संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४९०

कृतयुगसन्तानः - अध्यायः ४९०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां त्वन्यां सद्भाग्यसम्पदां प्रदाम् ।
आसीद् राजा वृको नाम सोमवंशसमुद्भवः ॥१॥
तस्य भार्याऽभवत्साध्वी पातिव्रत्यपरायणा ।
तयोः पश्चिमवर्षेषु कन्या त्वेकाऽभवत् तदा ॥२॥
ज्योतिर्विदो जन्मलग्नं दृष्ट्वा प्राहुर्नृपं नृपीम् ।
चित्रासंस्थे रवौ तिथौ चतुर्दश्यां निशाकरे ॥३॥
या कन्या प्राप्नुयाज्जन्म सा भवेद् विषकन्यका ।
तस्याः पाणेर्ग्राहकः षण्मासेषु निधनं व्रजेत् ॥४॥
यद्गृहे जन्म चापन्ना तत् स्याद् वैभववर्जितम् ।
सेयं राजँस्तव पुत्री तादृशी विषकन्यका ॥५॥
पैतृकं श्वशुरीयं च हनिष्यति गृहद्वयम् ।
राजँस्त्यक्त्वा ततस्तां त्वं सदा राज्ये सुखी भव ॥६॥
यद्वा सा च भवेत् साध्वी यतिनी सांख्ययोगिनी ।
तदा कुलद्वयोद्धारं करिष्यति न संशयः ॥७॥
अभाग्यानामपि भाग्यं त्यागित्वे परिवर्तते ।
भस्मच्छन्नो यतिश्चूर्णमोषधं श्रेयसे यतः ॥८॥
यत्र क्वापि समुत्पन्नो यतिर्मणिश्च मौक्तिकम् ।
स्वर्णं कन्यौषधं सर्वे दिव्यतां यान्ति दीक्षया ॥९॥
तस्माद् यथेष्टं कर्तव्यं रोचते यच्च ते नृप ।
इत्युक्तोऽपि स राजर्षिर्मत्वा भाग्यं स्वपूर्वकृत् ॥१०॥
मार्जयितुमशक्यं तां न वै तत्याज वत्सलः ।
येन येन शरीरेण यद्यत् कर्म करोति यः ॥११॥
यस्यां यस्यामवस्थायां यादृशाद्वेगतश्च यत् ।
तेन तस्यां च तद्भुंक्ते नाऽकृतं प्राप्यते क्वचित् ॥१२॥
पञ्चैतानीह सृज्यन्ते गर्भस्थस्यैव देहिनः ।
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥१३॥
यथा वृक्षेषु वल्लीषु फलानि कुसुमानि च ।
स्वं कालं नातिवर्तन्ते तद्वत्कर्म पुराकृतम् ॥१४॥
यथा धेनुसहस्रेषु वत्सो विदन्ति मातरम् ।
तथैव कोटिमध्यस्थं कर्तारं कर्म विन्दति ॥१५॥
स्वेन पूर्वं कृतं कर्म न कश्चिद् देहवान् भुवि ।
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥१६॥
स्वकृतान्युपतिष्ठन्ति सुखदुःखानि देहिनाम् ।
अहंकारममत्वाभ्यां सज्जते यः स बद्ध्यते ॥१७॥
सुशीघ्रमभिधावन्तं निजं कर्माऽभिधावति ।
शेते सह शयानेन तिष्ठन्तमनुतिष्ठति ॥१८॥
येन यत्रापि भोक्तव्यं सुखं वा दुखःमेव वा ।
नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते ॥१९॥
जाग्रतां स्वपतां वापि प्रजल्पतां प्रगच्छताम् ।
कर्म सिषाधयिषूणां प्रतिपादयितामपि ॥२०॥
सर्वस्वार्पणकर्तॄणामवश्यमुपतिष्ठति ।
तैलक्षये यथादीपो निर्वाणमधिगच्छति ॥२१॥
कर्मक्षये त्वाशयानां क्षये निर्वाणमृच्छति ।
क्लेशमूला वासना सा कर्माशया निगद्यते ॥२२॥
तदुत्पन्नफलं दृष्टादृष्टजन्मनि वेधते ।
न मन्त्रा न तपो दानं न तीर्थं न च वाऽऽश्रयः ॥२३॥
समर्था रक्षितुं जन्तुं पूर्वकर्मप्रवाहतः ।
अन्नपानानि जीर्यन्ति भोजनानि दिवानिशम् ॥२४॥
तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यते ।
तस्माद् गर्भसमं कर्म भोगे विना न नश्यति ॥२५॥
शुभं वा यदि वा पापं स्वकृतं प्राप्यते जनैः ।
तद्वदियं मम पुत्री यथाकर्म समागता ॥२६॥
विषकन्या मम भाग्ये लिखिता पूर्वकर्मभिः ।
तत्तथाऽस्तु दैवदत्तं हेलनीयं न कर्हिचित् ॥२७॥
उपस्थितं तु भोगार्थं समागच्छतु मां प्रति ।
वैभवे बहवो भोगा तन्नाशे तापसी स्थितिः ॥२८॥
उभयत्रापि लाभो मे निर्वाणं च निसर्गतः ।
दैवदत्तं मिलेच्चेद्वै को लाभस्तत उत्तमः ॥२९॥
पुत्री निमित्तरूपा मे वैराग्येऽपि भविष्यति ।
मम मुक्तौ च तस्याश्च मुक्तिरपि भविष्यति ॥३०॥
अरक्षं तिष्ठति दैवाद् दैवान्नश्यति रक्षितम् ।
दैवाज्जीवत्यनाथोऽपि दैवान्नश्यति नाथवान् ॥३१॥
अतिवार्धक्यसौख्यार्थं पुत्री त्वालम्बनं मम ।
सविषा वा सर्वनाशा कथं त्यजामि चात्मजाम् ॥३२॥
अनाथामबलां त्यक्त्वा कथं स्यां भ्रूणहा भुवि ।
पोष्यत्यागं विधायैव भवेयं याम्यगः कथम् ॥३३॥
आत्मा पुत्री पुत्रतुल्या तदर्थे पृथिवीं त्यजेत् ।
सैव लक्ष्मी मम बाला मम भाग्यादुपागता ॥३४॥
एते स्वार्थपराः सर्वे वदन्तु मनसेप्सितम् ।
मया पुत्री रक्षणीया वैराग्याय निवृत्तये ॥३५॥
कृतं राज्यं बहुसमं दृष्टा भोगा अनन्तकाः ।
पुत्रीमिषेण निर्बन्धः करिष्ये भजनं हरेः ॥३६॥
सर्वं नश्यतु मे शीघ्रं स्वार्था नश्यन्तु विघ्नदाः ।
भक्तिर्मुक्तिः सुता शान्तिः सद्वृत्तिर्मा विनश्यतु ॥३७॥
एवं स निश्चयं कृत्वा नाऽऽत्यजत् कन्यकां निजाम् ।
सापि शर्मवती नित्यं वैराग्येण हि वर्तते ॥३८॥
तस्मात् शर्मवती नाम्ना कृता पित्रा सुखप्रदा ।
अथ सा यौवनं प्राप्ता कृष्णनारायणं सदा ॥३९॥
भजति स्म प्रगे स्नात्वा नमति स्म पितुः पदम् ।
सेवते स्म प्रसूं साध्वी मत्वा पुण्यमनुत्तमम् ॥४०॥
अथ पूर्वकृताद् दैवाद् वृकस्य नृपतेः पुरीम् ।
शत्रवः परितो वृत्त्वा त्वयुद्ध्यन् बहुवासरान् ॥४१॥
वृको युद्धे हतो दैवाद् दिने तु दशमे यदा ।
तदा लोकास्तदेवोचुरनया विषकन्याया ॥४२॥
राज्ञो राज्यं गतं सर्वं राजाऽपि निहतो रणे ।
उक्तो ज्योतिर्विदा पूर्वं नृपस्तत्याज नैव ताम् ॥४३॥
अधुना वध्यतां त्वेषा निर्यास्यतां पुरादितः ।
अवशिष्टस्य रक्षा स्यादन्यथा नाश एव हि ॥४४॥
कन्या श्रुत्वा प्रजावाणीं निर्ययौ निशिथे सती ।
हाटकेश्वरशंभोश्च क्षेत्रं गत्वा क्षणं स्थिता ॥४५॥
नत्वा शंभुं शोकमग्ना चिन्तयामास वै मृतिम् ।
अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ॥४६॥
चण्डालत्वे मया पूर्वं गौरेका वितृषीकृता ।
तत्पुण्येन नृपपुत्री सञ्जाताऽस्मि वृकालये ॥४७॥
पूर्वदेहे बहुपुत्रा त्वासं चण्डालभामिनी ।
विगर्हिता च दारिद्र्यकदर्थिता क्षुधार्दिता ॥४८॥
तृषार्दिताऽप्यहं ददौ जलं गवे सुपुष्कलम् ।
तेन पुण्येन संजाता कन्याऽहं भूभृतः खलु ॥४९॥
किन्तु चण्डालपुत्रीत्वे तदा गौरीं तु कानकीम् ।
चोरयित्वा च पाषाणैर्बभंज खण्डशश्च ताम् ॥५०॥
देवालयाद् विनिर्गत्य विक्रयार्थं महापणम् ।
यावद्गतवती तावद्धृता राजभटैरहम् ॥५१॥
ताडिता दण्डिता कारागारे क्षिप्ता ततो मृता ।
पार्वतीमूर्तिभंगेन सञ्जाता विषकन्यका ॥५२॥
मम कर्म मयाऽवश्यं भोक्तव्यमघमेव तु ।
किन्तु जलप्रदानस्य पुण्यं प्राप्तं मया शुभम् ॥५३॥
अथ तत्रोटजां कृत्वा करोमि तप उत्तमम् ।
जलदानं फलदानं यथाशक्ति च सेवनम् ॥५४॥
सतां यतीनां साधुनां गवां धर्मिष्ठयोषिताम् ।
बालानां देवभक्तानां सेवया मोक्षणं भवेत् ॥५५॥
इति कृत्वा तपस्तेपे गौरीं संस्थाप्य भक्तितः ।
व्रतं कृतवती गौर्याः स्नात्वा पूजादि चाचरत् ॥५६॥
एकान्तरोपवासैश्च नृत्यगीतैर्मनोहरैः ।
तोषयामास नित्यं सा ग्रीष्मे पञ्चाग्निसाधना ॥५७॥
शिशिरे जलमध्यस्था वर्षायां जलवृष्टिषु ।
स्थिता पूर्वं फलाहारा पत्राहारा ततः परम् ॥५८॥
शुष्कपर्णादिनी पश्चाज्जलाहारा बभूव सा ।
वाय्वाहारा ततो जाता चात्मारामा ततः परम् ॥५९॥
आकाशशयना त्यक्तकुटीरा च दिगम्बरा ।
बभूव धूलिकामग्ना भूतले भूतलं यथा ॥६०।
बहुकालो गतस्तस्या योगिन्या योगधर्मतः ।
मुखं वलिभिराक्रान्तं पलितैरङ्कितं शिरः ॥६१।
कन्याभावेऽपि वर्तन्त्या गौरी तुष्टा बभूव ह ।
अथ तस्याः परीक्षार्थं शची भूत्वा तु पार्वती ॥६२॥
श्वेतं गजं समारुह्य महाराज्ञी समाययौ॥.
दधती मुकुटं मूर्ध्नि सेव्यमानाऽप्सरोगणैः ॥६३॥
प्रसन्नवदना शर्मवतीं प्रोवाच सादरम् ।
वरं वृणु यथेष्टं ते ददामि तापसि प्रिये ॥६४॥
अहं भार्या सुरेशस्येन्द्राणी भवामि नामतः ।
स्वयं प्राप्ता दयां कृत्वा दातुं तव तपःफलम् ॥६५॥
भवानी निष्ठुरा कन्ये नाऽद्यापि त्वां प्रपश्यति ।
इति श्रुत्वा रजो देहादुद्धूल्य च कृताञ्जलिः ॥६६॥
नमस्कृत्याऽऽह नाऽहं त्वत्प्रसादं चिन्तये शचि ।
वरं त्वत्तस्तु नेच्छामि नाऽन्यासां देवयोषिताम् ॥६७॥
या देवी शिवकान्ताऽस्ति वरं तस्या वृणोम्यहम् ।
यया वर्षसहस्राणि शिवार्थं तप्तमेव यत् ॥६८॥
कृष्णवामांगसंभूता प्रकृतिर्या सदाशिवा ।
यया व्याप्तमिदं सर्वं तस्या वरं वृणोम्यहम् ॥६९॥
शच्युवाच तनया कन्यामहं वज्रधरी शची ।
स्वामिन्यहं तु देवानां देवीनामीश्वरी सती ॥७०॥
मया दत्तैर्वरैः सर्वा देव्यो भवन्ति कन्यके ।
त्वं कथं नैव गृह्णासि वरं मत्तः कुतापसि! ॥७१॥
तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ।
इति श्रुत्वा धैर्ययुक्ता कन्या प्राह सुरेश्वरीम् ॥७२॥
स्वामिनी त्वं सुराणां च देवीनामपि तदृतम् ।
यस्याः प्राप्तं तवैश्वर्यं परां तां तोषयाम्यहम् ॥७३॥
स्वागतं ते मातृतुल्यं पूज्येऽर्चयामि सत्फलैः ।
स्वल्पमप्यपराधं ते न करोमि महेश्वरि ॥७४॥
तथापि वधयोग्यां मां मन्यसे निक्षिपाऽऽयुधम् ।
एवमुक्त्वा शिवां ध्यात्वाऽवाततार हृदम्बरे ॥७५॥
चिन्तयामास च हृदि मरणं वा च दर्शनम् ।
एकं लब्धव्यमेवाऽत्र शच्या वा शिवयोषितः ॥७६॥
अन्यथा ज्वलनं योग्यं सेवयिष्यामि चानलम् ।
तावत् त्वैरावतो जातस्तदा सिंहस्वरूपकः ॥७७॥
शची जाता शिवारूपा ह्यप्सरसस्तु सेविकाः ।
रुद्राण्यो भालचन्द्राश्च शूलहस्ताः शुभाननाः ॥७८॥
शुक्लां शुक्लवृषस्थां पार्वतीं शुक्लाम्बरां हृदि ।
दृष्ट्वा शर्मवती चक्षुरुद्घाट्याऽग्रे व्यलोकयत् ॥७९॥
विषकन्या स्तुतिं चक्रे प्रणिपत्य सगद्गदा ।
'नमस्ते शांकरि रक्षाकरि प्राणातिवल्लभे ॥८०॥
सर्वकामप्रदे सत्ये भक्ताया हृदयंगमे ।
नमस्तेष्टगुणैश्वर्यवत्यै सत्यै नमो नमः ॥८१॥
ध्यायन्ति योगिनस्त्वां चार्चयन्ति स्नेहवस्तुभिः ।
सम्यग्भावात्मकैः पुष्पैरर्चयामि महेश्वरि' ॥८२॥
इत्युक्त्वा प्रणनामाथ पार्वती तामुवाच ह ।
परितुष्टाऽस्मि ते पुत्रि वरं प्रार्थय वाञ्छितम् ॥८३॥
विषकन्या तदोवाच सर्वं जानासि चेश्वरि ।
भर्तुरर्थे मया सर्वः कृतोऽयं तपउद्यमः ॥८४॥
तत्किं तेन करिष्यामि साम्प्रतं जरयाऽऽवृता ।
वसाऽत्र पार्वति नित्यं कन्यानां शुभदा भव ॥८५॥
इत्युक्ता पार्वती तथास्त्विति प्राह ततः परम् ।
पस्पर्श पाणिना कन्यां चकार नवयौवनाम् ॥८६॥
उवाचोनषोडशाब्दां दिव्या चम्पकसदृशीम् ।
वद कन्ये वरारोहे किमिष्यते ततः परम् ॥८७॥
कन्याऽऽह मातः शंभोर्मे दर्शनं कारय प्रभोः ।
सती प्राह समागच्छ कैलासं सिंहसंस्थिता ॥८८॥
इत्युक्ता सा शर्मवती ययौ कैलासमेव तु ।
दृष्ट्वा च शंकरं साध्वी लब्ध्वा मन्त्रं तु वैष्णवम् ॥८९॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
कण्ठे च तुलसीमालां गृहीत्वा सात्त्वती तदा ॥९०॥
अभवद् वैष्णवी कन्या नारायणपरायणा ।
अन्ते नारायणं लब्ध्वा पतिं मुक्तिं जगाम सा ॥९१॥
इत्येवं कथितं लक्ष्मि! शर्मवत्याः शुभावहम् ।
तापस्याः शुक्लचरितं विषकन्यातपः परम् ॥९२॥
पार्वतीनिष्ठया भक्त्या लब्ध्वा शंभोश्च दर्शनम् ।
वैष्णवी परमा भूत्वा ययौ विष्णोस्तु मन्दिरम् ॥९३॥
भाग्यहीना गृहहीना कर्महीनाऽपि या भवेत् ।
तपसाऽऽराधनया च भुक्तिं मुक्तिं लभेत तु ॥९४॥
पठनाच्छ्रवणाच्चास्य तादृशीं सद्गतिं लभेत् ।
भाग्यरेखां सुरेखां च कृत्वा दास्यं हरेर्व्रजेत् ॥९५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रीयवृकराज्ञः शर्मवत्या विषकन्यायाः पितृराज्यनाशोत्तरं तपः, पूर्वजन्मादिस्मृतिः, गौरीशंभ्वोराराधना, परीक्षा, वरदानम्, शिवाशिवदर्शनम्, कैलासगमनम्, ततो नारायणभक्त्या वैकुण्ठे मोक्षणं चेतिनिरूपणनामानवत्यधिकचतुश्शततमोऽध्यायः ॥४९०॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP