संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४३२

कृतयुगसन्तानः - अध्यायः ४३२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पातिव्रत्यपरायणाम् ।
दिव्यां चमत्कृतिं वक्ष्ये पापतापविनाशिनीम् ॥१॥
पाञ्चालदेशे सौराष्ट्रे हेमन्ताख्योऽभवन्नृपः ।
शशास राज्यं धर्मेण पश्चिमे पुण्यलालसः ॥२॥
पूर्वं दानं कृतं तेन रत्नानां कनकस्य च ।
जलं मूल्यात्मकं नास्ति जलदानं तु नाऽकरोत् ॥३॥
तेन दोषेण राज्ञो वै लिप्तस्य च शनैः शनैः ।
सम्पद्धानिर्जायते स्म गजाश्वा रोगपीडिताः ॥४॥
गोमहिष्यादि यच्छ्रेष्ठं नष्टं पशुधनं हि तत् ।
अजाविकं समस्तं च वन्यं मृगादिकं तथा ॥५॥
रोगप्रपीडितं सर्वं विनाशमगमच्छनैः ।
अनावृष्टिरभूत्तस्य निर्मानुष्यविधायिनी ॥६॥
देशः शुष्कस्ततो जातः प्रजा देशान्तरं ययुः ।
राज्यकोशादिकं जातं शून्यं रिक्तं च निर्बलम् ॥७॥
ज्ञात्वा त्वन्ये नृपाः पञ्च मिलित्वा यानमाचरन् ।
तं जेतुं सुलभं मत्वा समाजग्मुः समन्ततः ॥८॥
पाञ्चालराजं युद्धेन जिग्युर्निन्युश्च सम्पदः ।
हेमन्तः स्वपतिव्रतापत्न्या युक्तस्तु रैवते ॥९॥
धात्रीभृत्यादिसहितो विवेश गिरिगह्वरम् ।
मानिन्या भार्यया युक्तो वन्यैर्यात्रां चरन्नृपः ॥१०॥
चिन्तयामास बहुधा बदरीजम्ब्वरण्यके ।
फलकन्दकृताहारः किमेतद् दुखःमागतम् ॥११॥
मया दानं प्रदत्तं वै बहुधा प्रतिपर्वणि ।
मातृपितृहितं सर्वं कृतवानस्मि सेवकः ॥१२॥
गुरवस्तोषिता नित्यं ब्राह्मणाश्चापि रक्षिताः ।
धर्मः सुरक्षितः शश्वद् देवाश्चापि प्रपूजिताः ॥१३॥
इन्द्रियाणां वशे नाहं नाहं व्यसनलम्पटः ।
न चौर्यपारदार्यादिकर्तृसंगी कदाचन ॥१४॥
तथापि वै कथं चेदं दारिद्र्यं समुपागतम् ।
पराजयो महान् जातो विरुद्धा बान्धवादयः ॥१५॥
येऽनुकूलास्तु ते सर्वेऽधुनाऽऽप्ताः प्रतिकूलताम् ।
कस्य वा कर्मणश्चेदं फलमाप्तं मया प्रभो ॥१६॥
एवं चिन्तयतस्तस्य रैवताद्रिवनेऽनिशम् ।
यात्रार्थं त्वागतस्तत्र तद्गुरुर्याजकाभिधः ॥१७॥
प्राप्तश्च सत्कृतो वन्यैस्तृप्तो नतश्च पादयोः ।
पप्रच्छ दुःखप्राप्तेः स पाञ्चालेशस्तु कारणम् ॥१८॥
दारिद्र्यं कोशनाशश्च शत्रुभिः संपराजयः ।
राज्यनाशो वने वासो बान्धवा विमुखाः कथम् ॥१९॥
मम देशेऽप्यनावृष्टिः कथमेतद् गुरो! वद् ।
इति पृष्टो गुरुर्ध्यात्वा विज्ञाय पूर्वजन्मजम् ॥२०॥
कर्म तत्कारणं सर्वं तस्मै चाह शृणु नृप! ।
पुराऽरण्यनिवासी त्वं व्याधः प्राणिविहिंसकः ॥२१॥
निष्ठुरश्चौर्यकुशलो धर्मकर्मविवर्जितः ।
कृष्णनारायणनाम्नो जपकार्यविरोध्यपि ॥२२॥
कृष्णस्मरणहीनश्च प्रणामवर्जितः सदा ।
शस्त्रजीवी मार्गलब्धप्रजापीडाकरः शठः ॥२३॥
बालापत्यमृगाणां पक्षिणां हत्याकरस्य ते ।
अपत्यानि न जायन्ते जातस्य गर्भपातता ॥२४॥
विश्वासघातकत्वेन बान्धवा नैव सोदराः ।
मार्गपीडाकरत्वेन मित्रसुहृद्विवर्जितः ॥२५॥
साधूनां च तिरस्कारात् शत्रुभिस्ते पराभवः ।
कदाऽप्यदत्तदोषेण दारिद्र्यं ते ह्युपस्थितम् ॥२६॥
प्रवासिनां कष्टदस्त्वं कष्टमुद्वेजनं तव ।
सर्वावमानकर्ता त्वं चावमानं गतो महत् ॥२७॥
जलादीनामदानेन वने त्वं जलपीडितः ।
निराहारो भवस्येव पूर्वकर्मविपाकतः ॥२८॥
अथ राजँत्वयाऽरण्ये सुकृतं राज्यदं कृतम् ।
शृणु कश्चिन्मुनिस्तत्र कर्षणाख्यः समागतः ॥२९॥
ब्रह्मचर्यव्रती कृष्णपातिव्रत्यपरायणः ।
तदा त्वं धनुरादाय मार्गं रुद्ध्वा पुरः स्थितः ॥३०॥
पृष्टवान् चेद्द्रव्यमस्ति दीयतां मे वनेचर! ।
मुनिः प्राहाऽव्ययं द्रव्यं मदग्रे वर्तते शठ! ॥३१॥
यदीच्छसि प्रदास्येऽहं पात्रं गृहाण चेदसि ।
श्रुत्वा तं विःस्मितस्तत्र कीदृक् पात्रं धनं च किम् ॥३२॥
विचार्यं प्रोक्तवानेनं देहि चेदस्मि पात्रकम् ।
कर्षणस्तस्य वचसा तुतोष प्राह रे शठ! ॥३३॥
कति हत्या कृताश्चात्र वद निष्कपटं पुरा ।
व्याधः प्राह मयाऽरण्ये पारे सहस्र घातिताः ॥३४॥
पशवः. पक्षिणश्चान्ये स्वल्पा वै मानवा अपि ।
कर्षणः प्राह पापी त्वं पापक्षालनमिच्छसि ॥३५॥
तदा पापान्यहं तेऽत्र क्षालयामि यदीच्छसि ।
व्याधः प्राह समिच्छामि पापानां क्षालनं मम ॥३६॥
कर्षणः प्राह प्रथमं स्नात्वाऽऽयाहि मदान्तिके ।
व्याधः स्नात्वाऽऽययौ पश्चात् तुलसीदलमिश्रतम् ॥३७॥
कृष्णप्रासादिकं वारि तस्मै पानार्थमर्पितम् ।
अपिबत् स जलं शिष्टं मस्तके धृतवाँस्ततः ॥३८॥
गुरोश्चरणौ प्रक्षाल्याऽप्यपिबत् सलिलं पुनः ।
कर्षणेन तदा तस्य कर्णे दक्षे पुनः पुनः ॥३९॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
वारत्रयं महामन्त्रः श्रावितस्तावदेव तु ॥४०॥
तच्छरीरालोमकूपेभ्यश्च पापानि सर्वशः ।
निर्गतानि मूर्तिमन्ति हत्यादीनि सहस्रशः ॥४१॥
रुरुदुस्तानि सर्वाणि दीनानि विकृतानि च ।
भयंकराणि सर्वाणि प्राहुस्तं कर्षणं तदा ॥४२॥
अस्माकं कोऽस्त्यपराधः कथं च मुनिना त्वया ।
निष्कासितान्यस्य देहाद् दयां कुरु कृपां कुरु ॥४३॥
देहि वासं त्वयि यद्वा तस्मिन् यद्वा स्थलान्तरे ।
अवश्यमेव भोक्तव्यं कृतं तेन वनान्तरे ॥४४॥
कर्षणस्तु तदा प्राह कृष्णनाम्ना त्वघानि वै ।
प्रज्वलन्त्याजन्मजानि युष्माकं तादृशी गतिम् ॥४५॥
करिष्यामि क्षणेनैव ततो दूरं प्रगच्छत ।
न मत्साम्ये स्थितिर्वोऽस्ति दूरं गच्छत सर्वथा ॥४६॥
इत्युक्तानि तु पापानि मूर्तिमन्ति गतानि वै ।
दामोदरस्य तीर्थस्य पर्वते संभ्रमन्ति हि ॥४७॥
अथ व्याधेन वन्यैश्च फलैः संभोजितो गुरुः ।
सरोजलं समानीय तृषा तस्य निवारिता ॥४८॥
सुगन्धीनि सुपुष्पाणि कुन्दान्यानीय यत्नतः ।
मालादिकं रचयित्वा कण्ठे शिरसि पूजितः ॥४९॥
पादावनेजनं तस्य देहावमर्दनं तथा ।
कृतं व्यजनपवनः शीतलो वीजितस्तदा ॥५०॥
एवं साधोः कृता पूजा कर्षणर्षेर्हि भावतः ।
कृष्णपूजोपहाराणि समानीतानि तेन च ॥५१॥
प्रसादो भक्षितो वारि पीतं प्रासादिकं तथा ।
एवं व्याधेन भक्तेन परिचर्या कृता तदा ॥५२॥
पुण्यं जातं महत्तत्राशीर्वादा गुरुणाऽर्पिताः ।
राज्यवान् धनवान् लक्ष्मीपूरितो भव पार्थिव! ॥५३॥
इत्युक्त्वा सत्कृतिं लब्ध्वा ययौ तीर्थान्तरं गुरुः ।
व्याधो हिमप्रभावेण रात्रावेव मृतिं गतः ॥५४॥
स च त्वं भूरियशसः सौराष्ट्रनृपतेर्गृहे ।
कुमारोऽसि जनिं प्राप्तः साधुसेवा कृता त्वया ॥५५॥
तेन पुण्येन राजाऽभूः पुण्यं सर्वं तु भक्षितम् ।
पुण्यनाशं विलोक्यैव दामोदरस्य सन्निधौ ॥५६॥
रैवताद्रौ तु तेऽघानि यानि विद्रावितानि वै ।
तानि संपश्य सर्वाणि पुनस्त्वां वै ववल्गिरे ॥१७॥
तेषां बलेन चेदृक् ते भ्रमणं पतनादिकम् ।
जातं राजन् यतस्तानि पापानि प्राग्भवे तव ॥५८॥
ऋषिणा दयया नैव प्रज्वालितानि सर्वथा ।
सजीवनानि यातानि तानि पुनर्ववल्गिरे ॥५९॥
तस्मात् कृष्णकृष्णकृष्णकृष्णनारायण प्रभो ।
हरेकृष्ण परब्रह्म वासुदेव रमापते ॥६०॥
श्रीपते राधिकाकान्त कमलेश प्रभापते ।
माणिकीश जयालक्ष्मीपते श्रीपार्वतीपते ॥६१॥
सतां पते कृपासिन्धो भक्तपते सुमुक्तिदे ।
सावित्रीश तुलसीष्ट गंगासरस्वतीपते ॥६२॥
योगिपतिपते सिद्धासाध्वीपतिव्रतापते ।
अन्तरात्मन् ममाऽघानि प्रज्वालय विनाशय ॥६३॥
दासोऽहं किंकरस्तेऽस्मि सेवाऽर्हं पावनं कुरु ।
रक्षय मां पाददास्ये कैंकर्ये पातिव्रत्यके ॥६४॥
इत्यर्थनां कुरु भूभृत् सर्वं श्रेष्ठं भविष्यति ।
मंगलानां प्रदे कृष्णे तुष्टे सर्वं निरामयम् ॥६५॥
अहं वै याजकस्तेऽस्मि गुरुर्याजकनामतः ।
तव कल्याणकृच्चास्मि वद किं करवाणि ते ॥६६॥
यदीच्छसि सुखं राज्यं धनधान्यादिसम्पदः ।
स्वर्गापवर्गौ यदि वा सायुज्यं वा हरेः पदम् ॥६७॥
किमिच्छसि वद राजन् कृतकृत्यो भवाऽत्र मे ।
श्रुत्वा जगाद हेमन्तो हर्षविह्वलमानसः ॥६८॥
राज्यं चेच्छामि निर्विघ्नं शत्रूणां गर्वभञ्जकम् ।
ततश्च श्रीकृष्णनारायणस्य चरणे सदा ॥६९॥
पातिव्रत्यपरां भक्तिं समिच्छामि सदा द्विज ।
श्रुत्वा तं याजकस्त्वाह युक्तान् धर्मान् निबोध मे ॥७०॥
दानेन लभते राज्यं स्वर्गं सम्पद् धनानि च ।
सेवया लभते त्वायुर्भाग्यं भोग्यं सुतादिकान् ॥७१॥
भक्त्या लभते गोविन्दचरणं धाम शाश्वतम् ।
सत्संगेन महाशान्तिं सुखं चानन्दशेवधिम् ॥७२॥
एतच्चतुष्टयं राजन् यथाशक्ति समाचर ।
गां देहि पृथिवीं देहि स्वल्पामपि द्विजाय वै ॥७३॥
तेन लक्ष्मीं च पृथिवीं पुनः प्राप्स्यसि सत्वरम् ।
शय्याछत्रादिकं देहि राज्यं प्राप्स्यसि वै पुनः ॥७४॥
स्वर्णं रौप्यं धनं देहि तेन प्राप्स्यसि सम्पदः ।
नारायणह्रदे स्नात्वा दामोदरं समर्चय ॥७५॥
वामनस्ते पुनर्जयं कारयिष्यत्यसंशयम् ।
कृष्णनारायणमूर्तिदानं कुरु गुरौ शुभम् ॥७६॥
जलदानं प्रपादानं कुरु चात्र वनान्तरे ।
पुत्रान् प्राप्स्यसि राजेन्द्र त्वात्मतुल्यपराक्रमान् ॥७७॥
यन्नास्ति तत्तु संकल्पाद् देहि जलस्य साक्षितः ।
पश्चात्प्राप्ते प्रदातव्यं कार्यं शाठ्यं न कर्हिचित् ॥७८॥
सेवां साधुजनानां च कुरु प्राप्स्यसि चायुषम् ।
भोग्यं वस्तुप्रजातं च दाराः सुतानवाप्स्यसि ॥७९॥
पातिव्रत्यं कुरु कृष्णे सतीवत् सर्वथाऽनघ ।
सेवनं पूजनं तस्मै सुनैवेद्यं जलार्पणम् ॥८०॥
यथर्तुस्नानशृंगारं समुत्साहमहोत्सवम् ।
व्रतमुद्यापनं चान्यद् यत्किञ्चिच्छक्यमेव तत् ॥८१॥
कुरु दास्यं च कैंकर्यं ध्यानं च भजनं जपम् ।
सर्वेषां सुखदो भूत्वा प्राप्स्यसि धाम चाक्षरम् ॥८२॥
राधाकृष्णं रमाकान्तं लक्ष्मीनारायणं प्रभुम् ।
शिवाशिवं पार्वतीशं श्रीपतिं कमलापतिम् ॥८३॥
माणिकीशं प्रभाकान्तं जयेशं ललितापतिम् ।
पद्मिनीशं च पद्मेशं दुर्गेशं तुलसीपतिम् ॥८४॥
देवीपतिं हरिं कृष्णं स्वामिनं श्रीनरायणम् ।
कम्भरेशं रुक्मिणीशं परब्रह्मात्मनां पतिम् ॥८५॥
सतां पतिं सर्वनाथं भजाऽन्तर्यामिणं गुरुम् ।
राधादिवत् सदा पातिव्रत्यं पालय केशवे ॥८६॥
गृहाणेमां गले कण्ठीं तुलसीमालिकां शुभाम् ।
ओं श्रीकृष्णकृष्णकृष्णनारायण नमोऽस्तु ते ॥८७॥
इत्युच्चार्य हरिं नत्वा ध्यात्वा कान्तं मनोहरम् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ॥८८॥
एवं जपं कुरु राजन्नष्टोत्तरशतं दिने ।
तेन मुक्तिं परप्राप्तिस्वरूपां त्वं लभिष्यसि ॥८९॥
सतां दिव्यजनानां त्वं कुरु संगं सुपुण्यदम् ।
साध्वीनां च सतीनां च दर्शनं कुरु वै सताम् ॥९०॥
सेवां पूजां पादचर्यां कैंकर्यं दासवत् कुरु ।
वह तेषां पादरजांस्यपि स्वशिरसा सदा ॥९१॥
चरणामृतमेतेषां पिब स्नाने नियोजय ।
सत्यश्च साधवो राजन्नानखादाशिरोऽवधिम् ॥९२॥
दिव्याः पवित्राः पुण्याश्च भागत्यागविवर्जिताः ।
तान्प्रसेवय यद्वत् श्रीं श्रीकृष्णं च नरायणम् ॥९३॥
सदा निष्कामभावेन प्रसेवय श्रियाः पतिम् ।
तेन ते सकला लोका भविष्यन्ति वशानुगाः ॥९४॥
प्रत्यक्षो भविता कृष्णनारायणस्तव गृहे ।
प्रत्यक्षा भविता लक्ष्मीस्तव सम्पद्विवर्धिनी ॥९५॥
तवेयं महिषी राजन्नित्यं श्रीपूजनं प्रगे ।
करोतु श्रीवृक्षपत्रे कुंकुमेन विराजिताम् ॥९६॥
रेखाभिः सुदृश्यरूपां चतुर्भुजां हरिप्रियाम् ।
धूपदीपसुनैवेद्यजलपुष्पफलादिभिः ॥९७॥
पूजयतु स्नेहभक्त्या प्रसन्ना सा भविष्यति ।
दास्यत्यभीष्टमेवाऽस्यै पातिव्रत्येन सेवया ॥९८॥
सर्वं ते वाञ्छितं हृद्यं तूर्णं प्राप्तं भविष्यति ।
इत्युक्त्वा याजकस्तस्मै दत्वा शुभाशिषस्ततः ॥९९॥
ययौ वनान्तरं लक्ष्मि! हेमन्तः स्नानमाचरत् ।
चक्रे दानं पूजनादि सेवां रैवतवासिनाम् ॥१००॥
योगिनां वैष्णवानां च सत्संगं चकार ह ।
कथां दामोदरकृष्णदेवालयेऽशृणोत् शुभाम् ॥१०१॥
ध्यानं सुमननं कृष्णनारायणस्य चाकरोत् ।
शुभान्यस्य स्वाप्नदर्शनान्यभुवन् निशाव्यये ॥१०२॥
हस्तिमारुह्य सच्छत्रो याति राज्यं सुवर्धितः ।
वन्दितो देवलोकस्थैः प्रजया त्वभिवेष्टितः ॥१०३॥
अप्सरोभिः पुष्पमालाऽऽभूषणैरभिवर्धितः ।
लक्ष्म्याऽऽगत्य कलशाद्भिः संस्नापितश्च सोऽभवत् ॥१०४॥
गायकैर्देवगन्धर्वैगीतैः संश्रावितः स च ।
गुरुवर्गैश्च मातृभिस्तिलकैः साऽक्षतैर्युतः ॥१०५॥
ललाटे शोभितश्छत्रचामरादिभिरर्थितः ।
एवं दृष्ट्वा च स स्वप्नं मुमोद प्राह योषिते ॥१०६॥
कृष्णनारायणदृष्ट्या राज्यं पुनर्मिलिष्यति ।
शुभं शकुनं विजये विलोक्य ध्वजदर्शनम् ॥१०७॥
यात्रां चकार नगरीं राज्यं जिगाय वै स्वकम् ।
जिगायाऽन्यान्महाशत्रून् कांश्चिज्जग्राह वै वशान् ॥१०८॥
राज्ञां कोशगजाऽश्वाँश्च स्वयं जग्राह वीर्यवान् ।
करदा भग्नसंकल्पा भूभृतश्च बभूविरे ॥१०९॥
एकच्छत्रमभूद् राज्यं सौराष्ट्रविषयेषु वै ।
पुत्रस्तस्याऽभवद् धृष्टद्युम्नश्चातिप्रतापवान् ॥११०॥
हेमन्तो भक्तसाधूनां सेवां चक्रे दिने दिने ।
कथां शुश्राव कृष्णस्य नित्यं राज्यगृहे मुदा ॥१११॥
प्रजाश्च वैष्णवी जाता पातिव्रत्यपरा हरेः ।
यथाऽऽत्मनि तथा कृष्णे भक्तिं प्रचक्रिरे सदा ॥११२॥
सन्तुष्टश्च स्वयं कृष्णो नारायणश्चतुर्भुजः ।
अक्षयायां तृतीयायां प्रत्यक्षः समजायत ॥११३॥
लक्ष्मीयुक्तो गरुडस्थो दिव्यभूषादिभूषितः ।
निरीक्ष्य हर्षात् प्रोन्मत्तो ननर्त पुलकाञ्चितः ॥११४॥
तुष्टाव परया भक्त्या प्राञ्जलिः प्रेमपूरितः ।
जलं पादाववनिज्य दधार मुखमस्तके ॥११५॥
अर्चयामास सद्वस्तुषोडशकेन पार्थिवः ।
ववन्दे सर्वदानेन पुराणपुरुषं हरिम् ॥११६॥
वन्दे धृत्वा हृदये ते पदं तीर्थास्पदं प्रभो ।
यस्य साधोः प्रसंगेन तारितोऽहं त्वया हरे! ॥११७॥
साधुसेवारतस्याऽयं संसारो गोष्पदायते ।
सत्संगेन हरे कृष्ण त्वयि जाता मतिर्मम ॥११८॥
राज्यनाशोऽभवन्मे तेऽनुग्रहो यत्फलं भवान् ।
तथा सेवां स्मृतिं दास्यं पातिव्रत्यं प्रदेहि मे ॥११९॥
मनस्ते पादयोरस्तु वचस्ते गुणकीर्तने ।
नेत्रे च दर्शने ते स्तां श्रोत्रे तव कथाश्रवे ॥१२०॥
रसना त्वत्प्रसादेऽस्तु घ्राणं त्वन्मूर्तिसौरभे ।
चर्माऽस्तु स्पर्शने तेऽत्र हस्तौ मन्दिरमार्जने ॥१२१॥
पादौ त्वत्क्षेत्रगमने चान्ये त्वदर्थयोजिते ।
मूर्धा ते वन्दने चास्तु कामस्त्वदर्थमेव च ॥१२२॥
बुद्धिस्ते निर्णये चास्तु चित्तं ते चिन्तने सदा ।
अहंभावोऽस्तु कान्ते मे चायुर्मे त्वयि चार्पितम् ॥१२३॥
सन्तु दिनानि साधूनां सेवायां प्रेमभावतः ।
सत्संगस्ते सतां चास्तु मुक्तिस्ते पादसेवनम् ॥१२४॥
नाऽन्यां श्रियं प्रकांक्षेऽहं क्वचिच्छ्रीपतिमन्तरा ।
इतिस्तुतः कृष्णनारायणः श्रीमञ्जलेश्वरः ॥१२५॥
हसन् प्राह वरं तस्मै त्वायुष्यं चायुतं परम् ।
भक्तिं कृत्वा मम दास्यं पातिव्रत्यं विधाय च ॥१२६॥
मम सायुज्यमेव त्वमाप्स्यसि स्वकुटुम्बयुक् ।
तृतीयायामक्षयायां त्वमिव मे प्रपूजनम् ॥१२७॥
करिष्यन्ति जनास्तेऽपि यास्यन्ति मत्पदं ध्रुवम् ।
स्नानं दानं मम पूजां करिष्यन्ति तु याः प्रजाः ॥१२८॥
नरान्नारीर्नयिष्येऽहं त्वक्षरं मम धाम वै ।
इति दत्वा वरं कृष्णस्तत्रैवाऽन्तरधीयत ॥१२९॥
राजा चक्रे सतां मध्ये वासं शुश्राव सत्कथाम् ।
पातिव्रत्यपरां भक्तिं कृष्णस्य स्वकुटुम्बयुक् ॥१३०॥
भुक्त्वा राज्यमयुतान्ते ययौ त्वन्ते हरेः पदम् ।
श्रवणात्पठनाच्चास्य यास्यन्ति श्रीहरेः पदम् ॥१३१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रे पञ्चालदेशीयहेमन्तनृपतेः प्राक्कृतकर्मभिः राज्यनाशादिः, गुरूपदिष्टश्रीकृष्णनारायणपातिव्रत्यदास्यधर्मेण पुना राज्यप्राप्तिः, श्रीहरिदर्शनमोक्षादिनिरूपणनामा द्वात्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३२॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP