संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १२२

कृतयुगसन्तानः - अध्यायः १२२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु प्रिये! ततः शंभुः प्राह स्वस्य प्रियां सतीम् ।
राधिकाकृष्णप्रासादे रत्नसिंहासनं वरम् ॥१॥
धनुः शतप्रमाणं च परितो वर्तुलाकृति ।
उच्चावचैः स्वर्णघटैः शोभितं शिखरादिषु ॥२॥
दिव्यभक्तापुत्तलिकाप्रेमदासीप्रभूषितम् ।
कोट्यर्कद्युतिसंव्याप्तं तदूर्ध्वं सप्ततालवत् ॥३॥
.अद्भुतं सर्वतेजस्विपदार्थाधिकसुन्दरम् ।
तेजस्तेजोऽम्बरं तेजोराशिस्तेजःखनिप्रथम् ॥४॥
दिव्यं सिंहासनं तद्वै यथेष्टं व्योम्नि गच्छति ।
सिंहपादं वल्लिचित्राण्यनन्तगोपगोपिकाः ॥५॥
गावो वत्सा वत्सतर्यस्तथा भक्ता प्रियास्तथा ।
सिंहासने च सोपाने स्तंभे द्वारि च तोरणे ॥६॥
वादका नर्तकाश्चैव गायकाः पार्श्वभागके ।
पुत्तलिकास्वरूपास्ते क्लृप्ताः सर्वे विभान्ति वै ॥७॥
मयूराः सारसा हंसाश्चातकाः शुकमेनकाः ।
शुभाः पुत्तलिकाश्चैता यथास्थानं व्यवस्थिताः ॥८॥
दिव्ये सिंहासने तेजोराशौ कृष्णो विराजते ।
वरो वरेण्यो वरदो वरदानां च कारणम् ॥९॥
सर्वमंगलदः साक्षान्मंगलानां सुमंगलम् ।
निर्लेपश्च निरीहश्च ढिव्यैश्वर्यगुणाश्रयः ॥१०॥
सनातनश्च साकारः कलाविभूतिधारकः ।
सर्वाधारः सर्वरूपः सर्वबीजो ह्यतीन्द्रियः ॥११॥
जडचेतनदेहश्च स्वतन्त्रदिव्यमूर्तिकः ।
सर्वसाक्षी सर्वदर्शी सच्चिदानन्द ईश्वरः ॥१२॥
सर्वेशोऽनादिनिधनो विधाता जनकः पिता ।
एकैकरोमविवरे ब्रह्माण्डमेकमेककम् ॥१३॥
यस्यैव महतो विष्णोः स कृष्णः षोडशांशजः ।
यं वै ध्यायन्ति योगज्ञाः सेवन्ते दासतां गताः ॥१४॥
किशोरः सुन्दरतरः कान्तानां कमनीयकः ।
नवीनजलदश्यामः पीताम्बरधरो वरः ॥१५॥
द्विभुजो मुरलीहस्तः सस्मितः सुमनोहरः ।
मयूरपिच्छचूडश्च मालतीमालमण्डितः ॥१६॥
चन्दनागुरुकस्तूरीकुंकुमद्रवचर्चितः ।
अमूल्यरत्नसाराणां सारभूषणभूषितः ॥१७॥
अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलः ।
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचन्द्रकः ॥१८॥
पक्वबिम्बसमानेन ह्यधरौष्ठेन राजितः ।
पक्वदाडिमबीजाभदन्तपंक्तिमनोहरः ॥१९॥
सुस्मितपरमाह्लादः त्रैलोक्यचित्तमोहनः ।
गण्डस्थलकपोलाभ्यां ज्वलन्मकरकुण्डलः ॥२०॥
सद्रत्ननूपुराभ्यां च चरणांभोजराजितः ।
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितः ॥२१॥
मणिस्वर्णादिदिव्याभूषणवर्यैर्विभूषितः ।
विनोदमुरलीयुक्तबिम्बाधरमनोहरः ॥२२॥
प्रसन्नताप्रपूर्णश्च भक्तानुग्रहकारकः ।
सद्रत्नगुटिकायुक्तकवचोरःस्थलोज्ज्वलः ॥२३॥
कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलः ।
श्रीकृष्णः स परब्रह्म किशोरो दीव्यति प्रभुः ॥२४॥
तस्य वामे तु चार्वंगी सखी तिष्ठति राधिका ।
पश्यन्तं सस्मितं कान्तं पश्यन्ती वक्रचक्षुषा ॥२५॥
मुक्तापंक्तिपरोत्कर्षदन्तपंक्तिविराजिता ।
ईषद्धास्यप्रसन्नास्या शरत्पंकजलोचना ॥२६॥
शरत्पार्वणचन्द्रातिरेकभाऽऽस्यमनोरमा ।
बन्धुजीवप्रमाधिक्याधरौष्ठरुचिरानना ॥२७॥
रणन्मंजीरयुग्मेन पादाम्बुजविराजिता ।
मणीन्द्राणां प्रभामोषनरराजिविराजिता ॥२८॥
कुंकुमाभासमाच्छाद्य पदाधोरागभूषिता ।
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिता ॥२९॥
हुताशनविशुद्धांशुकाऽमूल्यज्वलितोज्ज्वला
महामणीन्द्रसाराणां किंकिणीमध्यसंयुता ॥३०॥
सद्रत्नहारकेयूरकरककंणभूषिता ।
रत्नेन्द्रसाररचितकपोलोज्ज्वलकुण्डला ॥३१॥
कर्णोपरि मणीन्द्राणां कर्णभूषणभूषिता ।
खगेन्द्रचञ्चुनासाग्रगजेन्द्रमौक्तिकान्विता ॥३२॥
मालतीमालया वक्रकबरीभारशोभिता ।
मालया कौस्तुभेन्द्राणां वक्षःस्थलसुशोभिता ॥३३॥
पारिजातप्रसूनानां मालाज्वालोज्ज्वलांबरा ।
रत्नांगुलीयनिकरैः करांगुलिविभूषिता ॥३४॥
प्रतप्तस्वर्णवर्णाभा कनकोज्ज्वलविग्रहा ।
नितम्बश्रोणिललिता पीनस्तनसुशोभिता ॥३५॥
सौन्दर्यभूषिता सर्वैर्भूषणैश्चापि भूषिता ।
पद्मपत्रदीर्घनेत्रा प्रेमभारसुमन्थरा ॥३६॥
कृष्णकामनिधानासा सर्वयौवनसागरा ।
सर्वरूपपराकाष्ठा धवला रक्तसूज्ज्वला ॥३७॥
प्रेमप्रवाहप्रसरत्कृष्णचित्तमनोहरा ।
कृष्णस्पर्शं विना नैव क्षणमात्रं कृतस्थितिः ॥३८॥
कान्तं कृष्णं विना नैव कान्ता तिष्ठति केवला ।
इत्येव शोभया युक्तौ राधाकृष्णौ प्रतिष्ठतः ॥३९॥
दिव्ये सिंहासने तत्र राजाधिराजशोभया ।
किं वै न्यूनं भगवतो भगवत्याः समागमे ॥४०॥
पूर्णस्य ब्रह्मणः पूर्णब्रह्मण्याः का न्वपूर्णता ।
गोलोके तिष्ठतां यद्वै क्षणं याति सुखावहम् ॥४१॥
तन्मात्रे तु क्षितौ यान्ति सप्तमन्वन्तराणि वै ।
तादृशे सर्वदादीर्घानन्दभूमौ तु तत्र वै ॥४२॥
गावः सुरभयः कामधेनवो नीलगोवृषाः ।
चतुर्दन्ता हस्तिनश्च श्वेताः स्वर्णादिभूषणाः ॥४२॥
प्रमदवर्षिणः षष्ठिहायना व्योमगामिनः ।
श्यामकर्णाश्च तुरगाः सपक्षा व्योमसंचराः ॥४४॥
मयूरगरुडहंसाश्च शुकसारसमेनकाः ।
विविधाः पक्षिणस्तत्र वृक्षावल्ल्यश्च भूरिशः ॥४९॥
डंकानिशानाः शिबिकागुप्तकातावदानकाः ।
मानववाहाः शतशो निजेच्छावाहनानि च ॥४६॥
विविधाः स्मृतयस्तत्र वाय्वप्तेजांसि सेवकाः ।
ऋतवश्च रसगन्धशब्दरूपादिसेवकाः ॥४७॥
उपतिष्ठन्ति गोलोके यथेष्टं भोगलब्धये ।
दिव्या रथा व्योमगाश्च दिव्यास्तादृग्विभूतयः ॥४८॥
किं वै दिव्यस्य कृष्णस्याऽदिव्यं वै संभवेत्तदा ।
कृष्णो दिव्यो महाराजो दिव्या राज्ञी च राधिका ॥४९॥
विरजा द्रवदिव्या वै पार्षदा गोपगोपिकाः ।
प्रासादा वस्तुमूर्धन्याः सर्वे दिव्या वसन्ति हि ॥५०॥
श्रीकृष्णस्य रथस्तत्र राजत दिव्यविग्रहः ।
मणिरत्नेन्द्रसारेण हीरकेण विभूषितः ॥५१॥
श्वेतचामरलक्षेण शोभितो दर्पणाऽयुतैः ।
सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितः ॥५२॥
सद्रत्नकलशानां च सहस्रेण सुशोभितः ।
पारिजातप्रसूनानां मालासंघैर्विराजितः ॥५३॥
पार्षदप्रवरैर्युक्तः शातकुंभमयः शुभः ।
तेजस्तेजःस्वरूपश्च शतसूर्यसमप्रभः ॥५४॥
कृष्णः क्वचिद्रथे तत्र नारायणश्चतुर्भुजः ।
भूत्वा तिष्ठति लोकाद्वै लोकान्तरं प्रगच्छति ॥५५॥
तदा स पुरुषः श्यामः सुन्दरः कमनीयकः ।
शंखचक्रगदापद्मधरः पीताम्बराम्बरः ॥५६॥
किरीटी कुण्डली दिव्यवनमालाविभूषितः ।
चन्दनागरुकस्तूरीकुंकुमद्रवचर्चितः ॥५७॥
चतुर्भुजः स्मेरवक्त्रो भक्तानुग्रहकातरः ।
मणिरत्नेन्द्रसाराणां सारभूषणभूषितः ॥५८॥
महालक्ष्म्या महादेव्या सर्वदा कृतसेवनः ।
भवत्यैश्वर्यधृक्सर्वदेवदेवीप्रवन्दितः ॥५९॥
तद्वामे च रथे रम्ये शुक्लवर्णा प्रतिष्ठति ।
रत्नालंकारशोभाढ्या शोभिता पीतवाससा ॥६०॥
शरत्पार्वणचन्द्रास्या शरत्पकजलोचना ।
पक्वबिम्बाधरौष्ठी च स्मेरानना च कामदा ॥६१॥
वेणुवीणाग्रन्थहस्ता भक्तानुग्रहकातरा ।
विद्याधिष्ठातृदेवी च ज्ञानरूपा सरस्वती ॥६२॥
दक्षिणे तु सुपार्श्वे वै शतचन्द्रसमप्रभा ।
प्रतप्तस्वर्णवर्णाभा सस्मिता सुमनोहरा ॥६३॥
सद्रत्नकुडलाभ्यां च सुकपोलविराजिता ।
अमूल्यरत्नखचिताऽमूल्यवस्त्रेण भूषिता ॥६४॥
अमूल्यरत्नकेयूरकरकंकणशोभिता ।
सद्रत्नसारमंजीरकलशब्दसमन्विता ॥६५॥
मणीन्द्रकिंकिणीगुंजन्मध्यकटिसमन्विता ।
पारिजातादिपुष्पाणां हारैर्वक्षस्थलोज्ज्वला ॥६६॥
प्रफुल्लमालतीमालाप्रोतकबरिकायुता ।
शरच्चन्द्रातितेजस्विमुखमण्डलशोभिता ॥६७॥
कस्तूरीबिन्दुसम्मध्यसिन्दूरतिलकान्विता ।
सुचारुकज्जलश्लिष्टशरत्पंकजलोचना ॥६८॥
सहस्रदलशोभाढ्यमहत्कमलहस्तगा ।
नारायणं हरिं कृष्णं पश्यन्ती वक्रचक्षुषा ॥६९॥
तिष्ठन्तो रथमध्येऽपि विहरन्ति त्रयोऽपि ते ।
अन्योऽपि सुरथस्तस्य निर्मितो विश्वकर्मणा ॥७०॥
पंचाशद्योजनोर्ध्वश्च चतुर्योजनविस्तरः ।
स्वर्णसारविकारश्च नानारत्नपरिच्छदः ॥७१॥
मणीन्द्रसारसंयुक्तो वह्निशुद्धांशुकान्वितः ।
श्वेतचामरसंयुक्तो भूषितो दर्पणान्वितः ॥७२॥
सद्रत्नसारकलशो मालाहारविराजितः ।
सहस्रचक्रसंयुक्तो मनोयायी मनोहरः ॥७३॥
ग्रीष्ममध्याह्नमार्तण्डतुल्यतेजाः सुदर्शनः ।
मुक्तामाणिक्यवज्रादिहीरकैश्च समुज्ज्वलः ॥७४॥
चित्रपुत्तलिकापुष्पसरःकाननचित्रितः ।
रतियोग्यवधूयुक्तः शोभते रतिमन्दिरैः ॥७५॥
तत्र श्रीकृष्णसेवार्थं महामायाऽपि तिष्ठति ।
स्वर्णसारातिसत्कान्तिरत्नालंकारभूषिता ॥७६॥
महातेजोऽधिककान्ता प्रभावारिधिसदृशी ।
सहस्रभुजसंयुक्ता नानाऽऽयुधादिधारिणी ॥७७॥
ईषद्धास्यप्रसन्नास्या कृष्णकेलिकृते स्थिता ।
गण्डस्थलकपोलस्थस्वर्णरत्नसुकुण्डला ॥७८॥
रत्नेन्द्रसाररचितक्वणन्मंजीरमंजुला ।
सन्मणिनद्धसौवर्णरशनाकटिशोभिता ॥७९॥
रत्नाक्तस्वर्णकटककेयूरशृंखलान्विता ।
मन्दारकल्पप्रसूनमालाराजिविराजिता ॥८०॥
नितम्बकठिनश्रोणीकर्कशस्तनभंगुरा ।
शरत्पार्वणचन्द्रास्या तेजःपरिधिसूज्ज्वला ॥८१॥
सत्कज्जलरक्तरेखान्वितपंकजलोचना ।
चान्दनकैसरद्रव्यकृतपत्रललाटिका ॥८२॥
मुक्तादाडिमकुन्दाभशुभ्रदन्तविराजिता ।
विभिन्नपुष्पकबरीयुक्तधम्मिलमन्थरा ॥८३॥
शुकगरुडचञ्च्वाभनासानिम्नत्वशोभिता ।
सामुद्रफेनसैंहादिमौक्तिकधृतमालिका ॥८४॥
उज्ज्वलाम्बरकंचुकीस्वर्णतारसुचन्द्रका ।
कृतोर्ध्वतिलका देव्यस्तथान्याः सन्ति सेवने ॥८५॥
रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।
कालिन्दी मित्रविन्दा च सत्यभामा तथाऽपरा ॥८६॥
भद्रा च लक्ष्मणा चेति महिष्यस्तत्र सन्ति वै ।
शतं षोडशसाहस्रं पत्नीनां मंडलं महत् ॥८७॥
कृष्णसेवां प्रकुर्वद्वै राजते कृष्णसन्निधौ ।
अन्यासामपि नान्तोस्ति सर्वं कृष्णवशं जगत् ॥८८॥
एकविंशत्यब्जगोप्यः कृष्णस्यैव भवन्ति वै ।
अन्याश्चापि न संख्याताः सर्वं तद्दास्यवद्यतः ॥८९॥
त्रयस्त्रिंशद्वयस्याश्च ह्यष्टपट्टांगनास्तथा ।
राधा चेति प्रमुख्या वै भवन्ति गोकुले प्रियाः ॥९०॥
वसुदेवो देवकी च नन्दो यशोवती तथा ।
उद्धवः सात्यकिर्गर्गोऽक्रूरश्चान्ये च सात्वताः ॥९१॥
गोकुले तु प्रहारे- तत्तत्प्राकारभूमिषु ।
सोद्यानेषु महादिव्यप्रासादेषु वसन्ति वै ॥९२॥
कृष्णसमानसंभोगा न किंचिन्न्यूनमस्ति हि ।
कृष्णाश्रितसखीनां तु भ्रमणार्थं महान्रथः ॥९३॥
चतुर्योजनविस्तीर्णं ऊर्ध्वे च पञ्चयोजनः ।
शुद्धस्फटिकसंकाशो रत्नसारविनिर्मितः ॥९४॥
अम्लानपारिजातानां मालाजालविराजितः ।
मणीनां कौस्तुभानां च भूषणेन विभूषितः ॥९५॥
अमूल्यरत्नकलशो हीरहारविराजितः ।
मनोहरैः परिष्वक्तः सहस्रकोटिमन्दिरैः ॥९६॥
सहस्रद्वयचक्रश्च सहस्रद्वयघोटकः ।
सूक्ष्मवस्त्राच्छादितश्च गोपीकोटिभिरावृतः ॥९७॥
किमन्यद्वर्णये तस्य कृष्णस्य श्रीहरेः प्रभोः ।
महानसानि रम्याणि भोज्यागाराणि यानि च ॥९८॥
स्नानागाराणि शृमगारभूषागाराणि यानि च ।
केल्यागाराणि मित्राणां सभागाराणि वै तथा ॥९९॥
नृत्यागाराणि च समाजोत्सवागारकाण्यपि ।
क्रीडागाराणि च विहाररत्यागारकाणि च ॥१००॥
शय्यागाराणि सुचन्द्रशालाः सहस्रभूमयः ।
यानि यान्येव सन्त्यत्र नान्यधामसु तानि वै ॥१०१॥
स्वयं श्रीहरिणा कृष्णरूपेण सुखदेन वै ।
सुखदानाय भक्तानां नारीणां तु विशेषतः ॥१०२॥
धृतं रूपं राजसं चामोघवीर्यं बलं हि तत् ।
तत्र किं नाम वक्तव्यं न्यूनं स्वल्पं च वा नहि ॥१०३॥
परिपूर्णस्य सर्वत्र का नामाऽपूर्णतया भवेत् ।
इति ते कथितं देवि! किञ्चिद्गोलोकमण्डलम् ॥१०४॥
सर्वथा नैव वक्तुं वै चेष्टे कृष्णोऽपि तत् स्वयम् ।
य इमं कृष्णगोलोकं श्रोष्यति वा पठिष्यति ॥१०५॥
सुदुर्लभां दृढां भक्तिं श्रीकृष्णे स हि लप्स्यते ।
अणिमादिकसिद्धिं च सालोक्यादिचतुष्टयम् ॥१०६॥
इहैव कृष्णतुल्यत्वं वाक्सिद्धिं च यशो महत् ।
पुत्रं विद्यां कवित्वं च निश्चलां कमलां तथा ॥१०७॥
पत्नीं पतिव्रतां साध्वीं सुशीलां सुस्थिरां प्रजाम् ।
कीर्तिं च चिरकालीनां त्वन्ते कृष्णान्तिके गतिम् ॥१०८॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रत्नसिंहासनश्रीकृष्णराधिकातत्स्मृद्धिरथचतुर्भुजरूपसरस्वतीमहामायारूपमहालक्ष्मीराधाशत-
सहस्राष्टपट्टांगनातत्सौधादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्याय ॥१२२॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP