संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १५

कृतयुगसन्तानः - अध्यायः १५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
लक्ष्मी! प्रजानां सुखदा सृष्टिः कार्या मया पुनः ।
पद्मजेन विचार्येत्थं धर्मः स्वहृदयात्कृतः ॥१॥
शुभ्रवर्णः सुप्रकाशो विद्याशक्तिसमन्वितः ।
सुखस्वर्गप्रमोक्षादिफलदः सात्त्विकप्रियः ॥२॥
धर्मस्यापि तथा पत्न्यः श्रद्धा शान्तिर्दया गतिः ।
मेधा तुष्टिस्तथा पुष्टिर्मैत्री लज्जा क्रियोन्नतिः ॥३॥
मूर्तिर्बुद्धिस्तितिक्षा च भक्तिराराधनादिकाः ।
धर्मेण सह सञ्जाता हृदयाद्वेधसस्तु ताः ॥४॥
तासां प्रजास्तु सौम्याऽऽस्याः सौम्यरूपाः सुखप्रदाः ।
ऐश्वर्यं चाऽऽर्जवं ज्ञानं वैराग्यमभयं तपः ॥५५॥
स्थैर्यं धैर्यं सुखं क्षेमः सत्यं शौचं च मार्दवम् ।
त्यागो योगो दमो यज्ञः सन्तोषो निग्रहः शमः ॥६॥
आस्तिक्यं .च प्रसादश्च तेजः स्वाध्याय उद्यमः ।
प्रश्रयोध्यानमर्थश्च साम्यं लाभश्च वेदनम् ॥७॥
अलोभोऽमत्सरोऽदंभोऽकामोऽक्रोधोऽरसस्तथा ।
अमोहो निर्मदोऽदर्पोऽस्नेहोऽमानोऽकलिः ऋतम् ॥८॥
अपारुष्यमशौचं च विश्वासोऽचौर्यमेव च ।
अगर्वोऽद्युतमभयमद्वेषोऽरागमेव च ॥९॥
अपैशुन्यमपापं च पुण्यं सत्कर्म इत्यपि ।
ऋजुत्वं चाऽशठत्वं चाऽव्यसनं दानमित्यपि ॥१०॥
इत्येते धर्मपुत्रा वै जज्ञिरेऽथ कुमारिकाः ।
दया सूक्तिरहिंसा च कृतिः स्मृतिश्च दक्षता ॥११॥
क्षमा चोपरतिर्विद्या रतिः स्मृतिश्च साम्यता ।
कान्तिः कोमलता चाऽथ दक्षता च स्वतन्त्रता ॥१२॥
गंभीरताऽथ स्थिरता निर्भयता प्रगल्भता ।
अगर्वताऽप्यहिंसा च निर्मानिताऽप्यदंभता ॥१३॥
अस्तेयता तथा सेवा शुश्रूषा च शरण्यता ।
ब्रह्मण्यता रक्षता च निष्परिग्रहता तथा ॥१४॥
रूपता मित्रता तृप्तिः पवित्रता प्रसन्नता ।
शुद्धता स्वच्छता चैव निर्मलता प्रकाशिता ॥१५॥
दिव्यता चेशता चाऽथ सेव्यता सानुकूलता ।
स्मृद्धिर्धवलता सम्पत् सुखता मोहता तथा ॥१६॥
लीला प्रमोदता चाऽप्युज्ज्वलता रसता तथा ।
विषयार्था धनवती रत्नवती विभूषिका ॥१७॥
शरद्वती सस्यवती धान्यवती प्रगायना ।
रागिणी मिष्टता चापि लावण्यता मधुरता ॥१८॥
माधवी रमणाऽऽरामा रमणी रमणीयता ।
सुन्दरता चमत्कारा सामर्थ्या फलता तथा ॥१९॥
पोषिका शक्तिदा चापि विलासा प्रविलासिका ।
ईश्वरिण्यश्च दिव्याश्च मूर्ताश्चाऽमूर्तिकास्तथा ॥२०॥
सहस्रशो धर्मपुत्र्यः समुत्पन्नाः कुमारिकाः ।
ताभिस्तैश्च स्वयं वेधाः सन्तुष्टः स्वस् मानसे ॥२१॥
धर्मसर्गमिमं दृष्ट्वाऽऽत्मानं सिद्धममन्यत ।
परं परिश्रमो जातस्तेनाऽजो विकलोऽभवत् ॥२२॥
तावत्तस्य ललाटाद्वै स्वेदबिन्दुः पपात ह ।
बिन्दुस्तु पतितो यावत् तत्र रुद्रो बभूव ह ॥२३॥
श्वेतरूपः सुकुमारो बालोऽप्यद्भूतदर्शनः ।
पञ्चशिरास्त्रिनेत्रश्च दशहस्तस्तमोगुणः ॥२४॥
शरीरव्याप्तरोमा च विकरालो दिगम्बरः ।
रक्तनेत्रो जटाधारी तीक्ष्णदंष्ट्रः कपर्दवान् ॥२५॥
ढक्कात्रिशूलरुद्राक्षपिनाकदण्डपाशधृक् ।
ललाटशशिसल्लेखो नेत्रप्रान्तारुणप्रभः ॥२६॥
उत्पन्नः सन् रुरोदाऽयं मा रोदीरब्रवीदजः ।
तस्माद् रुद्र इति प्रोक्तस्तं ब्रह्माऽऽह प्रजाः सृज ॥२७॥
रुद्रः पितुर्निदेशं स्वीकृत्याऽसृजदथ प्रजाः ।
तामसीः स्वसमानाश्च ह्युपद्रवकरी भृशम् ॥२८॥
उल्बणा व्यग्रचित्ताश्च क्षुधारोषसमन्विताः ।
बहुरूपा विरूपाश्च कृष्णा लौहितिकास्तथा ॥२९॥
चतुर्दशेषु लोकेषु व्याप्ता रुद्रस्य ताः प्रजाः ।
सर्वास्ता रुद्रजातीया अभवन् सर्वतोदिशि ॥३०॥
केचनाऽऽसन् कृशदेहाः स्थूलकंधरनासिकाः ।
आसंश्च केचन दीर्घघोणाः पीवरश्रोणयः ॥३१॥
पीनाश्च वामना एके खर्वार्धा लम्बनोर्ध्वकाः ।
ह्रस्वोत्तमा लम्बपादा मञ्जुषाकारपृष्ठकाः ॥३२॥
अन्ये ऋक्षा महोदरास्स्तम्भहस्ता गुहाननाः ।
कृष्णाद्रिसदृशाश्चान्ये महाकालसमाः परे ॥३३॥
यत्र तत्राऽभवन् रुद्राः कोटिरर्बुदमेव च ।
चतुर्दशसु लोकेषु रुद्रा रुद्रा न चेतरे ॥३४॥
क्रूराः क्रुद्धा युयुधाना भोक्तुं ब्रह्माणमाययुः ।
रुद्रं स्वेषां प्रस्रष्टारं चापि जग्धुं प्रदुद्रुवुः ॥३५॥
तदा ब्रह्मा स्वपुत्रं तं प्राहेमान् द्राक् प्रसंहर ।
नेदृशी तु प्रजा क्वापि लोकशान्तिकरी भवेत् ॥३६॥
रूपेणाऽप्यप्रतिमा च गुणेन क्षयकारिणी ।
रुद्रान् भयंकरं कर्म कुर्वाणान् भक्षकानिमान् ॥३७॥
शीघ्रं नाशय पुत्र त्वं नेदृशी सृष्टिरिष्यते ।
रुद्रेण पितृवाक्यं तत्समागृह्य क्षणान्तरे ॥३८॥
स्वाट्टहासाद् बिभत्सो ना कृतान्ताख्यो महाबलः ।
पाशखड्गकरो दंष्ट्राचूर्णिताऽण्ड इवाऽद्वयः ॥३९॥
समुत्पादित एवाऽयं धृतहस्तांजलिर्मुहुः ।
कस्मादुत्पादितश्चाहं किं कार्यं मेऽनुशाधि माम् ॥४०॥
रुद्रः प्राह त्विमां सृष्टिं कापथमनुगामिनीम् ।
रौद्रां भयंकरीं सर्वलोकसंस्थासु संस्थिताम् ॥४१॥
शीघ्रं नाशय भद्रं ते मम प्रीत्या भविष्यति ।
कृतान्तस्तां जनकाज्ञां समादाय प्रचक्रमे ॥४२॥
क्षयं कर्तुं हि रुद्राणामग्निमुत्पाद्य वक्त्रतः ।
नेत्रेभ्यश्च तथा ज्वालानलमुत्पाद्य सर्वशः ॥४३॥
चतुर्दशसु लोकेषु यत्र यत्राऽभवन् प्रजाः ।
रौद्र्यस्तत्र हि सर्वत्र विनाशं कृतवान् परम् ॥४४॥
नेत्रवक्त्रशरीरेभ्यो ज्वालाकर्षणविद्युतः ।
उत्पन्ना दीर्घप्रवहा ब्रह्माण्डे च स्थले स्थले ॥४५॥
गत्वा गत्वा च रुद्राँस्तानन्विष्याऽविष्य कृत्स्नशः ।
प्रसंजह्रुरशेषाँस्तान् हाहाकारो महानभूत् ॥४६॥
विद्रवन्ति प्रद्रवन्ति चोत्पतन्ति ततस्ततः ।
प्रक्रोशन्ति सकरुणं त्रायस्वेति वदन्ति च ॥४७॥
तथापि यत्र गच्छन्ति तत्र ज्वालास्तदग्रगाः ।
विनाशार्थमथाऽऽयान्ति नास्ति त्राणस्थलं मनाक् ॥४८॥
कुत्राऽप्यलब्धत्राणास्ते परावृत्य पतन्ति वै ।
ज्वालानले महाकाये क्षयं रुद्राः प्रपेदिरे ॥४९॥
यदा चतुदर्शबिलेष्वेकोऽपि नहि शेषितः ।
तदा कृतान्तो विरतः शान्तश्चाजोऽभवत्तदा ॥५०॥
रुद्रश्चाथ स्वपुत्रेण कृतान्तेन समं सदा ।
निवासार्थं स्वकं स्थानं ययाचे स्वस्य पितृतः ॥५१॥
दत्तं च ब्रह्मणा तस्मै धाम सत्यस्थमैश्वरम् ।
नाम्ना रौद्रं तु दिव्यं तत्ख्यातं लोकं तु वै महः ॥५२॥
यत्र ब्राह्मास्तु संकल्पाः सत्या भवन्ति सर्वदा ।
यदिच्छन्ति सत्यस्थास्ते फलन्ति च तत्तथा ॥५३॥
सत्यलोकस्य माहात्म्यं सत्यमेव भवत्यपि ।
सत्येतिब्रह्मणः शब्दः सत्तामात्रस्तु सम्मतः ॥५४॥
ब्रह्मलोकस्ततः सत्यो ब्रह्मणैव प्रभास्वरः ।
ब्रह्मणः स तु सामर्थ्यादप्रतीघातलक्षणः ॥५५॥
तस्मादयं सत्यलोको ह्यपुनर्भवगामिणाम् ।
तत्रापि न्यायहीनानां कृतान्तो दण्डदः स्मृतः ॥५६॥
नाम्ना कृतपुरं चेति तस्य न्यायालयः स्मृतः ।
ब्रह्मणोऽपि सुधर्माख्या सभा लोकोत्तरा मता ॥५७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्मरुद्रयोः सृष्ट्यादिनिरूपणनामा पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : March 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP