संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४३६ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४३६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४३६ Translation - भाषांतर श्रीनारायण उवाच-सर्वमंगलमांगल्यं त्वयि लक्ष्मि! सुवर्तते ।त्वं यथाऽसि मम स्वामिव्रता नान्यास्ति तादृशी ॥१॥या मद्वक्षःस्थले नित्यं वर्तसे त्वं मम प्रिया ।त्वां विना तु मम मूर्तिर्निःश्रीका शुष्ककाष्ठवत् ॥२॥भवत्येव न सन्देहस्त्वया रम्या प्रकाशते ।परेऽक्षरे मम धाम्नि पुमुत्तमस्य तत्र मे ॥३॥जयाख्या ललिताख्या त्वं वर्तसे मम कामिनी ।गोलोके मे कृष्णनाम्नो राधा दुर्गा सरस्वती ॥४॥गंगा पद्मा पञ्चरूपा ततः कोटिस्वरूपिणी ।वर्तसे त्वं मम पत्नी पातिव्रत्यपरायणा ॥५॥वैकुण्ठे मे वर्तसे त्वं नारायणस्य कामिनी ।लक्ष्मीरूपा मम साध्वी कोटिस्वरूपधारिणी ॥६॥अमृताख्ये पदे भूम्नो नारायणस्य मे प्रिया ।चतुर्विधे च वैकुण्ठे महालक्ष्मीस्त्वमीश्वरी ॥७॥सीता प्रभा माणिकी त्वं पार्वती मंगला सती ।वर्तसे मे पातिव्रत्यपरायणा महासती ॥८॥वह्नेः पत्नी मम स्वाहा वह्न्यात्मके मयि स्थिता ।त्वां विना भोजनं नैव हुतं गृह्णामि वै क्वचित् ॥९॥देवानामपि त्वद्धस्तात्प्राप्यते हुतमन्वहम् ।पितणां मम रूपाणां स्वधा त्वं वर्तसे सती ॥१०॥हव्ये कव्ये तर्पणे च त्वां विना नाऽऽप्यतेऽर्पितम् ।यज्ञस्य मे सदा पातिव्रत्यधर्माऽसि दक्षिणा ॥११॥विना तु दक्षिणां नाऽहं पूर्णो भवामि वै क्रतुः ।यज्ञे विना दक्षिणां तु फलं पुत्रो न जन्यते ॥१२॥फलं विना कृतं सर्वे श्रममात्रं व्ययात्मकम् ।मम कार्तिकरूपस्य देवसेनाऽभिधानिका ॥१३॥त्वमेवाऽसि महालक्ष्मि! त्वां विना विजयो न वै ।त्वं सा मातृस्वरूपाऽसि षष्ठीदेवी दयावती ॥१४॥धात्री त्वं बालकानां तु रक्षिणी षष्ठिका सदा ।सा त्वं चापत्यदात्री चापत्यरक्षाविधायिनी ॥१५॥अपत्यपुष्टिदात्री च रता विघ्ननिवारणे ।सा त्वं वै मानसी देवी जरत्कार्वीस्वरूपिणी ॥१६॥नागमाताऽऽस्तीकमाता विषाद् रक्षाकरी सदा ।जरत्कारुस्वरूपस्य मम पत्नी पतिव्रता ॥१७॥मनसा नागिनी सर्पजातीनां परमेश्वरी ।कन्या भगवती सा त्वं कश्यपस्य हि मानसी ॥१८॥त्रियुगं तु तपस्तप्त्वा कृष्णस्य परमात्मनः ।जरत्कारुशरीरं च दृष्ट्वा श्रीपुष्करे हरिः ॥१९॥गोपीपतिरहं नाम जरत्कारुर्दधे तव ।जरद्गौरी विष्णुभक्ता पातिव्रत्यपरायणा ॥२०॥जरत्कारुर्जरद्गौरी मनसा सिद्धयोगिनी ।वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥२१॥जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ।महाज्ञानयुता चापि त्वं देवी सर्वपूजिता ॥२२॥तव नाम्नां पाठकस्य नागभीतिर्न विद्यते ।जरत्कारुमुनीन्द्राय कश्यपस्त्वां ददौ पुरा ॥२३॥अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥२४॥सुष्वाप देव्या जघने वटमूले तु पुष्करे ।जगामाऽस्तं दिनकरः सन्ध्याकालश्च गच्छति ॥२५॥विना सन्ध्यां मम पत्युर्ब्रह्महत्यावलेपनम् ।भवेदतः सुधर्मिष्ठा बोधयामास तं पतिम् ॥२६॥किन्तु बुद्ध्वाऽभवद् रुष्टो जगाद कोपगर्भितम् ।निद्राभंगो मम साध्वि! कथं वद कृतस्त्वया ॥२७॥व्यर्थं व्रतादिकं तस्या या भर्तुस्त्वपकारिणी ।तपस्त्वनशनं चापि व्यर्थं दानादिकं व्रतम् ॥२८॥यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तथा ।पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ॥२९॥सर्वदानानि यज्ञाश्च यावत्तीर्थानि दक्षिणाः ।तपांसि चोपवासाश्च व्रतानि देवपूजनम् ॥३०॥स्वामिसेवाकलांशस्य न यान्ति समतामपि ।पतिसेवापरा पत्नी वैकुण्ठे स्वामिना सह ॥३१॥मोदते श्रीकृष्णनारायणभक्तिपरायणा ।विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥३२॥कुम्भीपाकं व्रजेत्सा तु चाण्डाली जायते ततः ।इति श्रुत्वा सती पत्युः पादयोः पतिताऽऽह च ॥३३॥सन्ध्यालोपभयेनैव निद्रालोपः कृतस्तव ।कुरु क्षमां प्रियाऽज्ञायां दुष्टायां मयि सुव्रत ॥३४॥शृंगाराऽऽहारनिद्राणां या तु भंगं करोति सा ।प्रव्रजेत् कालसूत्राख्यं निरयं सेविका ह्यपि ॥३९॥इत्युक्त्वा पादयोः पत्युः पपात तावदेव तु ।सूर्यः स्वं शप्तुमुद्यन्तं जरत्कारुं विलोक्य वै ॥३६॥सन्ध्यया सह भगवान् भास्करस्त्वाजगाम ह ।सूर्यं दृष्ट्वा जरत्कारुरध्यक्षिपत् कथं रवे! ॥३७॥मम सन्ध्यां विना देव चाऽस्तं गन्तुं समिच्छसि ।विना सन्ध्यां मम निद्राभंगो जातः प्रपश्यसि ॥३८॥सूर्यः प्राह शृणु विप्र! नाऽहमस्तंगतस्तदा ।तव सन्ध्यां विना चाहं कथं गच्छामि चास्तताम् ॥३९॥क्षमस्व भगवन् ब्रह्मन् मां शप्तुं नोचितं मुने! ।विप्रक्रोधे जगन्नाशो विप्रे तुष्टे जगत् स्थिरम् ॥४०॥ब्राह्मणः सः कृष्णभक्तो भावयेल्लोकमंगलम् ।एवं श्रुत्वा द्विजः शान्तो ददावाशिषमेव च ॥४१॥सूर्यो ययौ निजस्थाने जरत्कारुस्ततः परम् ।पत्नीं तु बन्धनं मत्वा वृद्धस्य तरुणी विषम् ॥४२॥विचार्य मनसां भार्यां तत्याज शोकदुःखिताम् ।सा सस्मार गुरुं शंभुमिष्टदेवं हरिं विधिम् ॥४३॥कश्यपं जन्मदातारं समाजग्मुस्तु ते द्रुतम् ।पातिव्रत्येन धर्मेण भक्त्या ते तु समाययुः ॥४४॥जरत्कारुस्तदाऽऽश्चर्यपरो भूत्वा ननाम तान् ।कथमागमनं त्वत्रेत्येवं प्रश्नं चकार सः ॥४५॥ब्रह्मा प्राह महासर्प! नेयं साधारणी प्रिया ।पातिव्रत्येन धर्मेण शक्ता सृष्टिं सुरक्षितुम् ॥४६॥इयं चास्ति महालक्ष्मीकला धर्मपरायणा ।वृथा सा कथयेत् तद्वत् त्वया कार्यं न चाऽन्यथा ॥४७॥न त्यक्तव्या धर्मपत्नी धर्मिष्ठा पतिधर्मिणी ।अस्यास्त्यागे तव धर्मलोपः शश्वद्भविष्यति ॥४८॥तेन त्वं नरकं गन्ता परलोकं विचारय ।कुरुष्वाऽस्यां सुतोत्पत्तिं धर्मरक्षणहेतवे ॥४९॥यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ।जायायां सुसुतोत्पत्तिं कृत्वा पश्चाद् भवेन्मुनिः ॥५०॥अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत् प्रियाम् ।स्रवेत् तपस्तत्पुण्यं च चालिन्यां तु यथा जलम् ॥५१॥वृक्षोऽपि वल्लिकां स्तम्बे लग्नां दूरीकरोति न ।नाऽऽत्मा बुद्धिं स्वीयपत्नीं दूरीकरोति वै क्वचित्। ॥५२॥दिवा रात्रिं न त्यजति शब्दः शक्ति क्षिणोति न ।भास्करो द्यां न त्यजति जरत्कारुः कथं प्रियाम् ॥५३॥इत्युक्तः स जरत्कारुर्जग्राह ब्रह्मणो वचः ।न तत्याज प्रियां पश्चाद् देवास्ते प्रययुर्दिवम् ॥५४॥अथ प्राह जरत्कार्वी स्वपतिं ज्ञानशालिनम् ।वरं त्यागो विषयाणां दम्पत्योरपि सर्वथा ॥५५॥पत्युः पत्न्या न वै श्लाघ्यस्त्यागस्तयोः परस्परम् ।यदि नेच्छेद् विषयाँश्च सह स्थित्वा सुखं वसेत् ॥५६॥स्वामिना यस्तिरस्कारः पत्न्याः स्यान्मरणाय सः ।स्वामिना या परित्यक्ता मानहीना तु सा भुवि ॥५७॥सर्वतिरकृतिपात्रभूता सर्वसौभाग्यवर्जिता ।बिन्दुकज्जलकबरीयोग्याऽपि न भवेत्ततः ॥५८॥तिरस्कृताया नार्यास्तु जीवनं व्यर्थमेव यत् ।तस्मान्नाथ जरत्कारो! यदिच्छसि तपः परम् ॥५९॥तदा संकल्पमात्रेण देहि मे मानसं सुतम् ।तवाऽऽज्ञया सदाऽहं च तपः करोमि सन्निधौ ॥६०॥सेवां करिष्ये कान्तस्य विषयान् परिहाय च ।यद्वा कान्ताऽऽज्ञया यत्र वासो मे योग्य इष्यते ॥६१॥तत्र वसामि कान्तस्याऽऽज्ञयाऽरण्येऽन्तिकेऽथवा ।यत्र वर्तामि तत्रैव तवैव सत्तया प्रभो ॥६२॥कान्तसत्ताविहीना न वस्तुमिच्छामि प्राणद ।त्वदीयाऽहं न चान्यस्य त्वां विना क्व वसाम्यहम् ॥६३॥दूरे त्वां हृदये कृत्वा वसिष्ये पर्वते वने ।निकटे त्वां हृदि क्रोडे कृत्वा स्थास्ये कृपां कुरु ॥६४॥इत्युक्तः स जरत्कारुः शुद्धां पत्नीं विचार्य च ।चक्रे तन्नाभिसंस्पर्शं योगाद्वै पुत्रलब्धये ॥६५॥मुनेः करस्पर्शमात्रात् सद्यो गर्भो बभूव ह ।पतिः प्राह मनसे! ते श्रेष्ठः पुत्रो भविष्यति ॥६६॥जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः ।तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥६७॥वरो वेदविदां चापि योगिनां ज्ञानिनां वरः ।विष्णुभक्तो धार्मिकश्च कुलोद्धारकरः परः ॥६८॥पतिव्रता सुशीला त्वं सुप्रिया प्रियवादिनी ।धर्मिष्ठा पुत्रमाता त्वं कुलजा कुलपालिका ॥६९॥भव तादृशपुत्रस्य जननी लोकपूजिता ।का माता? कृष्णसम्बन्धबोधिनी, नाऽपरा, सति! ॥७०॥कः पुत्रो? यो हरिप्राप्तिसहायो, नाऽपरः, प्रिये! ।को बन्धुर्यो हरिभक्तिप्रदो न च परः शुभे ॥७१॥यो बन्धछित् स स्यात् पिता हरेर्वर्त्मप्रदर्शकः ।सा गर्भधारिणी या वै गर्भवासविमोचिनी ॥७२॥कृष्णधामप्रदाता यः स गुरुर्विष्णुभक्तिदः ।पतिः स यो मुक्तिपालः कृष्णो वा वैष्णवोऽथवा ॥७३॥स एव तु गुरुः साध्वि! ज्ञानदः कृष्ण एव सः ।ज्ञानदो मोक्षदः कृष्णमन्त्रदश्च पतिर्गुरुः ॥७४॥दत्तं ज्ञानं मया तुभ्यं त्वया दत्तो वृषो मयि ।ज्ञानं धर्मः श्रीकृष्णस्य सेवातो न विशिष्यते ॥७५॥ज्ञानदः सत्यदः स्वामी ज्ञानाद्बन्धो विशीर्यते ।बन्धनाशाय कृष्णस्य भक्तिदो ज्ञानदो गुरुः ॥७६॥स पतिः सः ऋतः स्वामी नाथः कान्तो नरायणः ।स रिपुः शिष्यघाती च यो न बन्धाद् विमोचयेत् ॥७७॥जननीगर्भजात् क्लेशाद् यमताडनदुःखतः ।न मोचयेद् यः स कथं गुरुः पतिश्च बान्धवः ॥७८॥मदाज्ञया भज साध्वि! श्रीकृष्णं व्रतशालिनी ।परब्रह्माऽच्युतं कृष्णनारायणं सुमोक्षदम् ॥७९॥मया छलेन त्वं त्यक्ता दोषो मे क्षम्यतां प्रिये ।मत्तोऽप्यधिका धर्मे च सौशील्ये भजने जपे ॥८०॥ज्ञाने भक्तौ विरागे च वर्तसे त्वं पतिव्रते ।त्वया मे जन्मसाफल्यं मोक्षो मे करगस्तथा ॥८१॥त्रिलोके विजयश्चापि त्वया सत्या ममाऽस्ति यत् ।करिष्ये पुष्करे चाहं तपः परमदारुणम् ॥८२॥श्रीकृष्णचरणाम्भोजे धृत्वा बुद्धीन्द्रियादिकम् ।धननारीगृहेष्वास्था प्रवृत्तिपथगामिनाम् ॥८३॥श्रीकृष्णचरणे त्वास्था निवृत्तिनिस्पृहार्थिनाम् ।वद देवि! सहवासे क्वचिन्मे मानसं चलम् ॥८४॥संक्षोभं प्राप्स्यते तस्माद् दम्पत्योरेकभूतले ।सदाऽऽवासो बन्धनं स्याद् वियोगौ गुणतां व्रजेत् ॥८५॥तस्माद् वियोगो योग्यो वै यद्वै श्रेष्ठं तदाचर ।सहवासे दूरवासे प्रसन्नोऽस्मि सदा त्वयि ॥८६॥आर्ये कुरु यथाऽऽत्मनोर्बन्धच्छेदश्च मोक्षणम् ।जरत्कारुवचः श्रुत्वा मानसी कमलाकला ॥८७॥योग्यं मेने वियोगं वौ संयोगं विषबन्धनम् ।अपि पत्नी सदा पार्श्वे ऋतुधर्मं समाश्रिता ॥८८॥पतिं संयोजयेत् कामे पतिर्वा वेगतः क्वचित् ।तस्मात्ज्ञानवतोश्चात्र दम्पत्योर्मोक्षकांक्षिणोः ॥८९॥ज्ञात्वा वियोजनं युक्तं भयं यत्र न विद्यते ।पातिव्रत्यं पत्युराज्ञा दूरे वा निकटेऽपि वा ॥९०॥पत्नीव्रतं तु पत्यर्थं श्रेयस्कामः सदा पतिः ।कामो दोषो न वै श्रेयःप्रदो भवति नारकः ॥९१॥तस्मान्मोक्षेच्छुकयोर्दम्पत्योर्वियोजनं वरम् ।मया गन्तव्यमेवाऽद्य सतीपार्वतीसन्निधौ ॥९२॥कैलासे कान्तवचसा प्राप्तव्यो मोक्ष एव हि ।इति विचार्य तु सती मानसी नागनन्दिनी ॥९३॥शोकाऽश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ।श्रेयोऽर्थं वै त्वया नाथ वियोगो मन्यते सुखः ॥९४॥यथा प्रसन्नो भगवान् तच्चिकीर्षामि नान्यथा ।गच्छाम्यहं तु कैलासं पार्वतीचरणेऽनिशम् ॥९५॥करिष्ये भजनं तत्र कृष्णनारायणस्य वै ।यदा स्मरामि बन्धो त्वां तदा मामागमिष्यसि ॥९६॥बन्धुभेदः क्लेशतश्च पुत्रभेदस्ततः परः ।प्राणेशभेदः प्राणानां विच्छेदकस्ततोऽधिकः ॥९७॥पतिः पतिव्रतानां तु शतपुत्राधिकः प्रियः ।सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते सुरैः ॥९८॥पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ।नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥९९॥यथा परस्वे चौराणां कामुकानां यथा स्त्रियाम् ।विदुषां च यथाशास्त्रे वाणिज्ये वणिजां यथा ॥१००॥तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।किं करोमि यथा कान्तः प्रसन्नो वृष एव मे ॥१०१॥इत्युक्त्वा साजरत्कार्वी पपात स्वामिनः पदे ।उवाच मां तु कैलासं सम्प्रापय कृपानिधे ॥१०२॥शंकराय च पार्वत्यै निवेदय तपः परम् ।कारणं येन निःशंका मान्या स्यां तत्र सादरा ॥१०३॥इत्युक्तस्तु जरत्कारुस्तथास्त्वित्यभिधाय ताम् ।क्षणं चकार क्रोडे तां प्रेम्णा ददर्श तन्मुखम् ॥१०४॥पस्पर्श पाणिना कान्तां वियोगाय कृपानिधिः ।नेत्रोदकेन मनसां स्नपयामास तां सतीम् ॥१०५॥साऽश्रुभिश्च मुनेः क्रोडं सिषेध भेदकातरा ।ततो ज्ञानेन तौ द्वौ च विशोकौ संबभूवतुः ॥१०६॥जग्मतुस्तौ तु कैलासं नेमतुः पार्वतीं शिवम् ।जरत्कारुः स्ववृत्तान्तं कथयामास शंभवे ॥१०७॥शंभुश्चापि प्रसन्नोऽभूत् पार्वती च ततोऽधिका ।वियोगदुःखं नैवाऽस्ति योगिनामीदृशी गतिः ॥१०८॥शंभुं च पार्वतीं दत्वा जरत्कार्वीं स्वयोषितम् ।जगाम तपसे विप्रः पुष्करं त्वर्बुदाचले ॥१०९॥मानसी तु गुरुं शंभुं गुर्वीं प्राप्य च पार्वतीम् ।मुमुदे तपसा नित्यं ववृधे मन्दिरे गुरोः ॥११०॥अथ काले गते साध्वी सुषुवे बालकं शुभम् ।नारायणांशं च महाज्ञानिनां योगिनां गुरुम् ॥१११॥संस्कारान् कारयामास शंकरोऽस्य ततः परम् ।वेदादीन् पाठयामास ज्ञान ब्रह्मपरं तथा ॥११२॥भक्तिरास्ते स्वकान्ते चाऽभीष्टे देवे हरौ गुरौ ।यस्यास्तेन च तत्पुत्रः श्रीहरेणाऽऽस्तिकः कृतः ॥११३॥तदा स्मृतो जरत्कारुः पुत्रदर्शनहेतवे ।समागत्य सुतं दृष्ट्वा चाशीर्भिः संप्रयुज्य च ॥११४॥शंभुं नत्वा प्रियां दत्वा मानसं पुष्करं ययौ ।आस्तिकोऽपि ययौ पित्रा समं श्रीपुष्करं तदा ॥११५॥दिव्यं वर्षत्रिलक्षं तु तपस्तप्त्वा शिवं प्रभुम् ।जननीं स्वां नमस्कर्तुं कैलासं त्वाययौ ततः ॥११६॥आस्तीकः स्वजनन्याऽनुगतो हि कश्यपं ययौ ।तां सपुत्रां सुतां दृष्ट्वा कश्यपो मुदमाप्तवान् ॥११७॥सा सपुत्रा च सुचिरं तस्थौ तातालये सती ।कृष्णभक्तिपरा साध्वी मोक्षमार्गपरायणा ॥११८॥पुत्रयुक्ता मानसा सा सर्पसत्रे ह्युपस्थिता ।पातिव्रत्येन धर्मेण तथाऽऽस्तीकबलेन च ॥११९॥कृष्णनारायणभक्त्या ररक्ष भोगिनोऽखिलान् ।सेयं लक्ष्मि! मानसी त्वं नागिनी मनसा ह्यभूः ॥१२०॥त्वमेव त्रिपुरदीनां नाशे मंगलचण्डिका ।सुराणां मंगलदा च दैत्यानां चण्डनाशिका ॥१२१॥ह्यभूस्त्वं सुरभिर्जाता दुग्धदात्री च देहिनाम् ।नारायणी जगन्माता कम्भरा त्वमभूर्भुवि ॥१२२॥पद्मिनी तुलसी वृन्दा प्रभा पार्वती भार्गवी ।माधवी त्वमभूर्नैका मत्पतिव्रतपालिका ॥१२३॥त्वं हंसा मंजुला चम्पा दया मुक्ता च देविका ।शान्तिः शान्ता च सविता रुक्मिणी श्रीर्जयाऽनिला ॥१२४॥हेम्नी च मौक्तिका स्वर्णा सीता पद्मावती प्रथा ।राधा गौरी कस्तुरिका नलिनी विजया मुदा ॥१२५॥हरिणी ललिता चन्द्रा कुमुदा च सरोजिनी ।बहुधा वर्तमाना त्वं युगे युगे प्रसेवसे ॥१२६॥इति ते कथितं लक्ष्मि! पापतापप्रणाशनम् ।कृष्णपतिव्रतं श्रावात्पाठान्मुक्तिर्भवेत्सुखम् ॥१२७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने लक्ष्म्या अनेकावतारेषु जरत्कार्वीपतिव्रतायां स्वपतिजरत्कारोस्तपःप्रस्थाने कैलासे वास आस्तीकाख्यपुत्रप्राप्तिश्चेत्यादिनिरूपणनामा षड्त्रिंशदधिकचतुश्शततमोऽध्यायः ॥४३६॥ N/A References : N/A Last Updated : April 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP