अप्राप्य भग्नसंकल्पो ज्वरं तीव्रमवाप सः ॥५६॥
आगच्छन्नेव भवनं हरौ चित्तमधारयत् ।
सस्मार श्रीहरिं कृष्णनारायणं पुमुत्तमम् ॥५७॥
गृहांगणे पपातासौ कृष्णदूताः समाययुः ।
करे धृत्वा मुनिं तं ते ययुः कृष्णसरोरुहम् ॥५८॥
प्राणोत्क्रमणमालोक्य हाहेति सा सुताऽरुदत् ।
अंके कृत्वा पितुर्देहं विललाप सुदुःखिता ॥५९॥
हा हा पितः कथं मातृहीनां त्यक्त्वा निजां सुताम् ।
पितृहीनां तथा कृत्वा ह्यनाथां क्व गतोऽसि वै ॥६०॥
न भ्राता नैव बन्धुश्च न माता न च रक्षकः ।
कथं तिष्ठाम्यहं तात! मरिष्यामि न संशयः ॥६१॥
इत्यादिरोदनं श्रुत्वा तापसास्तत्र चाययुः ।
मृतं मुनिं ददृशुस्ते सशोका ददहुस्ततः ॥६२॥
समाश्वास्य च तां कन्यां सर्वे ते स्वालयान् ययुः।
कन्या धैर्यं समालम्ब्याऽकरोच्छक्त्यौर्ध्वदैहिकम् ॥६३॥
गते काले भाग्यवशाद् दुर्वासाः शांकरो मुनिः ।
समायात्तद्गृहं लक्ष्मि! भविष्यद्बलनोदितः ॥६४॥
तमालोक्य समायान्तं कुमारी चरणौ मुनेः ।
ववन्दाऽर्घ्यादिभिः पुष्पैः पूजयामास सादरम् ॥६५॥
नमस्तेऽस्त्वत्रिपुत्राय कुतोऽधिगमनं मुने ।
मम भाग्योदयो जातो भवत्तीर्थनिषेवया ॥६६॥
अद्य मे सफलं जन्म सफलं त्वद्य मे व्रतम् ।
अद्य मे फलवत्पुण्यं यद् भवादृशदर्शनम् ॥६७॥
श्रुत्वाऽऽह तां तु दुर्वासाः साधु स्वस्ति सुते! तव ।
कैलासादहमागच्छं गच्छामि बदरीवनम् ॥६८॥
द्रष्टुं नारायणं देवं त्वयाऽर्थश्चेन्निवेद्यताम् ।
मेधावती ऋषिं प्राह नाऽनावेद्यं प्रभोर्मनाक् ॥६९॥
अतः परं शुभं भावि त्वद्दर्शनादनुग्रहात् ।
न माता न पिता बन्धुर्न कश्चिद् रक्षकोऽस्ति मे ॥७०॥
न मां कामयते कश्चित् पाणिग्रहणहेतवे ।
ब्रह्मन् मुमूर्षुरस्म्येव किं करोमि हितं कुरु ॥७१॥
श्रुत्वा मुनिरुपायं सुविर्चायाऽकथयत् सुताम् ।
इतस्तृतीयः सुभगे मासस्तु पुरुषोत्तमः ॥७२॥
तत्र स्नाता जनस्तीर्थे मुच्यते ब्रह्महत्यया ।
एतत्तुल्यो न कोऽप्यन्यो मासोत्तमो हि विद्यते ॥७३॥
सर्वे मासास्तथा पक्षाः पर्वाणि ऋतवस्तथा ।
पुरुषोत्तममासस्य कलां नार्हन्ति षोडशीम् ॥७४॥
साधनानि समस्तानि गंगा गोदाऽऽप्लवानि च ।
सहस्राण्यधिमासस्य कलां नार्हन्ति षोडशीम् ॥७५॥
श्रीकृष्णवल्लभो मासो नाम्ना च पुरुषोत्तमः ।
तस्मिन् संसेविते बाले! सर्वं सिद्ध्यति वाञ्च्छितम् ॥७६॥
तस्मान्निषेवयाऽऽशु त्वं मासं तं पुरुषोत्तमम् ।
मयाऽपि सेवते पुत्रि! पुरुषोत्तमवत् सदा ॥७७॥
यदि चेदिष्टमाप्तव्यं यथारुचि कुरु व्रतम् ।
अहं पुत्रि! गमिष्यामि नरनारायणालयम् ॥७८॥
इत्युक्त्वा प्रययौ शीघ्रं ह्यथ मेधावती ततः ।
अधिमासप्रतीक्षाढ्या तत्कालफलदं शिवम् ॥७९॥
चित्ते धृत्वा तमुद्दिश्य चचार दुश्चरं तपः ।
दिवा पंचाग्निमध्यस्था रात्रौ शीतजलस्थिता ॥८०॥
अनाहारा हरध्याना समाधाविव तिष्ठति ।
सन्तुष्टस्तपसा तस्या भगवान्पार्वतीपतिः ॥८१॥
दर्शयामास बालायै स्वं रूपं चाक्षिगोचरम् ।
सा ववन्दे हरं पुष्पादिभिः पुपूज मानसैः ॥८२॥
तुष्टाव भक्तिभावेन ह्याशुतोषाय ते नमः ।
अनाधारसुताऽऽधारशंकराय च ते नमः ॥८३॥
नमः सूर्याग्निसोमत्रिनेत्राय मृत्यवे नमः ।
पार्वतीतापसीवाञ्च्छापूरकायेह ते नमः ॥८४॥
कुमार्याश्चाप्यनाथाया उद्धारं कुरु शंकर ।
इति स्तुत्वा पुनर्नत्वा विररामर्षिपुत्रिका ॥८५॥
श्रुत्वा प्रसन्नवदनस्तामुवाच सदाशिवः ।
वरं वरय भद्रं ते प्रसन्नोऽस्मि ददामि ते ॥८६॥
बालोवाच दयासिन्धो प्रसन्नश्चेन्ममोपरि ।
पतिं देहि पतिं देहि पतिं देहि पतिं पतिम् ॥८७॥
इत्याश्रुत्य महादेवो जगादर्षिसुतां तदा ।
पञ्चकृत्वस्त्वया यस्मात् प्रार्थितः पतिरीश्वरात् ॥८८॥
तस्मात् पंच भविष्यन्ति पतयस्तव धार्मिकाः ।
यज्वानः सत्यसन्धाश्च राजन्यास्त्वन्मयाः सुते ॥८९॥
इदानीं पंचसंख्याका इन्द्राः प्राक्कल्पसंभवाः ।
वसन्ति सत्यलोके ते भवन्तु पतयः सुते ॥९०॥
अनेनैव हि देहेन दिव्यतां प्रापितेन वै ।
मया साहाय्यदेनाऽद्याऽऽगच्छ सत्ये तदन्तिकम् ॥९१॥
इत्युक्त्वा शंकरस्तां सुदिव्यदेहां विधाय च ।
निनाय सत्यलोकं वै मार्गे मेधावतीं दिवि ॥९२॥
शुश्राव दुन्दुभिं दिव्यं कुर्वन्तु व्रतमुत्तमम् ।
त्रयोदश्यधिमासस्य यथेष्टफलदा भवेत् ॥९३॥
पतिप्राप्तिर्मम प्राप्तिर्भवेदेकव्रतेन वै ।
श्रुत्वा मेधावती प्राह कृष्णप्राप्तिः कथं भवेत् ॥९४॥
श्रुत्वा तु दुन्दुभिं चैनं जिज्ञासा जायते मम ।
तथा कुरु यथा कृष्णनारायणो मिलेन्मम ॥९५॥
शंभुः प्राह शुभे पुत्रि! कल्याणं तेऽस्तु सर्वथा ।
प्रसन्नोऽस्मि तव वाक्यात् कृष्णप्राप्तिपरायणात् ॥९६॥
राज्यं स्वर्गं पारमेष्ठ्यं चैश्वरं पदमेव वा ।
सर्वं भवति निस्स्वादं विना कृष्णं पुमुत्तमम् ॥९७॥
भक्त्या स लभ्यते कृष्णनारायणः परः पुमान् ।
कुरु व्रतं त्रयोदश्या यथादुन्दुभिभाषितम् ॥९८॥
उपवासं फलाहारं कृत्वा षोडशवस्तुभिः ।
पूजयेत्परमात्मानं भोजयेल्लालयेत्तथा ॥९९॥
रात्रौ जागरणं कुर्यात् सर्वं ददेत् प्रतोषितः ।
इत्युक्त्वा तां सत्यलोकं गमयित्वेन्द्रपञ्चकम् ॥१००॥
दत्वा पत्नीस्वरूपेण पुनः प्राह सुतां हरः ।
पुरुषोत्तममासस्य त्रयोदश्या व्रतेन वै ॥१०१॥
मिलिष्यति हरिस्त्वां वै मानुषे कृतविग्रहे ।
अयोनिसंभवा तत्र भविष्यसि तपोबलात् ॥१०२॥
तत्रैते पञ्चभर्तारो भविष्यन्ति सुरांशजाः ।
धर्ममरुन्महेन्द्राश्विनीकुमारांशसभवाः ॥१०३॥
श्रीपतिस्तु तदा कृष्णो मिलिष्यति च रक्षकः ।
भर्तृजं सुखमासाद्य ततो गन्त्री परं पदम् ॥१०४॥
पुरुषोत्तमभक्तास्तु पुत्रापौत्रधनान्विताः ।
ऐहिकाऽऽमुष्मिकीं सिद्धिं याता यास्यन्ति यान्ति च ॥१०५॥
वयं सर्वेऽपि नेतारः पुरुषोत्तमसेविनः ।
वदन्नेवं नीलकण्ठः क्षिप्रमन्तर्दधे हरः ॥१०६॥
मेधावत्या पतीन् पृष्ट्वा शंकरस्योपदेशनात् ।
त्रयोदश्या व्रतं सोपवासं सजागरं कृतम् ॥१०७॥
पञ्चामृतैर्जलैः कृष्णं संस्नाप्य पुरुषोत्तमम् ।
वस्त्रालंकारनैवेद्यफलताम्बूलकादिकम् ॥१०८॥
धूपदीपसुपुष्पाद्यक्षतांजलि क्षमार्थनम् ।
आरार्त्रिकादिकं कृत्वा ययाचे परमेश्वरात् ॥१०९॥
दर्शनं देहि मे तात! भवे साहाय्यदो भव ।
तावत्तत्र समायातो गरुडस्थः श्रियः पतिः ॥११०॥
प्राहाऽस्मि ते सुते तुष्टस्त्रयोदश्या व्रतेन वै ।
रक्षयिष्ये सदा पुत्रि! सह स्थास्ये यथाऽवनम् ॥१११॥
पुनः प्रोवाच सा पुत्री मोक्षो मे स्याद् यथा गुरो ।
तथाऽन्ते मे भवेत्तात! नान्यं कांक्षे मनोरथम् ॥११२॥
तथाऽस्त्विति हरिः प्राह प्राह चापि विशेषतः ।
शृणु पुत्रि द्वापरान्ते कृष्णोऽहं भगवान् स्वयम् ॥११३॥
भूभारहरणार्थायाऽवतरिष्यामि वै क्षितौ ।
यज्ञसेनाख्यनृपतेर्यज्ञकुण्डस्य मध्यतः ॥११४॥
भविष्यसि त्वमुद्भूता कुमारी कनकप्रभा ।
याज्ञसेनी च वैराजी कृष्णा ख्याता भविष्यसि ॥११५॥
तत्रैव च समे काले पञ्चेन्द्राः स्वामिनस्तव ।
भविष्यन्ति सुरांशास्ते पतयोऽमितविक्रमाः ॥११६॥
तद्द्वारा त्वन्मिषं कृत्वाऽसुरान्दैत्याँश्च दानवान् ।
नाशयित्वा स्वकं धाम यदा यास्ये तदा सुते! ॥११७॥
नयिष्ये त्वां यथाकालं यथाकार्यं निरुद्ध्य च ।
पुनस्त्वं प्राप्स्यसे धाम गोलोकं यत्र ते जनुः ॥११८॥
तदा त्वां सुदुघे पुत्रि! तन्वा ब्राह्म्याऽक्षरे परे ।
धाम्नि संप्रापयिष्ये मच्चरणं शरणं सुखम् ॥११९॥
इति ते कथितं पुत्रि! भविष्यत्ते कथानकम् ।
सत्ये सुखं वस पुत्रि! याम्यहं च ममालयम् ॥१२०॥
इत्युक्त्वाऽदृश्यतां यातस्तदा श्रीपुरुषोत्तमः ।
सुदुघा कृष्णपुत्री सा याज्ञसेनी भविष्यति ॥१२१॥
अधिमासपरपक्षत्रयोदश्या व्रतेन सा ।
प्राप्स्यतीयं परं धाम पुरुषोत्तमवाक्यतः ॥१२२॥
इति ते कथितं लक्ष्मि! श्रीपुत्र्यास्तु कथानकम् ।
ते धन्या जन्मवन्तश्च ते पूज्याः पावनास्तथा ॥१२३॥
विविधैर्नियमैर्यैस्तु पूजितः पुरुषोत्तमः ।
श्रवणात्पठनाच्चापि व्रतस्याऽत्र फलं लभेत् ॥१२४॥
लभते कृष्णसाहाय्यं पुरुषोत्तमसम्मतम् ।
भुक्तिं मुक्तिं लभेच्चापि नरो नारी परोऽपि वा ॥१२५॥

इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये गोलोके श्रीपुत्र्याः सुदुघायाः श्रीकृष्णाज्ञया इन्द्रवृद्ध्यर्थं प्रवृत्ताया रसाऽमृतात्मकता, याज्ञिकस्य मेधाविविप्रस्य गृहेऽयोनिजायास्तस्या जन्म, पित्रोर्मरणं, दुर्वासस आगमनं, पुरुषोत्तममासव्रतोपदेशः, शंकरोपरि तपः, पञ्चकृत्वः पतिप्रार्थनम्, सत्यलोके पञ्चेन्द्रपतिप्राप्तिः, त्रयोदशीव्रतेन पुरुषोत्तमदर्शनं, भुवि पञ्चपतिमती याज्ञसेनी भूत्वा मोक्षं यास्यसीतिवरदानं, चेत्यादिनिरूपणनामा विंशत्यधिक-त्रिशततमोऽध्यायः ॥३२०॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP