संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २७४

कृतयुगसन्तानः - अध्यायः २७४

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
कथयामि वत्सरस्य नवमीनां व्रतानि तै ।
शृणु लक्ष्मि! यानि कृत्वा स्वर्गं मोक्षं च विन्दति ॥१॥
चैत्रस्य धवले पक्षे रामजन्मव्रतं मतम् ।
श्रीरामनवमी कार्या सोत्साहा बहुपुण्यदा ॥१॥
उपोष्या साऽथवा कार्यं त्वेकभक्तं जनेः परम् ।
मण्डपः सुमहान् कार्यः सर्वतोभद्रमण्डलम् ॥३॥
कारयित्वा घटं न्यस्य मूर्तिं स्थाल्यां निधापयेत् ।
मुकुटादि धनुर्बाणौ भूषणादि च धारयेत् ॥४॥
पूजनं षोडशवस्तुकृतं नीराजनादिकम् ।
नैवेद्ये कैसरं भक्तं शर्करां दधि पायसम् ॥५॥
दद्याच्च जागरं कुर्यात्परेऽह्नि दानमाचरेत् ।
गोभूतिलहिरण्यादि दद्याद्वै गुरवे व्रती ॥६॥
विप्रान्साधूँश्च सन्तर्प्य व्रती कुर्वीत पारणाम् ।
एवं कृत्वा व्रतं विष्णोर्व्रजेत् सः परमं पदम् ॥७॥
अस्यामेव तिथौ हरिजयन्तीव्रतमित्यपि ।
कर्तव्यं धर्मभवने हरिकृष्णो व्यजायत ॥८॥
अस्मिन्नेव दिने भद्रकाली तु योगिनीवरा ।
शंकरेणाऽभिषिक्ता सा सर्वासामाधिपत्यके ॥९॥
इदं मातृव्रतं प्रोक्तं भैरवेण समन्विताः ।
चतुःषष्टिस्तु योगिन्यः संपूज्याश्चण्डिकान्विताः ॥१०॥
वैशाखे तु रमां देवीं पूजयेद्धरिणाऽन्विताम् ।
भुक्तिमुक्तिप्रदां पुत्रवित्तसौभाग्यदां शुभाम् ॥११॥
एकभुक्तं नवम्यास्तु शुक्लाया व्रतमत्र वै ।
कर्तव्यं पूजनाद्यं च दानं सौवर्णवस्तुनः ॥१२॥
ज्येष्ठशुक्लनवम्यां तु देवीमुमां सुमंगलाम् ।
तपोनिष्ठां पूजयेद्वै व्रतं नक्तं मतं शुभम् ॥१३॥
कुमारीर्भोजयेच्छक्त्या नैकदानानि दापयेत् ।
दद्याच्च दक्षिणां श्रेष्ठामश्नीयात्पायसं व्रती ॥१४॥
लक्ष्मी! माषाढशुक्लस्य नवम्यां पूजयेद् व्रती ।
ऐरावतस्थितां चैन्द्रीं तद्वत् संपूजयेद् व्रती ॥१५॥
स भवेद्देवलोके तु भोगवान् देवयानवान् ।
नवम्यां श्रावणे शुक्ले भार्गवी श्रियमर्चयेत् ॥१६॥
कुमारीं दुःखहां लक्ष्मीं यजेन्नैवेद्यसद्रसैः ।
गन्धपुष्पधूपदीपाम्बरनेपालकम्बलैः ॥१७॥
कुमारीर्भोजयेच्चापि दुःखहाश्रीस्वरूपिणीः ।
दुःखहालक्ष्म्या व्रतकृद् याति कृष्णालयं परम् ॥१८॥
नकुलनवमी चेयं कर्तव्या व्रतिना तथा ।
भाद्रशुक्लनवम्यां तु नन्दाव्रतमुदाहृतम् ॥१९॥
नन्दा दुर्गां पूजयेद्वै विधिवच्चोपचारकैः ।
अश्वमेधफलं लब्ध्वा व्रती वैकुण्ठगो भवेत् ॥२०॥
अदुःखनवमी चेयं कर्तव्या दुःखनाशिका ।
इयं त्वविधवानवमी कर्तव्या धवजीविका ॥२१॥
उपवासश्च कर्तव्यः पूज्या लक्ष्मीः सती तथा ।
आश्विनशुक्लनवमी महानवमी चेरिता ।
नवरात्रव्रतान्ते सा यत्र दुर्गा प्रपूज्यते ॥२२॥
महालक्ष्मीस्तथा पूज्या देव्यः पूज्यास्तु कोटिशः ।
सर्वा देव्यः प्रपूज्यन्ते सधवा अधवाश्च वा ॥२२॥
वस्त्रालंकारभूषादिश्रांगारिकद्रवादिभिः ।
यानवाहनभोज्यादिविलासादिभिरित्यथ ॥२४॥
अपराह्ने शमीपूजा कर्तव्या प्राग्दिशि प्रिये ।
सायं शंखं गदां चक्रं कमलं च प्रपूजयेत् ॥२५॥
खङ्गं धनुरिपून् शक्तिं शूलं चर्म च खेटकम् ।
छुरिकां परशुं पाशं दण्डं वज्रं चिपीटकम् ॥२६॥
छत्रं ध्वजं गजं चाश्वं हंसं वीणां मयूरकम् ।
वृषभं महिषं ग्रन्थं तुलां गां मस्तकादिकम् ॥२७॥
यया यद्रक्षितं स्वस्यास्तत्तत्सर्वं प्रपूजयेत् ।
यस्या यच्च बलि प्रेष्ठं तस्यैतत्त्वर्पयेद् व्रती ॥२८॥
पूजां रात्रौ समाप्यैव प्रातर्विंसर्जनोत्तरम् ।
व्रती पक्वान्नमद्याद् वै तथा विप्रांश्च भोजयेत् ॥२९॥
दत्वा च दक्षिणां पश्चाद् दत्वा दानानि भावतः ।
व्रतपूर्तिं प्रकुर्याद्वै प्रतिमां निक्षिपेज्जले ॥३०॥
एवं व्रतेन लोकानां मातरः सुखदाः सदा ।
तुष्टाः पुष्टाः पोषयन्ति बालान् लोकान् दयाश्रयाः ॥३१॥
व्रती भुक्त्वा वरान्भोगानन्ते स्वर्गादिकं व्रजेत् ।
मातृलोकं सतीलोकं देवीलोकं व्रजेत्तथा ॥३२॥
कार्तिकशुक्लनवमी याऽक्षया सा व्रतं महत् ।
देवर्षिपितॄणामश्वत्थमूले तर्पणं चरेत् ॥३३॥
सूर्यायाऽर्घ्यं प्रदत्वाथ द्विजान् बालाँश्च भोजयेत् ।
दानं होमं जपं कुर्याद् दद्याच्च दक्षिणां व्रती ॥३४॥
तीर्थे च मन्दिरे सर्वं कृतं तत्त्वक्षयं भवेत् ।
कूष्माण्डदानं दद्याद्वै मुख्यं यज्ञफलं भवेत् ॥३५॥
मार्गे शुक्ले नन्दिनी तु नवमीव्रतमुच्यते ।
उपोषितो व्रती नन्दालक्ष्मीं संपूजयेत्ततः ॥३६॥
दद्याद् दानं तु कन्यायाः फलं स्यादश्वमेधजम् ।
पौषशुक्लनवम्यां तु महालक्ष्मीं प्रपूजयेत् ॥३७॥
माघमासे नवम्यां तु महानन्दां प्रपूजयेत् ।
फाल्गुनस्य नवम्यामानन्दालक्ष्मीं प्रपूजयेत् ॥३८॥
अत्र स्नानं जपो माला दानं होम उपोषणम् ।
सर्वमक्षयतां याति कृष्णलक्ष्मीप्रसादतः ॥रे ९॥
दानं च विविधं देयं पात्रे देशे दिने शुभे ।
पात्रं ते वच्मि कमले यत्पात्रं तारयेज्जनान् ॥४०॥
न विद्यया केवलया तपसा वाऽपि पात्रता ।
यत्र वृत्तं द्वयं तद्वै सत्पात्रं भक्तिसंयुतम् ॥४१॥
स्वाध्यायी नियमी ध्यानी तपोयुक्तो जितेन्द्रियः ।
क्षमाशीलः शान्तभावः सत्यवादी द्विजोऽथवा ॥४२॥
शास्त्राभ्यासी श्रुतसर्वोऽद्रोहो प्रतिग्रहाऽरतः ।
सुव्रतः साधुशीलश्च पात्र भक्तो महत्तमम् ॥४३॥
साधवो ध्यानशीलाश्च परोपकरणे रताः ।
पुनन्ति दर्शनं प्राप्ताः किं पुनः संगतिं गताः ॥४४॥
तेभ्यो दत्वा यथापेक्षं प्राप्नुयुः परमां गतिम् ।
श्रोत्रियाय सुधर्माय ब्रह्मनिष्ठाय चार्पयेत् ॥४५॥
क्षमा दया स्पृहा सत्यं दानं शीलं तपः श्रुतम् ।
एतदष्टांगमत्रोक्तं परमं पात्रलक्षणम् ॥४६॥
याज्ञिकं वाचकं पौराणिकं चाचार्यकं गुरुम् ।
कृष्णं स्त्रीषु दयावन्तं गोसेविनं सुपात्रकम् ॥४७॥
नग्नं वृत्तिहीनं क्षुत्तृट्सहितं शरणागतम् ।
सत्कर्मकारिणं पात्रं तद्दत्तं शाश्वतं तु तत् ॥४८॥
गोभूतिलहिरण्यादि पात्रे दत्तं सदाऽक्षयम् ।
किंचिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम् ॥४९॥
किञ्चिद्भक्तिमयं पात्रं पात्रं ब्रह्ममयं तथा ।
ब्रह्मचारी यतिः साधुः साध्वी पात्रं सदा मतम् ॥५०॥
एतादृशं समर्थं तु दातारं तारयिष्यति ।
निस्तारयति दातारमात्मानं च स्वतेजसा ॥५१॥
शतं त्वब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्ये ह्यनन्तं साधुषु स्मृतम् ॥५२॥
वेदेन्धनसमृद्धेषु हुतं विप्रमुखादिषु ।
सन्तारयति दातारं हुतं साध्वीषु साधुषु ॥५३॥
हृतस्वा हृतसर्वस्वा द्विजाः पात्रं परं मतम् ।
अतिथयोऽभ्यागताश्च पात्रं च कृशवृत्तयः ॥५४॥
धर्मरता ज्ञानरता भक्तिरता दयालवः ।
तपोरता भैक्षजीवास्तेषां दत्तं महाफलम् ॥५५॥
सन्निहितं परित्यज्य पात्रं देशान्तरस्थितम् ।
अभिगच्छेत्तु दानार्थं दहत्यासप्तमं कुलम् ॥५६॥
यस्य चैव गृहे मूर्खो दूरे चास्ति बहुश्रुतः ।
तत्र नातिक्रमो दोषो हूयतेऽग्नौ न भस्मनि ॥५७॥
बाला भोजनपात्राणि नार्यः शृंगारपात्रिकाः ।
युवा तून्नतिपात्रं स्यात् सेवापात्रं स्थवीरकाः ॥५८॥
साधवश्चार्चनपात्रमन्नपात्रं तु भिक्षुकाः ।
दुःखितास्तु दयापात्रं सत्यपात्रं सुहृत्तमाः ॥५९॥
दीनाश्चोपकृतेः पात्रं रक्षापात्रं पदाश्रिताः ।
स्वर्गपात्रं दानवन्तः सुखपात्रं सुतुष्टयः ॥६०॥
विवाहमेखलाबन्धप्रतिष्ठादिक्रतुप्रदम् ।
दीनान्धकृपणापन्नादिषु दत्त तदक्षयम् ॥६१॥
निन्दके द्रोहके चौरे शठे घातिनि नाशके ।
क्रूरे सकपटे सेर्ष्ये धर्महीने च पापिनि ॥६२॥
धूर्ते छलिन्यनिष्टचिन्तके सासूयके सुलौ ।
दुःखदे व्यसनाढ्ये चाततायिनि ह्यभक्तके ॥६३॥
हुतं दत्तं कृतं सर्वं नश्यत्येव न संशयः ।
रोदित्येतद् दीयमानं किं मया दुष्कृतं कृतम् ॥६४॥
ऊषरे बीजमुप्तं वा भस्मन्यपि च यद्धुतम् ।
अपात्रके च यद्दत्तं तन्नाशे परिणीयते ॥६५॥
यद्यदिष्टं भवेत्स्वस्य स्वीयं न्याय्यं च यद्भवेत् ।
पात्रे तद्वै प्रदातव्यं फलकृद् दानमेव तत् ॥६६॥
सश्रद्धं सविधिं पात्रे दत्तस्याऽन्तो न विद्यते ।
इति ते कथितं लक्ष्मि! व्रतदानसुपात्रकम् ॥६७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकनवमीव्रतेषु श्रीरामजयन्तीश्रीहरिजयन्तीभद्रकाली-
व्रतरमाव्रतोमाव्रतैन्द्रीव्रतदुःखहालक्ष्मीव्रतनकुलव्रतनन्दा-दुर्गाव्रताऽदुःखनवमीव्रताऽविधवानवमीनवरात्रनवमी-
व्रताऽक्षयानवमीकूष्माण्डनवमीनन्दिनीनवमीमहालक्ष्मीमहानन्दाऽऽनन्दापूजासत्पात्रादिचेति-निरूपणनामा चतुःसप्तत्यधिकद्विशत-
तमोऽध्यायः ॥२७४॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP