संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः २९४ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः २९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९४ Translation - भाषांतर श्रीनारायण उवाच-पुरुषोत्तममासस्य स्वामी लक्ष्मि! कृपानिधिः ।पुरुषोत्तमसंज्ञो वै यथा जातो वदामि तत् ॥१॥एकदा पूर्णमासे श्रीनरनारायणाश्रमम् ।समायाता दर्शनार्थं श्रीहरेर्मुनयस्तथा ॥२॥ऋषयो दिव्यविज्ञाना वेदवेदांगपारगाः ।पत्नीवतो लोमशश्च मार्कण्डेयश्च नारदः ॥३॥व्यासः पैलः सुमन्तुर्देवलोऽसितश्च काश्यपः ।जाबालिः सुमतिर्याज्ञवल्क्यश्च पिप्पलायनः ॥४॥वामदेवः सुतीक्ष्णश्च पर्वतो भुगुरंगिराः ।आपस्तम्बः शरभंगः कपिलो रैभ्य आरुणिः ॥५॥कात्यायनो रथीतरः ऋभुर्माण्डव्य एकतः ।द्वितस्त्रितो ह्यगस्त्यो मुद्गलः क्रतुश्च गौतमः ॥६॥कौशिको गालवो बभ्रुरत्रिः शक्तिर्बुधो वसुः ।बोधायनः पृथुर्धूम्रः शंकुः संकृतिरार्तिहन् ॥७॥कौण्डिन्यश्च शिनिर्विभाण्डकः पंकश्च धूमपः ।जमदग्निः कणादश्च गर्गो मौनश्च भार्गवः ॥८॥भरद्वाजः कर्कशश्च शतानन्दश्च शौनकः ।विशालो विष्णुवृद्धश्च जर्जरश्च तनुर्जयः ॥९॥पारः पाशधरः पूरो जंगमो जैमिनिर्मखः ।उद्दालको महाषेण आमलकी - च पिंगलः ॥१०॥शाण्डीरकः प्रभुश्चात्रि करुणः श्वेतकेतुकः ।रोमपादश्च कद्रुश्च जाजलिश्च्यवनः शमः ॥११॥दीर्घतमाः पृथुश्रवाः श्वेताश्वतर आसुरिः ।जैगीषव्यस्तथाऽऽवट्यो धर्मश्च भर्ग ऐश्वरः ॥१२॥वसिष्ठश्च मरीचिश्च पुलहश्च पुलस्त्यकः ।एते चान्ये सहस्राणि नरनारायणाश्रमम् ॥१३॥समाजग्मुर्दर्शनार्थं ब्रह्मिष्ठाः शिष्यकोटिभिः ।लोकानुग्रहकर्तारः परोपकृतिधर्मिणः ॥१४॥नेमुर्नारायणं कृत्वा दण्डवत् जयघोषणाम् ।निषेदुः पुरतः सर्वे सत्कृता ब्रह्मपारगाः ॥१५॥ते च नारायणं शान्तं सौम्यं वल्कलधारिणम् ।प्रसन्नवदनं तुर्यपुरुषार्थाश्रयं प्रभुम् ॥१६॥अशेषदिव्यकल्याणगुणाऽऽनन्दपयोनिधिम् ।ऊर्ध्वपुण्ड्रधरं दिव्यजटं दिव्यश्रियाऽऽश्रितम् ॥१७॥दिव्यहारादिसंशोभं तुलसीमालिकाधरम् ।परब्रह्म जपन्मालाकरं शरण्यमच्युतम् ॥१८॥जितेन्द्रियं तपोमूर्तिं तेजश्चक्रान्विताननम् ।बदरीश्रितसर्वस्वं पश्यन्ति स्म समाधिवत् ॥१९॥ततस्तत्र समायाताः सुराश्च पितरस्तथा ।नद्यस्तीर्थानि सर्वाणि क्षेत्राणि च वनानि च ॥२०॥अरण्यानि नगराणि सरांसि सागरास्तथा ।सिद्धाश्च योगिनश्चापि समाजग्मुः सुहर्षिताः ॥२१॥निराहाराः फलाहाराः फेनाहाराश्च केचन ।वाताम्बुपर्णकाहाराः श्वासाहाराश्च केचन ॥२२॥नारायणं द्रष्टुकामाः दृष्ट्वा शान्तिं परां ययुः ।ते सर्वेऽपि प्रणेमुस्तं नारायणं महामुनिम् ॥२३॥परे ब्रह्मणि संलग्नं प्रास्फुरद्बहुलप्रभम् ।दृष्ट्वा निषेदुस्ते सर्वे पुरतः श्रीहरेस्ततः ॥२४॥युगाश्च सन्धयः संवत्सराश्च क्रतवस्तथा ।समाययुस्तथा मासाः पक्षा दिनानि रात्रयः ॥२५॥कलाकाष्ठामुहूर्तानि घटिकाः प्रहरास्तथा ।समाययुः कुटुम्बाढ्याः सस्वामिनः सुमूर्तयः ॥२६॥तत्र वै कार्तिको लक्ष्मीनारायणाधिदैवतः ।मार्गशीर्षो रमावासुदेवाधिदैवतोऽपि च ॥२७॥पौषः संक्रान्तिशक्तिश्रीविष्णवाख्यादित्यदैवतः ।माघो वसन्तविजयामाधवाधिसुदैवतः ॥२८॥फाल्गुनश्च महारात्रिलक्ष्मीब्रह्माधिदैवतः ।चैत्रस्तु पार्थिवीशक्तिसीताश्यामाधिदैवतः ॥२९॥वैशाखो हेतियुग्दुर्गालक्ष्मीनृसिंहदैवतः ।ज्येष्ठो गंगामहालक्ष्मीत्रिविक्रमाधिदैवतः ॥३०॥आषाढश्च महाविद्यालक्ष्मीव्यासाधिदैवतः ।श्रावणो वार्षिकीदोलारमाकृष्णाधिदैवतः ॥३१॥भाद्रपदो महागौरीवामनब्रह्मदैवतः ।आश्विनं शारदालक्ष्मीनारायणाधिदैवतः ॥३२॥राजन्ते स्म नरनारायणाश्रमे तु सेश्वराः ।न तेषां कश्चिदप्यस्ति ह्यपूर्वः स्वामिवर्जितः ॥३३॥स्वस्वामियोगमाहात्म्यात्सर्वे सौभाग्यशालिनः ।वर्तन्ते स्वस्वाधिकारे सर्वेभ्यः फलदायिनः ॥३४॥ततः पश्चात् समायातो मलमासो निरीश्वरः ।अधिकः पुच्छवत्यश्चाल्लग्नः सर्वैर्जुगुप्सितः ॥३५॥कृष्णवर्णो मलिनश्च पानभोजनवर्जितः ।स्नानपूजाविहीनश्चाऽस्पृश्यः सर्वैस्तिरस्कृतः ॥३६॥तमूचुः सकलास्तत्र ह्यनाथं च जुगुप्सितम् ।अनर्हो मलमासोऽयं सूर्यसंक्रमवर्जितः ॥३७॥अस्पृश्यो मलरूपत्वाच्छुभे कर्मणि गर्हितः ।उद्योगविलयो नष्टलाभो भाग्यविवर्जितः ॥३८॥समायातः कुतश्चैनं दूरे कुर्वन्तु सेश्वराः! ।दक्षश्चन्द्रमसे प्रादात् सप्तविंशतिकन्यकाः ॥३९॥ततश्चायं समुत्पन्नस्तासां मलोऽयमस्ति वै ।तासामुच्छिष्टरूपोऽयं समुत्पन्नस्त्रिदोषकृत् ॥३८॥सार्धद्विवर्षदोषान्तमलोऽयं त्वपसार्यताम् ।श्रुत्वैतद्वचनं तेषां चिन्ताग्रस्तैकमानसः ॥४१॥मुमूर्षुरभवत्तेन हृदयेन विदूयता ।दूरं चाऽस्पृश्यवत्तस्थौ पश्यन्मां बदरीस्थितम् ॥४२॥ते सर्वे दर्शनं कृत्वाऽभवन्समाधिनिष्ठिताः ।मलो धैर्यं समालम्ब्य मदीयकरसंज्ञया ॥४३॥प्राप्तो वैकुण्ठभवनं यत्राऽहमवसं रमे! ।उद्धारार्थ समागत्य मामसौ दृष्टवांस्ततः ॥४४॥रुदन् संभग्नहृदयो दण्डवत्पतितो भुवि ।प्रांजली रुद्धनेत्रोऽसौ बभाषे स्वहितं वचः ॥४५॥अपि नाथ कृपासिन्धो दीनानां शरणप्रद! ।दीन तिरस्कृतं चान्यैर्मलं मां रक्ष चागतम् ॥४६॥निरीश्वरं च मलिनं वर्जितं शुभकर्मसु ।सदैवतैर्बहिर्नीतं दीनवत्सल रक्ष माम् ॥४७॥सत्यव्रतो गजेन्द्रश्च धर्मः सुरेश्वरादयः ।अविता भविता विष्णो रक्ष मां परमेश्वर ॥४८॥इत्युक्त्वाऽऽविलचक्षुष्को मौनमास्थाय निम्नदृक् ।बभूव तादृशं वीक्ष्य कृपापूर्णो हरिर्जगौ ॥४९॥वत्स! भग्नमना मा भूरुद्धरिष्यामि मा शुचः ।वद दुःखं वारयामि न वै शोचितुमर्हसि ॥५०॥न मे शरण्यमापन्नो दुःखलेशाय कल्प्यते ।अशोकाऽऽनन्दवैकुण्ठं प्राप्तस्त्वं नासि शोकभाग् ॥५१॥मलमासः समाश्वासं लब्ध्वोवाच नमन् हरिम् ।सर्वज्ञोऽस्यन्तरात्माऽसि वेत्सि सर्वं यथातथम् ॥५२॥वच्मि तथापि ते नाथ दुःखं मृत्युसमं मम ।कला काष्ठा मुहूर्ताश्च धटिका दिवसाः समाः ॥५३॥पक्षा मासा युगाः सर्वे मोदन्ते स्वाम्यधिष्ठिताः ।पर्युषितान्ममोत्पत्तिरुच्छिष्टाच्छिष्टकच्चरात् ॥५४॥मालिन्यं मलरूपत्वमस्पृश्यत्वमसत्कृतिः ।अस्वाम्यत्वमवमानमशुभत्वं सदा मम ॥५५॥अकार्यकत्वमफलित्वं मे नाऽधिकृतिः क्वचित् ।ऋषिदेवाऽधिदेवाद्यैर्बदर्याश्रममागतैः ॥५६॥मासादिभिर्भर्त्सितश्चाऽस्पृश्यीकृतो निराकृतः ।कर्महीनीकृतश्चैव तर्जितः सर्वथाऽर्दितः ॥५७॥तस्माद्विनष्टुमिच्छामि वरं मृत्युः कुजीवनात् ।परदुःखाऽसहिष्णुस्त्वं तूपकारी पुमुत्तमः ॥५८॥कुरु श्रेयो मम नाथाऽन्यथा तु पामरोऽगुणः ।मरिष्यामि मरिष्यामि मरिष्यामि न संशयः ॥५९॥इत्युक्त्वा पादयोः श्रीनारायणस्य पपात सः ।पाहि पाहि जगन्नाथ पाहि कृष्ण रमापते ॥६०॥पाहि लक्ष्मीपते नाथ शरणं मामुपागतम् ।इत्युक्तवन्तं श्रीकृष्णो वैकुण्ठनिलयो हरिः ॥६१॥प्रोवाचोत्तिष्ठ भद्रं ते शोकं मा कुरु पश्य माम् ।समागच्छ मया सार्धं गोलोकाधिपतिं प्रभुम् ॥६२॥कृष्णनारायणं गोपीवृन्दस्थं पुरुषोत्तमम् ।निनादयन्तं मुरलीं द्विबाहुँ श्यामसुन्दरम् ॥६३॥कंजनेत्रं पार्वणेन्दुमुखं कन्दर्पधामकम् ।पीताम्बरं वनमालामणिकौस्तुभभूषणम् ॥६४॥चन्दनोक्षितवक्षस्कं कस्तूरीतिलकाऽन्वितम्!सद्रत्नाढ्योर्मिकायष्टिकिरीटकुण्डलान्वितम् ॥६५॥श्रीवत्सशोभितवक्षःस्थलं सिंहासनस्थितम् ।गोपगोपीगणाकीर्णं पुराणपुरुषोत्तमम् ॥६६॥गच्छावः स हरिः कृष्णस्त्वद्दुःखं व्यपनेष्यति ।इत्युक्त्वा तं करे धृत्वा गोलोके गतवान् हरिः ॥६७॥लक्ष्मीनारायणः श्रीमान् पूजासामग्रिकायुतः ।श्रीकृष्णार्थं राधिकार्थे वस्तूनि विविधानि च ॥६८॥रत्नानि भूषणानि वस्त्राणि श्रांगारिकाणि च ।सुगन्धद्रवरम्याणि पेयानि भोजनानि च ॥६९॥फलानि मुखवासानि दिव्यस्वर्णादिकानि च ।असंख्योपकरणानि राजयोग्यानि वै प्रभुः ॥७०॥सह नीत्वा तु गोलोकं प्राप्तौ कृष्णनरायणम् ।विरजायां च तौ स्नातौ शतशृंगं गतौ च तौ ॥७१॥मलमासमलान्यत्र नष्टानि विरजाऽऽप्लवात् ।मलमासद्वितीयायां तिथौ स्नातुर्मलानि वै ॥७२॥बहुजन्मोपार्जितानि नाशमेष्यन्ति मूलतः ।विरजास्नानपुण्यं च प्राप्स्यन्ते व्रतिनो जनाः ॥७३॥स्नानमात्रेण गोलोकप्राप्तिः स्यान्नात्र संशयः ।रासमण्डलभूमिं चाऽऽलोक्य वृन्दावनादिकम् ॥७४॥धूलीं च मस्तके कृत्वाऽक्षयभाण्डीरसद्वटौ ।विलोक्य मुख्यदुर्गं च प्रविश्य गोपिकाश्रिताम् ॥७५॥वसतिं षोडशगोपुराभ्यन्तरनिवासिनीम् ।ययतुश्च भवनान्तः राधाकृष्णसमीपतः ॥७६॥विलोक्य दिव्यं युगलं चक्रतुर्दण्डवच्च तौ ।नेमतुः पादयोर्द्वाभ्यां प्रसन्नाभ्यां सभाजितौ ॥७७॥सुसत्कृतौ यथायोग्यासने तौ तु निषेदतुः ।नारायणं तदा कृष्णो हस्तेनादाय हर्षतः ॥७८॥निमिमील तु बाहुभ्यां वक्षः कृत्वा च वक्षसि ।ध्वजे सिंहासने नारायणं निषाद्य वै मुहुः ॥७९॥हास्यप्रसन्नतायुक्तो जिज्ञासां कृतवान् प्रभुः ।हेतुश्चागमने नारायणेन कथितस्तदा ॥८०॥पूजितश्च ततो नारायणेन भगवान् स्वयम् ।पञ्चामृतैः स्नापितश्च राधया सहितः प्रभुः ॥८१॥दुग्धेन स्नापितः पश्चात्पयसा स्नापितः प्रभुः ।वस्त्रेणाऽऽवर्तितः पश्चादर्चितश्चन्दनादिभिः ॥८२॥शृंगारितो विभूषाभिर्दिव्यवस्त्राद्यलंकृतः ।सधूपदीपाऽऽरार्त्रिकप्रदक्षिणास्तवादिभिः ॥८३॥सरत्नमणिसौवर्णस्थालोपदाभिरर्चितः ।फलैः रसैर्भोजनैश्च विविधैस्तर्पितः प्रभुः ॥८४॥राधिकाद्याः कृष्णपत्न्यो योग्योपट्टाभिरर्चिताः ।शक्त्याऽपि मलमासेन श्रीकृष्णश्चार्चितस्तदा ॥८५॥प्रसादं लब्धवान् मासो मलश्चाप्याशिषं सतीम् ।श्रीकृष्णो राधया युक्तः प्राहाऽनुग्रहपूर्वकम् ॥८६॥यथाऽहं पूजितश्चात्र द्वितीयादिवसे त्वया ।तथा तव तिथौ लोके द्वितीयायां प्रगे निशि ॥८७॥राधाकृष्णं यथाशक्ति पूजयिष्यन्ति ये जनाः ।तत्सर्वे संग्रहीष्यामि राधया सहितस्तदा ॥८८॥गोदुग्धेन द्वितीयायां स्नपनीयो विशेषतः ।पञ्चामृतैर्जलैर्वापि सुवर्णमूर्तिकः प्रभुः ॥८९॥सुवर्णाम्बरभूषाभिरलंकार्यो द्रवादिभिः ।श्रंगारिकोपकरणेरलंकार्यः सराधिकः ॥९०॥धूपदीपादिभिः पूज्यः कंकणैर्मुकुटादिभिः ।मिष्टान्नैस्तर्पणीयश्च रत्नभूषादिभिस्तथा ॥९१॥अत्यर्थं पूजनीयोऽहं तृप्तो भवामि सर्वथा ।दास्ये प्रत्युपदां तेभ्यो विविधाऽसंख्यसम्पदः ॥९२॥यथा सन्ति मम लोके तथा दास्ये न संशयः ।अन्ते दास्ये च गोलोकं स्मृद्धं सुखं च शाश्वतम् ॥९३॥इत्याशीर्वादमादाय मलमासोऽपि भाग्यवान् ।नारायणसमक्षं वै जातोऽधिकप्रतापवान् ॥९४॥उवाच तु ततः कृष्णं त्वया भाग्येन वर्धितः ।यथा सस्वामिको भूयासं तथा नाथ मे कुरु ॥९५॥अज्ञानान्धतमोहर्तर्ज्ञानमार्गप्रदीपक ।असंख्यगोलकोत्पत्तिविनाशादिप्रकारण ॥९६॥योग्यदृश्य स्वभक्ताभिर्दृश्य दिव्यसुविग्रह ।शंखचक्रगदापद्महेतिश्चतुर्भुजार्चित ॥९७॥असंख्यराधिकालक्ष्मीसमपत्नीप्रसेवित ।इन्दीवरदलश्याम पंकजारुणलोचन ॥९८॥कोटिशारदपूर्णेन्दुशोभातिरोचनानन ।कोटिमन्मथसौन्दर्यलीलाधाममनोहर ॥९९॥श्रीवत्सवक्षःसंराजत्कौस्तुभहारराजित ।सद्रत्नकोटिसन्नद्धकिरीटकटकोज्जल ॥१००॥भक्तमंगलकृद्विष्णो कृष्णनारायणप्रभो ।निरस्याऽमंगलं सर्वे मम मंगलमावह ॥१०१॥इति स्तुतस्तदा कृष्णः प्रसन्नोऽभूदुवाच ह ।एतत्स्तोत्रप्रपाठेन सत्फलं प्राप्स्यते जनः ॥१०२॥भक्तिर्भविष्यति कृष्णो पुत्रपौत्रविवर्धिनी ।भविष्यत्यपकीर्तेश्च क्षयः कीर्तिर्भविष्यति ॥१०३॥पूजायां यानि वस्तूनि त्वर्पितानि च तानि तु ।लक्षगुणानि भक्ताय प्रदास्ये प्रवदाम्यहम् ॥१०४॥अधिमासद्वितीयायां पूज्यश्चाऽहमनन्तकैः ।दास्येत्वनन्तकं तस्मै यद्यदिष्टं व्रतार्थिनः ॥१०५॥जलं वटाय दातव्यं भोज्यं विप्राय साधवे ।शाटीं कन्याप्रवर्यायै दातव्या फललब्धये ॥१०६॥आमान्नानि च देयानि विष्णुभक्ताय साधवे ।स्वर्णदानं प्रदातव्यं विद्यार्थिने च योषिते ॥१०७॥द्वितीयायां प्रदातव्यं सर्वे वै द्विगुणं शुभम् ।कोटिगुणं प्रपद्येत फलं चात्र परत्र च ॥१०८॥इति कृष्णो वदन्नारायणं प्राह पुनः पुनः ।नारायण हरे लक्ष्मीपते वैकुण्ठभास्कर ॥१०९॥मलमासस्य वृत्तान्तं जानेऽहं सकलं विभो ।भवता श्रीपतिना च कथितं तद्विशेषतः ॥११०॥अयं त्वधिकमासोऽस्ति व्यपेतरविसंक्रमः ।मलिनोऽयमनर्होऽस्ति शुभकर्मणि वर्जितः ॥१११॥इति मत्वा सृष्टिदेवैस्तिरस्कृतोऽपि मद्गृहम् ।समायातो ह्यतश्चायं मलिनो नास्ति चाऽद्यतः ॥११२॥दिव्योऽस्ति परिशुद्धोऽस्ति पूजनीयोऽस्ति सर्वथा ।किन्तु तस्य भवेत् स्वामी कोऽद्य चात्र विचार्यताम् ॥११३॥अन्येषामपि मासानां कृष्णः स्वामी भवाम्यहम् ।भवानपि तथा स्वामी भवतीति विचार्यताम् ॥११४॥तस्मात्त्रयोदशे मासि स्वामित्वं त्वावयोर्नहि ।तदर्थे ननु गच्छामो यत्र श्रीपुरुषोत्तमः ॥११५॥विराजते परे धाम्न्यक्षरे राजाधिराजकः ।अवतारा असंख्याता यस्माद्भवन्ति मादृशाः ॥११६॥गोलोकादिकधामानि यद्धामांशा भवन्ति वै ।स विचार्यैव चैतस्य स्वामिनं कल्पयिष्यति ॥११७॥अवतारी त्वनादिश्रीकृष्णः श्रीपुरुषोत्तमः ।योजयिष्यति यं त्वस्मिन् सोऽस्य स्वामी भविष्यति ॥११८॥इति विचार्य सहसा कृष्णोनारायणोऽधिकः ।ययुस्त्रयोऽक्षरे धाम्नि यत्र श्रीपुरुषोत्तमः ॥११९॥इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये बदरिकाश्रमे नरनारायणदर्शनार्थमृषि मुनि पर्वत नदी वृक्ष वल्ली सुर सम्वत्सर मासादिभिरागतैर्मलमासस्याऽस्पृश्यत्वेन तिरस्कारे कृते मलमासस्य वैकुण्ठगमनं तत्रत्यनारायणेन सह गोलोकगमनं तत्रत्य श्रीकृष्णराधिकापूजनोत्तर सभाग्यतां प्राप्याशीर्वादान् संगृह्याऽक्षरब्रह्मलोकं प्रति सस्वामिकत्वार्थे गमनमिति निरूपणनामाचतुर्नवत्यधिकद्विशततमोऽध्यायः ॥२९४॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP