संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३२७

कृतयुगसन्तानः - अध्यायः ३२७

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
नारायण महाराज जलंधरेण शत्रुणा ।
नारदे तु प्रयाते वै ततोऽनुष्ठितमेव किम् ॥१॥
वद विस्तरतो नाथ कृष्णनारायण प्रभो ।
जलंधरो महादैत्यः पार्वत्यर्थे किमाचरत् ॥२॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो दैत्यो नारदोक्तानुसारतः ।
प्रयत्नं कृतवान् सम्यक् कथयामि यथातथम् ॥३॥
तामेव चिन्तयन् तन्वीमनंगशरपीडितः ।
कालाधीनाऽल्पभाग्यः सः प्रणष्टधीर्विमोहितः ॥४॥
सुदूतमाह्वयामास सैंहिकेयं विचक्षणम् ।
आगतं तं महाराहुं प्राह कार्यप्रसाधक! ॥५॥
मम कार्यस्य सिद्ध्यर्थं कैलासं गच्छ पर्वतम् ।
तत्र योगी शंकरोऽस्ति यो न स्पृशति स्त्रीवराम् ॥६॥
तस्य हस्तगतं कन्यारत्नं चास्तीति नारदः ।
मामुवाच च तद्रत्नं मया प्राप्तव्यमेव ह ॥७॥
पार्वतीत्यभिधानं तन्मया प्राप्तव्यमेव हि ।
तत्र गत्वा तु वक्तव्यं निर्भयेन हृदा त्वया ॥८॥
वनवासिन्महायोगिन् जायारत्नेन किं नु ते ।
देहि तन्मे जलंधरनाम्ने रत्नभुजे हर ॥९॥
यानि यानि तु रत्नानि त्रैलोक्ये तानि सर्वशः ।
मम गृहे मया राज्ञा चानीतानि बलात्ततः ॥१०॥
ऐरावत उच्चैःश्रवाः कल्पश्च पारिजातकः ।
हंसयुक्तविमानं च वज्र शक्तिश्च चामरम् ॥११॥
मौक्तिकानि हीरकाश्च छत्रं प्रख्यातिमच्च यत् ।
तत्सर्वं मम भोग्यं वै मयाऽऽनीतं मम गृहे ॥१२॥
निधयश्च महामाला पाशो दण्डस्तथाऽमृतम् ।
सर्वं तन्मद्गृहे चास्ति कन्यारत्नं विना हर ॥१३॥
योगिनस्ते नवकन्या न स्पृश्या दीयतां हि मे ।
इत्याज्ञां प्राप्य राहुश्च ययौ यत्र स शंकरः ॥१४॥
नन्दिनाऽऽदिष्टदूतत्वात् सभामध्ये प्रवेशितः ।
शंकरं दिव्यसर्वांगं दिव्यभूषणभूषितम् ॥१५॥
प्रणनाम हरं तत्र गतवान् निकटं तथा ।
उवाच शंकरं चास्मि दूतो जलंधरस्य वै ॥१६॥
त्रैलोक्यपतिना मुक्तस्त्वत्सकाशमिहाऽऽगतः ।
योगिनं त्वां समुदिश्य स यदाह शृणुष्व तत् ॥१७॥
कन्यारत्नं स्वर्णकान्तं चन्द्रपिण्डसमं तव ।
योगिनो नोपयुक्तं स्याद् देहि मे त्वं दिगम्बर ॥१८॥
अहं रत्नप्रभोक्ताऽस्मि तत् स्त्रीरत्नं न ते भवेत् ।
भिक्षाशिनः कुतो रत्नं भार्यारत्नं तु भूभृतः ॥१९॥
त्रैलोक्ये यानि रत्नानि तान्याहृतानि सर्वशः ।
मया चेयं शुभा कन्या चेष्यते दीयतां नु मे ॥२०॥
स्वस्त्रीरत्नं देहि मह्यं राज्ञः सुखकराः प्रजाः ।
त्रैलोक्यान्तर्गतत्वात् त्वं प्रजा भवसि मे हर ॥२१॥
पश्य लक्ष्मि! हतबुद्धिः पितरं प्राह मातरम् ।
पार्वतीं मे देहि चेति माया वै कीदृशी हरेः ॥२२॥
हतधियोऽत्र लोके वै मातृकामाऽभिचिन्तकाः ।
सर्वे जलन्धरा बोध्या विष्णुमायाविमोहिताः ॥२३॥
सतीष्वपि च दासीषु परांगनां समीहते ।
सोऽपि जलंधरो बोध्यो विनाशमुखमन्त्रितः ॥२४॥
शृणु पश्चात्तु यज्जातं राहौ वदति तत्क्षणम् ।
समुत्पन्नो महारौद्रो गणस्तीव्राशनिस्वनः ॥२५॥
भ्रूमध्यादीशरोषाद्वा सज्वालनयनो महान् ।
सिंहाऽऽस्यप्रचलज्जिह्वश्चोर्ध्वकेशो भयंकरः ॥२६॥
तालजंघोऽभिदुद्राव क्षुधया राहुमातुरः ।
खादितुं तु समायान्तं दृष्ट्वाऽधावच्च राहुकः ॥२७॥
तथापि तं सः प्रसह्य राहुं दधार खादितुम् ।
आक्रुश्य शंकरं प्राह राहुः पाहि प्रपन्नकम् ॥२८॥
त्राहि त्राहि प्रभो पाहि रक्ष रक्ष कृपानिधे ।
खादत्ययं सेवकस्ते दूतं मां शरणागतम् ॥२९॥
न खादेत्तु यथायं मां तथा रक्षय शंकर ।
ब्राह्मणं मां न खादेद्वै नमस्तेऽस्तु कृपां कुरु ॥३०॥
ब्राह्मणेति वचःश्रुत्वा शंकरः स्वगणं तदा ।
अब्रवीद् दूत मा खाद ब्राह्मणं राहुनामकम् ॥३१॥
इति श्रुत्वा दूतवचो मुमोच तं सुभोजनम् ।
शंभुं प्राह क्षुधितोऽस्मि त्याजितं मम भक्ष्यकम् ॥३२॥
क्षुधा मां बाधते शंभो देहि भक्ष्यं महेश्वर ।
शिवः प्राह बुभुक्षा ते यद्यतीव प्रवर्तते ॥३३॥
क्षुधा त्वां बाधतेऽत्यर्थं स्वमांसं भक्षयाऽत्र वै ।
हस्तपादादिकं स्वस्य भक्षयाऽत्रेति चाज्ञया ॥३४॥
चखाद स गणः सर्वं स्वमांसं स्वकबन्धजम् ।
यदाऽभवच्छिरः शिष्टं प्रसन्नः शंकरस्तदा ॥३५॥
उवाच हे महाभक्त मदाज्ञाप्रतिपालक! ।
सन्तुष्टोऽस्मि वद तुभ्यं किं ददामि भयंकर! ॥३६॥
मया सह प्रपूज्यत्वं कीर्तिमुखाभिधानकम् ।
ददामि ते महावीर! वस द्वारि मम गृहे ॥३७॥
तदाप्रभृति शंभोश्चालयद्वारि स तिष्ठति ।
पूजनीयो विशेषेण शंभोः सन्तोषहेतवे ॥३८॥
अथ राहुर्गतो यत्र जलंधरः प्रतिष्ठति ।
स्वस्व मृत्युं निवेदयामास यथा च जीवनम् ॥३९॥
जलंधरस्तु संक्रुद्धः श्रुत्वा शंकरचेष्टितम् ।
दूताऽवमानं गणयन् स्वावमानं महत् कृतम् ॥४०॥
उवाच दैत्यमूर्धन्यान् सज्जा भवन्तु वै क्षणात् ।
निर्गच्छन्त्वखिला दैत्याः कालनेम्यादयस्तथा ॥४१॥
शुंभनिशुंभमुख्याश्च कोटयो वीरवंशजाः ।
कंबुवंश्या दौर्हृदाश्च कालकेयाश्च कालकाः ॥४२॥
मौर्या धौम्रास्तथा चान्ये दानवाश्चासुरास्तथा ।
सज्जाः समागताः सर्वे तानादाय जलंधरः ॥४३॥
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ।
अग्रे राहुश्छिन्नशिरोऽमंगलाय कृतोऽभवत् ॥ ४४॥
शुक्रः काणोऽमंगलाय द्वितीयोऽप्यग्रगोऽभवत् ।
शुंभस्य तु खड्गो हस्तात्पतितोऽमंगलाय सः ॥४५॥
निशुंभादेः क्षुवनं च गतौ स्खलनमित्यपि ।
जलंधरस्य शिरसो मुकुटोऽपतदित्यपि ॥४६॥
अमंगलाय तत्सर्वं प्रस्थानेऽभवदार्तिकृत् ।
महानिद्रासूचकाश्चाऽशकुनान्यभवन्नपि ॥४७॥
तदा त्रस्ताः सुरा गुप्ता अगच्छन् शंकरं प्रति ।
तुष्टुवुर्दुष्टनाशाय देवानां सुखलब्धये ॥४८॥
ध्यानमग्न महादेव! समाधिस्थ! नमोऽस्तुते ।
जलंधरस्तव पुत्रो विनाशाय समर्पितः ॥४९॥
सुराणां कदनं कृत्वा पार्वत्या धर्षणं तथा ।
तवाऽवमानं कृत्वा च ततो नाशाय कल्पितः ॥५०॥
किं वा पूर्वं कृपानाथ दैत्यो नाशाय कल्पितः ।
किं वै त्वया तथा लक्ष्मीपतिनाऽस्ति प्रणिश्चितम् ॥५१॥
विषप्राशोत्तरात् पूर्व वरं विषविनाशनम् ।
दुष्टकृद्धर्षणात् पूर्वं वरं दुष्टे प्रदण्डनम् ॥५२॥
विष्णुस्तस्य गृहे शेते वृन्दया परिसेवितः ।
शंकरः स्वगृहे शेते ब्रह्मणि स्वसमाधिना ॥५३॥
पार्वत्याश्चात्र किं भावि विचारय प्रभोलक ।
देवानां दुर्दशां चापि विलोकय प्रशंकर ॥५४॥
ब्रह्मा ब्रह्माण्डरचने निवृत्तिं नैव याति च ।
दिक्पाला लोकपालाश्च जलंधरवशंगताः ॥५५॥
रक्षको विद्यते नैव लक्ष्मीस्तस्य सहायिनी ।
त्वं भव रक्षकोऽस्माकं स्थानभ्रष्टाऽकृतात्मनाम् ॥५६॥
जहि नो रक्षणार्थाय पुत्र ते सागरात्मजम् ।
स चायाति त्वया कर्तुं रणं बलेन गर्वितः ॥५७॥
हन्तुमर्हस्यविलम्बात् तं विरुद्धार्थगामिनम् ।
दुःखितश्च सुरान् सर्वान् पाहि नः शरणागतान् ॥५८॥
इति देववचः श्रुत्वा विष्णुं सस्मार शंकरः ।
विष्णुः शीघ्रं समायातो न जानीयाद् यथाऽसुरः ॥५९॥
शंभुः प्राह हरिं विष्णो! जलंधरः कथं त्वया ।
निषूदितो न चाद्यापि कथं वससि तद्गृहे ॥६०॥
विष्णुः प्राह महादेव श्रीभ्राता च तवात्मजः ।
इतिहेतोर्हतो नैव त्वमेनं जहि शंकर! ॥६१॥
मया कृतो रणस्तेन प्राणग्राहेण सर्वथा ।
लक्ष्म्या निवारितश्चाहं मारयामास नैव तम् ॥६२॥
न स वै मारितः शंभो तव गौरवकारणात् ।
वरेण स्वालये चाहं वासितोऽस्मि न पक्षगः ॥६३॥
तस्य पत्नी महाभागा कृष्णगोलोकवासिनी ।
वृन्दा भवति धर्माढ्या सती पतिव्रता सदा ॥६४॥
तस्या बलेन दैत्योऽसौ म्रियते नेति वै मया ।
हेतुजिज्ञासया चापि वसतिस्तद्गृहे कृता ॥६५॥
तज्ज्ञातं सर्वथा शंभो कारणं प्रबलं यतः ।
युद्धं कुरु महादेव साहाय्ये विचराम्यहम् ॥६६॥
वृन्दायां तत्र कापट्यं किंचित् कर्तुं भविष्यति ।
न्यायेनैव करिष्यामि नाऽन्यायेन कदाचन ॥६७॥
स च दैत्यस्तव पत्नीं कामेनादातुमिच्छति ।
तत्र छिद्रे मया किंचित् कर्तव्यमुपतिष्ठति ॥६८॥
अवश्यं तस्य नाशः स्यान्मातृदुष्टार्थगामिनः ।
नाऽयं पुत्रः किन्तु शत्रुरिन्द्रं दृष्ट्वा त्वया कृतः ॥६९॥
स एवाऽन्यायगो नाश्यो नात्र कार्या विचारणा ।
एतस्मिन्नन्तरे दैत्यो महासेनासमन्वितः ॥७०॥
कैलासप्रान्तमायातोऽवरुध्याऽद्रिं जगर्ज ह ।
सैन्यकोलाहलं श्रुत्वा चुक्रोध शंकरस्तदा ॥७१॥
समादिदेश युद्धार्थं नन्द्यादिगणपुंगवान् ।
नन्दीभमुखसेनानीमुखा युद्धविशारदाः ॥७२॥
अवतेरुर्गणाः सर्वे कैलासात् क्रोधसंभृताः ।
कोटिशस्ते गणाश्चैव कोटिशो दैत्यपुंगवाः ॥७३॥
कुर्वन्तो रणशब्दाँश्च कैलासोपत्यकासु वै ।
गर्जन्तो भैरवं वीराः प्रमथेशाश्च दानवाः ॥७४॥
शक्तितोमरबाणौघैर्मुसलैः पाशपट्टिशैः ।
व्यराजन्त त्रिशूलास्त्रवज्रमुद्गरशस्त्रकैः ॥७५॥
भेरीमृदंगशंखोघैर्निःस्वानैर्वीरहर्षणैः ।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत ॥७६॥
सेनयोरुभयोस्तत्राऽभवन् शब्दा भयंकराः ।
गर्जनया समं परस्परं हननमुल्बणम् ॥७७॥
प्रावर्तत तदा लक्ष्मि! नाशनं चातिदारुणम् ।
हता नागा हताश्चाश्वा हता वीराः सहस्रशः ॥७८॥
प्रमथाहतदैत्यौघा दैत्याहतगणास्तथा ।
महानिद्रांगतास्तैश्च भूर्व्यराजत संवृता ॥७९॥
वसाऽसृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा ।
दैत्यानजीवयच्छुक्रो मृतसंजीवनीबलात् ॥८०॥
गणा मृता नोत्तिष्ठन्ति भयंकरमिदं महत् ।
शशंसुश्च गणास्तस्मै शंकराय विनाशनम् ॥८१॥
शुक्रस्य चेष्टितं सर्वं ज्ञात्वा तु चुक्रधे हरः ।
तन्मुखात् क्रोधताम्राक्षो कृत्या बभूव भीषणा ॥८२॥
तालजंघा दरीवक्त्रा ताडांगुली गिरिस्तनी ।
आससाद रणभूमिं विचचाराऽसुरेषु सा ॥८३॥
भक्षयमाणा तान्दैत्यान् जगाम भार्गवो यतः ।
शुक्राचार्यं गले धृत्वा योनिमध्येऽक्षिपद्धि सा ॥८४॥
स्वभगे धृत्वा जगामाऽन्तर्हिता नभः ।
दैत्याः प्रम्लानवदना दृष्ट्वैतच्छुक्रनाशनम् ॥८५॥
विनिर्जग्मुर्युद्धभूमेः प्राणरक्षापरायणाः ।
अभज्यत महासैन्यं गणैः सन्ताडितं तदा ॥८६॥
शुंभो निशुंभनामा च कालनेमिश्च ते त्रयः ।
युद्धं चरन्तः प्रमथपृतनां जघ्नुरैश्वरीम् ॥८७॥
मुञ्चन्तः शरवर्षाणि गणसेनामकम्पयन् ।
रुरुधुश्च गणाश्चापि दैत्यान् मार्गणवृष्टिभिः ॥८८॥
वसन्तकिंशुकाभासा जाता गणाश्च दानवाः ।
अथ दानवसैन्यं तद् व्योमाश्रयं समाचरत् ॥८९॥
रुरोध गणसैन्यं तद् व्योमवृष्ट्याऽतिघोरया ।
तदा प्रमथसैन्यं संभग्नं दुद्राव गह्वरम् ॥९०॥
दृष्ट्वा चैतद् वैपरीत्यं नन्दीभमुखषण्मुखाः ।
अन्येगणाश्चातिबला आकाशमवलम्ब्य च ॥९१॥
सैन्यान्याकाशमालम्ब्य नीत्वा पाषाणपुंगवान् ।
आमर्षादभ्यधावन्त संहर्तुं दैत्यपुंगवान् ॥९२॥
उत्प्लुत्य चोत्प्लुत्य विजघ्नुरैश्वरा,
जालंधराऽऽरक्षितदैत्यपुंगवान् ।
पाषाणशस्त्रेरतिभग्नमस्तका,
निपेतुरुर्व्यामपरे तु दुद्रुवुः ॥९३॥
एवमासुरसैन्यं तद्भग्नं व्योम विहाय च ।
कैलासारण्यमाश्रित्य प्रच्छन्नं समभूत् क्षणम् ॥९४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जालंधरवृन्दाख्याने जालंधरेण राहुर्दूतः शंकरं प्रति प्रेषितः, स कीर्तिमुखेन विद्रावितः, ततो जलन्धर-सैन्यमागतम्, शुक्राचार्यः कृत्यया योनौ निक्षिप्तः, घोरं युद्धमभूच्चेत्यादिनिरूपणनामा सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥३२७॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP