संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १५७

कृतयुगसन्तानः - अध्यायः १५७

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
रेवतीकुण्डइत्युक्तं का वा सा रेवती ह्यभूत् ।
तज्जिज्ञासां प्रशाम्यैव ततस्तीर्थानि मे वद ॥१॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! तदाख्यानं सत्ययुगीयमुच्यते ।
यथा या रेवती जाता यन्नाम्ना कुण्डतीर्थकम् ॥२॥
दक्षस्य दुहिता या तु पत्नी चन्द्रमसोऽस्ति हि ।
सा नक्षत्रस्वरूपाऽस्ति रेवती दिवि राजते ॥३॥
सूर्यात् संज्ञानासिकातश्चोत्पन्नो रैवतः सुतः ।
पञ्चमः स मनुर्देवि रैवतो नाम विश्रुतः ॥४॥
या ह्यध्यात्मतया शैले रैवते जीववत्स्थितः ।
रैवताख्यमनोः पुत्रः कृतवाक्मनुरुच्यते ॥५॥
कृतवाचो गृहे पुत्रजन्माऽभूत्तु यदा तदा ।
नक्षत्रं रेवतीसंज्ञं जन्मर्क्षं तदभूत् नृपः ॥६॥
पुत्रजन्मोत्सवं चक्रे जातकर्मादिकाः क्रियाः ।
दानानि विविधान्येव ददौ विप्रेभ्य एव सः ॥७॥
तथान्यान्समयप्राप्तान् संस्कारान् कृतवान्नृपः ।
पुत्रजन्मसमये वै नृपस्याऽभूज्ज्वरो महान् ॥८॥
स्वप्नेऽपि ददृशे स्वस्य शकट्याकर्षणकृतिम् ।
वामांगं प्रास्फुरत्तस्य काकः क्रोशति मस्तके ॥९॥
कोशात्स्वर्णमयीमुद्राः यान्ति देवा तु वृश्चिकाः ।
शिवा स्वाभिमुखं रौति श्वा भषत्यभिसम्मुखम् ॥१०॥
मुकुटः पतितो मूर्ध्नोयष्टिका पतिता करात् ।
कृतवाक् पतितः सौधसोपानेभ्यो लुठन् भुवि ॥११॥
इत्येवं चाऽशकुनानि पुत्रे जातेऽभवन्नथ ।
यतः प्रभृति जातोऽसौ ततः प्रभृत्यसौ नृपः ॥१२।
दीर्घरोगपरामृष्टो माताऽभूत्कुष्ठरोगिणी ।
जगाम चिन्तां नृपतिः किमेतदिति दुःखितः ॥१३॥
मूर्खश्च मन्दभाग्यश्च पुत्रः पितुर्हि दुःखद ।
अमार्गगो विशेषेण दुःखाद्दुःखप्रदो भवेत् ॥१४॥
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ।
सुहृदां नोपकाराय पितॄणां नोपतृप्तये ॥१५॥
मातापित्रोर्विनाशाय कुपुत्रो वै दिने दिने ।
अन्ततस्तु स्वमेवाऽत्र नाशं याति कुपुत्रकः ॥१६॥
वरं चाऽलग्नकरणं ऋत्वनभिगमो वरः ।
वरं नार्याश्च वन्ध्यात्वं वरो गर्भस्य संक्षयः ॥१७॥
वरो मृतप्रसवो वा वरा बालमृतिस्तथा ।
वरं विवासनं किन्नु कुपुत्रो न वरो मतः ॥१८॥
मृतानां तु भवेच्छोकः स्वल्पो यावत्स्मृतिस्तदा ।
कुपुत्राणां तु मूर्खाणां शोकस्तापः पदे पदे ॥१९॥
अनिर्वृत्तं निरानन्दं दुःखशोकपरिप्लुतम् ।
करोति हृद्यं पित्रोः शत्रूणां तु सदामुदम् ॥२०॥
अकाले तु जरां पुत्रः कुपुत्रः कुरुते पितुः ।
नरकाय न स्वर्गाय नाऽऽत्मनेऽपि हिताय च ॥२१॥
सुपुत्रो हृदयं वेत्ति मातापित्रोर्दिने दिने ।
धन्यास्ते तनया येषां मर्वलोकाभिसम्मताः ॥२२॥
परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः ।
कुपुत्रिणश्च धिग्जन्म धिग्राज्यं संपदश्च धिक् ॥२३॥
एवमत्यन्तदुष्टस्य पुत्रस्य चरितेन सः ।
वृद्धगर्गमपृच्छच्च कृतवाग् दग्धमानसः ॥२४॥
सुव्रतेन पुरा वेदा अधीता विधिना मया ।
समाप्य विद्या विधिवत् ततो दारपरिग्रहः ॥२५॥
धर्मः सम्यग्धृतः सर्वो नाऽधर्मे वै मनः कृतम् ।
पुत्रार्थं जनितश्चायं कुपुत्रः कथमीदृशः ॥२६॥
सोऽयं किं निजदोषेण मातुर्दोषेण वा मम ।
अस्मद्दुःखावहो जातो दुःशीलो दुष्टलुब्धकः ॥२७॥
हिंसको मद्यपः स्तेनो दुःखदारिद्र्यकृत्सदा ।
पित्रोः सदाऽवमन्ता च सेवाधर्मविवर्जितः ॥२८॥
अस्य जन्मोत्तरं लक्ष्मीर्गृहाद्बहिर्वियाति हि ।
अस्य प्रातर्मुखाऽऽलोकेऽवश्यं कलिर्भवत्यपि ॥२९।
भोजनं भ्रष्टतां याति दिनं गच्छति दुर्दिनम् ।
मम भार्या च कुष्ठेन रुग्णा जाता ततः तदा ॥३०॥
अहं च ज्वररोगेण रुग्णो जातोऽस्मि नित्यदा ।
अन्येऽपि मम पोष्यास्ते हानौ वर्तन्त एव तत् ॥३१॥
कार्यं यच्च करोम्येतत् सफलं नैव जायते ।
साफल्येऽन्या द्विगुणा च हानिः समुपतिष्ठति ॥३२॥
तस्माद् विचार्य विप्रर्षे भवेत् किमत्र कारणम् ।
तस्य शान्तिं कारयिष्ये यदि सौख्यं लभे वद ॥३३॥
गर्गः प्रोवाच रेवत्यां नक्षत्रेऽयं सुतस्तव ।
जातोऽस्ति दुष्टसमये तेन दुःखायते ह्ययम् ॥३४॥
व्यतीतप्राया रेवती कालो दुष्टो हि कथ्यते ।
रेवत्यन्ते यस्य जन्म तत्सर्वं दुःखदं भवेत् ॥३५॥
न पुत्रस्य न वै मातुर्न वा तेऽस्ति प्रदूषणम् ।
परं दौःशील्यहेतुत्वं रेवत्यन्ते तु यज्जनिः ॥३६॥
रेवत्यश्विनीमध्यं यदाश्लेषामघयोस्तथा ।
ज्येष्ठामूलयोरप्युक्तं गण्डान्तं तद् भयावहम् ॥३७॥
गण्डत्रये समुत्पन्ना नरनारीतुरंगमाः ।
तिष्ठन्ति न चिरं गेहे तिष्ठन्तोऽपि भयावहाः ॥३८॥
एवमुक्तोऽथ गर्गेण चुक्रोध कृतवाक् तदा ।
उवाच मम पुत्रस्य रेवत्यन्ते समुद्भवः ॥३९॥
रेवती किं न जानाति मां विप्रः शापयिष्यति ।
प्रज्वल्यमाना गगनात् तस्मात्पततु रेवती ॥४०॥
तेनैवं व्याहृते वाक्ये विस्मयाऽऽविष्टचेतसः ।
पश्यतः सर्वलोकस्य रेवत्यन्तं पपात ह ॥४१॥
ईश्वरेच्छाप्रभावेण कुमुदाद्रौ समन्ततः ।
रेवत्यन्तो निपतितः खण्डः परम उज्ज्वलः ॥४२॥
स वै खण्ड ऊर्ज्जयन्तनामा शैलः प्रकथ्यते ।
कुमुदे मूर्ध्नि पतितः शान्तश्च कुमुदे तथा ॥४३॥
भासयामास सहसा वनकन्दरनिर्झरम् ।
कुमुदेन समं मैत्रीं कृतवानूर्जयन् गिरिः ॥४४॥
ऊर्ज्जयन् रेवतीखण्डः कुमुदे ह्यवसत् सदा ।
तस्मादपि कुमुदो वै रैवतकोऽभिधीयते ॥४५॥
आभूतसंप्लवम् यावत् संस्थितौ तौ परस्परम् ।
कुमुदाद्रिश्च तत्खण्डात् ख्यातो रैवतकोऽभवत् ॥४६॥
ऊर्ज्जयन्तो वह्निवर्णः कुमुदश्चन्द्रवर्णकः ।
द्वयोश्च मिश्रणे गैरिकावर्णो रैवताचलः ॥४७॥
अथापि रेवतीखण्डः कुमुदाऽऽभ्यन्तरेऽस्ति वै ।
ज्वालामुखी कदाचित्स भविष्यत्येव रैवतः ॥४८॥
मन्दरो ह्यरुणश्चापि रेवतीखण्डयोगतः ।
ज्वालामुखौ कदाचिद्वै लयग्राहे भविष्यतः ॥४९॥
ऊर्ज्जयन्तश्च कुमुदो मन्दरश्चाऽरुणाचलः ।
कृतस्मरश्च पञ्चैते मिलित्वा रैवताचलः ॥५०॥
वर्तते सुमहान् दिव्यः स्वर्णाभो रैवताचलः ।
स पश्चाज्जनयामास कन्यां रैवतको गिरिः ॥५१॥
रेवतीकान्तिसदृशीं रेवतीसदृशाननाम् ।
खट्वांगाख्यसुवर्णांगदस्वसा रेवती शुभाः ॥५२॥
नाम्ना तु कथिता तत्र तपस्यता द्विजर्षिणा ।
प्रमुचाख्येन पितृवद्वर्तमानेन तद्गिरौ ॥५३॥
पितृवद्रेवतीनामाऽकरोत् प्रमुचसन्मुनिः ।
रैवतोऽपि रेवतीति नाम्नाऽजुहाव तां सुताम् ॥५४॥
सा च तत्र कृतस्थाना वर्तते गिरिकन्दरे ।
तेजोमयं च तत्स्थानं सर्वतीर्थजलाश्रयम् ॥५५॥
गंगाजलप्रवाहश्च यामुनं सलिलं तथा ।
सारस्वतं च सलिलं तत्र गर्तेषु तत् त्रयम् ॥५६॥
गर्तः स कन्दराग्रस्थो रेवतीकुण्ड उच्यते ।
तत्र वै कन्दरे बाला वर्धिता प्रमुचर्षिणा ॥५७॥
यौवनं तु तया प्राप्तं तत्र रैवतके गिरौ ।
तां च यौवनसम्पन्नां दृष्ट्वा सः प्रमुचो मुनिः ॥५८॥
एकान्ते चिन्तयामास कोऽस्या भर्ता भविष्यति ।
हुत्वा हुत्वा स पप्रच्छ गुरुं वह्निं द्विजोत्तमः ॥५९॥
प्रसादं कुरु मे ब्रूहि कोऽस्या भर्ता भविष्यति ।
अस्या अस्ति सदृशो वा वरो नास्ति च कोऽपि वा ॥६०॥
तदाऽग्निकुण्डादुत्थाय मूर्तिमान् हुतभुक् स्वयम् ।
प्राह शृणु च मे वाक्यं कोऽस्या भर्ता भविष्यति ॥६१॥
प्रियव्रतान्वयोत्पन्नो महाबलपराक्रमः ।
पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः ॥६२॥
दुर्दमो नाम भविता भर्ता ह्यस्या महीपतिः ।
अत्रान्तरे समायातो दुर्दमः स महीपतिः ॥६३॥
मृगयाव्याजतस्तत्र कन्दरां तामपश्यत ।
दृष्ट्वा स दुर्दमः कन्यामुवाच विधियोगतः ॥६४॥
प्रिये पिताऽस्ति ते कुत्र दर्शनं मे भवेन्न वा ।
तत्राऽग्निशालासंस्थः सः शुश्राव तद्वचो मुनिः ॥६५॥
प्रिये-इत्यामन्त्रणस्य कर्ता कोऽयं विचार्य च ।
आजगाम बहिर्यावद् राजानं स ददर्श ह ॥६६॥
जहर्ष दुर्दमं भाविजामातारं विलोक्य सः ।
शिष्यं च गौतमं प्राहाऽस्मै देह्यर्घ्यादिकं शुभम् ॥६७॥
जामाताऽयं दैवयोगात् स्याच्च जाया सुता मम ।
तमासनगतं विप्रो गृहीतार्घ्यं महामुनिः ॥६८॥
प्रमुचः प्राह राजेन्द्र कुशलं ते पुरे किमु ।
कोशे बले च मित्रे च भृत्याऽमात्येषु शं किमु ॥६९॥
स्वागतं ते करोम्यत्र दैवयोगात्प्रवासिनः ।
आत्मनि कुशलं चास्ति यत्र सर्वं प्रतिष्ठितम् ॥७०॥
भार्यास्ते कुशला राजन् ब्रूहि सर्वं यथास्थितम् ।
दुर्दमः प्राह प्रमुच! त्वत्प्रसादात्सदा मम ॥७१॥
राज्यं दाराश्च कुशलास्त्वां विलोक्य विशेषतः ।
सुभद्रा शान्तपापा च कावेरीतनया तथा ॥७२॥
सुरामा जानुजाता च कदम्बा च वरप्रजा ।
विपाठा नन्दिनी चान्या भार्या मे कुशलाः सदा ॥७३॥
प्रमुचः प्राह दुर्दम! प्रिये इत्युक्तवान् भवान् ।
सा मे शिष्या रेवती वै प्रियेत्युक्ता प्रिया तव ॥७४॥
तदन्यथा न भविता यदृच्छावचनं तव ।
गृहाणेमां शुभां कन्यां पत्नीत्वेन ममाज्ञया ॥७५॥
इत्यादिवचनैः राजा भार्यायै प्रतिपादितः ।
विप्रस्तथोद्यतः कर्तुं विवाहं विधिपूर्वकम् ॥७६॥
तावत्तु रेवती प्राह किञ्चिन्मे श्रूयताम् ऋषे! ।
रैवत्यर्क्षे विवाहं मे दुर्दमेन करोतु वै ॥७७॥
रैवतर्क्षं विना लग्नं विफलं मे भविष्यति ।
ऋषिः प्राह तदा शिष्यां नास्तीन्दू रेवतीयुतः ॥७८॥
अन्यर्क्षं वर्तते चाऽऽद्य तत् करोमि यथा वद ।
कन्या प्राह तपोयोगात् कुर्विन्दुं रेवतीयुतम् ॥७९॥
एवं भवतु भद्रन्ते प्रमुचः प्राह तां सुताम् ।
आरोपयामीन्दुमार्गे रेवत्यर्क्षं कृते युवाम् ॥८०॥
ततस्तपःप्रभावेण रैवत्यर्क्षं महामुनिः ।
चन्द्रसंयोजितं चक्रे विवाहं कृतवाँस्ततः ॥८१॥
जामातारमुवाचर्षिरुद्वाहिकं ददामि किम् ।
दुष्प्रापमपि दास्यामि विद्यते मे महत्तपः ॥८२॥
राजा प्राह तदा विप्रं शृणु वै दुर्घटं वचः ।
सूर्यस्य संज्ञा या पत्नी वडवाऽऽसीत्स्वरूपतः ॥८३॥
तदा तस्या अश्वरूपसूर्ययोगे नसस्तदा ।
रैवतो यः समुत्पन्नोऽध्यात्माऽत्र कुमुदाचले ॥८४॥
अदृश्यो वर्तते तत्र रैवतर्क्षं समागतम् ।
सेयं तु रेवती कन्या जाता मे गृहिणी तु सा ॥८५॥
तस्यां स रैवतः पुत्रो मद्योगाद्भवतात्पुनः ।
मनोः स्वायंभुवस्याऽहमुत्पन्नः सन्ततौ मुने ॥८६॥
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम् ।
स एव जन्म लब्धा वै ततो मन्वन्तरो भवेत् ॥८७॥
पञ्चमः स एव मनुर्भूयादिति वृणोम्यहम् ।
तथाऽस्त्विति ऋषिः प्राह भविष्यति तथा मनुः ॥८८॥
रेवती रेवतीकुण्डे स्नात्वा पुत्रं प्रदास्यति ।
मनोरंशः स वै पुत्रो मनुरेव भविष्यति ॥८९॥
रेवतांशसमुत्पन्नो रैवताख्यो भविष्यति ।
पर्वताख्यश्च मन्वाख्यो द्वेधा स्थास्यति सर्वदा ॥९०॥
इतिप्राप्तवरो राजा संस्नातो रेवतीजले ।
रेवत्यपि तथा स्नाता योगात्पुत्रमजीजनत् ॥९१॥
रैवतेति कृतं नाम स वै मनुरजायत ।
एवं यौ रेवतीकुण्डे स्नास्यतस्तद्गृहे सुतः ॥९२॥
भाग्यवान् राज्यवान् विज्ञः ख्यातकीर्तिर्भवेन्ननु ।
स्नास्यन्ति प्रमदा यास्ता दुःखदारिद्र्यवर्जिताः ॥९३॥
लप्स्यन्ते तैजसं पुत्रं सर्वलोकनमस्कृतम् ।
इति ते कथितं तीर्थं रेवतीकुण्डसंगतम् ॥९४॥
अथाऽऽरराध तपसा रेवती वामनं हरिम् ।
दामोदरः प्रसन्नः स रेवतीं प्रत्युवाच ह ॥९५॥
जायतां ते यथापूर्वं योगस्तु शशिना सह ।
अन्यद् वृणोहि तुष्टोऽहं वरं मनसि ते स्थितम् ॥९६॥
रेवती प्राह मे नाथ कन्दराया मुखेऽत्र वै ।
कुण्डे यत्र मया स्नातं स्वर्णरेखानदीयुते ॥९७॥
तत्र स्नास्यन्ति ये तेषां नश्यन्त्वघसुपर्वताः ।
स्वर्गं यान्तु सुखं यान्तु पुत्राँश्च प्राप्नुवन्तु ते ॥९८॥
किं चान्यद्वै समुद्रस्य मन्थनं तु यदाऽभवत् ।
तदा तु मथ्यमानाद्वै पारिजातादयो द्रुमा ॥९९॥
समुद्भूतास्तदा तत्र द्रुम आमर्दकोऽभवत् ।
आमर्दे सर्वदेवानां जाता आमर्दकी स्मृता ॥१००॥
हरिणात्वर्पिता चन्द्रमसे स्वर्गं तु गच्छता ।
चन्द्रमाः स्नेहबाहुल्याद् ददौ मह्यं तदा दिवि ॥१०१॥
रैवतीखण्डगो वृक्षोऽपतत् तत्खण्डसंस्थितः ।
कृतवाचो यदा शापात् पपात कुमुदे यदा ॥१०२॥
मया साकं स वै वृक्षो रैवतेऽद्रौ समागतः ।
दिव्यः सुगन्धपुष्पाढ्यो लक्ष्मीवासमयोऽस्ति सः ॥१०३॥
अस्मिन् वृक्षे स्थिता लक्ष्मीः सेव्यते सुरसत्तमैः ।
देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवोऽर्चितः ॥१०४॥
अस्य वृक्षस्य यात्रां ये करिष्यन्ति हरेर्दिने ।
फाल्गुनशुक्ले द्वादश्यामेकादश्यां तथा प्रिये ॥१०५॥
तेषां पुत्राश्च पौत्राश्च भविष्यन्ति गुणाधिकाः ।
अन्ते विष्णुपुरे वासो जायते नात्र संशयः ॥१०६॥
फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः ।
स्नात्वा ह्येकादशी देवी प्रतिमायां गिरौ वने ॥१०७।
पूज्या पुष्पैः शुभैः रात्रौ कार्यं जागरणं जनैः ।
अष्टाधिकैः शतैः कार्यं फलैस्तस्याः प्रदक्षिणम् ॥१०८॥
कर्तव्यस्तत्फलाहारो घटो देयौ जलान्वितः ।
मुखे श्रीफलसंयुक्तो दीपः कार्यश्च सर्पिषा ॥१०९॥
हविष्यान्नं तथा देयं ताम्बूलं च फलादिकम् ।
तथा जागरणं कार्यं कथाश्रवणतत्परैः ॥११०॥
मुच्यन्ते मनुजाः पापैः कठिनैः कार्यसंभवैः ।
देहान्ते ते नराः सर्वे पूज्यन्ते हरिमन्दिरे ॥१११॥
अथापि रेवती देवी कृतवाचं समागतम् ।
जगाद परया प्रीत्या ज्वरकुष्ठौ विनश्यतः ॥११२॥
पुत्रस्ते सुगुणश्चाऽस्तु याम्यहं वै पुनर्दिवम् ।
अंशेन रेवतीतीर्थे स्थास्याम्याकल्पमत्र च ॥११३॥
इति प्रोक्त्वा दिवं याता संगता शशिनं तथा ।
तीर्थं तु सर्वता साऽभूत् रेवतीकुण्डसंज्ञकम् ॥११४॥
अथ वै ब्रह्मणः पुत्रो मरीचिस्तस्य कश्यपः ।
तस्य पुत्रो विवस्वाँश्च तस्य शर्यातिरुच्यते ॥११५॥
तस्य त्वानर्तसंज्ञोऽभूत् येन पश्चिमवारिधौ ।
तपस्तप्त्वा तु गोलोकाच्छ्रीकृष्णात् खण्ड आहृतः ॥११६॥
सोऽयं सौराष्ट्र इत्युक्तो मणेः खण्डोऽपि चाहृतः ।
स दिव्यः प्रथमश्चाद्रिरानर्तस्य सुपुत्रताम् ॥११७॥
प्राप्तवानंशतस्तस्य रैवताख्या कृता तदा ।
रैवतः सः स्वर्णनद्यां यात्रार्थं समुपागतः ॥११८॥
कृतवाचा तु पुत्रार्थं स्नापितो रेवतीजले ।
रैवतः प्राह विप्रर्षे त्वत्समो मेऽस्तु वै सुतः ॥११९॥
तथाऽस्तु प्राह विप्रर्षिस्ततो यात्रां विधाय च ।
रैवतः स्वपितुरानर्तस्य पुरीं कुशस्थलीम् ॥१२०॥
आनर्तनिर्मिता तत्र जगाम तद्गृहे तदा ।
विप्रर्षिः कृतवाक् पुत्ररूपेणांऽशेन चाऽभवत् ॥१२१॥
रेवत्या च श्रुतं स्वर्गे गुरुर्वै निधनं गतः ।
आनर्तस्य सुपुत्रस्य रैवतस्य सुपुत्रकः ॥१२२॥
संजातोऽस्ति ततः स्नेहाद् रेवत्यपि समागता ।
रेवतस्य सुपुत्रस्य ककुद्मी नाम चाऽभवत् ॥१२३॥
ककुद्मिनो गृहे कन्या रेवती चांशतोऽभवत् ।
रूपगुणवयोयुक्तां वरयोग्या विलोक्य च ॥१२४॥
रेवतीसदृशं कान्तं यदा नैवोपलब्धवान् ।
तदा वरं परिप्रष्टुं सत्यलोकं जगाम ह ॥१२५॥
रेवत्या सह राजासौ ककुद्मी वेधसः सदः ।
जगाम यत्र गान्धर्वगायनं नृत्यमिश्रितम् ॥१२६॥
प्रवर्तते देवकोटिसंजुष्टसदसि नृपः ।
क्षणं स्थितोऽलब्धक्षणस्तदन्ते ब्रह्मणे तु सः ॥१२७॥
नमस्कृत्य सविनयं स्वाभिप्रायं न्यवेदयत् ।
ब्रह्मन् पृथ्व्यां तु राजानो सन्ति वै बहवः खलु ॥१२८॥
सुवर्णांगदभूपालो मरुत्त्वान् रुक्मबर्हिषः ।
इक्ष्वाकुश्चापीन्द्रसेनस्तथाऽन्ये चक्रवर्तिनः ॥१२९॥
कस्मै देया मया कन्या ब्रूहि यत् तत्करोम्यहम् ।
तच्छ्रुत्वा तु तदा ब्रह्मा प्रहस्य तमुवाच ह ॥१३०॥
अहो राजन् मृतास्ते तु कालेन त्वत्समायुषः ।
तत्पुत्रवंशवंश्यानां नामगोत्राणि सन्ति न ॥१३१॥
सत्यलोके क्षणे काले चतुर्युगैकविंशतिः ।
भुवो याति महाकालो नष्टा ये ते हृदि कृताः ॥१३२॥
परावृत्याऽर्धक्षणतः पुनर्यास्यसि त्वं यदा ।
तदा तु तत्राऽष्टाविंशो द्वापरः संभविष्यति ॥१३३॥
तदन्ते वर्तमानाय शेषावताररूपिणे ।
बलभद्राय दातव्यं कन्यारत्नमिदं त्वया ॥१३४॥
शीघ्रं गत्वा ककुद्मी तत्तथैव बलयोगिने ।
दास्यति स्वसुतारत्नं तपसे यास्यति वनम् ॥१३५॥
रेवती सा पुनस्तीर्थं करिष्यति तु रैवते ।
पत्या सह पुनर्नाशे गोलोकं यास्यति ध्रुवम् ॥१३६॥
एवं सा रेवती पूर्वा हरेः पत्नी प्रकीर्तिता ।
पुनर्दक्षस्य दुहिता स्थिता नक्षत्ररूपिणी ॥१३७॥
पुनश्च रैवताद्रेः सा पुत्री कन्दरसंस्थिता ।
पुनः ककुद्मिनः पुत्री बलपत्नी प्रकीर्तिता ॥१३८॥
तीर्थरूपा सदा तत्र रैवते सन्निवत्स्यति ।
एकस्यापि विभूतेस्तु जन्मकर्माण्यनेकशः ॥१३९॥
चरित्राणि च दिव्यानि समकाले भवन्ति वै ।
तानि सर्वाण्यहं वेद्मि किमन्यच्छ्रोतुमिच्छसि ॥१४०॥
एवं कल्पान्तरेऽप्येषां प्राविर्भावास्तथैव हि ।
भविष्यन्तीति विज्ञेयं तव प्राविःस्वभाववत् ॥१४१॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रेवतीनक्षत्रखण्डस्य पृथिवीपतननिमित्तं रैवताचले पञ्चपर्वतात्मके रेवत्या जन्म, चन्द्रे संयोजितरेवतीनक्षत्रे दुर्दमेन सह विवाहः, रेवत्यां पुनः रेवतजन्म, रेवतीकुण्डमहिमा, आमर्दकवृक्षमहिमा, पुनरानर्तपुत्ररेवतपुत्रस्य कृतवाचाख्यककुद्मिनो गृहे रेवतीजन्म, ब्रह्मसभागमनं, बलभद्रेण विवाहश्चेत्यादिनिरूपणनामा सप्तपंचाशदधिकशततमोऽध्यायः ॥१५७॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP