संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३०३

कृतयुगसन्तानः - अध्यायः ३०३

लक्ष्मीनारायणसंहिता


N/Aश्रीनारायण उवाच--
अधिमासैकादशिकाकथां दिव्यां हरिप्रदाम् ।
शृणु लक्ष्मि! समारंभे सृष्टेर्जाता तपोमयीम् ॥१॥
ब्रह्मणो वक्षसो जातो धर्मदेवः समूर्तिकः ।
मूर्तिर्देवी तिरोभूता सदाऽऽस्ते धर्मवर्ष्मणि ॥२॥
सा च धर्मे समुत्पन्ने सहैवोत्पद्यतेऽपि सा ।
लोकरीत्या तु संजज्ञे दक्षपुत्रीस्वरूपिणी ॥३॥
पुनर्धर्मस्य सा पत्नी लोकरीत्या तु जायते ।
यदा साऽभूद् धर्मदेवे ह्यदृश्या चाविवाहिता ॥४॥
तदा लक्ष्मि! कुमारी सा ब्रह्मचर्यसमन्विता ।
सेवते सर्वदा भक्त्या स्वामिनं ब्रह्मचारिणम् ॥५॥
सत्यलोके स्थिता वेधोगृहे धर्मसहायिनी ।
ब्रह्मा जानाति वै सर्वं नान्ये जानन्ति तां स्थिताम् ॥६॥
बाला बालस्वरूपाद्वै समारभ्यैव नित्यशः ।
स्नानं पूजां जपं होमं ध्यानं स्वामिप्रसेवनम् ॥७॥
करोत्येव च वृद्धेभ्यो नमनं वन्दनं तथा ।
दयाशान्तिप्रसन्तोषाऽऽर्जवोपकारकादयः ॥८॥
सत्यातिमार्दवकृच्छ्रगुणा मूर्तौ वसन्ति हि ।
सिद्धदेहा तु सा मूर्तिस्तपस्सु वर्ततेऽति वै ॥९॥
वृष्टौ तिष्ठति वर्षासु शैत्ये शीतजलादिषु ।
आतपे पञ्चवह्निस्था निराहारा व्रतेषु च ॥१०॥
आर्द्राम्बरान्विता नित्यं स्वर्णदीतो गृहं स्वकम् ।
समागत्य पतिं नत्वा करोति कृष्णपूजनम् ॥११॥
पतिं जलादिभिः पूर्वं स्नपयित्वा समर्च्य च ।
ददाति भोजनं चास्मै जलं खाद्यं फलादिकम् ॥१२॥
स्वयं तु तुलसीपत्रैः कमलैः पारिजातकैः ।
पतिं नित्यं पूजयति दिव्यज्ञानातिभक्तितः ॥१३॥
एवं प्रातः सदा स्नानं देवपूजां धवाऽर्चनम् ।
पतिसेवा भोजनादि कारयित्वा विधाय च ॥१४॥
पत्युर्देहे विलीना सा मूर्तिर्भवति सर्वदा ।
एवं नित्यानुवृत्त्या सा प्रेमपात्रोत्तमोत्तमा ॥१५॥
धर्मदेवस्य वै जाता सुखदाऽपि कुमारिका ।
धर्मदेवोऽप्यनुवृत्तिसेवाभक्त्याऽतितोषणम् ॥१६॥
प्रत्यहं समवाप्नोति ददात्यस्यै शुभाशिषः ।
पतिसेवापरा नित्यं सुखिनि मूर्तिके भव ॥१७॥
लोकरीत्याऽऽप्तदेहेन विवाह्य सेविका भव ।
ततः सौभाग्यसत्पुत्रस्मृद्ध्यादिसंभृता भव ॥१८॥
नित्यभक्तिफलरूपः साध्यस्ते केशवो भवेत् ।
हरिः कृष्णः परब्रह्म श्रीपतिः पुरुषोत्तमः ॥१९॥
इत्याशीर्वादभूमिः सा महापुण्याधिवासनी ।
अधिमासैकादशिकाप्रातरुत्थाय नित्यवत् ॥२०॥
स्नातुं सा स्वर्णदी याता तत्र शुश्राव दुन्दुभिम् ।
अद्याऽस्त्येकादशी देव्यः पुरुषोत्तममासगा ॥२१॥
अस्या व्रतेन सन्तुष्टः कृष्णनारायणः प्रभुः ।
यथेष्टं दास्यते सौख्यमैहिकं पारलौकिकम् ॥२२॥
यद् ददाम्यधिमासस्य दिनेष्वन्येषु वै व्रतान् ।
ततः कोटिगुणं दास्ये फलमेकादशीव्रते ॥२३॥
एकादशीनामन्यासां व्रतेन यत्फलं भवेत् ।
ततोऽर्बुदगुणं पुण्यं दास्ये ह्यस्या व्रतेन वै ॥२४॥
अहं ब्रह्मेश्वरश्चाधिमासस्यास्म्यधिदैवतः ।
तत्राप्येकादशीनाथोऽस्म्यहं श्रीपुरुषोत्तमः ॥२५॥
मासोऽपि पुण्यश्च दिनं च पुण्यं देवोऽस्मि पुण्यश्च व्रतं कृपालोः ।
ममाऽऽज्ञया येऽनुचरन्ति भक्त्या तेभ्यो यथेष्टं वितरामि सर्वम् ॥२६॥
यथा यथा स्यान्मनसीषणात्रयम् व्रतस्य कर्तुश्च तथातथाऽन्वहम् ।
परार्धतुल्यं तु ददामि तत्फलं लक्ष्मीं च मां चापि च धाम मामकम् ॥२७॥
सिंहासनं मेऽपि ददामि तस्मै ददामि सिद्धीश्च चमत्कृतिं च ।
ऐश्वर्यसर्वस्वमथापि भूतिं सकौस्तुभं मे मुकुटं च भूषा ॥२८॥
यथाऽधिमासे कृपया प्रवर्षये जनार्थितं पूरयितुं च वर्षितुम् ।
तथा न कुत्रापि तु नैजवाञ्च्छया प्रवर्षयिष्येऽधिकमासमन्तरा ॥२९॥
व्रतं प्रकुर्वन्तु नराः स्त्रियश्च बालाश्च वृद्धाश्च सुतोषणाय ।
फलं प्रदास्ये मम शाश्वतं वै पदं सुदिव्यं तु परात्परं यत् ॥३०॥
गोलोकं चापि वैकुण्ठं धामाऽव्याकृतमेव वा ।
श्वेतद्वीपं च वा सौर्यं त्वन्ये भौमं तथाऽपरम् ॥३१॥
यद्यदिच्छेद् व्रतं कृत्वा प्रदास्यामि कृपावशः ।
अल्पायासे फलानन्त्यं गृह्णन्तु व्रतीनो मम ॥३२॥
नात्र यज्ञाः पृथक् कार्या नात्र तप्यं तपः पृथक् ।
तीर्थं नात्र पृथक् कार्यं ह्येकाहस्य फले हि तत् ॥३३॥
पयोव्रतं च पुत्रेष्टियजनं नेष्यते पृथक् ।
एकादश्या व्रतेनात्र दास्यामि पुत्रमित्यपि ॥३४॥
ज्योतिष्टोमेन यजनं पृथक् साध्यं न वेष्यते ।
स्वर्गं ददामि तस्मै य एकादश्या व्रतं चरेत् ॥३५॥
न तस्य राजसूयेन साध्यं किमपि शिष्यते ।
एकादशीव्रतेनाऽत्र सार्वभौमं ददाम्यहम् ॥३६॥
अग्निहोत्रेण किं तस्य दास्ये वैराजकं पदम् ।
एकादश्यां तु मे येनार्पितं फलजलादिकम् ॥३७॥
श्राद्धैर्विविधकल्पैश्च विविधैर्देवपूजनैः ।
या तृप्तिस्त्विष्यते तां वै दास्ये चैकादशीव्रते ॥३८॥
यां मुक्तिं यां च सम्पत्तिं यां सिद्धिं योगमैश्वरम् ।
यद्यद् वाञ्च्छति यत् कृत्वा तद् दास्येऽत्र दिने व्रते ॥३९॥
यावज्जीवं फलाहारैर्यत् सुपुण्यं समर्ज्यते ।
तत्पुण्यं यान्तु वै चैकादशीव्रतेन मे जनाः ॥४०॥
एकभुक्तं कृतं येनाऽऽजीवनं तत्फलं त्वहम् ।
ददाम्यधिकमासैकादशीव्रतेन मेंऽजसा ॥४१॥
मस्तके ज्वलदङ्गाराङ्गिष्ठिकां मध्यरात्रिके ।
काले उदूह्य या नारी ह्येकार्द्रवस्त्रसंवृता ॥४२॥
अनुपानच्चरणाभ्यामसहायाऽप्यरण्यके ।
गत्वा कालीं प्रपूज्यैव प्रत्यहं वार्षिकं व्रतम् ॥४३॥
एकभुक्तं माषमात्रादनं कुर्यादखण्डितम् ।
वर्षायां शीतकाले चातपकालेऽपि सर्वदा ॥४४॥
गत्वाऽऽपूज्य पुनरायाद् गृहं स्वं मध्यरात्रिके ।
ततो रन्धितमाषान्नं गृह्णीयाच्च जलं सदा ॥४५॥
एवं कष्टतरं पुत्रप्राप्त्यर्थं यन्महद्व्रतम् ।
तद्वै पृथङ् न कर्तव्यमेकादश्या व्रते कृते ॥४६॥
महाकालीव्रतं तद् यद् वार्षिकं प्रतिरात्रिकम् ।
यद् ददाति फलं पुत्रात्मकं तत्तु विनश्वरम् ॥४७॥
एकादशीव्रतं त्वेतत्पुत्रस्वर्गप्रमुक्तिदम् ।
एकेन दिवसेनैव तद्व्रताधिकपुण्यदम् ॥४८॥
सहस्रवर्षपर्यन्तं वाय्वाहारं व्रतं तु यत् ।
पृथक् तन्नास्ति कर्तव्यं ह्येकादश्या व्रते कृते ॥४९॥
सहस्रकन्यकादानं यत्र कन्या विभूषिताः ।
प्रत्येकं स्वर्णसाहस्रमुद्राश्च दक्षिणास्तथा ॥५०॥
प्रतिकन्यं तु दासीनां शतं स्वर्णविभूषितम् ।
प्रतिदासि च हस्तीनां शतं त्वम्बालिकायुतम् ॥५१॥
प्रतिहस्ति तुरगाणां शतं स्वर्णविभूषितम् ।
प्रत्यश्वं गोवृषभाणां शतं द्वन्द्वं रथान्वितम् ॥५२॥
रथं रथं प्रति दोग्ध्रीगवा चापि शतं शतम् ।
गां गां प्रति ह्यजानां च शतं शतं ददेत्तु यः ॥५३॥
अजां अजां प्रति वृत्तिं क्षेत्रं गृहं ददेच्च यः ।
तस्य दातुः कुरुक्षेत्रे फलं सूर्यग्रहे तु यत् ॥५४॥
तस्माल्लक्षगुणं पुण्यं ददाम्येकादशीव्रते ।
अहं नारायणश्चास्मि शाश्वतः पुण्यशेवधिः ॥५५॥
नाऽन्तोऽस्ति मयि पुण्यानां गृह्णन्तु वृष्टिवज्जनाः ।
संकल्पो मे पुण्यभूमिर्भक्तिर्मे मोक्षभूमिका ॥५६॥
संकल्पस्य च भक्तेश्चाऽक्षयवार्धिरहं हरिः ।
ददाम्येव ददाम्येव रिक्तताभयवर्जितः ॥५७॥
पुरुषोत्तममासस्यैकादश्यां व्रतकारिणे ।
सर्वं ददामि चोन्मत्तत्यागिवत् कमलामपि ॥५८॥
अहं स्वयं तु मां समर्पये किमुत चापरम् ।
वृणुताऽतो यथेष्टं वै वदामि दुन्दुभिर्हरेः ॥५९॥
एतल्लाभं न चेदीयुर्नेदृशः शास्यते पुनः ।
इति श्रुत्वा दुन्दुभिं तु पुरुषोत्तमघोषणाम् ॥६०॥
चिन्तयामास मूर्तिः सा जन्म लग्नं सुतं हरिम् ।
दुन्दुभीशं समपृच्छन्नत्वा नम्रा विधिं व्रते ॥६१॥
दुन्दुभिस्तु तदा प्राह मूर्तिं त्वेकादशीविधिम् ।
स्नात्वा ब्राह्मे मुहूर्ते च ध्यात्वा श्रीपुरुषोत्तमम् ॥६२॥
सर्वोपचारैरन्यूनैः पूजयेत्परमेश्वरम् ।
मूर्तिं तु पौरटीं लक्ष्मीनारायणस्य शोभिताम् ॥६३॥
सत्पात्रे पञ्चपात्रे वै निधाय सोपचारिकाम् ।
ततो व्रती जलपात्रं स्थापयेज्जलसद्धटम् ॥६४॥
पञ्चामृतादि सन्न्यस्य पूजां मूर्तौ समाचरेत् ।
प्रथमं देहशुद्ध्यर्थं त्र्याचमनानि कल्पयेत् ॥६५॥
ततः पूर्वे मुखं कृत्वा निषद्य च शुभासने ।
मूर्तावावाहयेत् कृष्णनारायणं समन्त्रकम् ॥६६॥
घण्टां प्रवादयेदावाहनकाले शुभस्वराम् ।
आसनं पट्टिकां स्थालीं स्वर्णां दद्यात्तु शार्ङ्गिणे ॥६७॥
पादप्रक्षालनार्थाय पाद्यं दद्याज्जलं शुभम् ।
ततस्तीर्थजलं दद्यादर्घ्यं पूजानिमित्तकम् ॥६८॥
ततस्तीर्थजलमाचमनार्थं च ददेच्छुभम् ।
पुनश्चाऽथ प्रशुद्ध्यर्थं दद्याद् दर्भजलं शुभम् ॥६९॥
ततो दन्तप्रशुद्ध्यर्थं दद्याद्वै दन्तधावनम् ।
जिह्वोल्लेखनकार्यार्थं दद्यात् स्वर्णशलाकिकाम् ॥७०॥
ततः शुद्धं जलं दद्याद् गण्डूषार्थे ततः पुनः ।
मुखप्रक्षालनार्थाय जलं दद्यात्पुनर्नवम् ॥७१॥
अथ शौचं प्रकल्प्यैव दद्याज्जलघटं तथा ।
मृदं वापि प्रदद्याच्च करादिशुद्धिहेतवे ॥७२॥
जलं शुद्धं तथा दद्याद्धस्तप्रक्षालनाय वै ।
ततः शुद्धं जलं दद्यान्मुखादिक्षालनाय च ॥७३॥
स्वर्णासनं शुभं दद्यात् स्नानार्थं पट्टिकात्मकम् ।
तैलेन तु सुगन्धेन मर्दयेत्परमेश्वरम् ॥७४॥
आमलकैस्तिलचूर्णैस्तथा संमर्दयेद्धरिम् ।
तत उष्णोदकेनापि स्नापयेत्पुरुषोत्तमम् ॥७५॥
ततो दुग्धेन दध्ना च घृतेन मधुना तथा ।
स्नापयेच्छर्करा वार्भिः समृद्य पुरुषोत्तमम् ॥७६॥
ततः शुद्धजलैरुष्णैः स्नापयेत्परमेश्वरम् ।
ततो नैर्मल्यकारिण्या प्रोष्णोदकेन मिश्रया ॥७७॥
हरिं गूटिकयाऽऽमृद्य स्नापयेदभिषेचनम् ।
कस्तूरिकाचन्दनादिपुष्पसारादि लेपयेत् ॥७८॥
वस्त्रेण मार्जयेत् कृष्णं धौत्राम्बराणि धारयेत् ।
केशप्रसाधनं तैलं दत्वा कुर्याच्च दन्तकैः ॥७९॥
ललाटे तिलकं चन्द्रं कुर्याच्चन्दनकुंकुमैः ।
नेत्रयोः कज्जलं दद्यादोष्ठयोः रंगरञ्जनम् ॥८०॥
हस्तपादतलादीनि रञ्जयेद् रंगसुद्रवैः ।
स्वर्णकिरीटसद्रत्नमालिकाकुण्डलादिकम् ॥८१॥
मणिमौक्तिकहारादि रशनाकंकणादिकम् ।
ऊर्मिकाशृंखलासत्किंकिणीनुपूरकादिकम् ॥८२॥
आभूषणानि सर्वाणि यथास्थानं प्रधारयेत् ।
पादयोः पादुके दद्याद्धस्तयोर्यष्टिमालिके ॥८३॥
कण्ठे सत्पुष्पहाराँश्च तुलसीपत्रमालिकाम् ।
पुष्पाणां शेखरान् गुच्छानर्पयेत्परमादरात् ॥८४॥
पवित्रं त्वर्पयेद् यज्ञोपवीतं योगपट्टकम् ।
तुलसीमणिमालां च दद्यान्मंगलसूत्रकम् ॥८५॥
कौस्तुभं च मणिं दद्यात् तथा रक्षां प्रकोष्ठके ।
नक्तकं हस्तके दद्यात् प्रोक्षयेद् गन्धसारकम् ॥८६॥
राजाधिराजसद्वेषं शृंगारं कारयेत्परम् ।
छत्रं च चामरे दद्याद् व्यजनं वायुदं तथा ॥८७॥
दर्पणं मुखलोकार्थं दद्यात् पर्यंकमित्यपि ।
गेन्दुकं प्रच्छदपटीं कशिपुं गुप्तदोरकम् ॥८८॥
कपोलकशिपुं दद्यात् दंशमशकरोधिनीम् ।
धूपं सुगन्धं कृत्वा च दीपं प्रज्वालयेत्तथा ॥८९॥
श्वेतचूर्णं रक्तचूर्णं कुंकुमं चाक्षतान् ददेत् ।
नैवेद्यं लड्डुकान् मिष्टं विविधान्नं सुपायसम् ॥९०॥
शाकानि चारनालानि दधि दुग्धं सशर्करम् ।
सूपौदनादिकं दद्यात् क्वथिकां चटनीं तथा ॥९१॥
भक्ष्यं भोज्यं लेह्यचोश्ये पेयं दद्याज्जलं तथा ।
चुलुकं कारयेत्ताम्बूलकं चूर्णं समर्पयेत् ॥९२॥
एलालवंगधानात्वग्वरीयः पूगिकाफलम् ।
दद्याच्च फलमाम्रस्य जम्बूपनसकादलम् ॥९३॥
द्राक्षाश्रीफलदाडीम नवरंगादिकं ददेत् ।
शुष्कफलान्यपि दद्याद् बदामकाजुखारिकाः ॥९४॥
एवं समर्पणं कृत्वा हरिं सन्तर्प्य भावतः ।
कदलीस्तम्भवशादिकृते वस्त्रादिशोभिते ॥९५॥
अशोकाऽऽम्रदलपुष्पफलतोरणराजिते ।
मण्डपे मध्यदेशे वै सप्तधान्यैः कृते शुभे ॥९६॥
सर्वतोभद्रके तत्र मण्डले मध्यवर्तिनि ।
सुवर्णस्य घटे ताम्रे तीर्थवारिप्रपूरिते ॥९७॥
मणिमौक्तिकसौवर्णरूप्यताम्रादिकान्विते ।
वस्त्रेण वेष्टिते चाम्राशोकादिपल्लवान्विते ॥९८॥
सुशोभितेऽक्षतचन्दनाक्तकुंकुमपूजिते ।
तत्र घटे स्थापिता या स्थाली ताम्रा च कानकी ॥९९॥
खारिकाम्रफलैः पूगीश्रीफलैः शर्करातिलैः ।
पूरितायां तु तस्यां वै स्थापयेत् पुरुषोत्तमम् ॥१००॥
नीराजयेन्नववारं घृताक्तपञ्चवर्तिभिः ।
वस्त्रं च भ्रामयेत् पश्चाच्छंखोदकेन वर्तयेत् ॥१०१॥
धूपं संभ्रामयेच्चापि स्तुतिं कुर्याद् यथेष्टदाम् ।
नमेच्च दण्डवत् कुर्यात् पञ्चवारं प्रदक्षिणम् ॥१०२॥
क्षमां याचेत चार्घ्यं वै सफलं पुनरर्पयेत् ।
पुष्पांजलिं साक्षतं वै दद्याच्छ्रीहरये ततः ॥१०३॥
दक्षिणां कानकीं मुद्रां राजतं चाप्युपायनम् ।
इष्टं वस्तु प्रदद्याच्च हरये त्वभिवाञ्च्छितम् ॥१०४॥
आन्दोलय्रेच्च दोलायां पर्यंके शयनं ददेत् ।
पादसंवाहनं कुर्याद् ददेद् यानं सवाहनम् ॥१०५॥
नृत्यं कुर्यात् तथा गीतं वादित्रं वादयेत् तथा ।
चरणामृतदानं च भक्तेभ्यस्तत्र वर्तयेत् ॥१०६॥
अथापि जलपानं च कारयेत्पुनरादरात् ।
ताम्बूलकं पुनर्दद्यादेलालवंगकादिकम् ॥१०७॥
मिलेत् संश्लिष्य बाहुभ्यां समापीड्य हरिं मुदा ।
प्रस्थापयेत् ततो देवं दूरं गत्वा विसर्जयेत् ॥१०८॥
आगन्तव्यमिति ब्रूयान्नत्वा त्वायात्पुनर्गृहम् ।
इत्यष्टोत्तरशतकोपचारैः परमेश्वरम् ॥१०९॥
पूजयेद्बहुभक्त्यैकादश्यां प्रातर्व्रती जनः ।
यदि सम्पदधिका स्याद्धोमयज्ञादि कारयेत् ॥११०॥
द्वादश्यां भोजयेद्विप्रान् सतीः साध्वी सतो जनान् ।
ततः स्वः पारणां कुर्यात् संभोज्याश्रितवर्गकान् ॥१११॥
दद्याच्छ्रेष्ठानि दानानि भजेत श्रीहरिं मुदा ।
एवं मध्याह्नके कुर्यात् सायं कुर्यात्तथैव ह ॥११२॥
रात्रौ जागरणं कुर्यान्नृत्यगीतपुरःसरम् ।
कीर्तनं श्रीहरेः कुर्यान्निरुन्ध्यादिन्द्रियाणि च ॥११३॥
एवं त्वधिकमासस्यैकादशीव्रतमत्र यः।
कुर्यात् तेन कृतं सर्वं कर्तव्यं नावशिष्यते ॥११४॥
अधिमासश्चातिपुण्यः पुण्याः त्वेकादशी तिथिः ।
तद्देवः पावनश्चाहं किं तस्मादतिरिच्यते ॥११५॥
अधिमासो मम शाला वसामि पुरुषोत्तमः ।
एकादशी मदुत्पन्ना किं तस्मादतिरिच्यते ॥११६॥
एतत् त्रिकं महापुण्यं सर्वेभ्यः श्रेष्ठतां गतम् ।
तत्रापि मत्कृपा प्राप्ता किमस्मादतिरिच्यते ॥११७॥
तस्मादष्टोत्तरशतवस्तुभिर्मां प्रपूज्य च ।
गृह्णन्तु भवपारं वा गृह्णन्तु भवसाम्यताम् ॥११८॥
मूर्ते त्वं चाद्य दिवसे तथाविधि कुरु व्रतम् ।
येन ते दास्यते कृष्णो दुन्दुभ्यात्मा यथेप्सितम् ॥११९॥
मूर्तिः प्राह तदा ह्येनं दुन्दुभिं विनयेन वै ।
न मदग्रेऽस्ति सामग्र्यः प्रच्छन्नाऽहं वसामि च ॥१२०॥
कथंकारं त्वदुक्तं वै पूजनं तु मया भवेत् ।
इच्छाम्यहं शुभं जन्म विवाहं च सुतं हरिम् ॥१२१॥
दुर्लभं तद्विना पूजा तादृशी स्यान्न चेप्सितम् ।
इत्युक्त्वा भग्नहृदया साश्रुकण्ठा बभूव सा ॥१२२॥
एकादश्या व्रतं कार्यमिति संकल्प्य शोचति ।
स्मृत्वा नारायणं कृष्णं बाला त्वश्रूणि मुञ्चति ॥१२३॥
तावत् कृपानिधिस्तत्र हरिर्नारायणः स्वयम् ।
कृपां कृत्वा दुन्दुभेरग्रतः सुप्रकटोऽभवत् ॥१२४॥
प्रमार्ज्याऽश्रूणि कन्यायाः प्राह मातर्नमाम्यहम् ।
शोकं मा कुरु पूज्यासि यथेष्टं प्रददाम्यहम् ॥१२५॥
भावेनास्मि सदा तुष्टो नाऽभावे तु कदाचन ।
तव भावेन सन्तुष्टो ददामि वृणु तद्वरम् ॥१२६॥
अर्च्यते भावहीनेन सहस्रवस्तुभिर्यदि ।
न सन्तुष्टो भवाम्यत्र भावहीनेऽर्थसाधके ॥१२७॥
पत्रपुष्पजलैश्चापि भावभक्त्या मदर्चनम् ।
मम सन्तोषकृत् तत्स्याद् भावस्य क्षुधितोऽस्म्यहम् ॥१२८॥
अष्टोत्तरशतसंख्योपचारैरपि हार्दिकैः ।
मातः सम्पूजय त्वं मां ध्यानमात्रेण चान्तरे ॥१२९॥
मानसं पूजनं तेऽहं स्वीकरिष्येऽतिभावतः ।
फलं यथेष्टं ते दास्ये ह्यद्यतनव्रतस्य वै ॥१३०॥
इत्युक्त्वा श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
ननाम पादयोर्मूर्तेर्मातृभावेन पुत्रवत् ॥१३१॥
माता शोकं विहायैव प्रसन्नाऽभूत् हृदन्तरे ।
प्रोवाच शनकैः कृष्णं जन्म चेच्छामि लौकिकम् ॥१३२॥
धर्मेण पतिना साकं लग्नमिच्छामि वैदिकम् ।
अंके लालयितुं पुत्रं सुतं चेच्छाम्यलौकिकम् ॥१३३॥
अलौकिकस्त्वमेवासि वक्तुं नोत्सहते मनः ।
निवेदितं हृदय्यं मे यथेच्छसि तथा कुरु ॥१३४॥
इत्यादिष्टो हरिः स्वाभिलषितं प्रियमुत्तमम् ।
मूर्तेर्मुखात्समाकर्ण्य जहर्ष भाविजन्मधृक् ॥१३५॥
उवाचाऽतिप्रसन्नः सन् सर्वं मातर्भविष्यति ।
इष्टं सर्वं करिष्येऽहं ददामि वचनं तु ते ॥१३६॥
गच्छ दक्षगृहं मूर्ते धर्ममापृच्छ्य सत्पतिम् ।
भव पुत्री तु दक्षस्य स ते धर्माय दास्यति ॥१३७॥
अहं बालस्वरूपेण सह भ्रात्रा त्वदंकके ।
ग्रहीष्यामि जनु मातः श्वो याहि त्वं व्रतोत्तरम् ॥१३८॥
मानसी त्वं हि दक्षस्य पुत्री वै भाविनी ततः ।
धर्मो विवाह्य मातस्त्वां हिमशैले निवत्स्यति ॥१३९॥
अहं ते मानसस्तत्र चतुरात्मा सुतः स्वयम् ।
नरो नारायणश्चेति हरिः कृष्णश्च ते गृहे ॥१४०॥
रमिष्ये सुखदो ब्रह्मव्रतं संधारयन् सदा ।
लोककल्याणसंकल्पं पूरयस्तव सन्निधौ ॥१४१॥
इत्युक्त्वा च पुनर्नत्वा तिरोऽभूत्पुरुषोत्तमः ।
मूर्तिश्चापि व्रतं कृत्वाऽर्चनं तत्र च मानसम् ॥१४२॥
द्वादश्यां पारणं कृत्वा प्रातः कृत्वाऽर्चनं हृदि ।
धर्मदेवस्य संगृह्य शुभाज्ञां दक्षसद्ग्रहम् ॥१४३॥
ययौ जज्ञे च संकल्पादसिक्न्यां मानसी सुता ।
श्रद्धामैत्र्यादिकाश्चान्या द्वादशापि प्रजज्ञिरे ॥१४४॥
त्रयोदशापि दक्षेण दत्ता धर्माय पुत्रिकाः ।
मूर्तेर्जाता नरो नारायणः कृष्णो हरिस्तथा ॥१४५॥
लोकानां रक्षणार्थाय कुर्वन्तस्तप उत्तमम् ।
इति ते कथितं लक्ष्मि मासे वै पुरुषोत्तमे ॥१४६॥
व्रतसंकल्पमात्रेण पूर्णं व्रतफलं भवेत् ।
किं पुनः सांगविधिना कर्तुः फलेऽवशिष्यते ॥१४७॥
तस्मादेकादशीतुल्यं व्रतं नान्यद् भविष्यति ।
शाश्वताऽक्षयसत्पुण्यप्रदं मोक्षप्रदं तथा ॥१४८॥
यथालब्धोपचारैस्तु प्रातः संकल्प्य पूजनम् ।
व्रतं चापि करिष्यन्ति तेषां गृहेष्वहं सदा ॥१४९॥
वत्स्याम्येव न सन्देहस्तद्भक्त्या वश्यतां गतः ।
सुखयिष्ये सुतो भूत्वा व्रतिनौ दम्पती कुलम् ॥१५०॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये धर्मदेवस्य भाव्यंगनया मूर्त्याधिमासैकादश्यामष्टोत्तरशतमानसोपचारैर्नारायणपूजन व्रते कृते सति मूर्तेर्दक्षगृहे जन्म धर्मेण सह विवाहस्ततो हिमालये नरो नारायणः कृष्णो हरिश्चेति- पुत्रचतुष्टयफललाभश्चेत्यादिनिरूपणनामा त्र्यधिकत्रिशततमोऽध्यायः ॥३०३॥

N/A

References : N/A
Last Updated : March 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP