संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १३२

कृतयुगसन्तानः - अध्यायः १३२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
यदा यदा महालक्ष्मि! सायाह्नो वेधसो भवेत् ।
तदा तदा लये नित्ये दश लोकाः स्वरादयः ॥१॥
पातालान्ता लयं यान्ति पूर्वसृष्टौ यथा ह्यभूत् ।
तथा तथा लये काले बीजरक्षणहेतवे ॥२॥
हरिर्गृह्णाति मात्स्यं वै रूपं सलिलसञ्चरम् ।
प्रथमं ब्रह्मणः सायं वर्षशतमवग्रहः ॥३॥
वृष्ट्यभावात् सुदुर्भिक्षाद्देहिनो यान्ति नाशताम् ।
जलं शुष्कायते सर्वमुद्भिज्जा यान्ति नाशताम् ॥४॥
सूर्यतापेन पृथिवी रुक्षा भवति सर्वथा ।
बीजानि भर्जितान्येव भवन्ति क्रमशस्तदा ॥५॥
कन्दमूलानि नश्यन्ति प्राणिजातं च नश्यति ।
शतवर्षं क्रमादेव वृष्टिहीनं प्रतापितम् ॥६॥
भवत्यतः समुद्रा वै शुष्कायन्ते समन्ततः ।
तदा तत्स्थं प्राणिजातं सर्वं नश्यति सर्वथा ॥७॥
सूर्या द्वादश चोत्तप्ता उग्रास्तपन्ति कृत्स्नशः ।
तेनेयं शतवर्षेषु पृथ्वी सतलपर्वता ॥८॥
दग्धा भस्मसमा सर्वा जायते हि समन्ततः ।
आपातालाच्च आस्वर्गात् सर्वेपि जन्तवो मृताः ॥९॥
सूक्ष्मशरीरसहिता तदा यान्ति महर्तलम् ।
महर्लोके च ते सर्वे तिष्ठन्ति पुण्यरश्मिभिः ॥१०॥
मेघास्ततः प्रवर्षन्ति शतवर्षाणि सर्वदा ।
आदशभुवनं यावत् सर्वं जलमयं भवेत् ॥११॥
आस्वर्गं वै जलं तत्र पूर्यते प्रलये बहु ।
एवं सायाह्नमारभ्य प्रातःपर्यन्तमेव ह ॥१२॥
दशलोकविनाशोऽयं नित्यप्रलय उच्यते ।
पुनः प्रातः स्वयं ब्रह्मा सृजति दशभूस्तरान् ॥१३॥
स्वर्गमारभ्य पातालान् सृष्ट्वा सृष्टिं करोति सः ।
पूर्वं पूर्वं तदा स्मृत्वा यथापूर्वमकल्पयत् ॥१४॥
प्राप्ते पुनश्च सायाह्ने पुनर्वै विलयो भवेत् ।
लयकाले तदा देवः स्वयं नारायणो हरिः ॥११॥
सर्वसद्बीजरक्षार्थं मत्स्यरूपो भवत्यपि ।
वेधोदिनावसाने स स्वयमेव दयानिधिः ॥१६॥
समागत्य सुरक्षार्हं रक्षत्येव कृपावशात् ।
दिनावसाने सायं वै ब्रह्मा सन्ध्यार्थमुत्थितः ॥१७॥
कमण्डलुं स्वमादाय पुष्करं प्रति गच्छति ।
स्नात्वा कमण्डलौ वारि भृत्वा तीरं समासीनः ॥१८॥
आचमनाय यावद्वै गृह्णात्यम्बु कमण्डलोः ।
हस्ततले तदा मत्स्यरूपं स्वल्पं ददर्श सः ॥१९॥
यवबीजसमं ह्रस्वं यथा वै क्षुद्रजन्तुकम् ।
जले जलांजलिं यावन् क्षिपत्येव पितामहः ॥२०।
तावद्वितस्तिमात्रं तद् भूत्वोत्प्लुत्याऽपतत्तटे ।
प्राह मां रक्ष देवानां पितामह कमण्डलौ ॥२१॥
तथा करोत्यजो यावन्ममौ नैव कमण्डलौ ।
ततः प्राह तिमिस्तं वै नालं मे भवति प्रभो ॥२२॥
देहो मे वर्धते द्राग्वै तस्मात्कूपे तु मां क्षिप ।
ब्रह्मणा वै ततः कूपे निक्षिप्तोऽपि प्रववृधे ॥२३॥
कूपे मातुं न योग्योऽभूत् स प्राह वेधसं ततः ।
न कूपोऽयमलं मे स्यात् पितः सरसि माक्षिप ॥२४॥
उद्धृत्य ब्रह्मणा कूपात् पुष्करे सरसि धृतः ।
तावत्पुष्करदेहोऽयं महान् बभूव तत्क्षणात् ॥२५॥
पुष्करे न ममौ सोपि पुनराह पितामहम् ।
नालं मे पुष्करं जातं समुद्रे मां क्षिपेष्टकृत् ॥२६॥
ब्रह्मणा तु ततो नीत्वा समुद्रे विनिपातितः ।
उक्तश्च कस्त्वमत्रासि वदाश्चर्यं करोषि माम् ॥२७॥
समुद्रे वर्धितो मत्स्यस्तदोवाच पितामहम् ।
अहं नारायणः साक्षाज्जगद्रक्षणहेतवे ॥२८॥
मत्स्यरूपं सुधृतवान् सायं तेऽह्नो भवत्यतः ।
दशलोकास्तापशुष्का जलमग्ना द्रुतं मताः ॥२९॥
तस्माद्बीजानि मुख्यानि चतुःखनिगतानि वै ।
गृहीत्वाऽयं मनुश्चतुर्दशो नावि प्रतिष्ठतु ॥३०॥
नौरपि कोटिगव्यूतिदीर्घा गभीरभूमिका ।
शतभूमिर्दृढा पूरणीया बीजैः प्ररोहणैः ॥३१॥
ऋषीन्मुनींस्तथा देवान् गोहस्तियानवाहनम् ।
उद्भिज्जातीनि बीजानि पृथ्वीं देवीं च भूसुरान् ॥३२॥
यद्यत्पुनस्तव प्रातरुपयुक्तं सृजौ भवेत् ।
तत्सर्वं बीजरूपं वै नीत्वा संस्थाप्य नावि तत् ॥३३॥
मनुं सत्यं तत्र वै त्वं प्रतिष्ठाप्य व्रज स्वकम् ।
सत्यलोकं ततोऽहं वै नादं शृंखलयाञ्चिताम् ॥३४॥
मम शृंगे निबध्यैव भ्रमिष्यामि महाजले ।
अवग्रहे सूर्यतापे वर्षणे शतवार्षिके ॥३५॥
महापातालवारीणां निधौ नावं निनाय च ।
रक्षिष्यामि च तान्सर्वानारात्रिप्रलयावधिम् ॥३६॥
आप्रातस्तान्पोषयिष्ये मम दिव्यबलान्ननु ।
मा त्वं खेदं कुरु ब्रह्मन् प्रातर्दास्ये पुनर्धनम् ॥३७॥
करिष्यति ततो दशलोकानां सृष्टिमेव ताम् ।
इत्याज्ञप्तस्ततो ब्रह्मा मनुं प्राह चतुर्दशम् ॥३८॥
बीजान्यर्पय्य सदेवमुनिबीजान्तराणि च ।
नावं समर्पयामास मत्स्याय केशवाय सः ॥३९॥
ब्रह्मा तु गतवान् सत्यं लोकं रात्रिर्बभूव ह ।
सन्ध्याकाले तदा युगसहस्रान्ते युगक्षये ॥४०॥
सदा जाता अनावृष्टिस्तदा सा शतवार्षिकी ।
सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ॥४१॥
तस्य ते रश्मयः सप्ताऽपिबन्नम्भो महार्णवात् ।
ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ॥४२॥
साद्रिनद्यर्णवा सर्वा विस्नेहा समपद्यत ।
तीक्ष्णप्रदीप्तकिरणैरेकज्वालं बभूव ह ॥४३॥
ततः संवर्तको घोरो लोकान् जहार पावकः ।
निर्दह्य सर्वपातालानूर्ध्वम ददाह वै दिवम् ॥४४॥
ततो गजकुलाकारास्तडिद्भिः समलंकृताः ।
उत्तिष्ठन्ति स्म वै घोरा व्योम्नि संवर्तका घनाः ॥४५॥
नीलाः श्वेताश्चांजनाश्च धूम्राः पीताः पयोधराः ।
घोररूपा घोरनादाः पूरयन्ति स्म वृष्टिभिः ॥४६॥
सुघोरमशिवं सर्वं शमयन्ति स्म पावकम् ।
नष्टे चाग्नौ वर्षशते जलपूर्णं नभस्तलम् ॥४७॥
इत्यम्भसाऽऽवृते लोके सर्वमेकार्णवं जगत् ।
जलं विना तदानीं वै प्राज्ञायत न किंचन ॥४८॥
चतुर्युगसहस्रान्ते रात्रिं स्म कुरुते प्रभुः ।
मत्स्यावतारो भगवान्नावं रक्षति सर्वथा ॥४९॥
शतवर्षे सुदुर्भिक्षे महाकालानलान्तरे ।
स्वस्याऽमृतप्रतापेन नावं रक्षति स प्रभुः ॥५०॥
रात्रौ रक्षति चैवाऽयं तमस्येकार्णवे जले ।
ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः ॥५१॥
रचयामास विविधान् दशलोकान् यथाप्रजान् ।
एवं लयं करोति स्म प्रतिसायाह्नमेव हि ॥५२॥
सृष्टिं पुनः करोति स्म प्रतिप्रातः सदैव सः ।
सोऽयं दैनन्दिनः प्रोक्तः प्रलयो दशलोकिनाम् ॥५३॥
एवं वर्षशतान्ते वै ब्रह्माण्डं ब्रह्मणा सह ।
नश्यते स तु संप्रोक्तो लयो नैमित्तिकोऽपरः ॥५४॥
ततोऽपि मूलमायायाश्चतुर्विंशतिमूर्तयः ।
विलीयन्ते तदा बोध्यः प्राकृतप्रलयो महान् ॥५५॥
जीवस्य तु प्रभोः सम्यग्योगाद् भक्तेश्च भावतः ।
यदा मोक्षो भवेत् सोऽयं वोध्यस्त्वात्यन्तिको लयः ॥५६॥
प्रलये तत्र रात्रौ तु सृष्ट्यभावान्न वाऽवनम् ।
अवनार्थं मनूनां च नैवावश्यकतास्ति यत् ॥५७॥
अतो मन्वन्तराणां वै रात्रौ सृष्टिर्न विद्यते ।
अन्तिमो यो मनुः प्रोक्तो बीजानि ऋषयस्तथा ॥५८॥
महानौकास्थितास्तेषां निद्रावृत्तिसुवर्तिनाम् ।
विष्णोर्नारायणेच्छाया बलान्मृत्युर्न विद्यते ॥५९॥
आप्रातस्ते तु जीवन्ति सृष्टेर्बीजतया स्थितेः ।
चिरंजीवास्तु ये सर्वे ब्रह्मनारायणेहया ॥६०॥
प्रातः सृष्टिं पुनः कृत्वा स्वयं ब्रह्म हि ताँस्ततः ।
लीनीकरोति तत्रैव सृष्टौ वै नान्यथा क्वचित् ॥६१॥
इत्येवं मत्स्यरूपाणि जायन्ते मे सहस्रशः ।
अवतारा यथाकार्यं लक्ष्मि! जानामि तानहम् ॥६२॥
एवं दितेरपत्यं यो हिरण्याक्षोऽभवन्महान् ।
असुरः स तदा सृष्टेः प्रारंभे कर्दमस्थितिम् ॥६३॥
जलान्तःस्थां महापृथ्वीं भुंक्ते राजाधिराजवत् ।
तमहं ब्रह्मणो नस्तः संभूय नाशयामि वै ॥६४॥
वाराहरूपमास्थाय नयामि यमसादनम् ।
असुरं तं तदा हत्वा पृथ्वीं कृत्वा सुपिण्डिकाम् ॥६५॥
नायाम्युपरि वारां तां स्थापयामि च सुस्थिराम् ।
एवं वाराहरूपाणि सहस्राणि भवन्ति मे ॥६६॥
यदा यदाऽऽवश्यकत्व भवेत् क्रोडो भवाम्यहम् ।
इति ते सर्वमाख्यातं किमन्यत् कथयाम्यनु ॥६७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणः सायाह्ने नित्यप्रलये सबीजनौकारक्षणार्थं मत्स्यावतारधारणहिरण्याक्षहृतपृथिव्युद्धारणार्थ
वराहरूपधारणादिकथननामा द्वात्रिंशदधिकशततमोऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP