कृतयुगसन्तानः - अध्यायः १५३
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच
वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् ।
तस्य पश्चिमदिग्भागे वनं गहनभूरुहम् ॥१॥
बिल्ववृक्षमयं तत्र मध्ये लिंगं तु मृन्मयम् ।
तत्रैको लुब्धकः प्राप्तो वसन्ते जलकांक्षया ॥२॥
पिप्पलस्य द्रुमस्याऽधः समागत्य व्यवस्थितः ।
मूले क्षणं तु विश्रम्य जलं पातुं च गच्छति ॥३॥
तावत्तेन तदा दृष्टौ पुरुषौ कृष्णपाण्डुरौ ।
पीताम्बरचर्मवस्त्रौ सुकेशसुजटाधरौ ॥४॥
कौस्तुभमुण्डकधरौ चक्रत्रिशूलहस्तकौ ।
वृन्दारुद्राक्षमालौ च पद्मनेत्र त्रिनेत्रकौ ॥५॥
तिलकचन्द्रकभालौ पद्मासतीप्रसेवितौ ।
पतत्त्रिवासुकियुक्तौ कम्बुनीलाभसद्वलौ ॥६॥
दिव्यौ पोषान्तकरूपौ जीवनिवृत्तियत्नकौ ।
सत्वतमःपराक्रान्तौ व्योममार्गावलम्बिनौ ॥७॥
बिल्ववनं प्रति यातौ यावत् पश्यति लुब्धकः ।
तावत्तावद्दृश्यभावं लिंगे च प्रस्तरे गतौ ॥८॥
श्वेतो लिंगेऽभवल्लुप्तः कृष्णस्तु प्रस्तरे गतः ।
लुब्धकश्च तदाश्चर्ययुक्तो जगाम तत्स्थले ॥९॥
तावल्लिंगं मृन्मयं च विष्णुमूर्तिं शिलामयीम् ।
दृष्ट्वा तु लुब्धकस्तत्र जलपानं विहाय च॥१०॥
तत्रैव सुस्थितो देवौ चिन्तयँस्तत्र भावतः ।
क्षुधितस्तृषितः सायमेवमेव व्यवस्थितः ॥११॥
माघकृष्णचतुर्दश्यां सायं वृत्तमिदं यदा॥
निर्जने तत्र तौ देवौ संस्मृत्य च पुनः पुनः ॥१२॥
लुब्धको बिल्वपत्राणि पद्मानि सरसस्तथा ।
समादायाऽर्पयत्येतौ लिङ्गविष्णू भजन् मुहुः ॥१३॥
पश्चाज्जलं परिगृह्य स्नापितौ पुष्पपूजितौ ।
वन्दितौ तावता रात्र्या मध्ये तौ नीलपाण्डुरौ ॥१४॥
तस्मादेव समुद्भूतौ पुरुषौ दिव्यविग्रहौ ।
प्राहतुस्तं लुब्धकं तौ यस्मादत्र वनान्तरे ॥१५॥
त्वयाऽऽगत्याऽद्य दिवसे बिल्वपद्मे समर्पिते ।
एतत्पूजाप्रभावेण दग्धान्यंहांसि ते तथा ॥१६॥
आभूतसंप्लवं स्वर्गं व स देवशरीरकः ।
लुब्धकस्त्वं भव देवः शिवरात्रिप्रपूजनात् ॥१७॥
शिवरात्रेर्व्रतयोगात् शिवरात्रि प्रजागरात् ।
पिप्पलाऽधोनिवासाच्च विष्णुभक्तो भविष्यसि ॥१८॥
एवं वरं प्रदत्वैव तिरोभूतौ हरिर्हरः ।
तावत् तत्र विमानं सुरुक्मवर्णं शशिप्रभम् ॥१९॥
अवातरद्व्योममार्गाद् अप्सरोभिः सुशोभितम् ।
सर्वस्मृद्धिसमायुक्तं दासदासीनिवासितम् ॥२०॥
देव्यः प्राह तदा तं वै लुब्धकं पुण्यशालिनम् ।
आगच्छ कान्त सुस्वर्गं वयं क्लृप्ताश्च तेऽङ्गनाः ॥२१॥
भवान् देवोऽस्ति सम्पन्नः शिवविष्णुप्रपूजनात् ।
माघे सोमे चतुर्दश्यां कृष्णायां जागरे कृते ॥२२॥
तदेतल्लभ्यते सर्वं समारोह गृहाण च ।
एवं दिव्यांगनास्तं च लुब्धकं कान्तमेव ह ॥२३॥
कृत्वाविमानमारोप्य जग्मुर्दिवं हरेः पुरम् ।
इन्द्रोऽपि तं समालोक्य तदाऽत्यन्तसुविस्मितः ॥२४॥
लुब्धकश्च तदा पृष्टः केन पुण्येन लब्धवान् ।
उक्तवान् स तदा शैवरात्र्यां तयोस्तु दर्शनम् ॥२५॥
व्रतं पूजां यथावृत्तं तत्सर्वं देवरूपवान् ।
ततः पुनः समायाते माघ कृष्णे चतुर्दशे ॥२६॥
दिने चेन्द्रः समायातो लक्ष्मि ! देवि ! धरातले ।
असंख्यदेवदेवीभिर्भवं नत्वा च माधवम् ॥२७॥
पूजयामास विधिना व्रतं पूर्णं चकार सः ।
किं दानैर्बहुभिर्दत्तैः किं व्रतैः किं सुरार्चनैः ॥२८॥
किं यज्ञैः किं तपोभिश्च ब्रह्मचर्येण किं तथा ।
गयापिण्डप्रदानेन प्रयागमरणेन किम् ॥२९॥
सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः ।
कुरुक्षेत्रे गतैः किं स्याद् राहुग्रस्ते दिवाकरे ॥३०॥
तुलासुवर्णदानेन वेदपाठेन किं भवेत् ।
सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् ॥३१॥
गोदानं किं करोत्येव तिलदानं करोतु किम् ।
अयने विषुवे चैव संक्रान्तौ कीदृशं फलम् ॥३२॥
माघे मासि चतुर्दश्यां यादृशं जागरे कृते ।
अक्षय्यं फलमाप्नोति महेन्द्रः प्राप्तवान् फलम् ॥३३॥
वामनं त्रिविक्रमं च दामोदरं भवेश्वरम् ।
यथाशास्त्रं पूजयित्वा व्रतं कृत्वा तथा हरिः ॥३४॥
नारायणे हदे स्नात्वाऽऽचम्य गोमुखतो जलम् ।
अम्बां नाथं च दत्तात्रेयं नमस्कृत्य वासवः ॥३५॥
उत्तराभिमुखं गत्वा विश्रान्तिमाप वै क्षणम् ।
तत्र चेन्द्रेश्वरं लिंग स्थापितं देवभूभृता ॥३६॥
वासवेन पूजितं तद् देवीभिः स्नापितं तथा ।
साक्षादिन्द्रस्य देवेशो भवो दृष्टिपथं गतः ॥३७॥
विष्णुर्देवस्तथा तत्र व्यदृश्यत चतुर्भुजः ।
इन्द्रेण स्थापितो विष्णुश्चतुर्भुजस्तथा स्थले ॥३८॥
पूजितो भोजितश्चैव नीराजितश्च वन्दितः ।
विष्णुः प्राह तदेन्द्रं त्वं ब्रह्मा जन्मान्तरे भव ॥३९॥
अन्यब्रह्माण्डराज्यं वै कृत्वा वैकुण्ठमाप्नुहि ।
इतीन्द्रस्तद्वरं प्राप्य प्रतिष्ठाप्य हरं हरिम् ॥४०॥
स्वर्गं जगाम देवेशः प्रतिवर्षं प्रयाति सः ।
शिवरात्रिव्रतवन्तं वस्त्रापथनिवासिनम् ॥४१॥
नारायणहृदे स्नान्तं दामोदरप्रसेविनम् ।
भवेश्वरस्य सद्भक्तं त्रिविक्रमप्रपूजकम् ॥४२॥
नेतुं वरं तथा कर्तुं समायान्ति वरांगनाः ।
वरं द्रष्टुमिन्द्रवासाद् वरयन्ति परस्परम् ॥४३॥
शंभुनारायणसमो दिव्यो मे भवतात्पतिः ।
ममायं न तवास्त्येषः पतिर्वै पुरुषोत्तमः ॥४४॥
वृक्षाः कीटाः पतंगा वा पशवः पक्षिणस्तथा ।
म्रियन्ते ते विष्णुसमा भूत्वा स्वर्गं प्रयान्ति हि ॥४५॥
वस्त्रापथे तदा तांस्तान् पतिं कुर्वन्ति देविकाः ।
प्राप्य देवं शंभुसमं विष्णुरूपं पतिं च ताः ॥४६॥
प्रहसन्ति च गायन्ति नृत्यन्ति कीर्तयन्ति च ।
जयं वदन्ति नयन्ति सुखशय्यां च तं सुरम् ॥४७
नन्दनेऽपि वने देव्यः पृच्छां कुर्वन्ति तं सुरम् ।
वद केन प्रभावेण देवो दिव्यो भवानभूत् ॥४८॥
तदा वक्ति स देवो वै वस्त्रापथप्रभावतः ।
देवा भवन्ति दिव्यास्तत् तीर्थं मुक्तिं ददात्यपि ॥४९॥
ऐरावतं समारुह्य यदाऽऽयातो महेश्वरः ।
ऊर्जयन्तगिरेर्मूर्ध्नि गजराजः स्म तिष्ठति ॥५०॥
तदग्रे चरणं हस्ती ददौ मूर्ध्नि स कारणात् ।
तेनाऽऽक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् ॥५१॥
गजपादोद्भवं वारि जातं तद्वै सदा स्थिरम् ।
इति कृतं सुरेन्द्रेण तैर्थिकानां हितार्थकम् ॥५२॥
अथ चोत्तरदिग्भागे धनदेन प्रतिष्ठितम् ।
धनदेश्वरमित्याख्यं लिंगं तीर्थं सुखप्रदम् ॥५३॥
त्रिशूलिनी तथा देवी पार्वती तत्र राजते ।
भवस्य निर्ऋते कोणे गणो हैरम्बसंज्ञितः ॥५४॥
यमेन स्थापितं यमेश्वरं बाणं तु वर्तते ।
चित्रगुप्तस्थापितं वै चित्रगुप्तेश्वरं तथा ॥५५॥
प्रजापतिश्चकारोच्चैः केदारेशं तु पश्चिमे ।
पर्वते रैवते श्रृंगे निमिनाथशिवस्तथा ॥५६॥
भवस्य दक्षिणे भागे नृसिंहः श्रीहरिस्तथा ।
स्थापितौ श्रीवामनेन पूजनीयौ विशेषतः ॥५७॥
सम्प्राप्य मानुषं जन्म ज्ञात्वा हरं हरिं तथा ।
शिवरात्रिर्वामनद्वादशी कार्यामुमुक्षुभिः ॥५८॥
पुण्यदा सौख्यदा प्रोक्ता भुक्तिमुक्तिप्रदायिनी ।
द्वादशाब्दं व्रतमेतत्कर्तव्यं वार्षिकं जनैः ॥५९॥
जीवितं चंचलं नॄणां कर्तव्यं प्रातिमासिकम् ।
प्रतिमासं शिवरात्रेर्वाव्दश्याश्च व्रतं चरेत् ॥६०॥
विघ्नश्च जायते मध्ये यदि वा दैवयोगतः ।
न भवेद् व्रतभंगश्च समाप्तं तत्कृतं मतम् ॥६१॥
कृष्णायां तु चतुर्दश्यां द्वादश्यां च कृताह्निकः ।
गृह्णीयाद् व्रतनियमं स्नायान्नद्यां ह्रदे शुभे ॥६॥
तैलाभ्यंगो न कर्तव्यो न कार्या राजसी क्रिया ।
तीर्थसेवा प्रकर्तव्या साधुसेवा सुखावहा ॥६३॥
देवसेवा प्रकर्तव्या ब्रह्मचर्यपरायणैः ।
रात्रौ देवाग्रतो गत्वा कर्तव्याः सप्त पर्वताः ॥६४॥
पक्वान्नफलताम्बूलपुष्पधूपादिपूजिताः
घृतदीपः प्रकर्तव्यः पापनाशनहेतवे ॥६५॥
दिवा वा निशि सन्ध्यायां दीपः कार्यः स्वशक्तितः ।
दिव्यो दीपः प्रकर्तव्यः फलं तस्य महन्मतम् ॥६६॥
किंचित्प्रकाशमात्रेण देवास्तुष्यन्ति सर्वथा ।
रात्रौ जागरणं कार्यं गीतवादित्रपूर्वकम् ॥६७॥
शिवरात्रिचरित्रं च वामनद्वादशीव्रतम् ।
श्रोतव्यं च भजनानि कर्तव्यानि तु मण्डलैः ॥६८॥
रात्रौ देयानि दानानि व्रते जागरणे तथा ।
पुनः स्नानं प्रभाते च पूज्यौ हरिहरावुभौ ॥६९॥
साधवः पूजनीयाश्च भोजनाच्छादनादिभिः ।
तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः ॥७०॥
द्वादशाऽष्टौ चतस्रः षड् भोजनीया विशेषतः ।
एकोऽपि ब्रह्मवेत्ता वा ब्रह्मचारी तु पूजितः ॥७१॥
सहस्राणां समो 'भक्त्या गृहे संपूजितो भवेत् ।
अक्षारलवणैश्चान्नैर्भोक्तव्यं प्राक्दिने स्वयम् ॥७२॥
पुत्रमित्रकलत्राणां दातव्यं भोजनं तथा ।
अनेन विधिना कार्या द्वादशी शिवरात्रिका ॥७३॥
वामनस्तु स्वयं तुष्येत् शिवस्तुष्येत्मुहुः पुनः ।
व्रतान्ते गौः प्रदातव्या कृष्णा वत्सयुता शुभा ॥७४॥
सवस्त्राभरणा दिव्या घण्टाश्रृंगादिशोभिता ।
गुरवे दक्षिणा देया ब्राह्मणेभ्यश्च शक्तितः ॥७५॥
तपस्विभ्यो वितीर्याऽन्नं देयं क्षमापयेत्तथा ।
एवं यः कुरुते भक्तस्तस्य पापं न विद्यते ॥७६॥
पुण्यात्मा विमलो भूत्वा भुक्त्वा भोगाननुत्तमान् ।
सन्तानमुत्तमं लब्ध्वा शान्तिं लब्ध्वैहिकीं तथा ॥७७॥
दिव्यं विमानमारूढो दिव्यस्त्रीपरिवेष्टितः ।
गीतवादित्रनिर्घोषैर्नीयते लोकमैश्वरम् ॥७८॥
मासि भाद्रे शुक्लपक्षे द्वादश्यां श्रवणाख्यभे ।
बुधे मध्याह्नसमये वामनस्त्वदितेरभूत् ॥७९॥
एकादश्यां द्वादश्यां च फलाहारो विधीयते ।
एकादश्यामुपवासो द्वादश्यां नक्तमेव वा ॥८०
पूजनार्थं तदा कुर्यात् वामनार्चां तु पौरटीम् ।
ह्रस्वां सजटां छत्रदण्डकमण्डलूयुताम् ॥८१॥
पीताम्बराऽऽभरणाढ्यां पुष्पाऽक्षतादिभिस्ततः ।
सुषोडशोपचारैर्वै वामनं संप्रपूजयेत् ॥८२॥
मण्डले सर्वतोभद्रे मध्याह्ने पूजयेत्तु तम् ।
यथालब्धोपचारैश्च भक्त्या पञ्चामृतादिभिः ॥८३॥
अदितिं कश्यपं चेन्द्रं सकुटुम्बं प्रपूजयेत् ।
घृतखण्डादिमिष्टान्नं नैवेद्यं चार्पयेत् शुभम् ॥८४॥
वामनस्याऽवतारस्य चरित्राणि तु गापयेत् ।
त्रयोदश्यां तु मिष्टान्नैस्तर्पयेत् क्षुधितान् बहून् ॥८५॥
माघकृष्णचतुर्दश्यां महादेवो महानिशि ।
विष्णोश्च ब्रह्मणोर्मध्ये श्रीहरेः किरणात्मकः ॥८६॥
शिवलिंगात्मको जातः कोटिसूर्यसमप्रभः ।
अदृश्य स वै लिंगे महादेवस्तृतीयकः ॥८७॥
ब्रह्मविष्णुमहेशानां सृष्टिकाले ह्यभूदिदम् ।
चतुर्दश्यां महादेवं चित्रवासांसि धारयेत् ॥८८॥
सतीं शाटीं सुचित्रां च पौरटाऽऽभरणानि च ।
धारयेत्पूजयेत् प्रीत्या सकुटुम्बं महेश्वरम् ॥८९॥
प्रपाठयेद्रुद्रसूक्तं त्वभिषेकपुरःसरम् ।
निशीथे पूजयेत् शंभुं भंगादुग्धफलच्छदैः ॥९०॥
मल्लिकाकुन्दपुष्पैश्च कनकैः करवीरकैः ।
वस्तुभिः षोडशविधैरर्चयेच्चान्यवस्तुभिः ॥९१॥
नैवेद्यं विविधं दद्याद् देशकालानुसारतः ।
तदा चैकात्मपद्यानि गापयेर्द्धाररुद्रयोः ॥९२॥
दानानि विधिनान्येव दद्याद्ररत्नानि भूरिशः ।
द्वितीये दिवसे भोज्योत्सवं कुर्यान्महत्तमम् ॥९३॥
एवं हरेर्हरस्यापि व्रतं कुर्यात्तु रैवते ।
कार्तिके माघमासे च यात्रां कुर्यात्तु मोक्षदाम् ॥९४
कैलासो विष्णुलोकश्च मोक्षश्च तस्य निश्चितः ।
नरो वा प्रमदा वापि व्रतेन मोक्षमाप्नुयात् ॥९५॥
सकामा प्रमदा तेन रमा वा पार्वती भवेत् ।
अकामा प्रमदा तेन मुक्तिं यात्येव धामनि ॥९६॥
ऊर्जे प्रदक्षिणा कार्या सव्रता सर्वमानवैः ।
माघे तु पूजनं दानं सव्रतं रैवताचले ॥९७॥
कर्तव्यं तेन पृथ्व्याश्च प्रक्रमणं कृतं भवेत् ।
त्रयस्त्रिंशत्प्रकोटीनां देवानां पूजनं भवेत् ॥९८॥
वन्ध्यौ मासौ न नेतव्यौ ऊर्जमाघौ मुमुक्षुभिः ।
वन्ध्यत्वे सर्ववन्ध्यत्वं बोध्यं मानवजन्मनः ॥९९॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने लुब्धकस्य हरिहरदर्शनोत्तरमिन्द्रेश्वरविष्णुप्रतिष्ठानं गजपदं धनेश्वरत्रिशूलिनीयमेश्वरचित्रगुप्तेश्वरनृसिंहतीर्थानि च वामनद्वादशीशिवरात्र्योर्व्रतमहिमा चेत्यादिनिरूपणनामा त्रिपंचाशदधिकशततमोऽध्यायः ॥१५३॥
N/A
References : N/A
Last Updated : March 27, 2021
TOP