संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४६९

कृतयुगसन्तानः - अध्यायः ४६९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु कृष्णकथां लक्ष्मि! द्विजपत्नीसमन्विताम् ।
यां श्रुत्वा पातिव्रत्येन मोक्षणं मानसं भवेत् ॥१॥
एकदा तु पुरा कृष्णो बलरामश्च बालकाः ।
वृन्दावनाद् ययुर्यमीतटे मधुवने शुभे ॥२॥
विचेरुर्गोसहस्रैस्ते चिक्रीडुर्वै परस्परम् ।
श्रान्ताः क्षुधितास्तृषिताः शिशवस्तूचुरच्युतम् ॥३॥
क्षुदस्मान् बाधते कृष्ण किं कुर्मोऽत्र वनेऽदनम् ।
श्रीकृष्णस्ताँस्तदा प्राह बाला गच्छत सन्निधौ ॥४॥
यज्ञस्थानं ब्राह्मणानां याचताऽन्नं तु भूसुरान् ।
आंगिरसान् वैष्णवाँश्च मुमुक्षून् यजतस्तु माम् ॥५॥
अजानन्तश्च मां विष्णुं मायाप्रच्छन्नविग्रहम् ।
न चेद् ददति युष्मभ्यमन्नं यज्ञस्थिता द्विजाः ॥६॥
तत्कान्ता याचत बाला दयायुक्ताः शिशून् प्रति ।
श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुंगवाः ॥७॥
ब्राह्मणानां पुरस्तस्थुर्भिक्षार्थं नम्रकन्धराः ।
तानूचुर्बालका नम्रा अन्नं दत्त द्विजोत्तमाः ॥८॥
द्विजा न शुश्रुवुस्ताँस्तु शृण्वन्तो न मनो ददुः ।
अतस्तस्मात् स्थलाद् दूरे गता रन्धनशालिकाम् ॥ ९॥
ब्राह्मण्यो यत्र सूपादि पाचयन्ति महानसे ।
गत्वा नम्रा विप्रपत्नीर्ययाचिरेऽन्नमास्थया ॥१०॥
यूयं वै मातरः सर्वा विप्रपत्न्यः पतिव्रताः ।
दत्ताऽन्नं मातरस्त्वस्मान् क्षुधितान् गोपबालकान् ॥११॥
शिशूनां मृदुवाक्यानि श्रुत्वा दृष्ट्वा हि तान् स्त्रियः ।
पप्रच्छ सादरं साध्व्यः के यूयं केन दर्शितम् ॥१२॥
यदत्राऽन्नं हि लब्धं स्याद् ब्रूतात्र गोपबालकाः ।
दास्यामोऽन्नं मृष्टमुष्णं व्यञ्जनादिसमन्वितम् ॥१३॥
श्रुत्वा प्रसन्नाः शिशवो यष्टिहस्ता जगुस्तु ताः ।
प्रेषिता रामकृष्णाभ्यां दर्शितं त्वन्महानसम् ॥१४॥
दत्ताऽन्नं मातरोऽस्मभ्यं तूर्णं यामस्तदन्तिकम् ।
इतो विदूरे भाण्डीरेऽतिशोभेऽत्र मधौवने ॥१५॥
वटाऽधःस्थितभ्रातृभ्यां याचितान्नं प्रदत्त नः ।
श्रुत्वेति कोमलं कृष्णसम्बन्धं वाक्यमुत्तमम् ॥१६॥
पुलकांकितसर्वांगा हृष्टानन्दाश्रुलोचनाः ।
कृष्णनारायणं स्मृत्वा शाल्यन्नं पायसं दधि ॥१७॥
मिष्टान्नं स्वस्तिकाद्यं च लड्डुकान्नं सुपोलिकाः ।
नानाव्यञ्जनसूपादि कृत्वा पात्रेषु योषितः ॥१८॥
पात्राणि राजतादीनि सन्त्यतो वयमेव तु ।
आगच्छामः सहबाला इत्युक्त्वा प्रययुर्मुदा ॥१९॥
विप्राण्यो मनसा हृष्टाः कृत्वा नानामनोरथान् ।
पतिव्रतास्ता धन्याश्च श्रीकृष्णदर्शनोत्सुकाः ॥२०॥
श्रीकृष्णं ददृशुर्गत्वा बलदेवं च बालकान् ।
वटच्छायास्थितान् दृष्ट्वा ददृशुस्ताः पुनर्हरिम् ॥२१॥
श्यामं किशोरवयसं पीतकौशेयवाससम् ।
सुन्दरं सस्मितं शान्तं राधाकान्तं मनोहरम् ॥२२॥
शरत्पार्वणचन्द्रास्यं रत्नालंकृतिराजितम् ।
रत्नकुण्डलयुग्माभ्यां गण्डस्थलविराजितम् ॥२३॥
रत्नकेयूरवलयरत्ननूपुरभूषितम् ।
आजानुलम्बितां शुभ्रां बिभ्रतं रत्नमालिकाम् ॥२४॥
मालतीमालया कण्ठवक्षःस्थलविराजिताम् ।
चन्दनागुरुकस्तूरीकुंकुमाञ्चितविग्रहम् ॥२५॥
सुनखं सुकपोलं च पक्वबिम्बाधरं हरिम् ।
पक्वदाडीमबीजाभदन्तपंक्तिविराजितम् ॥२६॥
मयूरपर्णसंशोभद्बद्धचूडामणिं प्रभुम् ।
कर्णयोर्धृतकादम्बपुष्पगुच्छसुशोभितम् ॥२७॥
ध्यानाऽसाध्यं योगिनां च भक्तानुग्रहकातरम् ।
ब्रह्मेशधर्मशेषेन्द्रैः स्तूयमानं परेश्वरम् ॥२८॥
कोटिकन्दर्पलावण्यवात्सल्यप्रेमपूरितम् ।
दृष्ट्वैवमुज्ज्वलं कृष्णं भक्त्या नेमुर्द्विजस्त्रियः ॥२९॥
स्वानां ज्ञानानुरूपं च तुष्टुवुः परमेश्वरम् ।
त्वं ब्रह्म परमं कृष्णः साक्षाच्छ्रीपतिरच्युतः ॥३०॥
निर्गुणस्त्वं निराकारः साकारः सगुणः स्वयम् ।
साक्षिरूपश्च निर्लेपः परमात्मा निराकृतिः ॥३१॥
अक्षरात्परतः श्रेष्ठस्त्वक्षरातीत एव च ।
मुक्तसेव्यः श्रिया सेव्यो राधारमादिपूजितः ॥३२॥
पार्वतीमाणिकीलक्ष्मीप्रभाद्याभिः पतिः कृतः ।
प्रकृतेः पुरुषस्यापि महाविष्णोश्च वेधसः ॥३३॥
शिवादीनां मनूनां च कारणं परमं भवान् ।
जडं तत्त्वात्मकं यद्यच्चेतनं च तदन्वितम् ॥३४॥
त्वया व्याप्तं तव तेजोबलात्तेजस्विताश्रयम् ।
सर्वैश्वर्याणि शक्त्याद्यास्तवमूर्तेः समुद्भवाः ॥३५॥
सर्वानन्दः परेशोऽसि पतिः प्राणाधिकः प्रियः ।
अदिव्यचक्षुषा नैव ग्राह्योऽसि देहवानपि ॥३६॥
महेशः कार्तिकेयश्च शेषो धर्मो विधिर्गुरुः ।
सरस्वती जडाः सर्वे स्तवने तत्र का वयम् ॥३७॥
पार्वती कमला राधा सावित्री शारदा प्रभा ।
माणिकी श्रीर्लक्ष्मवती प्रवर्तन्ते न का वयम् ॥३८॥
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ।
इति पेतुस्तु ता विप्रपत्न्यः कृष्णपदाम्बुजे ॥३९॥
अभयं प्रददौ ताभ्यः कृष्णनारायणो हरिः ।
वरं वृणुत कल्याणं भविता चेत्युवाच सः ॥४०॥
ततः साध्व्यस्तु ता ऊचुर्गृह्णीमः प्रवरं प्रभो ।
देहि स्वदास्यमस्मभ्यं दृढां भक्तिं पदाम्बुजे ॥४१॥
पश्यामोऽनुक्षणं वक्त्रं सेवयामः पदाम्बुजे ।
अनुग्रहं कुरु श्रेष्ठं यास्यामो न गृहं पुनः ॥४२॥
पतिव्रतानां वाक्यानि श्रुत्वा कृष्णः कृपानिधिः ।
ओमित्युक्त्वा विप्रपत्नीदत्तमन्नं सुधासमम् ॥४३॥
बालकान् भोजयित्वाऽनुबुभुजे भगवान् स्वयम् ।
एतस्मिन्नन्तरे तत्र शातकुंभं रथं परम् ॥४४॥
गोलोकादागतं तास्तु ददृशुर्दिव्यपार्षदम् ।
रत्नदर्पणतेजस्कं वस्त्रसारपरिच्छदम् ॥४५॥
सुवर्णकलशोपेतं रत्नस्तंभधरादिकम् ।
सर्वतश्चामरैर्युक्तं पारिजातसुमालिकम् ॥४६॥
शतचक्रोपरिक्लृप्तं वनमालादिशोभितम् ।
दिव्यपार्षदवर्यैश्च कृष्णतुल्यैः सुवाहितम् ॥४७॥
पीतवस्त्रपरीधानैः रत्नालंकारभूषितैः ।
नवयौवनसम्पन्नेः श्यामलैश्च मनोहरैः ॥४८॥
द्विभुजैर्मुरलीहस्तैर्गोपिवेशधरैर्वरैः ।
शिखिपिच्छगुञ्जमालाबद्धवक्रिमचूडकैः ॥४९॥
पार्षदैः सन्नतः कृष्णो विप्रपत्न्यस्तु बोधिताः ।
गमनार्थं तु गोलोकं ताश्चाऽऽसन् मुदितानना ॥५०॥
कृष्णनारायणं नत्वा त्यक्त्वा मानुषविग्रहान् ।
बभूवुर्गोपिकाः सद्यो जग्मुर्गोलोकमीप्सितम् ॥५१॥
कृष्णश्छायां विनिर्माय तासां रूपान्तराणि वै ।
गृहान् प्रस्थापयामास विप्राणां विप्रकामिनीः ॥५२॥
विप्रा गवेषणं चक्रुः क्व गतास्ता इतिब्रुवाः ।
ददृशुः पथि चायान्तीः पत्नीः शान्तिं ययुस्ततः ॥५३॥
पुलकाङ्कितसर्वांगाः प्रसन्नवदनेक्षणाः ।
ऊचुरहोऽतिधन्याः स्मो यूयं चापि पतिव्रताः ॥५४॥
यासां पत्न्यः कृष्णभक्ता लक्ष्मीराधासमा हरौ ।
तपो जपो व्रतं ज्ञानं वेदाध्ययनमर्चनम् ॥५५॥
तीर्थस्नानमनशनं सफलं कृष्णसेवया ।
श्रीकृष्णः सेवितो याभिः किं तासां पुण्यपर्वतैः ॥५६॥
प्राप्तः कल्पतरुर्याभिः किं तासां तरुकोटिभिः ।
श्रीकृष्णो हृदये यासां किं तासां कर्मकोटिभिः ॥५७॥
इति कृष्णस्य माहात्म्यं पत्नीनां चापि सर्वथा ।
जानन्तस्ते ययुर्यज्ञं ततो ययुर्गृहाणि वै ॥५८॥
तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु ।
दाक्षिण्यं सेवनं सर्वं त्वासीद् विप्रैरतर्कितम् ॥५९॥
प्राग्भवीयोत्तमपुण्यैः प्राप्यते भगवान् यतः ।
आसँस्तास्तु पुरा सप्तर्षीणां पत्न्यः पतिव्रताः ॥६०॥
गुणवत्यो रमण्यस्ता रूपेणाऽप्रतिमा पराः ।
नवीनयौवनाः सर्वाः पीनश्रोणिपयोधराः ॥६१॥
दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः ।
तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः ॥६२॥
यज्ञस्थानस्थिताः स्वामिसहिताश्चक्रुरर्पणम् ।
वह्नौ द्रव्यादिवस्तूनां चकमेऽग्निर्विलोक्य ताः ॥६३॥
ततो वह्निः स्वीयज्वालाकरैः पस्पर्श ता मुहुः ।
अग्निरंगानि तासां च दर्शं दर्शं मुमोह च ॥६४॥
हविष्यं भक्षयँश्चापि स्पर्शं कृत्वाऽतिकामुकः ।
समाश्लिषत् करैस्तास्त्वदृश्यैर्भावैः पुनः पुनः ॥६५॥
चकार सुरतं सूक्ष्मं शिखाभिः परिष्वज्य ताः ।
पतिव्रताश्च ता नैव जानन्ति वह्निवर्तनम् ॥६६॥
दिव्यद्रष्टाऽङ्गिरा वह्नेर्ज्ञात्वा गुप्तं तु वर्तनम् ।
कामभावान्वितं वह्निं शशाप शेषमावहन् ॥६७॥
अद्यप्रभृति वह्ने ते शिखायां च करेषु च ।
ज्वालायां च तथाऽङ्गारादिषु कामौ भवेन्न वै ॥६८॥
नपुंसकः सदा स्यास्त्वं ज्वालात्मकः सुपुण्यदः ।
मूर्तिमाँस्त्वं सकामः स्याः स्वाहापि तादृशी तथा ॥६९॥
एवं शप्तस्ततो वह्निर्निष्कामो ज्वालयाऽभवत् ।
यज्ञयागादिकार्याणि यतः पुण्यानि तद्बलात् ॥७०॥
अथाऽङ्गिरा अशुद्धास्ता वह्निस्पृष्टा हि कामतः ।
शशाप शुद्धिलाभाय यात योनिं तु मानुषीम् ॥७१॥
कुलजैर्ब्राह्मणैः पाणिर्गृहीतो वो भविष्यति ।
इत्युक्तास्ताः क्षणं शोकं जग्मुश्चक्रुश्च तं नतिम् ॥७२॥
हितं तथ्यं प्रार्थयामासुश्च सर्वाः पतिव्रताः ।
न त्यजाऽस्मान् मुनिश्रेष्ठ निष्पापा वै पतिव्रताः ॥७३॥
अजानन्त्यः परस्पृष्टा न वै नस्त्यक्तुमर्हसि ।
भक्तानां किंकरीणां च न दण्डं कर्तुमर्हसि ॥७४॥
युष्माकं चरणाम्भोजं कदा द्रक्ष्यामहे वयम् ।
खड्गच्छेदाद् वज्रपातात् सर्वप्रहरणात्तथा ॥७५॥
दारुणः कान्तविच्छेदः साध्वीनां दुःसहः सदा ।
ब्रह्मिष्ठानां गुणवतां परान् कान्तान् महामुनीन् ॥७६॥
पत्नीव्रतान् कथं त्यक्त्वा यास्यामः पृथिवीतलम् ।
यास्यामो यदि विप्रेश कदाऽत्राऽऽगमनं वद ॥७७॥
अन्येषां तु भयात् कान्ता व्रजन्ति शरणं पतिम् ।
स्वकान्तभयसंविग्नाः शरणं कं व्रजन्ति ताः ॥७८॥
अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव यत् ।
पुत्रे शिष्ये कलत्रे च को दण्डं कर्तुमक्षमः ॥७९॥
दण्डं दत्वा वारणं च कर्तुं त्वपि न कः क्षमः ।
कामिनीनां वचः श्रुत्वाऽङ्गिराः प्रेम्णा रुरोद वै ॥८०॥
संज्ञामवाप्य च भ्रातॄन् पृष्ट्वा प्रोवाच तास्ततः ।
हितं सत्यं प्रियं योग्यमन्येषां बोधदं परम् ॥८१॥
परभुक्तां स्वस्य कान्तां विना तच्छोधनं पतिः ।
नैव भुञ्जीत वै क्वापि पापं संक्रमते प्रिये ॥८२॥
न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता ।
तस्या आलिंगने भर्ता भ्रष्टश्रीस्तेजसा हतः ॥८३॥
देवताः पितरस्तस्य हव्यदाने च तर्पणे ।
सुखिनो न भवन्त्येव कवोष्णमुपभुंजते ॥८४॥
तस्माद् यत्नेन भार्याया रक्षणं कार्यमन्वहम् ।
पदे पदे सावधानैः कान्ता रक्ष्याः सुपण्डितैः ॥८५॥
नाऽन्याऽधीना भवेद् योषा दोषाणां हि करण्डिका ।
कलत्रं पाकपात्रं च सदा रक्षितुमर्हति ॥८६॥
परस्पर्शादशुद्धे ते शुद्धे स्वस्यैव हस्तगे ।
अशुद्धानां प्रशुद्धिश्चर्तुना व्रतेन जन्मना ॥८७॥
तस्मान्नारी परैर्यत्नाददृष्टा पूर्वजैः कृता ।
असूर्यंपश्या या दारा शुद्धास्तास्तु पतिव्रताः ॥८८॥
स्वामिसाध्या तु या नारी कुलधर्मभिया स्थिता ।
कान्तेन सार्धं सा कान्ता वैकुण्ठं याति निश्चितम् ॥८९॥
ऋषिलोकनिमेषेण पृथ्व्यां विंशतिवर्षकः ।
कालो यास्यति शीघ्रं वै जन्मना शुद्धिरर्थ्यते ॥९०॥
यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् ।
कृष्णभोजनदानेन वः शापस्य हि मोचनम् ॥९१॥
श्रीकृष्णस्य प्रतापेन रूपत्रयं धरिष्यथ ।
दिव्यकन्यास्वरूपेण गोलोकं यास्यथ ध्रुवम ॥९२॥
देवीकन्यास्वरूपेण ऋषिलोकं प्रयास्यथ ।
छायाकन्यास्वरूपेण विप्रगृहं प्रयास्यथ ॥९३॥
युष्मदंशा विप्रपत्न्यो मृतौ प्राप्स्यथ नो ध्रुवम् ।
युष्माकं ममशापोऽयं वर्ततेऽद्य वराधिकः ॥९४॥
भुक्तिर्मुक्तिर्गृहप्राप्तिस्त्रयमेतदवाप्यते ।
इत्युक्तास्ता यज्ञभूमेर्ययुः पृथ्वीं यमीतटे ॥९५॥
योग्यगृहे समुद्भूय बभुवुर्विप्रयोषितः ।
दत्वान्नं हरये भक्त्या जग्मुर्गोलोकमेव ताः ॥९६॥
तथाऽन्यरूपैः कान्तस्य लोकं जग्मुश्च तास्तदा ।
छायारूपैर्ययुर्विप्रगृहाण्येव तु ताः स्त्रियः ॥९७॥
बभूव निश्चितं तासां शापो वै सम्पदोऽधिकः ।
अहो सद्यः सतां कोपस्तूपकाराय कल्पते ॥९८॥
विना विपत्तेर्महिमा कुतः कस्य भवेत् खलु ।
भूताः कान्तपरित्यागान्मुक्ता ब्राह्मणयोषितः ॥९९॥
इत्येवं कथितं लक्ष्मि! पतिव्रताहरिव्रतम् ।
पठनाच्छ्रवणात्त्वस्य भुक्तिर्मुक्तिस्तथोन्नतिः ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तर्षिपत्नीनां वह्निभोगेन शापाद् विप्रपत्नीत्वे श्रीकृष्णनारायणपातिव्रत्येन यज्ञे यमीतटे श्रीकृष्णादिबालानां वत्सचाराणां भोजनदानेन मोक्षणं चेत्यादिनिरूपणनामैकोनसप्तत्यधिकचतुश्शततमोऽध्यायः ॥४६९॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP