संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २०३

कृतयुगसन्तानः - अध्यायः २०३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
ब्रह्मा च प्रेरयामास सृष्टिं कर्तुं च नारदम् ।
सर्वेषामपि वन्द्यानां जनकः परमो गुरुः ॥१॥
विद्यागुरुर्मन्त्रगुरुर्द्वौ श्रेष्ठौ पित्रपेक्षया ।
तवाऽहं जन्मदाता च विद्यादाता च मन्त्रदः ॥२॥
ममाऽऽज्ञया च मत्प्रीत्या कुरुपत्नीपरिग्रहम् ।
गुरोराज्ञाकरः शिष्यः पुत्रः सन्तारयेत् पितॄन् ॥३॥
क्षेमं च लभते नित्यं शाश्वतं लौकिकं तथा ।
सः पण्डितः स च ज्ञानी क्षेमी च पुण्यवान्स च ॥४॥
मेधावी विनयी भाग्यशाली स्वर्गाधिकारवान् ।
गुरोर्वचस्करो यः स्यात् क्षेमं तस्य पदे पदे ॥५॥
सर्वाश्रमाश्रयदाता गृह्याश्रमो हि पुण्यवान् ।
पुत्रपौत्रकलत्राढ्यं भवनं तपसः फलम् ॥६॥
पितरः पर्वकाले च पूजाकाले तु देवताः ।
भिक्षाकाले च मुनयः समायान्ति गृहिगृहम् ॥७॥
नित्यं नैमित्तिकं कार्यमर्जयन्ति गृहाश्रमाः ।
भुक्त्वा सर्वं सुखं त्वत्र यान्ति स्वर्गं महत्सुखम् ॥८॥
गृहस्थो धनवान् कीर्तिधर्मानन्दादिमान् सुखी ।
जीवन्मुक्तो मृतेऽमुत्र मुक्त एव न संशयः ॥९॥
मृतस्यापि यशोदेहो वर्तत स च जीवति ।
जीवतोऽपि यशोदेहो नास्ति मृतः स वै सदा ॥१०॥
विद्या लभ्या तथा कीर्तिर्लभ्या भक्तिश्च माधवे ।
दारा लभ्याः शुभा लक्ष्मीः स्वर्गं लभ्यं सुतादिभिः ॥११॥
पुण्यं लभ्यं तथाऽऽरोग्यं लभ्यं वै शाश्वतं सुखम् ।
ऐहिकं च तथा पारलौकिकं लभ्यमुत्तमम् ॥१२॥
कार्यं भोग्यं गृहिरीत्याऽसंगेन यतिवत् सदा ।
सदा वै बन्धनं नास्तीत्याह नारायणो हि माम् ॥१३॥
श्रुत्वैतन्नारदः प्राह सतीष्टत्वे प्रवर्तते ।
न मेऽस्तीष्टसाधनत्वमनिष्टाऽननुबन्धिता ॥१४॥
कथं प्रवर्ते नार्यां वै कारणाऽभावबन्धकात् ।
पूर्वजन्मसु चैतस्य विषयस्य विरोधने ॥१५॥
त्वच्छापादभवं मृत्वा गन्धर्वः शूद्रकस्तथा ।
कालेन शापान्मुक्तोऽहं विरोधो न सुखाय वै ॥१६॥
स गुरुश्च पिता बन्धुः सुतः स्वामी स रक्षकः ।
यः श्रीनारायणभक्तिं बोधयेत्कारये दृढाम् ॥१७॥
असन्मार्गाऽऽस्थितबालनिवृत्तिरुचिता पितुः ।
सन्मार्गरोधके दारमार्गे प्रवर्तयेत् कथम् ॥१८॥
पत्नीग्राहो महाग्राहो दुःखायैव हि केवलम् ।
तपःस्वर्गजीवन्मुक्तिमहामुक्तिनिरोधकृत् ॥१९॥
नार्यस्त्रेधा विभिद्यन्ते साध्वी स्वार्था विरोधिनी ।
धर्मं मत्वा नाथसेवां करोति सुखदा सदा ॥२०॥
स्वधर्मनिरता साध्वी सुखदुःखसमा हि सा ।
अथ स्वस्या अर्थसिद्ध्यै कुरुते कान्तसेवनम् ॥२१॥
भोगार्थं कान्तसेवां च नान्यथा स्वार्थिनी हि सा ।
वस्त्रालंकारसंभोगस्निग्धाहारधनादिकम् ॥२२॥
यावच्च दीयते पत्या तावत्स्वार्था तु सेविका ।
अथ कापट्यभावेन पतिं वाऽन्यं च सेवते ॥२३॥
स्वस्य वाथ परस्याथ यस्या नास्ति समादरः ।
सर्वे कामप्रदा योग्या नराः प्रकल्पिता यया ॥२४॥
सा तु विरुद्धधर्मस्था विरोधिनी तृतीयका ।
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ॥२५॥
सुधामधुरं वचनं सर्वं स्वार्थ स्त्रिया मतम् ।
विषतुल्या प्रकोपे स्याद् विश्वासे नाशकारिणी ॥२६॥
अभिप्रायेऽतिगूढा स्यात् कर्म स्तेनमयं सदा ।
अविनयस्तथा स्वार्थः साहसं छलमनृतम् ॥२७॥
माया कापट्यमशुचिश्चैतेऽष्टो तत्स्वभावजाः ।
पुंसश्चाष्टगुणः शश्वत्कामदेवोऽतिकालहृत् ॥२८॥
आहारो द्विगुणो नित्यं नैष्ठुर्यं च चतुर्गुणम् ।
क्रोधश्चाथ हठश्चापि षड्गुणास्तत्र सन्ति हि ॥२९॥
स्नेहो दशगुणः स्वार्थः षोडशाधिगुणोऽस्ति वै ।
एवं दोषग्रहे नारीदेहे काऽऽस्था पितामह ॥३०॥
मलमूत्रादिखन्याख्ये का क्रीडाऽशुद्धवर्ष्मणि ।
भोगे तेजःक्षयः सख्ये कीर्तेर्नाशो धनक्षयः ॥३१॥
वपुःक्षयोऽतिसंभोगे कलहे मानसंक्षयः ।
विश्वासे सर्वनाशश्च बन्धने मोक्षरोधनम् ॥३२॥
हानिरेव तया क्लृप्ता को लाभः प्रमदाग्रहे ।
यावद्धनं युवावस्था तावत्स्वीयाऽन्यथा तु न ॥३३॥
वृद्धं निःस्वं तथा रुग्णं पतिं सा प्रेक्षतेऽप्रियम् ।
श्ववत् लोकाचारभयाद् ददात्याहारमल्पकम् ॥३४॥
सर्वं जानासि सर्वज्ञ विदायं देहि साम्प्रतम् ।
कृष्णभक्तिं प्रार्थयामि ययाचे तप उत्तमम् ॥३५॥
नत्वा स्तुत्वा च याचित्वा क्षमां कृत्वा प्रदक्षिणम् ।
गच्छन्तं तनयं दृष्ट्वा क्षणं ब्रह्मा शुशोच ह ॥३६॥
यदि त्वं तपसे यासि किं मे संसारकर्मणि ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥३७॥
तुर्यः सनत्कुमारश्चेतरः सनत्सुजातकः ।
यतिर्हंसिश्चारुणिश्च वोढुः पंचशिखस्तथा ॥३८॥
पुत्रास्ते तपसे याताः किं मे संसारकर्मणि ।
अन्येऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि ॥३९॥
नोदनालक्षणमर्थं धर्मं वाञ्च्छन्ति पण्डिताः ।
विप्रो धृत्वा यज्ञसूत्रं वेदानधीत्य शक्तितः ॥४०॥
परिसमाप्य तत्पश्चात् ददाति गुरुदक्षिणाम् ।
ततः साध्वीं सुकुलजां सुविनीतां समुद्वहेत् ॥४१॥
न नारी बन्धनं प्रोक्तं बन्धनं वासना मता ।
अवासनो जनः साध्वीयुक्तोऽपि मुक्तिमृच्छति ॥४२॥
स्त्रीणां दोषाश्च ये प्रोक्ता न ते सत्पतिसंभवे ।
पतिः कुपथगामी स्यात् तदा किं स्त्रीविदूषणम् ॥४३॥
सति स्वामिनि पत्न्याश्च दोषा भवन्ति सद्गुणाः ।
गुणागुणौ पत्यधीनौ यथा स्वामी तथा सती ॥४४॥
न दोषोऽस्ति च कन्यानां यथाबीजं तथाफलम् ।
क्षेत्रं तु सर्वथा शुद्धं यथा खाद्यं तथाऽङ्कुरम् ॥४५॥
स्त्रियस्तु सुखलाभाय नराणां वै विनिर्मिताः ।
सहन्ते सर्वमाक्रोशं वशीभवन्ति सर्वदा ॥४६॥
दुःखं स्वयमनुगृह्य सुखाकुर्वन्ति सत्पतिम् ।
तापत्रयविदग्धस्य नरस्याऽऽरामसाधनम् ॥४७॥
नारीरत्नं मया सृष्टं न दोषं दातुमर्हसि ।
पित्रा पराय दत्ता सा कन्या सर्वं विहाय वै ॥४८॥
याति गौरिव निर्दुःखा रंकां मा निन्द नारद ।
पराधीना सदा त्वन्याश्रया दासीव किंकरी ॥४९॥
मानं विहाय सेवायां स्थितां मा निन्द नारद ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥५०॥
तद् वत्स सुखदाः सर्वा योषितः कमलांशजाः ।
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ॥५१॥
साधुः सद्वंशजां कन्यां गृह्णीयाद्धर्मनेत्रवान् ।
तस्यां पुत्रान्समुत्पाद्य वार्धक्ये तपसे व्रजेत् ॥५२॥
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ।
पुत्र देहीदमेवेह कुरु पत्नीपरिग्रहम् ॥५३॥
वत्स त्वं कुलजां कन्यां पूर्वपत्नीं च मालतीम् ।
मनुवंशीयसृंजयपुत्रीं तपःपरायणाम् ॥५४॥
गृह्णीष्व तां तव पत्नीं विवाहं कुरु पुत्रक ।
वैष्णवस्तं गृहे तिष्ठ कुरु भक्तिं हरेः सदा ॥५५॥
आदौ ब्रह्म ततो नारी ततो वनगतिस्ततः ।
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ॥५६॥
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ।
नारीं प्राप्य हरिं रक्ष नार्यां हरिरवस्थितः ॥५७॥
पुत्रा हरिकृता बोध्या नरकत्राणका यतः ।
तपसाऽपि हरिः सेव्यः सेवा हि परमं तपः ॥५८॥
तपसा सेवया चैव मुक्तिर्लभ्येति तत्फलम् ।
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज ॥५९॥
पितृप्रसादः प्राप्तव्योऽपाकर्तव्यमृणं पितुः ।
दाराग्रहणसाध्यं तत् कुरु वै दारसंग्रहम् ॥६०॥
दारासुखं कामसुखं चोपस्पर्शसुखं महत् ।
ततः सुखतमं पुत्रदर्शनं तद् गृही भव ॥६१॥
पुत्रप्रयोजना कान्ता सर्वेभ्यः प्रेयसी हि सा ।
शतकान्ताप्रियः पुत्रो नास्ति पुत्रात् परः प्रियः ॥६२॥
सर्वेभ्यो जयमन्विच्छेत्पुत्राच्छिष्यात्पराभवम् ।
पुत्र आत्मा सुतो बन्धुर्न्यस्येत् तत्राऽऽत्मसद्धजम् ॥६३॥
श्रुत्वैतन्नारदः प्राह पितर्जानन्नपि स्वयम् ।
जलबुद्बुदतुल्येऽत्र प्रवर्तयसि मां कथम् ॥६४॥
विहाय हरिदास्यं मे मा भूत् नृजन्म निष्फलम् ।
कस्य पत्नी सुतः कस्य पतिः कस्याश्च बान्धवाः ॥६५॥
सर्वं कर्मकृतं जालं बन्धनं चेतनात्मकम् ।
यो वै मोचयति तस्मात् स पिता स गुरुः सखा ॥६६॥
बन्धनं तु ददात्येषु विनिर्बन्धनचेतनम् ।
मोक्षात्तु पातयन् तं स रिपुः संसारयोजकः ॥६७॥
किन्तु मुमुक्षुणा ग्राह्यं पितुर्वाक्यं चतुर्थकम् ।
नांगीकृतं त्रिवारं ते तत्फलं प्राप्तमार्तिदम् ॥६८॥
प्रथमे मानसे पुत्रे तवाऽऽज्ञा नैव पालिता ।
तेन मृत्युर्मम जातो मारीचो ह्यभवँस्ततः ॥६९॥
पुनर्मृतेश्च गन्धर्वस्ततो मृत्योश्च शूद्रजः ।
ततो मृतेरयं ब्राह्मो भवाम्यत्र चतुर्थकः ॥७०॥
तस्माद् योग्याऽप्ययोग्या वा तवाऽऽज्ञा शिरसि धृता ।
प्रसन्नो भव मे ब्रह्मन् येनाऽहं स्यां सदा सुखी ॥७१॥
आदौ यास्यामि भगवन्नरनारायणाश्रमम् ।
नारायणकथां श्रुत्वा करिष्ये दारसंग्रहम् ॥७२॥
यथाऽहं दारयोगेऽपि निर्बन्धः स्यां सदा पितः ।
तथाऽऽशिषः प्रदातव्या न निरुद्ध्येत मोक्षणम् ॥७३॥
देहि मे कृष्णमन्त्रं च सार्थं तद्गुणवर्णनम् ।
ब्रह्मा प्राह तदा पुत्रं सर्वज्ञानाऽऽकरं प्रियम् ॥७४॥
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयात् कदाचन ।
गुरुर्महेश्वरस्तेऽस्ति प्राक्तनो गच्छतं प्रति ॥७५॥
श्रुत्वा प्रणम्य पितरं शिवलोकं ययौ मुनिः ।
द्वितीयमिव वैकुण्ठं सर्वस्मृद्धिसमन्वितम् ॥७६॥
कोट्यब्जाऽर्बुदलक्षैश्च गणैश्च पार्षदोत्तमैः ।
विकटैर्भैरवैः क्षेत्रैः कल्पवृक्षैश्च शोभितम् ॥७७॥
शिवं ददर्श मध्यस्थं गणानां दिव्यसंसदि ।
त्रिनेत्रं पञ्चवक्त्रं च गंगाढ्यं चन्द्रशेखरम् ॥७८॥
स्वर्णचंचज्जटाजूटं जपन्तं मालया हरिम् ।
नीलकण्ठं सर्पसूत्रं योगिसिद्धादिवन्दितम् ॥७९॥
प्रसन्नं शान्तिदं भक्तप्रियं परमवैष्णवम् ।
गत्वा नमाम तुष्टाव त्रितन्त्रीं क्वणयन् जगौ ॥८०॥
ददौ च शंकरस्तस्मै चासनं योग्यमर्हणम् ।
पप्रच्छाऽऽगमसद्ध्येयं चातिथ्यं प्रचकार च ॥८१॥
मुनिर्निवेदनं चक्रे मन्त्रार्थागमनादिकम् ।
श्रुत्वा शंभुः प्रसन्नोऽभूत्प्राह नारदमोमिति ॥८२॥
हरिस्तोत्रं च कवचं मन्त्रं श्रीहरये नमः ।
ध्यानं ज्ञानं नारदाय ददौ सम्यङ्महेश्वरः ॥८३॥
नारदः प्राह देवेशं चाह्निकं मे वद् प्रभो ।
शंभुर्ब्राह्मणधर्मांश्च कथयामास तं ततः ॥८४॥
संक्षेपेण सदाचारान् इहाऽमुत्र सुखप्रदान् ।
शृणु लक्ष्मि च ते सर्वान् कथयामि सनातनान् ॥८५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा नारदाय सृष्ट्यर्थमुपदिष्टम्, नारदेन ज्ञानद्वारा तदंगीकृतम् वैष्णवगुरुमन्त्रार्थं कैलासगमनं चेत्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ॥२०३॥

N/A

References : N/A
Last Updated : March 28, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP