संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४४२

कृतयुगसन्तानः - अध्यायः ४४२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! पतिकृष्णव्रतं मोक्षप्रदायकम् ।
पावनं कृष्णभक्तं तु सुयज्ञं वैष्णवं परम् ॥१॥
ब्रह्मणस्तु सुतः स्वायंभुवो मनुर्बभूव ह ।
उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुवनामकः ॥२॥
ध्रुवपुत्र उत्कलोऽभून्नारायणपरायणः ।
सहस्रं राजसूयानां पुष्करे स चकार ह ॥३॥
तस्य नाम स्वयं ब्रह्मा सुयज्ञं प्रचकार ह ।
स चान्नदाता रत्नानां दाता च सर्वसम्पदाम् ॥४॥
दशलक्षं गवां चापि रत्नशृंगपरिच्छदम् ।
गवां द्वादशलक्षणां ददौ नित्यं मुदान्वितः ॥५॥
षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः ।
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ॥६॥
विप्रलक्षं सूपकारं भोजयामास तत्परम् ।
दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः ॥७॥
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ।
गृहीतानि तु रत्नानि स्वगृहं वोढुमक्षमाः ॥८॥
येभ्यः केभ्यो ददुश्चापि बहुशः पथि तत्यजुः ।
विप्रान्येभ्योऽपि सर्वेभ्यो भोजनानि ददुश्च ते ॥९॥
तथाप्युर्वरितं तत्र त्वन्नराशिसहस्रकम् ।
एवं यज्ञं शुभं कृत्वा सुयज्ञो राजसंसदि ॥१०॥
समुवास महारत्नक्लृप्ते सिंहासने शुभे ।
पट्टवस्त्रैः शोभिते सुचन्दनादिसुगन्धिते ॥११॥
शाखायुक्तैः पूर्णकुंभैः रमावृक्षैः सुशोभिते ।
चन्दनाऽगुरुकस्तुरीघनसिन्दूरसंस्कृते ॥१२॥
वसुवासवचन्द्रेन्द्ररुद्रादित्यसमन्विते ।
मुनिनारदमन्वादिब्रह्मविष्णुहरान्विते ॥१३॥
एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ ।
रूक्षो मलिनवासाश्च चक्रे नृपं शुभाशिषः ॥१४॥
राजा तं प्रणनामाऽपि नोत्तस्थौ स्ववरासनात् ।
सभासदोऽपि नोत्तस्थुर्मनाग् जहसुस्तं प्रति ॥१५'॥
तेन क्रुद्धो द्विजस्तत्र शशाप नृपतिं यथा ।
राज्यभ्रष्टो गलत्कुष्ठी बुद्धिहीनो भवाऽधुना ॥१६॥
तावत्सभासदो नेमुरुत्तस्थुस्तेन भूसुरः ।
तत्याज रोषं राजाऽपि पादयोः पतितस्ततः ॥१७॥
ऋषयस्तत्र तं विप्रं ददुः श्रेष्ठं शुभासनम् ।
पुलहश्च पुलस्त्यश्च प्रचेता भृगुरङ्गिराः ॥१८॥
मरीचिः कश्यपश्चापि वशिष्ठः क्रतुरित्यपि ।
शुक्रो बृहस्पतिश्चापि दुर्वासा लोमशस्तथा ॥१९॥
गौतमश्च कणादश्च कण्वः कात्यायनः कठः ।
पाणिनिर्जाजलिश्चापि ऋष्यशृंगो विभाण्डकः ॥२०॥
तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः ।
सनकश्च सनन्दश्च वोढुः पैलः सनातनः ॥२१॥
सनत्कुमारो नरो नारायणश्च पराशरः ।
पत्नीव्रतो जरत्कारुः संवर्त्तः करभस्तथा ॥२२॥
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ।
अगस्त्योऽत्रिरुतथ्यश्च संकर्ताऽऽस्तीक आसुरिः ॥२३॥
शिलालिर्लांगलिश्चापि शाकल्यः शाकटायनः ।
गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः ॥२४॥
जैगिषव्यो वामदेवो वालखिल्याश्च लक्षशः ।
शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा ॥२५॥
विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः ।
स्वयंप्रकाशो ब्रह्मिष्ठः शतानन्दश्च सुव्रतः ॥२६॥
एते त्वन्ये च मुनयः पितरोऽग्निहविःप्रियाः ।
दिक्पाला देवताः सर्वाः समूचुर्ब्राह्मणं क्रमात् ॥२७॥
तव शापेन विप्रेन्द्र राज्ञो लक्ष्म्या लयो भवेत् ।
ब्राह्मणानां तु हृदयं कोमलं तपसा सदा ॥२८॥
क्षमस्वाऽऽशिषमाधत्स्व तद्गृहं पावनं कुरु ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥२९॥
पितरस्तस्य देवाश्च वह्निः प्रयान्त्यतोषिताः ।
पश्यन्ति ये वक्रदृष्ट्या त्वतिथिं गृहमागतम् ॥३०॥
दत्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ।
राजा स्वगर्वदोषेण नोत्तस्थौ तत्क्षमां कुरु ॥३१॥
राज्यश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ।
श्रियाहीनो भवेत् सद्यो व्रतनैवेद्यवर्जितः ॥३२॥
दीक्षा व्यर्था भवेत्तस्य धनपुत्रादिहीनता ।
भार्याहीनो भवेच्चापि क्षमस्वाऽस्याऽपराधकम् ॥३३॥
अतिथिं पितरौ देवं विद्वांसं ब्राह्मणं गुरुम् ।
अवमन्येत यः सोऽत्र भक्तिभ्रष्टो भवेद्ध्रुवम् ॥३४॥
अतिथिं ब्राह्मणं दृष्ट्वा नाऽभ्युत्थानं करोति यः ।
प्राप्नोति कौंजरीं योनिमरण्ये सप्तजन्मसु ॥३५॥
शीघ्रं दयां विधायैव राज्ञे देह्याशिषः शुभाः ।
गुरुं वा ब्राह्मणं वापि देवताप्रतिमामपि ॥३६॥
दृष्ट्वा शीघ्रं न प्रणमेत् स भवेत् सुकरो भुवि ।
क्षमस्व सर्वमस्माकं चातिथ्यग्रहणं कुरु ॥३७॥
स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ।
ब्रह्मघ्नानां पापभाक् स्यादतिथेरवमानकृत् ॥३८॥
इत्यार्षवाचः संश्रुत्वा राजा पप्रच्छ तान्मुनीन् ।
स्त्रीघ्नादीनां तु किं पापं ब्रूत मां योगिनां वराः ॥३९॥
वसिष्ठः प्राह राजेन्द्र शृणु गोवधजं हि तत् ।
कामतो गोवधे राजन् वर्षं तीर्थं भ्रमेन्नरः ॥४०॥
यवयावकभोजी च करेण तु जलं पिबेत् ।
ततो धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ॥४१॥
दत्वा मुञ्चति पापात्तु भोजयित्वा शतं द्विजान् ।
प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ॥४२॥
पापावशेषाद् भवति दुःखी चाण्डाल एव सः ।
गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ॥४३॥
षष्टिवर्षसहस्राणि कालसूत्रे वसेद्धि सः ।
ततो भवेत् सूकरश्च सर्पश्च सप्तजन्मसु ॥४४॥
स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ।
लक्षवर्षं महाघोरे कुभीपाके वसेद्धि सः ॥४५॥
विष्ठाकृमिः शताब्दं च सर्पश्च सप्तजन्मसु ।
दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ॥४६॥
निष्कृतिर्नास्ति राजेन्द्र कृतघ्नानां विनिर्मिता ।
कृतघ्नाः षोडशविधाः सन्ति राजेन्द्र निश्चिताः ॥४७॥
कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ।
प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने ॥४८॥
गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ।
नित्यकृत्ये च विश्वासे परमधर्मप्रदानयोः ॥४९॥
एतान् यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ।
विविधानां कृतघ्नानां नरका विविधा अपि ॥५०॥
कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ।
सः कृतघ्नः कालसूत्रे वसत्येव चतुर्युगम् ॥५१॥
सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।
ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः ॥५२॥
कृत्वा पुण्यं वदत्येव कीर्तिवर्धनहेतुना ।
स कृतघ्नस्तप्तकुण्डे वसत्येव युगत्रयम् ॥५३॥
पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ।
ततो मूको महारुग्णो दरिद्रोऽपि ततः शुचिः ॥५४॥
कृत्वा स्वधर्मं यो हन्ति सन्ध्याधर्मविघातकः ।
विष्णुपूजामन्त्रजापनैवेद्यव्रतनिन्दकः ॥५५॥
देवव्रतादिहीनश्च पितृकृत्यादिवर्जितः ।
कृतघ्नः स कुंभीपाके वसत्याकल्पमेव यत् ॥५६॥
सप्तजन्मसु चाण्डालो गृध्नश्च शतजन्मसु ।
सूकरः शतजन्मा च ततश्चाण्डालको भवेत् ॥५७॥
पुनश्च रौरवं गत्वा गर्दभः पञ्चजन्मसु ।
मार्जारो मण्डूकः पञ्चजन्मसु च ततः पुनः ॥५८॥
वृषाणां वाहको विप्रो भूत्वा दुःखानि विन्दति ।
भृत्यद्वारा स्वयं वापि यो विप्रो वृषवाहकः ॥५९॥
स कृतघ्न इति बोध्यः पुण्यहा स यतो मतः ।
ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ॥६०॥
वृषपृष्ठे भारदानात्पापं तद्द्विगुणं भवेत् ।
सूर्याऽऽतपे वाहयेद् यः क्षुधितं तृषितं वृषम् ॥६१॥
ब्रह्महत्याशतं पापं लभते नाऽत्र संशयः ।
लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ॥६२॥
विष्ठाभक्ष्यं मुत्रजलं तत्र तस्य भवेत् सदा ।
त्रिसन्ध्यं ताडयेत्तं तु शूलेन यमकिंकरः ॥६३॥
उल्कां ददाति मुखके सूच्या कृन्तति सन्ततम् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥६४॥
ततः काकः पञ्चजन्मस्वथैवं बक इत्यपि ।
पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ॥६५॥
ततो दरिद्रः शूद्रश्च महारुग्णः शुचिस्ततः ।
सतीनार्या धर्मलोपी कृतघ्नः परिकीर्तितः ॥६६॥
वृषलीशः पुंश्चलीशः कृतघ्नः स मतो द्विजः ।
कृमिदंष्ट्रे वसेत् सोऽपि यावदिन्द्राश्चतुर्दश ॥६७॥
प्रतिमां तां तप्तलौहीमाश्लेषयति नित्यशः ।
ततः शूद्रो भवेद् दुःखी तथा वर्षसहस्रकम् ॥६८॥
कृत्वा तपांसि पुण्यानां हन्ता कृतघ्न उच्यते ।
अन्याचरिततपसां हन्ता कृतघ्न उच्यते ॥६९॥
व्रतघ्नस्य कृतघ्नस्य कुंभीपाकोऽयुताब्दिकः ।
कृत्वा प्रतिज्ञां कार्यस्य दत्वा विश्वासमुत्तमम् ॥७०॥
करोति स्वप्रतिज्ञाया भंगं कृतघ्न एव सः ।
लोहतप्ते तु तं कुण्डे प्रज्वालयति कल्पकम् ॥७१॥
दानं बहुविधं यत्तद् यो नाशयति शाठ्यतः ।
वाग्दानं वस्तुदानं च कन्याज्ञानप्रदानकम् ॥७२॥
हन्ति यः स वसेत् कालसूत्रेऽयुतयुगा ध्रुवम् ।
कृत्वा दत्वा स्ववचनं गोष्ठीं वा हन्ति यो जनः ॥७३॥
कार्यहा गोष्ठीघ्न एव पाशकुण्डेऽयुताब्दिकः ।
गुरुकार्यविहन्ता वै गुरुताडयिता च यः ॥७४॥
गुरुघ्नः स कृतघ्नो वै वह्निकुण्डेऽयुताब्दिकः ।
देवकृत्ये देववृत्तिहरः कृतघ्न उच्यते ॥७५॥
स्वदत्तां परदत्तां वा देवादिवृत्तिहारकः ।
रोमवर्षसहस्रं स शूलप्रोते प्रतिष्ठति ॥७६॥
तप्तांगारं च तद्भक्ष्यं पानं वै तप्तमूत्रकम् ।
तप्तांगारेषु शयनं ताडितो यमकिंकरैः ॥७७॥
ततो विष्टाकृमिर्भूत्वा वर्षषष्टिसहस्रकम् ।
ततो दरिद्रः कृपणो भूमिप्रजाविहीनकः ॥७८॥
रुग्णो निन्द्यो भवेच्छूद्रः कालान्तरे ततः शुचिः ।
काम्यकृत्यविनेष्टा च स्वपरस्वर्विनाशकः ॥७९॥
हन्ति यः परकीर्तिं च स्वकीर्तिं च नराधमः ।
स कृतघ्नः काम्यकेष्टापूर्तादिनाशकः स च ॥८०॥
अन्धकूपे महाघोरे वसेदाकल्पमेव हि ।
नकुलगृध्रकीटाद्यैर्भक्षितस्तप्तक्षारपः ॥८१॥
सप्तजन्मस्वतः सर्पः काकः पञ्चस्वतः शुचिः ।
द्विजार्चनस्य यो हन्ता कृतघ्नः स महान्मतः ॥८२॥
ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वाऽपि यो हरेत् ।
अवटोदे वसेत्सोऽपि कृतघ्नः कल्पमेव यत् ॥८३॥
ततो भवेत् सुरापश्च ततः शूद्रस्ततः शुचिः ।
नित्यकृत्यस्य यो हन्ता स कृतघ्नो महत्तरः ॥८४॥
पितृमातृगुरूंश्चापि भक्तिहीनो न पालयेत् ।
न नमेच्च सदा प्रातर्वाचापि ताडयेन्मुहुः ॥८५॥
तथा स्वस्वामिनं वाचा ताडयेत् कुलटा तु या ।
पूज्यपूजाविलोप्तारः कृतघ्नास्ते प्रकीर्तिताः ॥८६॥
वह्निकुण्डे वसन्त्येव यावच्चन्द्रदिवाकरौ ।
ततो भवेज्जलौकाश्च सप्तजन्मस्वतः शुचिः ॥८७॥
विश्वस्य घातनं कुर्यात् कृतघ्नः स महत्तमः ।
मिथ्यासाक्ष्यं यो ददाति कामात् क्रोधाद् भयात्तथा ॥८८॥
सभायां पाक्षिकं वक्ति पुण्यहन्ता कृतघ्नकः ।
सर्वत्रापि च सर्वेषां कृतस्य सुकृतस्य वै ॥८९॥
भोगकृतं च हन्तृत्वं कृतघ्नता प्रकीर्तिता ।
पुण्यहाः कृतहाः प्रोक्तः पुण्यं तु नश्वरं सदा ॥९०॥
तस्मात् कृष्णप्रसादाख्ये शाश्वते न कृतघ्नता ।
शाश्वतं पुण्यार्थ्यं वै नश्वरं नार्थ्यमेव तु ॥९१॥
मिथ्यासाक्षी पाक्षिकादिर्विश्वासहाश्च पुण्यहाः ।
यावदिन्द्रसहस्रं स सर्पकुण्डे वसेद् ध्रुवम् ॥९२॥
सर्पैस्तु भक्षितो भुंक्ते तद्विण्मूत्रं हि ताडितः ।
मण्डूकः कृकलासश्च सप्तजन्मसु जायते ॥९३॥
ततोऽरण्ये शाल्मलिद्रुर्मूकशूद्रस्ततः शुचिः ।
परदारगमनादि परधर्मावमेलनम् ॥९४॥
परधर्माचरणं वै कृतघ्नत्वे तु गण्यते ।
स्वयोग्यकर्मणां रोधः परार्हकर्मसंश्रयः ॥९५॥
कृतघ्नता भवत्येव तद्वाँश्चाण्डालसदृशः ।
कुंभीपाके वसेत्सोऽपि कल्पपर्यन्तमेव यत् ॥९६॥
अगम्यागमकः पश्चाद् भवेन्नपुंसकस्ततः ।
गलत्कुष्ठी सप्तजन्मा शूद्रः स्याच्च ततः शुचिः ॥९७॥
लोहसूर्म्यां पतेच्चापि ततो भवेन्नपुंसकः ।
चाण्डालस्तु ततो भूत्वा शूद्रो भूत्वा ततः शुचिः ॥९८॥
प्रकृष्टदानं कन्यादिदानं स्वर्णादिकाऽर्पणम् ।
कृत्वा तद्धन्ति दानं यः कृतघ्नः स प्रकीर्तितः ॥९९॥
कृतकार्यस्य नाशश्च कृतं जानाति नैव च ।
कृतघ्नः स षोडशधा कथितो भूप सर्वथा ॥१००॥
अतिथेरवमानेन जायते तु कृतघ्नता ।
तद्दोषस्य निवृत्त्यर्थमतिथिः पूज्यतां त्वया१०१॥
गृहे नीत्वा पूज्यतां च तत्पादाब्जे प्रसेव्यताम् ।
गृह्यतां तत्प्रसादश्च पज्जलं संनिपीयताम् ॥१०२॥
अर्ज्यतां चातिथेराशीर्दोषः प्रमार्ज्यतां तथा ।
ततो वनं गम्यतां च पुनः श्रीः प्राप्यतां शुभा ॥१०३॥
स्मर्यतां श्रीकृष्णनारायणस्वामी श्रियाः पतिः ।
दास्यति ते पुनर्भद्रां सम्पत्तिं मोक्षमच्युतः ॥१०४॥
इत्युक्त्वा मुनयः सर्वे ययुः स्वस्थानमेव च ।
सुयज्ञस्तं ननामादौ गृहं संप्राऽऽपयद् द्विजम् ॥१०५॥
पप्रच्छ नामगोत्रादि प्रसाद्य पूजया मुहुः ।
ऋषिः प्राह स्वकं नाम सुतपा इति विश्रुतम् ॥१०६॥
तत्पिता विरूपनामा विश्वरूपश्च तत्पिता ।
त्वष्टा तस्य पिता चापि तस्य पिता च कश्यपः ॥१०७॥
तत्पिता च मरीचिस्तत्पिता तु विश्वसृट् स्वयम् ।
ब्रह्मणः सप्तमश्चाहं पुरुषोऽस्मि भुवः पते! ॥१०८॥
महादेवो मम गुरुर्विद्यादाता सुमन्त्रदः ।
अभीष्टदेवः श्रीकृष्णनारायणः पतिः प्रभुः ॥१०९॥
तच्चिन्तयामि पादाब्जं न मे वाञ्च्छाऽस्ति सम्पदि ।
सालोक्यसार्ष्टिसारूप्यसामीप्यं राधिकापतेः ॥११०॥
तेन दत्तं न गृह्णामि विना तत्पादसेवनम् ।
श्रुत्वा सुयज्ञयज्ञे ते मुनीनामागमं नृप ॥१११॥
लालसां विष्णुभक्तिं ते सम्प्रापयितुमागतः ।
केवलानुगृहीतस्त्वं नहि शप्तो मयाऽधुना ॥११२॥
समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे ।
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥११३॥
ते पुनन्त्युरुकालेन कृष्णभक्तास्तु दर्शनात् ।
राजन्निर्गम्यतां गेहाद् देहि राज्यं सुताय तु ॥११४॥
श्रीकृष्णं भज राधेशं तदन्यन्नश्वरं त्यज ।
मच्छापेन महद्राज्यं परित्यज सदाऽनघ ॥११५॥
गलच्छरीरं तपसा कौ क्षितौ स्थितिमत् कुरु ।
राज्याऽऽडम्बरमायाढ्यबुद्ध्या संविरतो भव ॥११६॥
राजा विप्राज्ञया शान्तिं जग्राह विरतिं तथा ।
पप्रच्छ तीव्रसंवेगं गोलोकाऽऽप्तिप्रकारणम् ॥११७॥

इति श्रीलक्ष्मीनारायगीयसंहितायांप्रथमे कृतयुगसन्ताने सुयज्ञराज्ञो राजसूयान्तेऽसत्कृतसुतपोविप्रकृतशापः, पुनस्तत्कृतकृष्णपतिव्रतोपदेशेऽतिथिमहिमा, षोडशविधकृतघ्नता, ऋषिकृतोपदेशश्चेत्यादिनिरूपणनामा द्विचत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४२॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP