संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १७४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १७४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७४ Translation - भाषांतर श्रीनारायाण उवाच-शृणु लक्ष्मि सुतास्नेहात् स्वयं दक्षप्रजापतिः ।सुतासंभावनार्थं वै समायाच्छंकरगृहम् ॥१॥समायान्तं महादेवो दक्षं दृष्ट्वा यथोचिताम् ।दक्षाय प्रददौ पूजां सत्कारं च यथोचितम् ॥२॥दक्षस्तु मानवान् शंभुर्मानहीनो मुनीश्वरः ।द्वयोस्तु मीलने दक्ष इयेषाधिकसत्कृतम् ॥३॥शंभुना मुनितुल्यं वै सम्मानं तस्य संकृतम् ।किन्तु चोत्थायाऽभियानं तत्र नाचरितं तदा ॥४॥तत्र हेतुर्महानासीच्छृणु लक्ष्मि! हितावहम् ।तपसा चाथ धर्मेण योगेन श्रेष्ठतां गतः ॥५॥स्वापेक्षयाऽपकृष्टस्याऽऽगमे नोत्थानमाचरेत् ।श्रेष्ठे समुत्थितेऽल्पस्य सर्वपुण्यक्षयो भवेत् ॥६॥विचार्येत्थं हरस्तत्र दक्षं प्रति न चोत्थितः ।किन्तु दक्षस्तमोभावं प्राप्य चुकोप चान्तरे ॥७॥बालोऽयं शंकर इति मत्वा नोवाच किंचन ।एवमेव प्रकुपितो गृहं जगाम मौनतः ॥८॥अथ सतीं गृहं प्राप्तां दक्षः प्राह सुदुर्मनाः ।अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः ॥९॥सर्वे ह्युत्थाय सम्मानं कुर्वन्ति मम चादरात् ।शंभुरुत्थाय सम्मानं न करोति सुते मम ॥१०॥अव्यावहारिकः शंभुर्बालिशः प्रतिभाति मे ।अस्तु शोकं न वै कुर्वे बाले का नाम धर्षणा ॥११॥इत्युक्त्वा स्वीयपुत्र्याः सः सम्मानं विदधे बहु ।सती सत्कारमादाय कैलासे स्वगृहं गता ॥१२॥प्रोक्तवती शंभवे तत्तदा वै शंभुना प्रिया ।बोधिता स्पष्टरूपेण मा नश्येद् दक्षसुकृतम् ॥१३॥सती ज्ञात्वा च तद्धार्दं किंचिन्नोवाच तत्र वै ।पितुर्लाभाय शर्वेण कृते तत्सुखदं मतम् ॥१४॥अथापि शंभुना शप्तं दक्षो ह्याङ्गिरसो द्विजः ।सम्मानं चेच्छति मत्तोऽधिकं चाऽघटितं बहु ॥१५॥तस्मात्स क्षत्रियां योनिं यातु प्राचैतसां गृहे ।प्राचेतसः क्षत्रियः स भवतु यत्र नेषणा ॥१६॥सम्मानस्याऽधिका मत्सदृशाद्भवेत् कदाचन ।इति शंभोः क्षुद्रशापोऽभवद् दक्षप्रजापतेः ॥१७॥नारदस्यापि शापोऽभूत् पुनर्जन्मग्रहे यतः ।दक्षो द्वितीयं जन्मेदं प्राचेतसां गृहेऽलभत् ॥१८॥तथापि पूर्वसंस्कारो वर्तते दक्षमानसे ।प्राग्भवीयजनकोऽहं सत्या अस्मीति मानयन् ॥१९॥वर्तते सर्वथा मानी संस्कारो नैव नश्यति ।जन्मान्तरे च कः कस्य श्वशुरो जननी पिता ॥२०॥शंभुनैव गणयते भवेऽत्र श्वशुरं निजम् ।लोकपालं गणयति क्षत्रियं बहुमानिनम् ॥२१॥अथापि सत्याः शंभोश्च जातिस्मरस्तु वर्तते ।दक्षः पूर्वः एवाऽयं सतापिता पुनर्भवः ॥२२॥तथापि चात्र किं मेऽस्ति गतं पूर्वभवेऽखिलम् ।इति मत्वा न वै शंभुर्मनुते श्वशुरं निजम् ॥२३॥अथैकदा पुनस्तादृक् प्रसंगः समभूत् प्रिये ।शंभुः स्वयं स्वकैलासे नगरायाऽविचारयत् ॥२४॥विश्वकर्माणमाहूय पुरो रम्यं सुस्मृद्धिमत् ।स्वीयसुरभिशालायां कारयामास सुन्दरम् ॥२५॥भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ।तत्र छत्रं महादिव्यं सर्वथाऽद्भुतमुत्तमम् ॥२६॥तद्वास्तुकरणार्थं वै चकार सुमहोत्सवम् ।शक्रादीनाजुहावाऽशु समस्तान् देवतागणान् ॥२७॥सिद्धगन्धर्वनागादीनुपदेष्टृँश्च कृत्स्नशः ।देवान्मुनीनागमाँश्च विधिं शिष्यैः ऋषीनपि ॥२८॥देवीः सर्वा अप्सरोभिर्नानावस्तुभिरन्विताः ।देवानां च तथर्षीणां सिद्धानां फणिनामपि ॥२९॥आनयन्मंगलहस्ताः कन्याः षोडश षोडश ।वीणामृदंगप्रमुखवाद्यान्नानाविधाँस्तथा ॥३०॥उत्सवं कारयामास वादयित्वा सुगायनैः ।राज्याभिषेकयोग्यानि द्रव्याणि सकलौषधैः ॥३१॥प्रत्यक्षतीर्थपाथोभिः पंचकुभाँश्च पूरितान् ।तथाऽन्याः संविधा दिव्या आनयत् स्वगणैस्तदा ॥३२॥ब्रह्मघोषं महारावं चक्रुस्तत्र तु भूसुराः ।हरो हरिं सन्मुहूर्ते नूत्ने सिहासने वरे ॥३३॥उपावेश्य बहुप्रीत्या भूषयामास सर्वशः ।आबद्ध्य रम्यमुकुटं कृतकौतुकमंगलम् ॥३४॥विष्णुं तुष्टाव तं शंभुः स्वतन्त्रं भक्तवत्सलम् ।अन्यं सर्वं समाजं च नमस्कृत्य हरः स्थितः ॥३५॥दक्षोऽत्र मानवानायात् प्रजापतिभिरन्वितः ।शंभुना सत्कृताः सर्वे दक्षोऽपि सह सत्कृतः ॥३६॥भोजनाच्छादनपानमानयानविहारकैः ।सत्कृताः सर्वथा सर्वे दक्षश्चैच्छद्विशेषतः ॥३७॥सम्मानं तु निजं तत्र श्वाशुर्यस्याऽभियोगतः ।दक्षः शंभोर्गृहमध्ये जगाम स्वसुताननम् ॥३८॥द्रष्टुं प्रष्टुं सुखं शान्तिं तदा शंभुस्तु नोत्थितः ।दक्षस्तदाऽऽन्तरेऽतीव मानी चुकोप वै पुनः ॥३९॥सतीमापृच्छ्य कुशलं सुखं चाऽनामयं तथा ।दक्षो जगाम हर्म्यं स्वं चान्येऽपि स्वगृहान् गताः ॥४०॥प्रत्यक्षं तदिदं चाऽभूदवमानं प्रजापतेः ।अनाहूतेऽपरिचिते ह्यनागमनमुत्तमम् ॥४१॥एवं मनसि सन्धार्य तदापि दक्ष आत्मनि ।अवमानं ररक्षैव बहिर्नैवाऽप्रकाशयत् ॥४२॥अथ कालान्तरे नैमिषारण्ये च तपोधनाः ।दीर्घसत्रं प्रकुर्वन्तो भृग्वाद्यास्तु महर्षयः ॥४३॥आसन्नेकत्रितास्तत्र समाजग्मुर्हरादयः ।आगताँस्ते च ददृशुर्मुनयो दीर्घसत्रिणः ॥४४॥उत्तस्थुर्युगपत्सर्वे सहर्षाश्च समुत्सुकाः ।दत्वाऽर्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ॥४५॥पश्यन्ति स्म हरं विष्णुं ब्रह्माणं पुलहादिकान् ।मनवश्चागतास्तत्र तथा दक्षोऽपि चागतः ॥४६॥यदृच्छया समापन्नः पूजितश्च महर्षिभिः ।स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुराऽसुरैः ॥४७॥अभिपूजित एवासौ निषसाद सभान्तरे ।रुद्रेण न कृता तस्याऽभ्युत्थाननतिसत्क्रियाः ॥४८॥विशेषतः स्वस्य मानं न जातं रुद्रसत्कृतम् ।चुकोप रुद्रं त्वरितं तदा दक्षः प्रजापतिः ॥४९॥उवाच परुषं वाक्यं रुद्रमुद्दिश्य तत्र वै ।एते नमन्ति सर्वे मां विप्राः सुराऽसुरादिकाः ॥५०॥अभ्युत्थानादिना सर्वे मानयन्ति भृशं च माम् ।कथं दुर्जनवच्चायं नैवोत्तिष्ठति भूतपः ॥५१॥श्मशानवासी निस्त्रपः प्रेतपिशाचसंयुतः ।अनुत्तमो मत्तसखा करोति न नतिं च मे ॥५२॥जात्या च कर्मभिर्हीनः पाखण्डी दुर्जनप्रियः ।पापशीलश्चोद्धतश्च निन्दकोऽशुचिरेव च ॥५३॥त्याज्योऽयं सर्वदा सद्भिर्बहिष्कार्यश्च सर्वथा ।यदा यदा गृहं तस्य गतोऽहं मूर्खराडयम् ॥५४॥नैवोत्तिष्ठति सामीप्ये मेऽवमानं करोति वै ।तस्मादयं यज्ञबाह्यो भवत्वद्यदिनात्सदा ॥५५॥रुद्रस्याऽनुचरां ये च तेऽपि वेद्बहिष्कृताः ।पाखण्डवादसंयुक्ताः शिष्टाचारविवर्जिताः ॥५६॥कपालिनः पानरताः कालानना भवन्त्विति ।नन्दी निशम्य तद्वाक्यं दक्षं प्रति रुषान्वितः ॥५७॥शशाप दक्षं तत्पक्षान् ब्राह्मणाँश्चान्यवर्णिनः ।वेदवादरता यूयं नान्यदस्तीतिवादिनः ॥५८॥कामात्मानः स्वर्गपराः क्रोधलोभसमन्विताः ।वैदिकविधिना विप्रा भवन्तु शूद्रयाजकाः ॥५९॥दरिद्रिणो भवन्त्वत्र प्रतिग्रहरतास्तथा ।असत्पथगताः सर्वे भवन्तु ब्रह्मराक्षसाः ॥६०॥शंभुः शान्तस्तदा प्राह नन्दिनं स्वस्य सेवकम् ।कोपं नाऽर्हसि वै कर्तुं ब्राह्मणान्प्रति सर्वदा ॥६१॥कोऽयं कस्त्वं क्व चाऽहं वै कस्माच्छप्तास्त्वया द्विजाः ।प्रपंचरचनां त्यक्त्वा प्रबुद्धो भव सेवक ॥६२॥शातिं च प्रापिताः सर्वे ब्रह्मविष्णुसुरादिभिः ।दक्षो गतो गृहं स्वस्य स्वाऽवमानं स्मरन् मुहुः ॥६३॥ततः काले महान् यज्ञः समारब्धश्च तेन वै ।दक्षेण दीक्षितेनातिविस्तारस्तत्र चर्षयः ॥६४॥आहूताश्च वशिष्ठाद्यास्तपस्विनः समाययुः ।कश्यपोऽत्रिर्वामदेवो ह्यगस्त्यश्च भृगुस्तथा ॥६५॥पराशरो दधीचश्च व्यासश्च गौतमः सितः ।गर्गः पैलो भरद्वाजो भार्गवः ककुपः कृतिः ॥६६॥तथाऽन्ये ऋषयो देवा लोकपाला दिशाधिपाः ।गन्धर्वाः किन्नरा विद्याधराश्चाप्सरसां गणाः ॥६७॥सत्यलोकान्समानीतः सावित्रीसंयुतस्त्वजः ।वैकुण्ठाच्च ततो विष्णुर्लक्ष्मीरमादिसंयुतः ॥६८॥इन्द्रस्तत्र समानीतश्चेन्द्राण्या सह स्वर्गतः ।तथा चन्द्रोऽपि रोहिण्या वारुण्या वरुणस्तथा ॥६९॥कुबेरः पुष्पकारूढो मारुतो मृगवाहनः ।पावको बस्तयानश्च नैर्ऋतः प्रेतवाहनः ॥७०॥दाराः पुत्राश्च शिष्याश्च पार्षदा मन्त्रिणस्तथा ।परिवारास्तथा वेदास्तेषां तेषां समागताः ॥७१॥एवमन्ये समायाता दक्षयज्ञे कृतादराः ।सत्कृतास्तेन दक्षेण सर्वे ते बहुवस्तुभिः ॥७२॥भवनानि महार्हाणि सुप्रभाणि महान्ति च ।त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥७३॥तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च ते स्थिताः ।सम्मानिता अराजँस्ते सकला विष्णुना मया ॥७४॥अथाऽसिक्नी सतीमाता पूर्वदक्षविवाहिता ।दक्षं जातं पुनर्ज्ञात्वा तत्राऽऽगत्याऽवसत् सदा ॥७५॥सा चाऽसिक्नी तत्र शंभुं यदर्थमतपत्सती ।न ददर्श समायातं तदा प्राह प्रजापतिम् ॥७६॥दक्षं नत्वाऽवदत्प्रह्वीकृताऽन्तःकरणा नता ।कथं सती तथा शंभुर्दृश्येते नात्र तूत्सवे ॥७७॥दक्षः प्राह तदाऽसिक्नीं तयोर्नास्ति प्रयोजनम् ।सती तु सर्वदा स्निग्धा पित्रोर्मानाभिलाषिणी ॥७८॥शठः शर्वो न वै स्निग्धो मेऽवमानप्रकारकः ।अतीव गर्वितो जातः सतीं मे प्राप्य कन्यकाम् ॥७९॥कस्यचिन्नाऽप्यसौ प्रायो न कश्चिदस्य वा प्रियः ।किंवंश्यस्त्वेष किंगोत्रः किंदेशीयः किमात्मकः ॥८०॥किंवृत्तिः किंसमाचारो विषादी वृषवाहनः ।न प्रायशस्तपस्व्येष क्व तपः क्वाऽस्त्रधारणम् ॥८१॥न गृहस्थेषु गण्योऽसौ श्मशाने तिष्ठते सदा ।नाऽयं तु ब्रह्मचारी स्याद् यतः सत्या विवाहितः ॥८२॥वानप्रास्थ्यं न चैवास्मिन्नैश्वर्यमदमोहिते ।न जाने ब्राह्मणो नास्ति वेदश्चैनं न वेत्ति यत् ॥८३॥न जाने क्षत्रियो नास्ति प्रायः शस्त्रास्त्रसंग्रहात् ।क्षतात्त्राणं नास्ति चास्मिन्सर्वेषां प्रलयप्रिये ॥८४॥निर्धनोऽरण्यरतिमान वैश्योऽपि नैव भाति मे ।कथं शूद्रे समावेशो नागयज्ञोपवीतिनः ॥८५॥एवं वर्णाश्रमातीतः को भवेनैव बुध्यते ।सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ॥८६॥प्रायशः पुरुषो नाऽसौ यतोऽर्धप्रमदामयः ।नापि वै केवलानारी यतोऽसौ श्मश्रुलाननः ॥८७॥नापि नपुंसको वास्ति लिंगं त्वस्य प्रपूज्यते ।न चापि बालरूपोयं बहुवर्षोद्भवो यतः ॥८८॥मन्वते तं मरीच्याद्या वृद्धं नाऽयं युवा यतः ।वृद्धोऽपि कथमास्थेयो जरामृत्युविवर्जितः ॥८९॥संहारयति सर्वान्वै तथाप्येष न पातकी ।पुण्यलेशः कथं चात्र ब्रह्ममस्तकनाशके ॥९०॥मुण्डहारधरे क्वाऽस्य शुचित्वं वै दिगम्बरे ।नाऽयं च धनवान्नैवाऽपत्यवान्न कुटुम्बवान् ॥९१॥नाऽस्य माता नाऽस्य गोत्रं न वंशो नापि देहवान् ।श्मशाने वर्तते नित्यं श्वादो नैवोपलक्ष्यते ॥९२॥किं बहूक्तेन मे देवि ज्ञायते नाऽस्य चेष्टितम् ।अहो धार्ष्ट्यं मां प्रत्येव जटिलस्याऽवमानकृत् ॥९३॥यदासनान्नोत्थितोऽयं दृष्ट्वा मां श्वशुरं गुरुम् ।एतादृशा भवन्त्येव मातापितृविवर्जिताः ॥९४॥निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः ।यथेष्टाचरणाः स्वाभिमानिनो यन्तृवर्जिताः ॥९५॥अकिंचना अपि स्तब्धा भवन्तीश्वरमानिनः ।जामाता जम्बुकतुल्यः श्वशुरे मृगपायते ॥९६॥असिक्नि तव जामाता मम मस्तकनाशकः ।यतोऽवमन्ता मे जातस्तस्मान्नाऽऽकारितो मया ॥९७॥तस्याहं गर्वसर्वस्वं हरिष्यामि न संशयः ।यथाऽवमानितश्चाऽहमवमंस्ये तथैव तम् ॥९८॥तस्मात्त्वया न स्मर्तव्यो मा यज्ञे फलभाग्भवेत् ।इति दक्षेणाऽग्र्यपत्नी बोधिता मौनमास्थिता ॥९९॥विनिःश्वासं तदा मुक्त्वा दीर्घं सुतां विनाऽशपत् ।नोत्सवे स्वसुतापुत्रजामात्राद्यास्यदर्शनम् ॥१००॥प्रज्वलतूत्सवस्तादृक् कुसवः स तु कथ्यते ।यत्राऽसुसमपुत्र्यादिदर्शनं नोपलभ्यते ॥१०१॥इत्यसिक्न्या मनोदग्धो यज्ञारंभस्तु भस्मितः ।राज्यमातुः शापदग्धोऽवश्यं दग्धो भविष्यति ॥१०२॥दक्षश्चागत्य मां विष्णुं यज्ञपूरुषमित्यपि ।महाक्रतूपद्रष्टारं चक्रेऽर्पितस्वमस्तकः ॥१०३॥प्राह देवानृषीन् विप्रान्प्रजापाँश्च मनूँस्तथा ।अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ॥१०४॥भवत यज्ञसंभारानानयत त्वरान्विताः ।शृणु लक्ष्मि! वर्तमाने तीर्थे कनखले मखे ॥१०५॥तस्यर्त्विजोऽभवन्सर्वे ऋषयो ब्रह्मवादिनः ।भृग्वाद्याश्च त्रिकालज्ञा वेदमूर्तय एव ते ॥१०६॥अधिष्ठातात्वहं विष्णुः सह सर्वमरुद्गणैः ।ब्रह्मा तत्राऽभवद्ब्रह्मा त्रयीविधिनिदर्शकः ॥१०७॥तथैव सर्वे दिक्पाला द्वारपालाश्च रक्षकाः ।सायुधाः सपरीवाराः कुतूहलकराः सदा ॥१०८॥उपतस्थे स्वयं यज्ञो मूर्तिमाँस्तस्य चाऽध्वरे ।वेदधराः स्वयं महामुनयश्चाऽभवन्मखे ॥१०९॥अग्निः स्वयं निजं रूपं चक्रे सहस्रधा तदा ।हविषां ग्रहणायाऽऽशु तत्र यज्ञमहोत्सवे ॥११०॥अष्टाशीतिसहस्राणि जुह्वति स्म च ऋत्विजः ।उद्गातारश्चतुःषष्टिसहस्राणि सुरर्षयः ॥१११॥अध्वर्यवोऽथ होतारस्तावन्तो नारदादयः ।सप्तर्षयः सामगार्थाः कुर्वन्ति स्म पृथक्पृथक् ॥११२॥सिद्धगन्धर्वविद्याध्राऽऽदित्ययज्ञगणान्बहून् ।समस्तान्नागसर्पांश्च वव्रे दक्षो महाध्वरे ॥११३॥द्विजर्षिसुरराजर्षिवसुनिधिगणा नृपाः ।मित्रसचिवसैन्याढ्या वृता मखोपवेत्त्रकाः ॥११४॥दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥११५॥तत्र यज्ञे वृतं सर्वं न वृतो हर एकलः ।कपालीति विनिश्चित्य तस्य यज्ञार्हता नहि ॥११६॥अवमन्तेति कृत्वैव यज्ञे भागोऽपि मास्त्विति ।कपालिभार्येति सती पूर्वजा स्वसुताऽपि च ॥११७॥नाऽऽहूता यज्ञविषये दक्षेणाऽगुणदर्शिना ।एवं प्रवर्तमाने वै दक्षयज्ञे महोत्सवे ॥११८॥स्वकार्यलग्नास्तत्राऽऽसन् सर्वे तेऽध्वरसम्मताः ।एतस्मिन्नुत्सवे तत्र न दृष्ट्वा शंकरं सतीम् ॥११९॥प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ।दक्षप्रजापते दक्ष साक्षाद् धातृस्वरूपधृक् ॥१२०॥न त्वयि दृश्यते तेजः सामर्थ्यं वा क्रतुकृते ।यादृशः क्रतुरारब्धो न वै पारयितुं क्षमः ॥१२१॥क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ।कर्तव्यश्च तदा यज्ञो यदि सम्पत्तिरीदृशी ॥१२२॥साक्षादग्निः स्वयं मूर्तिमान् कुण्डेऽत्र विराजते ।इन्द्रादयस्तथा देवाः साक्षात्सन्ति समागताः ॥१२३॥मन्त्राः सर्वेऽपि साक्षाच्च वर्तन्ते यज्ञकर्मसु ।यज्ञश्च भगवान् साक्षान्मूर्तश्चात्र विराजते ॥१२४॥बृहस्पतिः स्वयं चाऽत्राऽऽचार्यस्थाने सुशोभते ।ब्रह्मा साक्षाद्ब्रह्मस्थाने कर्मकाण्डी भृगुः स्वयम् ॥१२५॥अयं पूषा भगश्चायं साक्षाद्देवीसरस्वती ।शारदा च तथा साक्षात् लक्ष्मीर्नारायणः स्वयम् ॥१२६॥दिक्पाला लोकपालाश्च साक्षाद्रक्षाकृतः स्वयम् ।जामाता त्वेष ते धर्मः पत्नीभिः समुपस्थितः ॥१२७॥त्वं च पत्न्या समं दीक्षां प्राप्तोऽसि यजने स्वयम् ।सप्तविंशतिपत्निभिः सह तै कार्यकृच्छशी ॥१२८॥मारीचः कश्यपश्चायं राजसूयस्य कारकः ।तव यज्ञे समायातो दत्तत्रैलोक्यदक्षिणः ॥१२९॥तस्य पत्न्यस्तव सुतास्त्रयोदश समागताः ।अन्या अपि सुपुत्र्यस्ते जामातारश्च सगताः ॥१३०॥कामधेनव आज्यादिहवींषि तेऽर्पयन्ति वै ।कल्पवृक्षाः स्वयं चात्र समित्कुशान्वहन्ति च ॥१३१॥काष्ठपात्राणि यानानि मण्डपादीनि यानि च ।अपेक्ष्यन्ते तानि वृक्षैरर्प्यन्ते स्वयमागतैः ॥१३२॥अभ्यागतर्त्विजां भूषा विश्वकर्मा करोति च ।वासांसि वसवश्चाष्टौ ददत्यत्र मखे तव ॥१३३॥स्वयं लक्ष्मीः सुवासिनीरलंकरोति ते मखे ।सर्वं सुखकरं दक्ष तव यज्ञेऽत्र दृश्यते ॥१३४॥जीवहीनो यथा देहः क्वापि नैव तु शोभते ।भूषितोऽपि तथा यज्ञः शंभुं विना न शोभते ॥१३५॥एतद् दुःखकरं चात्र श्मशानमिव भूमिका ।शंभुं बिना तव यज्ञश्चिताभूरिव लक्ष्यते ॥१३६॥सर्वे देवर्षिप्रमुखा मद्वाक्यं शृणुतात्र वै ।कस्मान्न विद्यते शंभुरस्मिन् यज्ञमहोत्सवे ॥१३७॥यदधीनानि सर्वाणि मंगलानि भवन्ति च ।सोऽसौ प्राणः क्रतोश्चात्र दृश्यते न कथं हरः ॥१३८॥अमंगलान्यपि येन मंगलान्यधिवर्तिना ।भवन्ति स कथं नात्र चायातः शंकरः शिवः ॥१३९॥तस्माद्दक्षेण कर्तव्यमाह्वानं परमेशितुः ।अथवा ब्रह्मणा वा च विष्णुना ऋषिभिः सह ॥१४०॥द्विजैः सिंहैर्लोकपालैरिन्द्रादिभिः सहाऽधुना ।सर्वैर्भवद्भिर्गन्तव्यं गिरौ यत्रास्ति शंकरः ॥१४१॥दाक्षायण्यासमं शंभुमानयध्वं शुभं भवेत् ।शंकराऽऽनयने यज्ञोऽवभृथपूर्तिको भवेत् ॥१४२॥भविष्यत्यन्यथा विघ्नं सत्यं भावि ब्रवीम्यहम् ।मया निवेदितव्यं यत् तदत्रैव निवेदितम् ॥१४३॥श्रुत्वैतद्वै दधीच्युक्तं भृशं जज्वाल यज्ञकृत् ।दक्षः रोषपरीतात्मा प्रोवाच कलहान्वितम् ॥१४४॥ब्राह्मणोऽसि दधीचे त्वं यच्छ मौनं बहिर्व्रज ।यज्ञदीक्षास्थितस्तेऽहं वैशसं कर्तुमक्षमः ॥१४५॥पृष्टः केन समाहूतो यदत्राऽऽगत्य कत्थसे ।मूलं विष्णुर्देवतानां यत्र धर्माः सनातनाः ॥१४६॥सर्वमंगलमांगल्यः समानीतो मयाऽत्र सः ।यत्र वेदास्तथा यज्ञाः कर्माणि विविधानि च ॥१४७॥स्वयं वै यज्ञपुरुषः किमूनं यज्ञकर्मणि ।सर्वकर्मप्रतिष्ठोऽयं विष्णुर्मे वर्तते मखे ॥१४८॥यत्र त्रिलोकनाथोऽयं शतक्रतुः समागतः ।त्रयस्त्रिंशत्प्रकोटीनाममराणां पतिर्मखे ॥१४९॥सत्यलोकात्समायातो ब्रह्मा सावित्रिकायुतः ।वेदोपनिषदैः सर्वैरागमैर्ब्राह्मणैः सह ॥१५०॥धर्मराट् सह पत्नीभिः पुत्रपौत्रैः समागतः ।तथा यूयं च ऋषयो धर्माऽधर्मविदोऽपरे ॥१५१॥कुबेरो धनदाता च पत्नीभिः सह पावकः ।बृहस्पतिः स्वयं यज्ञाचार्यत्वेन व्यवस्थितः ॥१५२॥एते यज्ञोचिताः शान्ताः पावना प्रमहर्षयः ।मम यज्ञे कर्मकरास्तं श्मशानं ब्रवीष्यहो ॥१५३॥श्मशानं तु सदा यत्र -भूतप्रेतपिशाचकाः ।गणा वसन्ति तत्रैव शंकरस्य गृहे भवेत् ॥१५४॥यत्र कर्मकराः सर्वे मूर्धन्याश्च समागताः ।किमत्राऽस्माकमूनं यद्रुद्रेणापि प्रयोजनम् ॥१५५॥यत्रार्त्विज्यं भजन्तेऽमी वशिष्ठाद्या महर्षय ।तं त्वं चोपमिमीषेऽत्र चिताभूम्या शुभाश्रयम् ॥१५६॥कन्या दत्ता मया तस्मै ब्रह्मणा नोदितेन वै ।हरोऽकुलीनो विप्रो न मातापितृविवर्जितः ॥१५७॥भूतप्रेतपिशाचेशो मानी स्तब्धोऽशुचिः सदा ।कर्मण्यस्मिन्न योग्योऽसौ यस्मान्नानीतवानहम् ॥१५८॥तस्मान्नेदृक्पुनर्वाच्यं यज्ञविघ्नकरं त्वया ।यज्ञा विना हरिं कार्या मास्तु स यज्ञभागभुक् ॥१५९॥निशम्येति दधीचिर्वै पुनः प्राह नयान्वितम् ।सर्वमंगलमांगल्यो हरिर्भवति सर्वथा ॥१६०॥तथापि शंकरो वेदे विष्णुर्नारायणो मतः ।दुर्वासाः शंकरस्यांशस्तद्धस्ते वै शतक्रतुः ॥१६१॥पतितः प्राप निःश्रीकभावं क्षणेन यत्पुनः ।भर्गं चाराध्य जलधौ प्रापत्स्वाममरावतीम् ॥१६२॥धर्मोऽत्र क्रतुरक्षार्थं स्थितोऽस्ति वर्ततां सदा ।किन्तु श्वेतेन मुनिना शिवभक्तेन धर्मराट् ॥१६३॥जितो मृत्युसमेतः सः किं बलं वेद्मि सर्वथा ।धनदस्त्र्यम्बकसखः स्थास्यति न विना शिवम् ॥१६४॥अग्निस्तस्य ललाटस्थं नेत्रं भवति सर्वदा ।यदा तु चन्द्रमास्तारामधर्षीत् त्र्यम्बकस्तदा ॥१६५॥गुर्वाराधित एवाऽभूत् देवाचार्यस्य रक्षकः ।एते सर्वेऽपि जानन्ति शिवं यदा शिवं सुखम् ॥१६६॥यदागाम्यशिवं भावि तदा रुद्रोऽस्त्ययं शिवः ।यदि मे ब्राह्मणस्यैकं धार्यते वचनं हृदि ॥१६७॥शंभुमाहूय यज्ञोऽयं प्रवर्ततां महामखः ।विना तेन क्रतुश्चायं कृतोऽपि न कृतो भवेत् ॥१६८॥सति शंभौ फलिष्यन्ति युष्माकं वै मनोरथाः ।अर्थहीना यथा वाणी धर्महीना यथा तनुः ॥१६९॥पतिहीना यथा नारी पुत्रहीना यथा गृहाः ।गंगाहीना यथा देशाः श्रुतिहीना यथा द्विजाः ॥१७०॥दानहीना यथा सम्पत् तिलहीनं च तर्पणम् ।मन्त्रहीनं यथा राज्यं सुखं पत्नीं विना यथा ॥१७१॥दर्भहीना यथा सन्ध्या होमो हविर्विना यथा ।निष्फलानि समुक्तानि यज्ञो हरं विना तथा ॥१७२॥एवं दधीचिनाऽऽख्यातं दक्षो जग्राह नैव तत् ।प्रोवाच च भृशं क्रुद्धः का चिन्ता तव मे क्रतोः ॥१७३॥क्रतुकर्माणि सिद्ध्यन्ति यथार्थकरणादिह ।अयथार्थकृते नैव सिद्ध्येत् कर्मापि चेशितुः ॥१७४॥दधीचिश्च तदा प्राह यथार्थकरणादपि ।ईश्वरप्रातिकूल्याच्च सिद्धिमपि विनश्यति ॥१७५॥अमंगलो मंगलो वा क्रतुं यदाऽऽगमिष्यति ।तदा क्रतुः कृतकृत्यो भविष्यत्यन्यथा क्षयः ॥१७६॥एवं ब्रूवति चुक्रुधे दधीचौ दक्ष ऐरयत् ।ब्राह्मणापसदं निष्कासयितुं किंकरान् स्वकान् ॥१७७॥ ' दधीचिर्वीक्ष्य वै प्राह दक्षं गर्वाऽतिमोहितम् ।किं मां दूरयसे मूढ दूरं भवतु वै भवान् ॥१७८॥एभिः समं मंगलेभ्यो हीनो भवतु सर्वदा ।अस्थले क्रोधजो वह्निस्तव मूर्ध्नि पतिष्यति ॥१७९॥इत्युक्त्वा निर्ययौ यज्ञस्थलाद्दधीचिरर्थवित् ।निर्ययुश्च्यवनोऽगस्त्यो दुर्वासा ऋचीकस्तथा ॥१८०॥उद्दालक उपमन्युरुत्तंको गर्गगौतमौ ।माण्डव्यो वामदेवश्च गालवश्चेतरे तथा ॥१८१॥अन्येऽपि च त्रिकालज्ञाः शैवा यज्ञाद्विनिर्ययुः ।तदा दक्षः शिवद्रोही हसन् सर्वान् समब्रवीत् ॥१८२॥गता वै कण्टकाः सर्वे जातं मे सम्मतं बहू ।एते खला वेदबाह्यास्त्याज्या वै यज्ञकर्मणि ॥१८३॥वैदिकाश्च सुरा विप्रा ब्रह्मविष्णुपुरोगमाः ।यज्ञं मे सफलं पूर्णं सर्वे कुर्वन्तु मा चिरम् ॥१८४॥गतेषु शिवपक्षेषु प्रावर्तत महामखः ।ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुणदक्षिणाम् ॥१८५॥भूयसीर्दक्षिणाः प्रादादन्येभ्यश्चाधिकं धनम् ।सर्वे जामातरस्तेन तोषिता भूरिशो धनैः ॥१८६॥कन्याश्चालंकृताः सर्वा महाविभवदापनैः ।ऋषिपत्न्योऽपि बहुशो देवपत्न्योऽप्यनेकशः ॥१८७॥तथा पुरांऽगना देशांऽगनाश्चापि प्रपूजिताः ।एवमेव प्रवर्तिते यज्ञे दक्षस्तु नित्यशः ॥१८८॥भोजयति तर्पयति चार्पयति धनादिकम् ।अग्निर्मन्दाग्नितां तेन प्राप्तवान् प्रत्यहं शनैः ॥१८९॥स्वाहाकारैः स्वधाकारैर्वषट्कारैः सुरादयः ।तृप्ता नित्यं प्रजायन्ते सदन्नभोजनादिभिः ॥१९०॥रचिता गिरयस्तत्र पक्वान्नानां स्थले स्थले ।घृतकुल्या मधुकुल्या दुग्धकुल्याः सहस्रशः ॥१९१॥गुडानां शर्कराणां च फलानां राशयः कृताः ।दुकूलानां च रत्नानां भोग्यानां शिखराणि च ॥१९२॥कृतानि यज्ञवाटश्च स्वर्णरूप्यमयः कृतः ।ध्वनिर्मंगलगीतानां व्यानशे सर्वतोमुखम् ॥१९३॥जहृषे चाप्सरोवृन्दैर्गन्धर्वैर्मुमुदेतराम् ।विद्याधरैर्ननन्दे च वसुधा ववृधे भृशम् ॥१९४॥प्रत्यहं प्राणिनस्तत्र तृप्यन्ति स्वेष्टवस्तुभिः ।एवं प्रवर्तते यज्ञो नारदस्तु क्रतुस्थलात् ॥१९५॥उत्तिष्ठन्सर्वतः पश्यन सिञ्चन्सुकलहांकुरम् ।सर्वमनःसु संकुर्वन् संशयं रुद्रमीलने ॥१९६॥उदडीयत गगने ययौ कैलासपर्वतम् ।तदा संकल्पा भीरूणां पलायनकृतौऽभवन् ॥१९७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दक्षस्य शंभुगृहे त्रिवारगमनं, पुनःपुनरवमानम्, नैमिषारण्ये भृग्वादीनां परस्परशापदानं, दक्षकृतशंभुनिन्दा, कनखले दक्षयज्ञे देवादीनामागमनं, शंभोरनागमने दधीचस्य दक्षाय शापादिकमित्यादिनिरूपणनामा चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP