संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः १६० कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः १६० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६० Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! ततो नारायणो द्वावपि भूसुरौ ।तुलसीकानने नारायणघट्टे निषेदतुः ॥१॥श्राद्धार्थं कृतसंकल्पौ सर्वोपस्करसंयुतौ ।दर्भपिण्डफलपुष्पपायसान्नादिसंयुतौ ॥२॥नारायणद्वयहस्ताच्छ्राद्धं यत्र वितीर्यते ।उद्धरेत् सप्तगोत्राणां कुलान्येकोत्तरं शतम् ॥३॥पिता माता च भार्या च भगिनी दुहिता तथा ।पितृमातृस्वसा चैव सप्त गोत्राणि तानि वै ॥४॥चतुर्विंशतिर्वै पितुः विंशतिर्मातुरित्यपि ।भार्यायाः षोडश बोध्या भगिन्या द्वादश स्मृताः ॥५॥एकादश दुहितृश्च दश पितृस्वसुस्तथा ।अष्टौ मातृस्वसुर्बोध्या कुलान्येकोत्तरं शतम् ॥६॥नारायणे ह्रदे स्नात्वा तावुभौ द्विजसत्तमौ ।तर्पणं चक्रतुस्तत्र सृष्टित्रयसुखाप्तये॥ ७॥ब्रह्मसृष्टावीशसृष्टौ जीवसृष्टौ च चेतनाः ।तृप्यन्तां भगवद्ब्रह्मेश्वरजीवादिजातयः ॥८॥परब्रह्माऽक्षरधामस्थितं सर्वेश्वरं हरिम् ।प्रीणयामि जलेनैषस्तृप्यतां शाश्वती समाः ॥९॥परमात्माऽक्षरातीतः पुरुषोत्तम आत्मगः ।येन सर्वमिदं व्याप्तं तस्मै पिण्डं ददाम्यहम् ॥१०॥भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ।तस्मै श्रीहरये दत्तं तृप्तिमायातु वै हरिः ॥११॥अक्षरं यद्धाम चोक्तं व्यापकं सेवकं च यत् ।तस्मै धाम्ने जलं दत्तं तृप्तिमायातु शाश्वतीम् ॥१२॥दत्तं चतुर्विधं चान्नं पायसं कदलादिकम् ।एतत्पिण्डात्मकं दत्तं ब्रह्मणे ह्युपतिष्ठतात् ॥१रे॥मुक्ता ह्यनादिनो ये स्युश्चादिनो ये च तद्गताः ।भाविनो ये च यास्यन्ति मूर्तौ बाह्ये च ये स्थिताः ॥१४॥मुक्ता यथा तथा देव्यो मुक्तान्यो याश्च तत्स्थिताः ।ते च तास्तृप्तिमायान्तु जलेनानेन शाश्वतीम् ॥१५॥तेषां पायसमुख्यान्नैः कदल्यादिफलै सह ।भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ॥१६॥एषः पिण्डो मया दत्तस्तव हस्तेऽक्षरोत्तम! ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१७॥ऐश्वर्याणि समग्राणि गुणाश्चैव विभूतयः ।दिव्यचिह्नानि मूर्तेश्च भूषणानि तु यानि च ॥१८॥हेतयश्च समग्रा वै तेजांसि विविधानि च ।शक्त्योऽनेकरूपाश्च मूर्तौ हरेस्तु याः स्थिताः ॥१९॥मूर्ताऽमूर्तस्वरूपाभ्यो जलं यच्छामि श्रद्धया ।प्रीणयामि जलेनैतास्तृप्यन्तां शाश्वतीसमाः ॥२०॥तासां पायसमुख्यान्नैः कदल्यादिफलैः सह ।भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ॥२१॥ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन! ।देहि ताभ्यश्च सर्वाभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२२॥ताश्च ते तृप्तिमायान्तु श्राद्धेनाऽनेन शाश्वतीम् ।हरेस्तृप्त्या हरिस्थानां तृप्तिर्भवतु शाश्वती ॥२३॥धाम्न्यक्षरेच च मुक्तेषु याश्चैश्वर्यविभूतयः ।सामर्थ्यशक्तयश्चान्ये गुणाश्च स्मृद्धयश्च याः ॥२४॥भोग्यं भोगोपकरणं भोगसाधनमेव च ।सौधप्राकारगोप्राण्युद्यानक्षेत्रसुखस्थलम् ॥२५॥यद्यत् सर्वं ब्रह्मधामात्मकं मुक्तात्मकं च यत्॥भक्ष्यं भोज्यं लेह्यचोश्ये ह्यन्नं चतुर्विधं तु यत् ॥२६॥दिव्यं च चेतनं यद्यत् तत्रत्यं वर्तते सदा ।तत्सर्वं तृप्तिमायातु जलेनानेन शाश्वतीम् ॥२७॥तस्मै पायसमुख्यान्नैः कदल्यादिफलैः सह ।भक्ष्यं भोज्यं लेह्यचोश्यं ह्यन्नं चतुर्विधं शुभम् ॥२८॥ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२९॥नारायणोऽक्षरं धाम तन्मुक्तास्तद्विभूतयः ।ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥३०॥तत्र याः सांख्ययोगिन्यो भक्तिश्चोपास्तिरित्यपि ।मुक्तिराज्ञा मुमुक्षा च कथा वार्ता च दीक्षणा ॥३१॥परा विद्या रमा सेवा जयाद्या याश्च सेविकाः ।तत्रारण्यानि नद्यश्च पर्वता मुक्तकोटयः ॥३२॥उद्यानानि विहाराश्च भूमयोऽक्षरसंज्ञिकाः ।धातवः खनयः खाता उच्छ्रयाः शिखराणि च ॥३३॥विमानान्यपि सर्वाणि तत्तत्सेवकजातयः ।गान्धर्वा नर्तकास्तत्राऽऽख्यानका वंशबोधकाः ॥३४॥सेवका याज्ञिकाः साम्नां स्तावका व्यवसायकाः ।श्रांगारिकाः कलाकारा मुक्तानीमुक्तमण्डलाः ॥३५॥एवं दिव्येऽक्षरे धाम्नि यानि ये याश्च सन्ति तान् ।प्रीणयामि जलेनैते तृप्यन्तां शाश्वतीसमाः ॥३६॥तेषां पायसमुख्यान्नैः कदल्यादिफलैः सह ।भक्ष्यं भोज्यं लेह्यचोश्यं ह्यन्नं चतुर्विधं च यत् ॥२७॥ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२८॥अथ श्रीकृष्णदेवाय राधया विरजादिभिः ।रुक्मिण्या चाभियुक्ताय गोलोकाऽऽवासकारिणे ॥३९॥इदं जलं मया दत्तं तृप्त्यर्थमुपतिष्ठताम् ।अन्नं चतुर्विधं पायसान्नं चापि फलादिकम् ॥४०॥ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥४१॥वसुदेवो देवकी च नन्दो यशोवती तथा ।उद्धवः सात्यकिर्गर्गोऽक्रूरश्चान्ये च सात्त्वताः ॥४२॥रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।कालिन्दी मित्रविन्दा च सत्यभामा तथाऽपरा ॥४३॥भद्रा च लक्ष्मणा चेति महिष्यस्तत्र सन्ति याः ।शतं षोडशसाहस्रं पत्नीनां मण्डलं च यत् ॥४४॥सरस्वती द्रवा दिव्याः पार्षदा गोपगोपिकाः ।गावः सुरभयः कामधेनवो नीलगोवृषाः ॥४५॥चतुर्दन्ता हस्तिनश्च तुरगा गरुडास्तथा ।वृक्षा वल्ल्यश्च हंसाश्च शुकसारसमेनकाः ॥४६॥वादका नर्तकाश्चैव गायकाः सेवकास्तु ये ।राधासख्यो महिषीणां सख्यश्चापि च या मताः ॥४७॥षोडशे गोपुरे याश्च त्रयस्त्रिंशत्तु गोपिकाः ।तदन्यगोपुरेष्वेताः शतशो या हरिप्रियाः ॥४८॥द्वारपो यः श्रीदामा च सुदामा सुबलस्तथा ।सुपार्श्वो रत्नभानुश्च शक्रभानुस्तथैव च ॥४९॥देवभानुर्वसुभानुः सूर्यभानुश्च चन्द्रभः ।वीरभानुस्तथा चान्या गोप्यः सख्यश्च गोपकाः ॥५०॥सुशीला च चन्द्रकला यमुना माधवी रतिः ।कदम्बमाला सुकुन्ती जाह्नवी च स्वयंप्रभा ॥५१॥पद्ममुखी च सावित्री गायत्री सुमुखी सुधा ।पद्मालया पारिजाता सुगौरी सर्वमंगला ॥५२॥कालिका कमला दुर्गा भारती च सरस्वती ।गंगाऽम्बिका मधुमती चंपाऽपर्णा च सुन्दरी ॥५३॥कृष्णप्रिया ब्रह्मसती नन्दिनी नन्दना तथा ।पार्षदाश्च कुमाराश्च किंकर्यश्चापि या मताः ॥५४॥पारिजाताश्च वृन्दाश्चाऽक्षयो भाण्डीरको वटः ।कल्पवृक्षा वनान्यन्यचेतनानि च यान्यपि ॥५५॥शतशृंगादयो ये च गोलोकस्थास्तु चेतनाः ।ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥५६॥प्रीणयामि जलेनैते तृप्यन्तां शाश्वतीसमाः ।भक्ष्यं भोज्यं लेह्यचोष्यं चान्नं चतुर्विधं च यत् ॥५७॥ह्येते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥५८॥महावैकुण्ठधामस्थं त्वथ नारायणं प्रभुम् ।लक्ष्म्या च रमया युक्तं तर्पयामि जलेन च ॥५९॥मया दत्तं जलमेतच्छ्रीहरिं सूपतिष्ठताम् ।अन्नं चतुर्विधं पायसान्नं चापि फलादिकम् ॥६०॥ह्येष पिण्डो मया दत्तस्तव हस्ते जगद्भर ।गृहाण तृप्तिमायातु श्राद्धेनानेन शाश्वतीम् ॥६१॥महालक्ष्मीर्महामाया रमा याश्च हरिप्रियाः ।तत्र या धरणिर्लीला विमलोत्कर्षिणी तथा ॥६२॥ज्ञाना क्रिया च योगा च प्रह्वी सत्येशनी तथा ।पद्मा जया च पांचाली भार्गवी ललिता रमा ॥६३॥पार्वती च प्रभा माणिक्या लक्ष्मीरीश्वरी तथा ।अमृता च प्रदीपा च कृष्णा कुंभस्तनी तथा ॥६४॥अमूल्या तक्षिणी प्रेमा चतुरा मणिधन्यके ।ऊज्जयिनी नन्दना चोजस्वती कुरुजामिनी ॥६५॥नवव्रता मनोवारा रत्ना जाह्नविका तथा ।लड्डुमाना च मुक्ता चामृता मौक्तिकमानदा ॥६६॥कस्तूरी शान्तिदा हंसा कान्ता रेवा सवितृजा ।मूलजा रूटिका मंजुलिका देवी च निर्मला ॥६७॥गोदावरी रल्लयाता जटिला च दया रमा ।पानपात्री प्रचम्पा मत्प्रेमजा मिष्टगोपिका ॥६८॥मनुजा वंजुली पुष्पा महिष्यः परमात्मनः ।हेमजा राजती पद्मा नलिनी माधवी प्रियाः ॥६९॥तथा भक्ता धर्मदेवो नन्दः सुनन्द इत्यपि ।श्रुतदेवो जयन्तश्च विजयश्च जयस्तथा ॥७०॥चण्डश्चैव प्रचण्डश्च पुष्पदन्तश्च सात्वतः ।विश्वक्सेनो गरुडश्च प्रबलो बल इत्यपि ॥७१॥कुमुदः कुमुदाक्षश्च पार्षदाः सन्ति तत्र ये ।कूर्मः शेषश्च गरुडो हंसश्छंदांसि मन्त्रकाः ॥७२॥ते सर्वे तृप्तिमायान्तु तीर्थेनानेन वारिणा ।भक्ष्यं भोज्यं लेह्यचोष्यं पायसान्नं फलादिकम् ॥७३॥अर्पयामि हरेर्हस्ते पिण्डाँस्तृप्ता भवन्तु ते ।वादका गायका भक्ताः सूतमागधबन्दिनः ॥७४॥नर्तक्यो नर्तका द्वारपालका ये च पार्षदाः ।नारायण्यस्तथा चान्या नारायणाश्च तत्समाः ॥७५॥रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ।सुदक्षिणा सुशीला या भगवत्परिचारिकाः ॥७६॥भद्रः सुभद्रश्च धाता विधाता च तथा शुभाः ।पुण्डरीको वामनश्च शंकुकर्णादयस्तथा ॥७७॥महात्मानो महाभागा वैष्णवाः सात्वताश्च ये ।सिद्धयः कल्पवृक्षाश्च वनान्युद्यानचेतनाः ॥७८॥साकेतं पनसौ वृक्षौ वैष्णव्यः कन्यकाश्च याः ।द्वारपालाश्चायुधानि वेदाः पार्षदरूपिणः ॥७९॥प्रह्लादो नारदश्चैव पुण्डरीकः पराशरः ।अम्बरीषो ध्रुवश्चैव ये वै वैकुण्ठवासिनः ॥८०॥किंकर्यश्च हरेर्दास्यो दासदास्यश्च यास्तथा ।ते सर्वे तृप्तिमायान्तु जलेनानेन शाश्वतीम् ॥८१॥अन्नं चतुर्विधं भोज्यं पायसान्नं फलादिकम् ।एते पिण्डा मया दत्तास्तव हस्ते जगद्भर ॥८२॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।अथ द्वितीयवैकुण्ठे जलावरणपारगे ॥८३॥दिव्यो नारायणस्तस्य कान्ताः कमललोचनाः ।विमला सुमती श्यामा सुशीला कुशला तथा ॥८४॥दीपावली जयन्ती च रमा भागीरथी तथा ।सुखा च कनका विद्युल्लता चन्द्रकला तथा ॥८५॥लक्षशः प्रमदा याश्च पार्षदा दिव्यविग्रहाः ।ये च भरतशत्रुध्नलक्ष्मणाः शेषशारदाः ॥८६॥पुरी देववती तत्स्था दिव्या ईश्वरकोटयः ।दैवाः पतत्रिणो दिव्याः शाखिनो हेतयस्तथा ॥८७॥सर्वे ते तृप्तिमायान्तु तैर्थेनाऽन्नेन वारिणा ।अन्नं चतुर्विधं दुग्धपाकपक्वफलादिकम् ॥८८॥एते पिण्डा मया दत्तास्तव हस्ते जगद्भर ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥८९॥अथ तृतीयवैकुण्ठं श्वेतद्वीपाख्यधाम यत् ।तत्रस्थं श्रीहरिं नारायणं लक्ष्म्या समन्वितम् ॥९०॥तैर्थैरेतैः सुसद्वार्भिस्तर्पयामि स तृप्यताम् ।मिष्टं चतुर्विधं चान्नं पायसं च फलादिकम् ॥९१॥अर्पयामि मया दत्तः पिण्डः संप्रतिगृह्यताम् ।तत्रस्थाः सनकाद्याश्च योगिनः परमर्षयः ॥९२॥वोढुः पचशिखश्चैव सनत्सुजातसंज्ञकः ।अन्येऽपि ऋषयस्तत्र तन्वाद्याश्च वसन्ति ये ॥९३॥साध्व्यश्च साधवश्चान्ये तापसा ये वसन्ति च ।अनन्तो वैनतेयश्च हंसः करी सुवैष्णवाः ॥९४॥ईशावास्या महादेवी जाह्नवी कमला रमा ।सावित्री च तथा शान्ता कान्ता ब्राह्मी सरोजनी ॥९५॥दास्यश्चापि तथा तत्र प्रज्ञा मेधा धृतिः क्षमा ।श्रद्धा च धारणा शान्तिः श्रुतिर्मनीषिणी स्मृतिः ॥९६॥वृष्टिर्बुद्धिर्मतिर्वन्याः श्रियः किंकर्य एव याः ।दासा दास्यश्च ये तत्र चेतना मुक्ततापसाः ॥९७॥ते सर्वे तृप्तिमायान्तु जलेनानेन शाश्वतीम् ।अन्नं चतुर्विधं स्वादु पायसं च फलादिकम् ॥९८॥एतै पिण्डा मया दत्तास्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥९९॥अथ नारायणं दुग्धाब्धिवासं वै जगद्गुरुम् ।लक्ष्म्या शेषेण सहितं गरुडादिसमन्वितम् ॥१००॥तर्पयामि जलेनैषस्तृप्यतां मे जनार्दनः ।दौग्धं च सफलं पिण्डं ते ददामि करे विभो ॥१०१॥प्रीणयामि सभक्तं त्वां तृप्यतां शाश्वतीसमाः ।मार्कण्डेयो बलिर्बाणोऽश्वत्थामहनुमद्वराः ॥१०२॥निमिर्बिभीषणः पर्शुरामो व्यासो मनुस्तथा ।सत्यव्रतश्च नन्दश्च गयश्चान्ये च पार्षदाः ॥१०३॥अन्याश्च सेविकास्तत्र नर्मदा तपती तथा ।तुंगभद्रा च कावेरी गंगा गोदावरी तथा ॥१०४॥सिन्धुः फल्गुर्गण्डकी च ताम्रपर्णी सरस्वती ।करतोया कर्मनाशा साभ्रमती च गोमती ॥१०५॥ओजस्वती भद्रावती सरयूः स्वर्णरक्षिका ।इन्द्रद्युम्नं पुष्करं च नारायणसरस्तथा ॥१०६॥अश्वपट्टसरश्चैव मानसं च सरोवरम् ।एवं नदाश्च नद्यश्च सरांसि सागरास्तथा ॥१०७॥चिरायुषो मूर्तिमन्तो भक्तास्तत्र वसन्ति ये ।तेभ्यो नारायणं तोयं श्राद्धं सफलपायसम् ॥१०८॥अर्पयामि तथा पिण्डान् तव हस्ते जगद्भर ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१०९॥अथाऽव्याकृतधामस्थं भूमानं रमयाऽर्चितम् ।तद्भक्तैः सेवितं वासुदेवं संकर्षणं तथा ॥११०॥प्रद्युम्नं चानिरुद्धं च महाकालं च पूरुषम् ।महापुरुषमेवाऽत्र तथा प्रकृतिपूरुषम् ॥१११॥प्रधानपुरुषं चैव महाविष्णुं महारमाम् ।दासदासीसमेताँस्तान्प्रीणयामि जलेन वै ॥११२॥चतुर्विधेन भोज्येन पायसान्नफलादिभिः ।सर्वे ते तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥११३॥अमृतधामसंस्थं वै रमानारायणं प्रभुम् ।नरनारायणौ बद्रिकाश्रमस्थौ तपस्विनौ ॥११४॥मत्स्यं कूर्मं वराहं च तत्तद्धामनिवासिनम् ।दत्तात्रेयं च कपिलं पृथुं हंसं च वामनम् ॥११५॥ऋषभं नृहरिं पर्शुरामं यज्ञं कुमारकान् ।हयग्रीवं नारदं च हरिं बुद्धं मनुं तथा ॥११६॥व्यासं तत्तद्धामसंस्थान् मुक्ताँश्च पार्षदाँस्तथा ।दासदासीश्च भक्ताँश्च तर्पयामि जलेन च ॥११७॥चतुर्विधेन भोज्येन पायसान्नफलादिभिः ।ते सर्वे तृप्तिमायान्तु श्राद्धेनाऽनेन शाश्वतीम् ॥११८॥एते पिण्डा मया दत्तास्तव हस्तेऽवतारिणः ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥११९॥हिरण्यगर्भं वैराजं चाऽष्टाऽवरणकेश्वरान् ।विष्णुं सदाशिवं मूलां मायां तत्त्वानि यानि च ॥१२०॥तत्तद्देवाश्च तेषां च गुणा ये चेतनास्तथा ।तत्र तत्र गताँश्चान्यानैश्वरान् चेतनाँस्तथा ॥१२१॥वैराजाँश्चेतनान्सौरान्वाह्नेयाँश्चेतनाँस्तथा ।ऐशलोकान्समस्ताँश्च तर्पयामि जलेन वै ॥१२२॥चतुर्धा भोज्यसंभारैः पायसान्नफलादिभिः ।ते सर्वे तृप्तिमायान्तु नारायणकरार्पणात् ॥१२३॥एते पिण्डा मया दत्तास्तृप्यन्तां शाश्वतीसमाः ।ये सहस्रमुखाश्चान्ये शताद्याननविष्णवः ॥१२४॥ब्रह्माणश्च तथाऽऽस्याश्च शंभवश्च तथाऽऽननाः ।कोटिशः शक्तिसहितास्तृप्यन्तां तीर्थवारिभिः ॥१२५॥पायसान्नचतुरन्नैस्तथाऽर्पितफलादिभिः ।एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१२६॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।गुणत्रयं चतुरन्तःकरणं दशबाह्यकम् ॥१२७॥करणं दशभूतानि दश प्राणांश्च चेतनाः ।धातवस्तृप्तिमायान्तु दत्तान्नफलवारिभिः ॥१२८॥लिंगं बाणस्तथा स्थाला शंभुः सती च कार्तिकः ।गणेशः क्षेमलाभौ चर्द्धिः सिद्धिः शिवयोगिनः ॥१२९॥योगिन्यो हनुमान् दुर्गा देव्यश्चापि कुमारिकाः ।रुद्राश्चैकादश कोटिः शतं ज्योतींषि द्वादश ॥१३०॥गंगा च वीरभद्रश्च जलंधरश्च तारकः ।तारकाक्षो गजश्चापि महिषश्चण्ड इत्यपि ॥१३१॥प्रचण्डो नन्द उपनन्दः शृंगी भृंगिरीटिकौ ।किरीटी चन्द्रमाश्चापि वह्निर्मंगल इत्यपि ॥१३२॥दुर्वासाः कालभीरुश्च विष मुण्डादिसद्गणाः ।त्रिशूलं वासुाकिश्चापि रुद्राक्षो वृषभस्तथा ॥१३३॥मयूरो मूषकः सिंहः कैलासस्तद्विभूतयः ।कर्णघंटा मेघनादश्चान्ये ये कोटिशो गणाः ॥१३४॥महाकाल्यादयो याश्च पार्वत्याः शक्तयस्तथा ।कैलासस्तद्गताः सर्वे शैवा ये चेतनागणाः ॥१३५॥दासा दास्यश्च ते सर्वे तृप्यन्तां तीर्थवारिभिः ।चतुरन्नं फलं पेयं पायसं योग्यमेव यत् ॥१३६॥ह्येते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१३७॥ये ये शैवाश्च ते सर्वे तृप्यन्तां शाश्वतीसमाः ।ब्रह्मा च ब्रह्मपुत्राश्च ब्रह्मपत्न्यस्तथा च याः ॥१३८॥सरस्वती च गायत्री सावित्री विरिणी तथा ।असिक्नी च पलिक्नी च शतरूपा च कद्रुकी ॥१३९॥रतिः सन्ध्या तथा सृष्टिर्विद्याऽविद्या च मोहिनी ।अष्टाशीतिसहस्राणि बालखिल्यास्तथा च ये ॥१४०॥तथा षष्टिसहस्राणि बालखिल्याश्च येऽपरे ।हर्यश्वाः शबलाश्वाश्च दशपंचसहस्रकाः ॥१४१॥अर्धं चैकं सहस्रं च पुत्रा ये ब्रह्मवंशजाः ।देवर्षिनारदाद्याश्च सनकाद्या महर्षयः ॥१४२॥सप्तर्षयश्च दक्षाद्या धर्माऽधर्मौ सवंशकौ ।अग्निष्वात्ता बर्हिषदाः आज्यपाः सोमपास्तथा ॥१४३॥पितरश्च तथा मेघाश्चत्वारो मदनो रतिः ।पञ्चबाणाश्च पुष्पाणि ब्रह्मचारिण इत्यपि ॥१४४॥ऊर्ध्वस्रोतस एवैवं सत्यलोकगताश्च ये ।विद्यावन्तस्तापसाश्च त्यागिनो न्यासिनस्तथा ॥१४५॥ब्रह्मलोककृताऽऽवासाः साध्यश्च साधवस्तथा ।ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥१४६॥प्रीणयामि स्वर्णरेखाजलैः सत्पायसादिभिः ।चतुरन्नैः फलैः पेयैस्तृप्यन्तां शाश्वतीसमाः ॥१४७॥एते पिण्डा हरेर्हस्ते दत्तास्तृप्ता भवन्तु ते ।अथ ये ऋषयश्चान्ये यानि मन्वन्तराणि च ॥१४८॥व्यासाश्च व्यासशिष्याश्च मुनयो ब्रह्मवर्चसः ।पत्नीव्रतादयो विप्रा वर्णाश्चैवाऽऽश्रमास्तथा ॥१४९॥वेदाः शास्त्राणि चाख्यानान्युपव्याख्यानकान्यपि ।प्राच्याऽऽवाच्येतिहासाश्च चरित्राणि कथास्तथा ॥१५०॥छन्दाः स्वरास्तथा रागा रागिण्यश्च प्रबन्धकाः ।व्यापारा वृत्तयश्चैव क्षुत्तृषानलधातवः ॥१५९१॥समूर्ताश्चेतना ये स्युस्तृप्तिमायान्तु वारिभिः ।पायसान्नैश्चतुरन्नैस्तृप्यन्तां शाश्वतीसमाः ॥१५२॥महर्जनतपोवासा ऋषयः पितरश्च ये ।संवत्सरश्च मासाश्च पक्षाश्च दिवसा निशाः ॥१५३॥पावकः पवमानश्च पांक्तेयः पक्तिपावनः ।गार्हपत्यो दाक्षिणात्य आवसथ्योऽग्निहोत्रजः ॥१५४॥आरार्त्रिको नाचिकेता बार्हस्पत्यश्च चूल्लिजः ।वानप्रास्थ्यश्च सान्यस्यो भौम उदर्य इत्यपि ॥१५५॥दिव्य आकरजश्चैव शावः श्माशानिकस्तथा ।दावो दवश्च मखजो ज्वालास्यो वाडवस्तथा ॥१५६॥ह्येते ये पितरः प्रोक्तास्तथा वैश्रवणादयः ।प्रेताश्च पितरो याम्या नारकाः श्रावणास्तथा ॥१५७॥दूताश्च पितरस्त्वन्ये यातनाः पितरस्तथा ।वंशजाश्चाऽन्यवंशादिजन्मानः स्थावरेषु ये ॥१५८॥जंगमेषु तथोद्भूता वायुजाः पितरश्च ये ।प्रभिन्नाः प्रतिकल्पं मुन्यृष्यर्यमादिकाश्च ये ॥१५९॥पितरस्ते जलैरेतैस्तृप्यन्तां शाश्वतीसमाः ।अन्नं चतुर्विधं पायसान्नं फलादिकं तथा ॥१६०॥मुन्यन्नं चैव योग्यान्नं चार्पयामि करे हरेः ।एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१६१॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।दिशांपाला लोकपालाः स्वर्गपालास्तथा च ये ॥१६२॥इन्द्राद्यष्टावणिमाद्याश्चाष्टौ वै सिद्धयस्तथा ।आयाद्या वसवश्चाष्टौ दिशश्चाष्टौ नवग्रहाः ॥१६३॥निधयश्च नव ये विद्याध्राः षण्मातरः खलु ।ताराश्च केतवः क्षुद्रतारका धूम्रकेतवः ॥१६४॥सूर्याश्च द्वादशादित्याश्चन्द्रत्रयं च तत्कलाः ।सप्तविंशतिभान्येव त्रयस्त्रिंशच्च देवताः ॥१६५॥मरुतो विद्युतश्चैव साध्ये विश्वे च देवताः ।सिद्धचारणगन्धर्वाः सूतमागधबन्दिनः ॥१६६॥किंपुंसः किन्नरास्तृप्तिं यान्तु प्रदत्तवारिभिः ।अन्नं चामृतदुग्धान्नं पक्वं पक्वफलादिकम् ॥१६७॥सर्वं चतुर्विधं भोज्यं पेयं बहुविधं तथा ।एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१६८॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥१६९॥भुवर्लोकगता ये च येऽन्तरीक्षगतास्तथा ।वाय्वाधारा वायुदेहा यक्षास्तथा च राक्षसाः ॥१७०॥भूताः प्रेताः पिशाचाश्च कूष्माण्डाश्च विनायकाः ।वेताला भैरवाश्चान्ये मारका जनकास्तथा ॥१७१॥मातुला राहवश्चान्ये कालवर्णाश्च कालिकाः ।डाकिनी शाकिनी चैव योगिनी भक्षिणी तथा ॥१७२॥वेतालिनी खञ्जिनी च शीतला मातृका तथा ।मारिका बालिकी कृत्या हिक्का तथा च तानिका ॥१७३॥आकर्षिणी महामारी ज्वराः शीतास्तथोष्णकाः ।रोगाश्च राजरोगाश्च प्रोत्तापाश्च जरादयः ॥१७४॥अवस्थाः शक्तयोऽशक्तिविशेषा रोगिणी तथा ।मन्त्रास्तन्त्राश्च यन्त्राश्च शपथा बन्धनानि च ॥१७५॥पाशा अस्त्राणि शस्त्राणि विद्युतो दुर्दिनं तथा ।दिङ्भ्रमोऽलातचक्राणि मेघाश्चाभ्राणि चान्धयः ॥१७६॥तृणावर्तास्तथोत्पाता भूकम्पा वातवृष्टयः ।ईतयश्चाततायिन्यो रजोवर्षादयश्च ये ॥१७७॥ते सर्वे तृप्तिमायान्तु तैर्थिकैर्वारिभिः सदा ।प्रीणयामि जलैरर्थैस्तृप्यन्ता शाश्वतीसमाः ॥१७८॥माषान्नं कृशरान्नं च खेचरान्नं च तामसम् ।विविधान्नं राजसं च पायसान्नं चतुर्विधम् ॥१७९॥अन्नं तथा फलं पेयं योग्यं योग्यं ददाम्यहम् ।तत्तदन्नैर्मया दत्ताः पिण्डाश्च करयोर्हरेः ॥१८०॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।सर्वे भवन्तु तृप्तास्ते श्राद्धेनानेन सर्वदा ॥१८१॥भूलोकस्था जरायूजा अण्डजाः स्वेदजास्तथा ।उद्भिजाश्चेतनाः सर्वे ब्राह्मणाः क्षत्रियास्तथा ॥१८२॥वैश्याः शूद्राः संकराश्च चाण्डालाः पतितास्तथा ।अनुलोमा प्रतिलोमा अलोमा अर्धमानवाः ॥१८३॥नैष्ठिकाः सगृहा वानप्रस्थाः सन्न्यासिनस्तथा ।शैवाश्च वैष्णवाः शाक्ता वैदिकाश्च तदन्यकाः ॥१८४॥गोरोमजाश्च जलजाः स्थलजा व्योमजास्तथा ।क्षुद्रा जीवा महान्तश्च कीटाः पतंगपक्षिणः ॥१८५॥आतृणस्तम्बपर्यन्तास्तथा गृहप्रदेवताः ।ग्रामदेवा वनदेवाः क्षेत्रपालास्तथैव च ॥१८६॥देहे षट्चक्रदेवाश्च कपाले गुरुदेवताः ।वनानि पर्वताश्चैवाऽरण्यानि सरितस्तथा ॥१८७॥नद्यश्चापि तडागाश्चाऽऽरामाश्चैव सरांसि च ।खाताश्चैव तथाऽखातान्यब्धयो ह्युच्छ्रयास्तथा ॥१८८॥रणाश्च मरुदेशाश्च देवस्थानानि सर्वशः ।चैत्यवृक्षाश्चैत्यकोष्ठाश्चैत्यानि पुलिनानि च ॥१८९॥देव्यालयाश्च जीर्णा भूर्ग्रामाः खेटाश्च खर्वटाः ।नगराणि राजधानी पुराणि च पुरी तथा ॥१९०॥ये तत्र चेतनाः सन्ति तदधिष्ठातृचेतनाः ।ते सर्वे तृप्तिमायान्तु दत्तैरेभिर्जलैः सदा ॥१९१॥तेषां च विविधैरन्नैराग्नेयैर्वायवीयकैः ।जलीयैः पार्थिवैश्चैव वृष्टिजैर्विकृतैस्तथा ॥१९२॥चतुरन्नैर्भक्ष्ययोग्यैः पायसादिभिरित्यपि ।बाष्पैश्च मेघकणकैर्वार्क्षरसैश्च कर्दमैः ॥१९३॥शैत्यैश्चन्द्रकरैः सौर्यैर्विषैरन्यैः फलादिभिः ।फेनैश्चापि करोम्यत्र श्राद्धं तृप्ता भवन्तु ते ॥१९४॥प्रीयणामि जलैरेते तृप्यन्तां शाश्वतीसमाः ।तेषां तृप्तिप्रदाः पिण्डा दत्ता हरिकरे मया ॥१९५॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।मातॄर्मातामहीश्चैव तथैव प्रपितामहीः ॥१९६॥पितॄन् पितामहाँश्चैव तथैव प्रपितामहान् ।भ्रातॄन् स्वसॄर्भ्रातृजायार्जामातॄन् मातुलादिकान् ॥१९७॥भातृपुत्रादिकान् पत्नीः श्वशुरस्य कुटुम्बिनः ।पितृस्वसॄर्मातृस्वसॄर्दुहितृश्च सुयोगिनीः ॥१९८॥तत्पुत्रपुत्रीपौत्र्यादीः प्रीणयामि जलादिभिः ।तथा पायसमुख्यान्नैश्चतुरन्नैस्तथा फलैः ॥१९९॥तेषां श्राद्धं करोम्येते तृप्तिमायान्तु शाश्वतीम् ।एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥२००॥देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।प्रीणयामि जलान्नैस्ते तृप्यन्तां शाश्वतीसमाः ॥२०१॥प्राचेतसान्नाचिकेतान्मारुतान्कालकेयकान् ।याम्यान् संशप्तकान्वार्क्षान् भूजातान् शलभादिकान् ॥२०२॥तथाऽतलादिलोकस्थान् दैत्यदानवराक्षसान् ।सर्पान्सरीसृपान्नागान् येऽन्ये वसन्ति तानपि ॥२०३॥प्रीणयामि शीतमिष्टजलान्नफलपायसैः ।पिण्डाँस्तेभ्यश्चार्पयामि तृप्यन्तां शाश्वतीसमाः ॥२०४॥इष्टदेवं तथाब्रह्म प्रगुरुं च गुरुं तथा ।प्रीणयामि तीर्थजलैः पायसान्नैः फलैस्तथा ॥२०५॥ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ।एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥२०६॥देहि तेभ्यश्च सर्वेभ्यस्तप्तिमायान्तु शाश्वतीम् ।ईशावास्यमिदं सर्वं तृप्यतां परमेश्वर! ॥२०७॥भूतभाविवर्तमाना गत्यगतिगताश्च ये ।प्रीणयाम्यन्नसलिलैस्तृप्यन्तां शाश्वतीसमाः ॥२०८॥मेरुगतास्तथा लोकालोकाचलसमाश्रिताः ।तृप्तिमायान्तु ते दुग्धपाकैः फलजलादिभिः ॥२०९॥अस्मृताश्चाऽनवधाना अनागताश्च येऽसवः ।प्रीणयामि च तान्सर्वान् फलान्नसलिलैस्तथा ॥२१०॥एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२११॥नारायणकृतं श्राद्धं नारायणेन कारितम् ।सृष्टित्रयं सुतृप्तं वै शाश्वतं सुखमाप तत् ॥२१२॥ये च तत्राऽऽगताः सर्वे तृप्तिमादाय शाश्वतीम् ।लोकं स्वं स्वं गताः सर्वे श्राद्धं पूर्णं कृतं च तत् ॥२१२॥तर्पणात् सततं तेषां तृप्तिर्भवति शाश्वती ।पुष्ट्यैश्वर्यं श्राद्धकर्तुरायुः सन्ततिरित्यपि ॥२१४॥विचित्रा भजते लक्ष्मीर्मोक्षस्तं भजते क्रमात् ।देवताभ्यश्च पितृभ्यो महायोगिभ्य इत्यपि ॥२१५॥स्वाहायै च स्वधायै च नमो नित्यं भवत्युत ।श्राद्धे जाप्यो भवेन्मन्त्रः श्रीरायुर्बलवर्धनः ॥२१६॥प्रीयन्ते पितरो येन जप्येन नियमेन च ।सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥२१७॥अमूर्तानां समूर्तानां पितृणां दीप्ततेजसाम् ।नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगिचक्षुषाम् ॥२१८॥इन्द्रादीनां जनेतारो भगुमारीचयोस्तथा ।सप्तर्षीणां च पितॄणां तान्नमस्यामि कामदान् ॥२१९॥मन्वादीनां सुरेशानां सूर्याचन्द्रमसोस्तथा!तान्नमस्कृत्य सर्वान् वै पितॄन् कुशलदायकान् ॥२२०॥नक्षत्राणां चरादीनां पितॄनथ पितामहान् ।द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ॥२२१॥देवर्षीणां जनयितृन्सर्वलोकनमस्कृतान् ।अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥२२२॥प्रजापतेः कश्यपाय सोमाय वरुणाय च ।योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥२२३॥पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे' ॥२२४॥अनेन विधिना युक्तस्त्रीन्वराँल्लभते जनः ।अन्नमायुः सुताँश्चैव ददते पितरो भुवि ॥२२५॥भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ।सप्तार्षिचं जपेद् यः स पृथिव्यामेकराड् भवेत् ॥२२६॥किन्न्वधिकं प्रवक्तव्यं सर्वेषां मुक्तिदं स्थलम् ।शृंगिभिर्दंष्टिभिर्व्यालैर्विषवह्निस्त्रिया जलैः ॥२२७॥क्रीडां कुर्वन्मृतो यश्चाऽगतिकः प्रेतयोनिजः ।नागानां विप्रियं कुर्वन् हतश्चाप्यथ विद्युता ॥२२८॥निगृहीतः स्वयंराज्ञा चौर्यदोषेण वै मृतः ।परदारान् रमन्तश्च द्वेषात् तत्पतिभिर्हताः ॥२२९॥असमानैश्च संकीर्णैश्चाण्डालाद्यैश्च विग्रहम् ।कृत्वा तैर्निहतास्ताँश्च चाण्डालादीन् समाश्रिताः ॥२३०॥गवाऽग्निविषदाश्चैव पाषंडाः क्रूरबुद्धयः ।क्रोधात्प्रायो विषं वह्निं शस्त्रमुद्बन्धनं जलम् ॥२३१॥गिरेर्वृक्षात्पपातं च य कुर्वन्ति सुदुःखिताः ।कुशिल्पजीविनो ये च पञ्चसूनाधिकारिणः ॥२३२॥मखे सर्पासु ये केचिद् दीनप्राया नपुंसकाः ।साधुदण्डहता ये च ये चापि ब्राह्मणैर्हताः ॥२३३॥महापातकिनो ये च पतिता ये च संकराः ।मृता वा जीविनो वापि स्वयं वाऽन्यकृतेन च ॥२३४॥स्नानेन शुद्धिमायान्ति नारायणह्रदाऽप्सु वै ।इति ते कथितं लक्ष्मि ह्रदमाहात्म्यमुत्तमम् ॥२३५॥सर्वपापप्रशमनं पितॄणां भुक्तिमुक्तिदम् ।यः शृणोति नरो भक्त्या श्राद्धे पर्वणि वाऽन्वहम् ॥२३६॥श्रावयेद्वा वरारोहे ॥सोऽपि स्याद् ब्रह्मलोकभाग् ।इदं स्वस्त्ययनं पुण्यं धन्यं स्वर्गतिदं नृणाम् ॥२३७॥यशस्यमपि चाऽऽयुष्यं पुत्रपौत्रविवर्धनम् ।पूजाश्राद्धात्मकं दिव्य कर्म हरिद्वयाऽर्पितम् ॥२३८॥स्नात्वा दामोदरे कुण्डे मृगीकुण्डे तथा पुनः ।नारायणहृदे स्नात्वा श्राद्धं कुर्यादितिस्थितिः ॥२३९॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वयोर्नारायणयोर्नारायणह्रदजले ब्रह्मधामगोलोकवैकुण्ठश्वेतबद्रिकाश्रमाऽमृताऽव्याकृतक्षीरसागरादिगोलखगोलभूगोलस्थानां सार्वभौमश्राद्धतर्पणकरणम् सप्तार्चिस्तवनं फलं चेत्यादिनिरूपणनामा षष्ठ्यधिकशततमोऽध्यायः ॥१६०॥ N/A References : N/A Last Updated : March 27, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP