संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २८०

कृतयुगसन्तानः - अध्यायः २८०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथ लक्ष्मि! प्रवक्ष्यामि पूर्णिमाया व्रतानि ते ।
यानि कृत्वा नरो नारी प्राप्नुयात् पुण्यसम्पदः ॥१॥
चैत्रकृष्णाऽमावास्या तु मन्वादिस्तिथिरस्ति हि ।
अस्यां सान्नोदकं कुंभं प्रदद्यात् सोमतुष्टये ॥२॥
कुर्याच्छ्राद्धं यथोद्दिष्टं पितॄणां तृप्तिहेतवे ।
चैत्र्यां धवलपूर्णायां हनुमत्तिथिरुच्यते ॥३॥
पूजनं तैलसिन्दूरैर्वटकादिभिरुत्तमम् ।
कर्तव्यं त्वत्र वैशाखस्नानारंभोऽपि सम्मतः ॥४॥
वैशाखाऽमातिथौ श्राद्धं कर्तव्यं पितृतृप्तिकृत् ।
वैशाखशुक्लपूर्णायां कूर्मजयन्तिकाव्रतम् ॥५॥
कर्तव्यं विधिना तत्र द्विभुजं नरमस्तकम् ।
कट्यधः कूर्मरूपं च सौवर्णं पूजयेत् प्रभुम् ॥६॥
भोजयेद् दुग्धसारं च चाणकोद्भूतमोदकान् ।
नीराजयेद् विसर्जयेद् दद्याद्दानानि च व्रती ॥७॥
एवंव्रतकृतो वासो वैकुण्ठे भवति ध्रुवः ।
धर्मराजव्रतं त्वत्र कर्तव्यं धर्मतुष्टये ॥८॥
शृतान्नमुदकुंभं च ददेद्गां गुरवे व्रती ।
धर्मराजं पूजयेच्च भोजयेच्च विसर्जयेत् ॥९॥
शुभं कृष्णाजिनं दद्यात् सखुरं च सशृंगकम् ।
सतिलवस्त्रं संदद्यात् कुंभान् स्वच्छजलान्वितान ॥१०॥
फलानि च हिरण्यं च दाने दद्याद् व्रती जनः ।
मोदते सत्यलोकेऽयं यावच्चन्द्रार्कतारकम् ॥११॥
अन्ते वैकुण्ठमाप्नोति शाश्वतं सुखमश्नुते ।
ज्येष्ठामा भावुका प्रोक्ता श्रीहरिं भावयेत्तदा ॥१२॥
पूजयेत्सर्वथा रात्रौ भोजयेच्च विसर्जयेत् ।
ज्येष्ठपूर्णातिथौ कार्यं वटसावित्रिकं व्रतम् ॥१३॥
सोपवासा वटं सिञ्चेत् सलिलैरमृतोपमैः ।
सूत्रेण वेष्टयेच्चैव सशताऽष्टप्रदक्षिणम् ॥१४॥
पिप्पलं वा वेष्टयेच्च सावित्रीं प्रार्थयेद् व्रती ।
जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते ॥१५॥
पत्या सहाऽवियोगं मे वटस्थे कुरुते नमः ।
इति संप्रार्थ्य सावित्रीं भोजयित्वा सुवासिनीः ॥१६॥
स्वयं भुञ्ज्याद् व्रतकर्त्री सा स्यात् सौभाग्यभागिनी ।
अत्र बिल्वत्रिरात्राख्यं व्रतं कर्तव्यमादरात्॥! १७॥
बिल्वपत्रैः शंभुरर्च्यो बिल्वं भक्ष्यं व्रतार्थिना ।
बिल्वस्नानं प्रकर्तव्यं बिल्वद्रुः पूज्य इत्यपि ॥१८॥
बिल्वाधःशयनं कार्यं बिल्वदानं तथा मतम् ।
एवं कृत्वा त्रिरात्रं वै कैलासं प्राप्नुयाद् व्रती ॥१९॥
मन्वादितिथिरेषास्ति मनुः पूज्यो विधानतः ।
देयं दानं तथा भोज्याः सन्तः साध्व्यः सुपुण्यदाः ॥२०॥
ज्येष्ठाभिषेकसंस्नानयात्रा कार्याऽत्र वै दिने ।
तत्राऽभिषेकविधिना स्नपनीयो रमापतिः ॥२१॥
जलैरुज्ज्वलपात्रस्थैर्निर्मलैश्च सचन्दनैः ।
शंखेन स्नपयेत् कृष्णं मन्त्रैर्वेदानुसारिभिः ॥२२॥
ततः पीताम्बराण्यत्र धारयेच्छ्रीपतिं प्रभुम् ।
उष्णीषं पाटलं चैव भूषाश्च विविधा अपि ॥२३॥
भक्तं सूपं पोलिकाश्च वटिकां क्वथिकां तथा ।
व्यञ्जनानि च नैवेद्ये मिष्टपेयान्युपाहरेत् ॥२४॥
जलक्रीडनपद्यानि श्रोहरेस्त्वत्र गापयेत् ।
विसर्जयद्धरिं पश्चाद् भुञ्जीत व्रतकृज्जनः ॥२५॥
हरिप्रसादजं सौख्यं शाश्वतं तेन चाप्यते ।
अषाढाऽमातिथौ श्राद्धं कर्तव्यं पितृतारकम् ॥२६॥
अषाढस्य तु पूर्णायां गुरोर्व्यासस्य पूजनम् ।
षोडशोपसुवस्त्वाद्यैः कर्तव्यं वै यथा हरेः ॥२७॥
चन्दनाऽक्षततुलसीस्रक्फलाम्बरकुंकुमैः ।
भूषाभोज्यसुमिष्टान्नोत्तमाच्छादनवारिभिः ॥२८॥
द्रव्यैः सुवर्णरूप्यादिक्षेत्रैर्द्रव्यादिभिस्तथा ।
गुरुं कृष्णं तथाऽऽचार्यं गुर्वीं चाऽभ्यर्चयेद् व्रती ॥२९॥
गुरोः पादांगुष्ठजलं पिबेत् स्वाद्यविशुद्धये ।
गुरुर्हरिः स्वयं प्रोक्तः स्वमोक्षार्थं प्रसेवयेत् ॥३०॥
गुरोः प्रसन्नताप्राप्तं ज्ञानं वा सेवनं व्रतम् ।
मोक्षदं सुखदं पुण्यप्रदं भुक्तिविमुक्तिदम् ॥३१॥
अषाढस्यात्र पूर्णायां गोपद्मव्रतमुत्तमम् ।
चतुर्भुजं शंखचक्रगदा पद्मविराजितम् ॥३२॥
प्रसन्नास्यं कंजनेत्रं रमागरुडशोभितम् ।
स्वर्णवर्णं सुरूपं च सौवर्णं भूषणान्वितम् ॥३३॥
सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नेरैः ।
एवंविधं हरिं स्नापयित्वा पञ्चामृतैर्जलैः ॥३४॥
स्नातो व्रती पूजयेत् संवदन् पुरुषसूक्तकम् ।
विभूषयेदर्चयेच्च नीराजयेच्च भोजयेत् ॥३५॥
नमेत् क्षमापयेच्चापि व्रती विसर्जयेत्ततः ।
आचार्यं वा गुरुं साधुं भोजयेत्तोषयेन्मुहुः ॥३६॥
दद्याद् दानं च भुञ्जीत प्रसादात् कमलापतेः ।
ऐहिकाऽऽमुष्मिकान् कामान् लभते शाश्वतान् व्रती ॥३७॥
कोकिलाव्रतमत्रैव कर्तव्यं भूतिमिच्छता ।
श्रावणपूर्णिमान्तं तद् व्रते स्नायाद् बहिर्जले ॥३८॥
गौरीरूपां कोकिलां वै नित्यं प्रपूजयेद् व्रती ।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ॥३९॥
कस्तूरीवर्णशोभाढ्यां नन्दनाऽरण्यवासिनीम् ।
चूतचम्पकवृक्षस्थां कलगीतनिनादिनीम् ॥४०॥
चिन्तयेत् पार्वतीं देवीं कोकिलारूपधारिणीम् ।
गन्धाद्यैः पूजयेन्नित्यं नीराजयेच्च भोजयेत् ॥४१॥
मासान्ते कानकीं तिलपिष्टजां प्रार्थयेत्तदा ।
कृष्णे चैत्ररथोत्पन्ने कोकिले हरवल्लभे ॥४२॥
हररूपाय विप्राय दत्ता मे सुखदा भव ।
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ॥४३॥
वस्त्रादिदक्षिणां दत्वा नत्वा देवीं विसर्जयेत् ।
नारी व्रतविधानेन कोकिलागौर्यनुग्रहात् ॥४४॥
भुक्तिं स्वर्गं महानन्दं कैलासं दम्पतीसुखम् ।
सौभाग्यं सप्तजन्माढ्यं लभेत्त्वन्ते प्रमोक्षणम् ॥४५॥
मन्वादितिथिरेषापि चातुर्मास्यप्रवर्तनम् ।
शंभोः शयनजश्चात्रोत्सवः कार्यो विधानतः ॥४६॥
कार्यः समुद्रः सजलः शय्या तत्र यथोचिता ।
हरिर्हरश्च वा तत्र शयनीयः सुसेविना ॥४७॥
भोजनीयोऽर्चनीयश्च प्रार्थनीयोऽपि भावतः ।
चातुर्मास्यस्य नियमा ग्राह्याश्च व्रतिना व्रते ॥४८॥
एवं वै पूजनं कृत्वा व्रतं च नियमग्रहम् ।
भुक्तिं मुक्तिं फलं दिव्यं लभते नात्र संशयः ॥४९॥
श्रावणाऽमातिथौ कार्या दीपपूजा यथाविधि!
पुष्पचन्दनतन्दुलशर्कराफलवारिभिः ॥५०॥
चक्षुस्तेजःप्रदो दीपः सदा सौभाग्यदो भवेत् ।
दीपदानं तु देवाय कर्तव्यं स्वर्गदं हि तत् ॥५१॥
श्राद्धं चात्र प्रकर्तव्यं पितॄणां दिव्यतृप्तिकृत् ।
नववृक्षारोपणं च कर्तव्यं त्वतिभावतः ॥५२॥
हरितां पृथिवीं कुर्वन् स्वर्गं हरितमाप्नुयात् ।
यानवाहनदास्यादिसेवितं शाश्वतं व्रती ॥५३॥
अथ श्रावणपूर्णायां नारिकेलफलं व्रती ।
पूजयेद् भक्षयेच्चापि दद्याद् दाने च भावतः ॥५५८॥
नारिकेलत्रिनेत्रेषु हरिब्रह्महरास्त्रयः ।
वसन्ति पूजनीयास्ते नारिकेलफलेऽत्र वै ॥५५॥
त्वम् ब्रह्मा कुपरो विष्णुर्जलं शंभुस्त्रयस्तु ते ।
सत्त्वं विष्णुस्त्वन्तरस्थस्त्रिनेत्रो मध्यकुर्चुलः ॥५६॥
त्वज्जटात्मा बहिर्ब्रह्मा त्रिदेवात्मा हरिः स वै ।
तस्य वै पूजया भुक्तिं मुक्तिं लभेत शाश्वतीम् ॥५७॥
अत्र श्रावणपूर्णायां वेदोपाकरणं व्रतम् ।
यजुर्भिस्तत्र कर्तव्यं देवर्षिपितृतर्पणम् ॥५८॥
ऋषीणां पूजनं कार्यं स्वस्वशाखाविधानवत् ।
बह्वृचैस्तु चतुर्दश्यां कर्तव्यं तद्धि तर्पणम् ॥५९॥
सामगैर्भाद्रमासे तु कर्तव्यं तद्धि तर्पणम् ।
तृतीयायां द्वितीयायां शुक्ले हस्तर्क्षकालिके ॥६०॥
होमः कार्यस्तथा वर्ष्मशुद्धिः कार्या विधानतः ।
जलेन दर्भमिश्रेण तर्पणं पूजनं तथा ॥६१॥
कारयित्वोपवीतं च धारयेन्नूतनं शुभम् ।
भोजयेत्सर्वमिष्टान्नैः साधून् विप्रान् गुरून् सतीः ॥६२॥
तेभ्यो दद्याद् दक्षिणां तु सुवर्णरजतात्मिकाम् ।
स्वयं भुञ्जीत बन्ध्वाद्यैर्व्रती सुखमवाप्नुयात् ॥६३॥
तथा रक्षाविधानं च कर्तव्यं विधिनात्र वै ।
राजिका रक्तवस्त्राणि चाक्षतान् शर्करान्वितान् ॥६४॥
कौसुंभतन्तुना बध्वा प्रक्षाल्य सलिलैस्तथा ।
धृत्वा कांस्येऽथ संपूज्य गन्धाद्यैर्विष्णुमुख्यकान् ॥६४१॥
बध्नीयाद् ब्राह्मणद्वारा मुदितः स्वप्रकोष्ठके ।
द्विजाय दक्षिणां दद्याद् रक्षां करोति सूत्रकम् ॥६६॥
अत्रैव तु तिथौ पूर्वं हयग्रीवो महाप्रभुः ।
हिरण्याक्षविनाशाय वेदानां रक्षणाय च ॥६७॥
समजज्ञे ततस्तस्य कर्तव्यं व्रतमादरात् ।
सुखं हयस्वरूपस्य शुभं वर्ष्म नराकृति ॥६८॥
विधाय कानकं पूज्यं षोडशोपसुवस्तुभिः ।
भोजयेच्च व्रती नीराजयेदथ विसर्जयेत् ॥६९॥
एवं व्रतकृतश्चात्र परस्मिन् जायते सुखम् ।
अत्रैव च दिने कुर्याद् रुद्रपवित्रकार्पणम् ॥७०॥
विविधैस्तु पवित्रैर्वै पूजयेच्च शिवां शिवम् ।
कोकिलाव्रतपूर्णत्वं कुर्यात्त्वत्र दिने व्रती ॥७१॥
भाद्राऽमायां पितृश्राद्धं प्रकुर्यात् तर्पणादिकम् ।
कुशानाहारयेत् क्षेत्राच्छस्त्राऽछिन्नान् समूलकान् ॥७२॥
प्रौष्ठपद्यां पौर्णमास्यामुमामहेश्वरव्रतम् ।
स्नात्वा रुद्राक्षभस्मादि धृत्वा शंभुं प्रपूजयेत् ॥७३॥
बिल्वपत्रैः सुगन्धाढ्यैर्नैवेद्यैर्धूपदीपकैः ।
भोजयेच्च नमेन्नीराजयेत्प्रस्वापयेत्ततः ॥७४॥
रात्रौ जागरणं कुर्यात्पुनः प्रातः प्रपूजयेत् ।
भोजयेत् प्रार्थयेच्चापि व्रती पश्चाद् विसर्जयेत् ॥७५॥
पारणां च स्वयं कुर्यात् कैलासं प्राप्नुयाद् व्रती ।
एवं पञ्चदशाऽब्दान्तं कृत्वा तूद्यापनं चरेत् ॥७६॥
उमायाश्च महेशस्य सौवर्णीं प्रतिमां शुभाम् ।
पञ्चदशघटेष्वन्तर्घटे संपूजिता च ताम् ॥७७॥
वस्त्राभूषणपुष्पाद्यैर्मिष्टान्नैश्च जलैः शुभैः ।
सहितां घटसम्पन्नां प्रतिमां गुरवेऽर्पयेत् ॥७८॥
एवं कृत्वा व्रतं त्वत्र निधानं सर्वसम्पदाम् ।
भवत्येव व्रती भुक्तिमुक्तिसम्पत्तिभाजनम् ॥७९॥
अथात्रैव दिने शक्रव्रतं कर्तव्यमादरात् ।
गन्धाद्यैरुपचारैश्च नैवेद्यैः पूजयेद्धरिम् ॥८०॥
शक्रं समर्प्य सौवर्णं गुरवे त्वन्यभूसुरान् ।
भोजयेद दक्षिणादानं कुर्याद्वै धनवान्नृपः ॥८१॥
धनधान्येच्छुना कार्यमेतत्तु प्रतिवार्षिकम् ।
आश्विनाऽमादिने कार्यं सर्वपितृप्रतर्पणम् ॥८२॥
श्राद्धं कार्यं पिण्डदानं भोजनं जलसेचनम् ।
विविधान्नानि देयानि दुग्धसाराणि चापि वै ॥८३॥
विप्राश्च साधवो भोज्याः सत्यः साध्व्यश्च बालिकाः ।
तर्पणीयास्तृणैर्गावस्तथा वृक्षा जलादिभिः ॥८४॥
हरिकृष्णस्तर्पणीयो नैवेद्यफलसज्जलैः ।
कृष्णनारायणो लक्ष्मीस्तर्पणीयावुभावपि ॥८५॥
एवं कृत्वा महाश्राद्धं पितरश्च पितामहाः ।
तत्तत्पित्रादयः सर्वे मातरश्चापि वंशजाः ॥८६॥
शाश्वतीं यान्ति वै तृप्तिं त्वन्ते ब्रह्मपदानुगाः ।
मोक्षस्थितिं प्रयास्यन्ति तस्माच्छ्राद्धं परं व्रतम् ॥८७॥
आश्विने मासि पूर्णायां रासलीलोत्सवो मतः ।
पूर्णचन्द्रोदये रात्रौ रासलीलां चकार सः ॥८८॥
भगवान् राधया साकं गोपीभिश्च समं चिरम् ।
गोपीराधाकृष्णमूर्तीः सौवर्णीश्चातिशोभयेत् ॥८९॥
कौसुम्भं धारयेद् वासं उत्तरीयं च चेल्लकम् ।
कञ्चुकीं पीतवर्णां च भाले कुंकुमपत्रिकाम् ॥९०॥
पीताम्बरं तु कृष्णं चाऽनर्घ्यं संधारयेद् व्रती ।
नानारत्नविचित्रं च मुकुटं कुण्डले तथा ॥९१॥
करे तु मुरलीं स्वर्णां धारयेद् रत्नकाऽञ्चिताम् ।
नैवेद्ये पर्पिका देया पिण्डकाः पायसादिकम् ॥९२॥
सुगन्धिपुष्पतैलेन स्थलपद्मोदकेन च ।
वासांसि मन्दिरं चापि वासयेद् राधिकापतेः ॥९३॥
चन्द्रशालाऽऽसने न्यस्य पूजयेन्निशि माधवम् ।
गीतवादित्रनृत्यैश्च तोषयेद्वै रमापतिम् ॥९४॥
नवीनशालिपृथुकान् शर्करादुग्धमिश्रितान् ।
तस्मै निवेदयेद् रासलीलापद्यानि गापयेत् ॥९५॥
शरद्व्रतं तदारभ्य कर्तव्यं भूतिमिच्छता ।
कार्तिकस्नानमस्माद्धि दिनात्समारभेत वै ॥९६॥
अत्राश्विने तु पूर्णायां व्रतं कोजागराभिधम् ।
सोपवासं प्रकर्तव्यं त्वेकभुक्तं च वा चरेत् ॥९७॥
प्रातर्लक्ष्मीं पूजयेच्च विविधैरुपचारकैः ।
शृंगारयेद् भोजयेच्च मध्याहेऽपि प्रपूजयेत् ॥९८॥
चन्द्रस्य दर्शने सायं लक्ष्मीमूर्तिं तु कानकीम् ।
ताम्रजे मृन्मये वापि घटे पात्रे निधाय च ॥९९॥
घटदीपान् सहस्रं वा शतं लक्षं प्रकाशयेत् ।
पूरिकाः पायसान्नं च महालक्ष्म्यै निवेदयेत् ॥१००॥
जागरं नृत्यगीतैश्च कुर्यात् प्रातः प्रपूज्य ताम् ।
अर्पयेद् गुरवे मूर्तिं व्रतं समापयेद् व्रती ॥१०१॥
अत्र रात्रौ महालक्ष्मीर्वराऽभयकराम्बुजा ।
यातीक्षितुं मदर्थं को जागर्तीति सुभुक्तिमान् ॥१०२॥
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ।
प्रतिवर्षं कृतेनात्र स्मृद्धः स्याद् याति वैष्णवम् ॥१०३॥
कार्तिकाऽमातिथौ लक्ष्मीपूजा कार्या विशेषतः ।
लक्ष्मीश्चतुर्भुजा कार्या पद्मसिंहासनस्थिता ॥१०४॥
दक्षकरे च कमलं वामेऽमृतघटस्तथा ।
अधोऽन्यभुजयोः कार्यौ बिल्वशंखौ सुशोभनौ ॥१०५॥
तत्पार्श्वयोर्गजौ कार्यौ धृतकुंभकरावुभौ ।
तस्यास्तु मस्तके पद्मं कर्तव्यं सुमनोहरम् ॥१०६॥
मण्डपे निर्मिते रम्ये कदलीस्तभतोरणैः ।
पूजयेत् सर्वतोभद्रे लक्ष्मीसूक्तेन तां व्रती ॥१०७॥
अलकाराँश्च वासांसि महान्त्येवाऽर्पयेच्छ्रियै ।
भालेऽस्याश्चन्द्रकं कुर्यात् कुंकुमाक्षतशोभनम् ॥१०८॥
सुगन्धपुष्पहारैश्च सौवर्णैः सर्वभूषणैः ।
कमलैः पूजयेद् रत्नैर्धूपदीपद्रवादिभिः ॥१०९॥
परितः कारयेच्छक्त्या दीपानामावलीस्तथा ।
नैवेद्ये शष्कुलीर्दद्याच्छतच्छिद्राणि फेणिकाः ॥११०॥
घृतपूराँश्च रेवालीः पीतसाराणि पूरिकाः ।
पर्पिकाः पिण्डकाँश्चापि शाकराँश्चणकादिकान् ॥१११॥
ओदनादीनि भोज्यानि शाकान्यस्यै निवेदयेत् ।
ताम्बूलवीटिकां दत्वा कुर्यान्नीराजनं महत् ॥११२॥
लक्ष्मीपूजनपद्यानि गापयेत्तु व्रती ततः ।
दीपान् प्रपूजयेत् सर्वस्थलीर्दीपैः प्रकाशयेत् ॥११३॥
शारदापूजनं कुर्यादायव्ययादिचर्पटे ।
शारदायास्तु सौवर्णीं मूर्तिं वा कारयेद् व्रती ॥११४॥
नागवल्लीदलपूगीफलैलाशर्करात्वचः ।
फलान्यक्षतकुंकुमगूडधानादिकानि च ॥११५॥
धूपदीपसुनैवेद्यैर्मषीलेखनिकादिभिः ।
पूजयेच्छारदां मन्त्रैर्नीराजयेद् विसर्जयेत् ॥११६॥
एवं व्रतकृतो लक्ष्मीः शारदा च स्थिरा सदा ।
सर्वसम्पत्करी स्याद्वै दानभोजनकामदाः ॥११७॥
अत्रैवाऽभ्यंगसंस्नानं तैलाद्यैर्मर्दनेन वै ।
कर्तव्यं व्रतिना येन दारिद्र्यं नश्यति ध्रुवम् ॥११८॥
कार्तिकशुक्लपूर्णायां देवदीपोत्सवो मतः ।
दीपान्प्रज्वालयेत्तीर्थे मन्दिरे भवनादिषु ॥११९॥
लक्ष्मीकान्तं प्रभाकन्तं धारयेन्मुकुटादिकम् ।
संयावपूरिकाभक्तक्वथिकासूपसूरणान् ॥१२०॥
वृन्ताकादिकशाकानि श्रीकृष्णाय निवेदयेत् ।
विसर्जयेच्च विधिवत् स्वर्गं मोक्षं व्रजेद् व्रती ॥१२१॥
त्रिपुरी पूर्णिमा चेयं त्रिपुरारिं प्रपूजयेत् ।
भोजयेद् विविधान्नानि विसर्जयेत् सुखी व्रती ॥१२२॥
चातुर्मास्यसमाप्तिश्च कर्तव्या सोत्सवा जनैः ।
मन्तव्या चापि मन्वादितिथिः प्रपूजयेन्मनुम् ॥१२३॥
भक्तिदेवीजयन्ती च पालनीयात्र सर्वथा ।
भक्तेर्विधूदये कार्या पूजा सम्यग्विधानतः ॥१२४॥
भोजयेत्समलंकुर्याच्छ्रांगारिकविभूषणैः ।
नीराजयेद् व्रती विसर्जयेत् स्याद्धामवासकृत् ॥१२५।
कार्तिक्यां पूर्णिमायां तु कुर्यात् स्कन्दस्य दर्शनम् ।
उत्सवस्तत्र कर्तव्यः सर्वशत्रुजयाय वै ॥१२६॥
अत्रैव दीपदानेन कर्तव्यस्त्रिपुरोत्सवः ।
कीटाः पतंगा मशका वृक्षा वल्ल्यश्च जन्मिनः ॥१२७॥
दीपदर्शनमात्रेण यान्ति वै परमां गतिम् ।
कृत्तिकाः षट् कार्तिकेयः खड्गी वह्निर्जलाधिपः ॥१२८॥
गन्धपुष्पफलैर्धूपदीपनैवेद्यपानकैः ।
पूजनीयाः प्रदेयाश्च दीपा बाह्ये गृहात्स्थले ॥१२९॥
दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः ।
चतुर्दशांगुलः कार्यः सेच्यश्चन्दनवारिभिः ॥१३०॥
गवां क्षीरेण संपूर्य मत्स्यं हैमं क्षिपेत्ततः ।
नमस्कृत्य च गन्धाद्यैः सम्पूज्य ब्राह्मणाय वै ॥१३१॥
अर्पयेद् विधिना तेन मोदते हरिसन्निधौ ।
क्षीरसागरदानं वै ह्येतदेव प्रकीर्तितम् ॥१३२॥
अत्र तिथौ वृषोत्सर्गे कृत्वा कैलासमाप्नुयात् ।
मार्गशीर्षामादिने तु श्राद्धं कुर्याच्च तर्पणम् ॥१३३॥
तृप्ताश्च पितरो यान्ति परं भागवतं पदम् ।
मार्गशीर्ष्यां पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ॥१३४॥
दाने देयं त्वनाथाय सर्वकामसमृद्धये ।
पौषस्य पूर्णिमायां तु स्नायात् सर्वौषधिजलैः ॥१३५॥
इदं जगत् पुरा लक्ष्मि! त्वयाऽऽसीत् त्यक्तमेव ह ।
पुनर्लक्ष्मीविधानार्थं विष्णुरिन्द्रो बृहस्पतिः ॥१३६॥
शुक्रः सोमश्च संभूय चक्रुः पुष्ये प्रयत्नकम् ।
अलंकृतं पुनश्चक्रुः सौभाग्योत्सवकेलिभिः ॥१३७॥
स्वस्वगुणप्रतापैश्च सर्वसौभाग्यवृद्धये ।
अतो व्रती तथा कुर्यात् पूजयेत् तान् यथाविधि ॥१३८॥
गौरसर्षपकल्केन तूपमृद्य तनुं स्वकाम् ।
सर्वौषधिजलैः स्नायाद् धारयेच्च नवाऽम्बरे ॥१३९॥
दृष्ट्वा तु मंगलं द्रव्यं नत्वा स्पृष्ट्वा ततो व्रती ।
हरिशक्रेन्दुपुष्येज्यान् पूजयेदुपचारकैः ॥१४०॥
कृत्वा होमं भोजयेच्च ग्रहान् बालान् सुपायसैः ।
देवान् विसर्जयेत् पश्चाद् व्रती भुंजीत पारणाम् ॥१४१॥
अलक्ष्मीनाशनं लक्ष्मीप्रदं वै मोक्षदं व्रतम् ।
पूर्णिमायां तथा चात्र रैवताद्रौ पुराऽभवत् ॥१४२॥
अम्बाजन्म ततो गौर्याः पूजनं तत्र कारयेत् ।
माघस्नानसमारंभश्चास्माद् दिनाद् भवत्यपि ॥१४३॥
अत्रैव होलिकादण्डारोपणं कार्यमित्यपि ।
रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम् ॥१४४॥
दत्वा प्रमोदते स्वर्गे तिलान् कार्पासकम्बलान् ।
समर्च्य शंकरं चात्र वाजिमेधफलं व्रजेत् ॥१४५॥
फाल्गुनाऽमातिथौ दुग्धव्रतारंभो भवत्यपि ।
बोध्यैषा द्वापरयुगाद्या तिथिर्मंगलावहा ॥१४६॥
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ।
काष्ठादिसंचये वह्निं हुत्वा रक्षोघ्नमन्त्रकैः ॥१४७॥
असृक्याभयसन्त्रस्तैः कृता त्वं होलि बालिशैः ।
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव ॥१४८॥
इतिमन्त्रेण सन्दीप्य परिक्रम्य नयेद् व्रती ।
होलिकां राक्षसीं चेमां प्रह्लादभयदायिनीम् ॥१४९॥
ज्वालयन्ति जना यद्वत् प्रह्लादेन सुभस्मिता ।
संवत्सरस्य दाहोऽयं पापानामिति होलिका ॥१५०॥
शंकरेण कृतः कामदाहोऽयं होलिका मता ।
कल्पभेदेन दाहस्य भिद्यते तु कथानकम् ॥१५१॥
दोलोत्सवस्तथा चात्र पूर्णायां वोत्तरेऽहनि ।
उत्तराफाल्गुनीनक्षत्रयोगे रैवताचले ॥१५२॥
दोलामारोप्य कृष्णं चार्जुनं धर्माश्रये पुरा ।
आन्दोलयामासुरत्र देवाः कार्यः स उत्सवः ॥१५३॥
प्रातः पूजां प्रकुर्वीत नरनारायणप्रभोः ।
उपचारैः षोडशभिर्महानीराजनेन च ॥१५४॥
वस्त्रचन्दनपुष्पाद्यैस्तुलसीपत्रभूषणैः ।
पायसैः पूरिकाभिश्च बदरादिफलैरपि ॥१५५॥
वासन्तिकैश्च पुष्पाद्यैस्तथा रंगगुलालकैः ।
पूजयेद्भोजयेच्चापि नीराजयेच्च रंजयेत् ॥१५६॥
क्रीडां च कारयेद् यन्त्रैस्ततः प्रस्वापयेत् प्रभुम् ।
भक्तान् बालान् भोजयित्वा व्रती भुञ्जीत वै ततः ॥१५७॥
एवमभ्यंगकस्नानमाम्रकुसुमप्राशनम् ।
वसन्तोत्सवरमणं धूलिवन्दनमित्यपि ॥१५८॥
मन्वाद्यतिथिकं कुर्याद् व्रतं विस्तरतो व्रती ।
नरनारायणं प्रातः प्रबोध्य पूजयेद् व्रती ॥१५९॥
बहूनि दद्याद् दानानि व्रतं चापि समापयेत् ।
दाराः पुत्रान् धनं धान्यं स्वर्गं यायाच्च मोक्षणम् ॥१६०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकपूर्णिमाऽमावास्याव्रतेषु श्राद्धाऽभावास्यामन्वादितिथि-
हनुमज्जयन्तीवैशाखस्नानारंभकूर्मजयन्तीधर्मराजव्रतभावुकामा-वटसावित्रीबिल्वत्रिरात्रव्रतज्येष्ठाभिषेकयात्रागुरुव्यासपूजागोपद्म-
कोकिलाव्रतचातुर्मास्यनियमशिवशयनदीपपूजानारिकेलपूर्णिमा-ऋग्यजुःश्रावणीसामगश्रावणीरक्षाबन्धनहयग्रीवजयन्तीशिवपवित्रा-
रोपणकुशग्रहणप्रौष्ठपद्युमामहेशव्रतशक्रव्रतसर्वपितृश्राद्धामारासलीलाकार्तिकस्नानशरद्व्रतकोजागरव्रतलक्ष्मीपूजादीपोत्सव-
शारदापूजाऽभ्यंगस्नानदेवदीपोत्सवत्रिपुरीपूर्णिमा-भक्तिजयन्तीस्कददर्शनमाघस्नानाऽम्बाजयन्ती-
होलिदण्डारोपणद्वापरादितिथिपयोव्रतदोलो-त्सववसन्तोत्सवाम्रकुसुमप्राशनधूलिवन्दना-दिनिरूपणनामाऽशीत्यधिकद्विशत-
तमोऽध्यायः ॥२८०॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP