संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १२

कृतयुगसन्तानः - अध्यायः १२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु पद्मे प्रवक्ष्यामि ब्रह्माऽण्डानि यथाऽकरोत् ।
चतुर्विशतितत्त्वात्मवैराजतनुमध्यतः ॥१॥
ब्रह्मा कराञ्जली पिण्डं गृहीत्वैकं च तं पुनः ।
मर्दयित्वाऽसंख्यभागानणुरूपानकल्पयत ॥२॥
ताँश्च हस्ततले धृत्वा फुत्कारेणोदडीडयत् ।
सत्त्वात्मकमहाकाशे समन्तादुड्डितास्तु ते ॥३॥
अण्डस्वरूपगोलात्मब्रह्माण्डान्यभवन् प्रिये ।
तदानीं ब्रह्मणा तत्र संकल्पा बहवः कृता ॥४॥
'महाम्बरे प्रतिष्ठन्तु सर्वेऽसंख्याऽणवः पृथक् ।
परस्परं सदा तत्राऽघट्टयन्तः स्थिराः इति ॥५॥
सर्वे तथैव वर्तन्ते परस्परमनाहताः ।
'अथ प्रत्येकमध्येऽस्तु महाकाशोऽवकाशदः, ॥६॥
इति संकल्पमात्रेण मध्याकाशास्तदाऽभवन् ।
तत्र चनुर्दशाद्याश्च भूमिकाः संभवन्त्विति ॥७॥
तादृक्संकल्पमात्रेण चतुर्दशादिभूमिकाः ।
प्रत्येकाऽण्डे नु जाता सन्तमोव्याप्ता हि सर्वशः ॥८॥
तेषु प्रवेशनार्थाय ब्रह्मविष्णुमहेश्वराः ।
योगशक्त्याऽसंख्यसूक्ष्मस्वस्वरूपाण्यधारयन् ॥९॥
तत्तण्डे तत्र तत्र देवाः प्रविविशुस्त्रयः ।
तत्राऽऽलोक्य तमस्तीव्रं वेधाः संकल्पमाचरत् ॥१०॥
सर्वेष्वत्र प्रबिलेषु तेजोद्रव्याणि सन्त्विति ।
तदा सर्वपरे लोके सत्यदीपः प्रकाशितः ॥११॥
सत्यसंयमजो दीपो यतस्तत्र प्रकाशते ।
अतस्तद्भूमिकायास्तु सत्यलोक इति प्रथा ॥१२॥
ततोऽधोभूमिकायान्तु तपसश्च प्रकाशनात् ।
ततोलोकइतिख्यातिर्ब्रह्मणा परिकल्पिता ॥१३॥
ततोऽप्यधस्तरे पितृजनानां पुण्ययोगतः ।
प्रकाशः समभूत्तस्माज्जनलोकाऽभिधा कृता ॥१४॥
ततोऽधो भूमिकायां वै महर्दीपः प्रकाशितः ।
पितृदेहोत्थसत्तेजो महश्चेत्यभिनिश्चितम् ॥१५॥
महःप्रदीपयोगाद्वै महर्लोकाभिधा कृता ।
ततोऽधस्तात्तथा लोके सूर्यप्रदीपसंगमात् ॥१६॥
स्वर्गलोकस्तथा ताराद्योतनाद द्यौरिति प्रथा ।
ततोऽधस्तादन्तराले नक्षत्रेक्षणदीपनात् ॥१७॥
अन्तरीक्षमिति ख्यातिर्भुवर्भूविवराढपि ।
अतोऽधस्ताद्भूमिकायां पृथोरग्नेः प्रकाशनात् ॥१८॥
अग्निनामा पृथिवीति भूरिति भ्राजनादपि ।
ततोऽधस्तात्तलाना तु सप्तानां सप्त दीपकाः ॥१९॥
मणयः मणि दिव्यार्थास्तत्तदाद्यक्षरादियुक् ।
तत्तन्नाम कृतं सम्यक् तत्तन्नामानि मे शृणु ॥२०॥
ओषधयस्त्वधोलोके प्रकाशन्तेऽतलं ततः ।
वैदूर्यमणितेजस्त्वाद् वितलं तदधः स्मृतम् ॥२१॥
कौस्तुभस्तोमकान्त्या च सुतलं तदधो मतम् ।
फणातालुमणिदीपात् तलातलमितीरितम् ॥२२॥
मारकतमणीनां तु प्रकाशात्तन्महातलम् ।
रत्नानां तु विभिन्नानां प्रकाशात्तद् रसातलम् ॥२३॥
पुष्पराजमणीनां च प्रकाशात् पत्तलस्थितेः ।
पातालमिति तत्संज्ञा कृता वै ब्रह्मणा स्वयम् ॥२४॥
महर्जनतपसत्यप्रस्तराः पुण्यतत्त्वजाः ।
स्वर्गे तेजस्स्तरो वायोः स्तरो भुवरितीरितः ॥२५॥
पृथिव्यास्तु कृता भूश्चाऽतलाद्यास्तु तमस्स्तराः ।
इत्येवं तत्स्तराणां वै क्लृप्तनं ब्रह्मणा कृतम् ॥२६॥
तेष्वपि पार्थिवा भागा दार्ढ्यार्थं स्वल्पमात्रकाः ।
क्वचित्तेजोमया भागा धातवः स्तरमिश्रिताः ॥२७॥
क्वचिज्जलीयभागाश्च सुदृढास्तामसा अपि ।
स्तराः प्रजासमाधारा विवराख्या भवन्ति हि ॥२८॥
अथ ब्रह्मा स्तराधारं स्तंभं मध्येऽप्यकल्पयत् ।
सौवर्णः स तु पातालादासत्यं सुव्यवस्थितः ॥२९॥
सत्यलोके स्वकं धाम ब्रह्मा वै समकल्पयत् ।
मध्यलोके तु कैलासं शंभुः स्वं समकल्पयत् ॥३०॥
विष्णुस्तु शेषशायी स्वं पातालाऽधो जले स्वकम् ।
क्षीरे तु सागरे वासं स्वयोग्यं समकल्पयत् ॥३१॥
योगिनां दर्शनार्थं वै नारदादि महात्मनाम् ।
देवानां चापि सिद्धानां गतिर्यत्र भवत्यपि ॥३२॥
ऋषीणां च गतिर्यत्र रुचिरं धाम तन्मतम् ।
अन्येषां दिव्यदेहानां यत्र वै सुगतिर्भवेत् ॥३३॥
द्वितीयं तादृशं श्वेतद्वीपाख्यं समरोचयत् ।
क्षीराब्धेश्चोत्तरे भागे दिव्यो द्वीपः स वै स्मृतः ॥३४॥
ततश्चापि तृतीयं स्वं मानवैर्गम्यमर्थदम् ।
भूमौ हिमगिरेः शृंगे बद्रिकाश्रमनामकम् ॥३५॥
नरनारायणमूर्त्या तपस्तपति तत्र सः ।
लोकक्षेमकरा देवा ब्रह्मविष्णुमहेश्वराः ॥३६॥
प्रयतन्ते सदैवं ते रक्षार्थं तत्स्थिता यतः ।
तेषां धामानि चाऽण्डेऽत्र भौतिकान्यवराणि च ॥३७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽसंख्यब्रह्माण्डोत्पत्तिस्तर-व्यवस्थात्रिदेववासादिनिरूपणनामा द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : March 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP