संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३५३

कृतयुगसन्तानः - अध्यायः ३५३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! चरितं वै नारीणां चञ्चलं सदा ।
पुत्रं रूपयुतं दृष्ट्वा पितरं वा जनान्तरम् ॥१॥
क्षणं संकल्पवशगा क्वचिद् भवति भामिनी ।
चञ्चलं हि मनस्तद्वद् राजसी कामवेदना ॥२॥
पराधीनं करोत्येव यथा साम्बं करिष्यति ।
शृणु श्रीकृष्णस्य पुत्रः साम्बनामा भविष्यति ॥३॥
मातॄणां तत्र मोहेन शापपात्रं भविष्यति ।
साम्बस्य वर्ष्मणि कुष्ठरोगो भविष्यति तदा ॥४॥
स मथुरां समागत्याऽऽदित्यस्योपासनां तथा ।
करिष्यति प्रतिष्ठां च स्नास्यति यामुने जले ॥५॥
तेन कुष्ठविनाशोऽस्य भविष्यति न संशयः ।
एतादृशं तु माथुरं तीर्थं रोगविनाशकम् ॥६॥
शृणु विस्तरतो लक्ष्मि! भविष्यत् कथयामि तत् ।
द्वारकां वसमानस्य पुत्रदारसुतैः सह ॥७॥
कृष्णस्य भवनं तत्र समायान्नारदो मुनिः ।
यथायोग्यं स्वागतं श्रीकृष्णस्तस्याऽकरोन्मुदा ॥८॥
नारदस्तु तदैकान्ते भिज्ञप्तिमकरोद्धरिम् ।
कृष्ण! किञ्चिद्वक्तुकामः शृणु स्वर्गे श्रुतं मया ॥९॥
साम्बनामा कृष्णपुत्रो युवा रूपातिशोभनः ।
स्पृहणीयः स्त्रीजनस्य कान्तो नान्यो हि तत्समः ॥१०॥
अपि कृष्णस्य पत्न्योऽपि स्पृहयन्ति विलोक्य तम् ।
देवयोन्यश्च याः सन्ति सहस्राणि च षोडश ॥११॥
साम्बं दृष्ट्वा तु सर्वासां क्षुभ्यन्ति मानसानि वै ।
एतत् स्वर्गादिलोकेषु गीयते दैवतैः कथम् ॥१२॥
यशो वै स्वर्गवासोऽस्ति नरकस्तद्विपर्ययः ।
त्वत्प्रियार्थं समायातः कथयितुं महाप्रभो ॥१३।
पुण्यं संश्रूयते यावत् तावत्पुरुष उच्यते ।
अपुण्यश्रवणे तस्य निरयो वै प्रकीर्त्यते ॥१४॥
तस्मात्सत्यमसत्यं वा लक्षयिष्याम्यहं हि तत् ।
तस्मात् साम्बं तथा देवीगणं संसदि चाऽऽह्वय ॥१५॥
इतिप्रोक्तस्तथा कृष्णो देवीराहूय सर्वशः ।
निषाद्य साम्बमाहूय स्वपार्श्वेऽपि न्यषादयत् ॥१६॥
दृष्ट्वा रूपमतीवाऽस्य साम्बस्यात्र वरस्त्रियः ।
चुक्षुभुः सकला देव्यः कृष्णस्यैव तु पश्यतः ॥१७॥
नारदं ता नमस्कृत्य जग्मुः स्वं स्वं निकेतनम् ।
साम्बस्तस्थौ तत्र कृष्णो लज्जयाऽऽवाङ्मुखोऽभवत् ॥१८॥
क्षणो नास्ति रहो नास्ति नास्तिकृत्ये विचारणा ।
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति प्रमदाः सदाः ॥१९॥
स्वभाव एष नारीणां तत्र का परिवेदना ।
यथा त्वेकेन चक्रेण रथस्य न गतिर्भवेत् ॥२०॥
विना नरं त्वगतत्यः क्षरन्ति नृरसाः स्त्रियः ।
पुंस्वाददृष्टिपातेन मन्यन्ते कृतकृत्यताम् ॥२१॥
प्रद्युम्नं वीक्ष्य ताः सर्वा लज्जामापुः सुपुष्कलाम् ।
साम्बं दृष्ट्वा तु ताः सर्वा अनङ्गेन प्रपीडिताः ॥२२॥
उद्दीपनविभावोऽयं साम्बस्त्वत्स्त्रीविमोहकः ।
सत्यलोके प्रवादो यस्तव जातो दुरत्ययः ॥२३॥
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः ।
साम्बं त्यक्त्वाऽयशस्तत्सम्मार्ष्टुमर्हसि केशव! ॥ २४॥
इत्युक्त्वा नारदो मौनमास्थितोऽथ हरिस्ततः ।
तं तु शशाप साम्बं वै विरूपो भव पुत्रक! ॥२५॥
तावत्साम्बः कुष्ठयुक्तोऽभवद् विरूप एव ह ।
अथ साम्बं तथा दृष्ट्वा सशोकं प्राह नारदः ॥ २६॥
साम्ब साम्ब कृष्णपुत्र! शृणु जाम्बवतीसुत! ।
सूर्यमुद्यन्तमेव त्वं नमस्कुरु सदाऽनघ! ॥२७॥
कुष्ठरोगो रविस्तुष्टो नाशयिष्यति पुत्रक! ।
मथुरायां च त्वं गत्वा षट्सूर्यं प्राप्स्यसे फलम् ॥२८॥
प्रातराराधय सूर्यं षट्सूर्यतीर्थकेऽनघ! ।
मध्याह्नेपि तथा सायं सद्यः फलमवाप्नुहि ॥२९॥
कृष्णगंगोद्भवे स्नात्वा सूर्यमाराध्य यत्नतः ।
सर्वपापविनिर्मुक्तः कुष्ठादिभ्यो विमुच्यते ॥३०॥
इत्युक्तस्तु महालक्ष्मि! साम्बः कृष्णाज्ञया ययौ ।
मथुरां दोषहरणीं मुक्तिदां स ददर्श ह ॥३१॥
षट्सूर्यान्पूजयामास नियतस्नानतर्पणः ।
ब्राह्मं तथोदयन्त च ह्यूर्ध्वं यान्तं च मध्यगम् ॥३२॥
नमन्तं चाप्यस्तगतं नित्यं साम्बः समार्चयत् ।
सूर्यस्तुष्टः स्वल्पकाले साम्बस्याऽग्रे समागमत् ॥३३॥
वरं वृणीष्व भद्रं ते गतं कुष्ठादिकं तव ।
इत्युक्त्वा साम्बसर्वांगेऽस्पृशत् साम्बोऽपि तत्क्षणम् ॥३४॥
कुष्ठहीनोऽभवत्सूर्यसमकान्तिर्व्यराजत ।
सूर्यो द्वितीयरूपेण साम्बेन सह वर्तते ॥३५॥
ब्राह्मे सूर्यं विराडाख्यं साम्बश्चक्रे प्रतिष्ठितम् ।
उदयाख्यरविं यम्यां दक्षिणे सम्प्रतिष्ठितम् ॥३६॥
ऊर्ध्वयान्तं कालप्रियरविं चक्रे प्रतिष्ठितम् ।
वैकुण्ठपश्चिमे चक्रे रविं माध्यन्दिनीयकम् ॥३७॥
अवतरन्त साम्बार्कं मथुरायां प्रतिष्ठितम् ।
अस्तमन्तं कृष्णगंगादक्षिणेऽर्क प्रतिष्ठितम् ॥३८॥
चक्रे साम्बस्तत्पूजादिविधिं साम्बपुरे स्थितः ।
मथुरायां त्वभवत् तत् साम्बपुरं कुलेश्वरम् ॥३९॥
माघमासस्य सप्तम्यां दिव्यं साम्बपुरं प्रति ।
रथयात्रां साम्बसूर्यां करिष्यन्ति तु ये जनाः ॥४०॥
गच्छेयुस्तत्पदं शान्तं सूर्यमण्डलभेदकम् ।
कृष्णगंगां जनाः स्नात्वा दृष्ट्वा षटसूर्यमण्डलम् ॥४१॥
पापरोगादिमुक्ताश्च यास्यन्ति परमं पदम् ।
इति ते कथितं लक्ष्मि! मनःपापादिनाशकम् ॥४२॥
अगम्यागमनस्यापि चागम्यगमनस्य च ।
पापं प्रज्वालयत्याशु त्वादित्यषट्कतीर्थकम् ॥४३॥
कामेन यन्मनोदौष्ट्यं विधुनोति तु तद् द्रुतम् ।
अपराधानपि सर्वान् मथुरायां हरिः स्वयम् ॥४४॥
न वै गणयति कृष्णो गोपीजनकृतादरः ।
साम्बोऽभवद्धूतपापस्तत्रैवाऽन्तरधीयत ॥४५॥
सूर्यरथे सदा तिष्ठन् भविष्यं परिपृच्छति ।
तत्सर्वं तु नवं कृत्वा ज्ञातवान् कृष्णपुत्रकः ॥४६॥
साम्बपुरं मथुरायां कृत्वा यातो निजं गृहम् ।
पठनाच्छ्रवणात्त्वस्य षडादित्यार्हणाफलम् ॥४७॥
लभते सूर्यलोकं च प्राणान्ते कृष्णधाम च ।
शृणु लक्ष्मि! भक्तकृतानपराधानपि प्रिये! ॥४८॥
अज्ञातः सर्वथा शुद्धो वैषम्ये देशकालयोः ।
विनाऽपराधो मनुजः सापराधो विजायते ॥४९॥
कर्मणा मनसा वाचात्वपराधा भवन्ति वै ।
स्नानहीनत्वमेवाथ हिंसनं मिथुनक्रिया ॥५०॥
मलमूत्रपरित्यागो बालजन्मादिकं तथा ।
शवस्पर्शादिकं देवपूजने ह्यपराधनम् ॥५१॥
मन्दिरस्य तथा मूर्तेः सान्निध्ये पत्प्रसारणम् ।
पृष्ठदानं मेहनं च यथेष्टभक्षणादिकम् ॥५२॥
मलिनाऽशुद्धभक्षित्वं निषिद्धकुसुमार्चनम् ।
अनुत्तार्य तु निर्माल्यं पूजाक्षीणेऽन्धकारिणि ॥५३॥
क्लेशनं देवतागारे सोपानत्कोऽपसर्पणम् ।
सुरामांसाशनं देवस्यान्धकारे प्रबोधनम् ॥५४॥
अनमस्करणं तद्वद् ग्राम्यजल्पवितण्डिकाः ।
धूम्रपानं ष्ठीवनं चेत्याद्याः कर्मापराधकाः ॥५५॥
अध्यान चाऽस्मरणं चाऽधारणं श्रीहरेस्तथा ।
अन्यसकल्पकरणं विषयादिविचिन्तनम् ॥५६॥
रागो द्वेषस्तथा तृष्णा वासना चाऽन्यनिन्दनम् ।
कुतर्कहेतुसन्देहा भ्रान्तिर्विपर्ययस्तथा ॥५७॥
आलस्यं चाऽननुसन्धानकं गर्वोऽभिमानिता ।
कामः क्रोधस्तथा लोभो मदो मात्सर्यमित्यपि ॥५८॥
ईर्ष्याऽनिष्टविचाराद्या मानसा ह्यपराधकाः ।
मातृपितृसुहृन्मित्रगुरुद्विजसुरादयः ॥५९॥
सतीसाध्वीप्रियापत्नीबालाबालगवादयः ।
तृणाजन्तुचेतनाद्याः सर्वे नारायणान्तराः ॥६०॥
पतिभृत्याश्रिता नैवाऽपराद्धव्याः कदाचन ।
असत्प्रलापोऽसद्वार्ता व्यर्थभाषित्वमित्यपि ॥६१॥
अभजनं दोषदानं दुष्टशब्दप्रयोजनम् ।
कलहश्चाक्रोशनं च कोलाहलश्च पर्दनम् ॥६२॥
अतिशब्दध्वनिध्वानं गालीवाचनमित्यपि ।
अश्लीलवाक् समुद्धोषः सक्थिस्फोटादिकं तथा ॥६३॥
अनर्गलप्रहायस्याद्या वाणी कृतापराधकाः ।
न कर्तव्या विचार्यैव स्वानिष्टफलदास्तु ते ॥६४॥
देवतीर्थगुरुविप्रसाधुसाध्वीपतिव्रताः ।
सर्वे ये तारकास्तेषामपराधान् न चाऽऽचरेत् ॥६५॥
सापराधस्तु पुरुषो विष्णुं नैव प्रपश्यति ।
राक्षसीं तामसीं पूजां नैव कुर्यात् कदाचन ॥६६॥
मांसमद्यार्पिणी पूजा राक्षसी प्रोच्यते प्रिये! ।
हिंसादिकृत्ययुक्ता या पूजा सा तामसी मता ॥६७॥
पारदार्यं परद्रव्यहरणं च परार्दनम् ।
परनाशकरं कर्म राक्षसं कर्म कीर्तितम् ॥६८॥
कर्मकृतापराधानां शुद्धिः स्नानादिना भवेत् ।
तीर्थस्नानेन पञ्चगव्यानां संप्राशनेन च ॥६९॥
उपोषणेन यज्ञेन दीर्घकालगतेन च ।
पञ्चामृतेन च तथा ब्रह्मकूर्चव्रतेन च ॥७०॥
देवानां सेवया सतां सेवया शुद्धिरिष्यते ।
मनःकृतापराधानां शुद्धिर्ध्यानादिना भवेत् ॥७१॥
चित्तवृत्तिनिरोधेन तथेन्द्रियनिरोधतः ।
ज्ञानेन दोषत्यागेन तपसा पुण्यभावतः ॥७२॥
कथायाः श्रवणेनापि मननेन च निर्णयात् ।
आत्मनस्तु विचारेण चिदचितोर्विवेकतः ॥७३॥
पुंप्रकृत्योर्धर्मबोधान्मानसी शुद्धिरिष्यते ।
वाचा कृतापराधानां शुद्धिः स्यात्तु जपादिभिः ॥७४॥
कृष्णनारायण! विष्णो! हरे! माधव! केशव! ।
लक्ष्मीपते रमानाथ! श्रीपते! पार्वतीपते! ॥७५॥
गोपीपते! प्रभो! माणिकीपते! च प्रभापते! ।
सत्पते! चाक्षरपते! मुक्तपते! पुमुत्तम! ॥७६॥
गोलोकादिपते! ब्रह्मपर! श्रीपुरुषोत्तम! ।
इत्येवं नामजपनादोंकारादिजपात्तथा ॥७७॥
क्षमाया याचनाच्चापि कथाया वाचनात्तथा ।
कृष्णकीर्तनकरणात् कृष्णमालाऽऽधिवर्तनात् ॥७८॥
सत्यव्रतप्रतिष्ठानाद् वाचिकी शुद्धिरिष्यते ।
मुच्यते त्वपराधैस्तु जनो विष्णोः स्तवं पठन् ॥७९॥
सम्वत्सरस्य मप्ये वै तीर्थस्नानेन शुद्ध्यति ।
काश्यां तथा मथुरायां द्वारकायां च पुष्करे ॥८०॥
बदर्यां च जगन्नाथपुर्यां साकेतपत्तने ।
हरिद्वारे च गण्डक्यां गोदावर्यां जनार्दने ॥८१॥
कावेर्यां सेतुबन्धे च पद्मावत्यां च रैवते ।
स्वर्णरेखाजले चाऽश्वपट्टसरसि मानसे ॥८२॥
नारायणे चेन्द्रद्युम्ने कावेर्यां पद्मनाभके ।
काञ्च्यां च नर्मदायां चाऽवभृथे पट्टकोत्सवे ॥८३॥
स्नानात्पानात्तथा ध्यानात् कीर्तनाद् धारणात्तथा ।
श्रवणान्मननाच्चापि दर्शनात् पातकक्षयः ॥८४॥
अटित्वा सर्वतीर्थानि प्रायान्माथुरमण्डलम् ।
आत्यन्तिकी तु विश्रान्तिर्विश्रान्तिघट्टके भवेत् ॥८५॥
फलं परार्धगुणितं मथुरायां प्रजायते ।
गतेरन्वेषकाणां तु मथुरा परमा गतिः ॥८६॥
या गतिर्योगयुक्तस्य सांख्यज्ञानवतस्तथा ।
सा गतिस्त्यजतः प्राणान् मथुरायां न संशयः ॥८७॥
न तीर्थं मथुरातुल्यं न देवः कृष्णसदृशः ।
न ब्रह्मधामभा मुक्तिर्न परः पुरुषोत्तमात् ॥८८॥
यदाश्रये कृते सर्वपापानां विलयो भवेत् ।
आत्मनि यद्धृते स्वस्याऽऽत्यन्तिकी मुक्तिरामिलेत् ॥८९॥
इति ते कथितं लक्ष्मि! ज्ञानानां ज्ञानमुत्तमम् ।
श्रवणात्पठनाच्चापि जनस्तत्फलभाग् भवेत् ॥९०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माथुरतीर्थमाहात्म्ये द्वारिकायां साम्बरूपदर्शनेन कृष्णपत्नीनां मनःक्षोभात् कृष्णदत्तशापेन जातकुष्ठसाम्बस्य मथुरायामादित्योपासनया कुष्ठनिवृत्तिः षडादित्यस्थापना, कायिकवाचिकमानसिकापराधास्तन्निवारणं चेत्यादिनिरूपणनामा त्रिपंचाशदधिकत्रिशतमोऽध्यायः ॥३५३॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP