संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ३८१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ३८१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! कथां चान्यां पातिव्रत्यपरायणाम् ।रेणुका जमदग्नेर्या पत्नी चाऽभूत्पतिव्रता ॥१॥या मृतं पतिमादाय संविवेश चिताऽनले ।यत्पुत्रः परशुरामो ह्यासीद्वने तपःस्थितः ॥२॥नर्मदायास्तटे माहिष्मत्या नातिप्रदूरके ।वने श्रेष्ठाश्रमो ह्यासीज्जमदग्नेर्द्रुमाकुलः ॥३॥जमदग्निः कामधेनुः पर्शुरामश्च रेणुका ।एते मुख्यास्तथा चान्ये ह्यासन् शिष्याः सुताः परे ॥४॥सहस्रशः पतिं संसेवते भक्त्या तु रेणुका ।पातिव्रत्येन धर्मेण देवतावन्दिता सती ॥५॥शृणु विस्तरतस्तस्याः कथां लक्ष्मि! प्रमुक्तिदाम् ।रेणुका पुत्रलब्ध्यर्थं तपश्चचार दारुणम् ॥६॥शीतकाले पतिसेवा करोत्यहर्निशं सती ।आर्द्रवस्त्रेण च कृष्णपूजां करोति वै प्रगे ॥७॥एकभुक्ताऽभवच्चैव सूर्यपूजां करोति च ।वह्निपूजामतिथीनां गवां पूजां करोति च ॥८॥वर्षमात्रं फलाहारा वर्षं पत्रादनाऽभवत् ।वर्षं जलादना वर्षं वाय्वाहाराऽभवत् सती ॥९॥वर्षं बाष्पादना वर्षं निराहाराऽभवत् सती ।कृष्णनारायणनाम्ना जपति स्म निरन्तरम् ॥१०॥पत्युः सेवां द्वितीयेन रूपेण च करोति वै ।एवं तस्मै प्रसन्नोऽभूत् कृष्णनारायणः प्रभुः ॥११॥साक्षाज्जगाम तस्यास्त्वन्तिकं प्राह वरं वृणु ।सती प्राह भवान् मेऽत्र गृहे पुत्रोऽस्तु रक्षकः ॥१२॥तथास्त्विति प्राह कृष्णनारायणस्तिरोदधे ।ततः कालेऽभवद् रामः काष्ठार्तं परशुं दधन् ॥१३॥परशुरामनामाऽसौ ख्यातोऽभवद् वनेषु सः ।एकदा पितरौ नत्वा पितामहगृहं गतः ॥१४॥ऋचीकं तं पितामहं नत्वाऽऽससाद चासने ।उवास कतिचिन्मासान् तच्छुश्रूषापरायणः ॥१५॥ततो ययौ भृगुं ख्यातिं ननाम विनयान्वितः ।भृगुः प्राह हितं कर्तुं लोकानां राममच्युतम् ॥१६॥गच्छ पुत्र ममाऽऽदेशाद्धिमवन्तं तपःकृते ।शंकरः सर्वथा तुष्टस्तव श्रेयः करिष्यति ॥१७॥नत्वा तौ च ततो रामो जगाम हिमपर्वतम् ।सरस्तीरे पर्णकुटीं कृत्वा तपश्चचार ह ॥१८॥बहुवर्षं गते काले मृगव्याधवपुः शिवः ।तपस्तुष्टो जगामास्याऽन्तिकं प्राह तु तापसम् ॥१९॥स्नाहि सर्वत्र तीर्थेषु तपो घोरं समाचर ।तेन पुण्येन ते राम! सर्वाण्यस्त्राण्यवाप्स्यसि ॥२०॥इत्युक्त्वाऽन्तर्दधे शंभू रामस्तीर्थानि संययौ ।कैलासं च ययौ तस्मै शैवमस्त्रं ददौ हरः ॥२१॥दत्वा च परशुं प्राह सुरशत्रून् सदा जहि ।रामो दैत्यान् बहून् हत्वा समापेदे स्वकाश्रमम् ॥२२॥शंभुस्तत्र समागत्य ददावस्त्राण्यशेषतः ।सप्रयोगं ससंहारंमस्त्रग्रामं चतुर्विधम् ॥२३॥असंवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् ।इषुधी चाऽक्षयबाणौ ददौ रामाय शंकरः ॥२४॥अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः ।सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ॥२५॥तपःप्रभावं चोग्रं च प्रददौ भार्गवाय सः ।अथाऽरण्ये व्याघ्रव्यापादितं द्विजसुतं तदा ॥२६॥जीवयामास रामोऽयं चाऽकृतप्रणनामकम् ।शिष्यं कृत्वा तु शान्तर्षिसुतं रामो ययौ गृहम् ॥२७॥जमदग्निं रेणुकां च ननाम दण्डवद्भुवि ।अथ कालान्तरे तत्राऽऽययौ हैहयभूपतिः ॥२८॥चतुरंगबलैर्युक्तो नर्मदातीरमाश्रमम् ।दृष्ट्वोपेत्य जमदग्निं ननाम शिरसा नृपः ॥२९॥जमदग्निस्तदातिथ्यं कामधेन्वा ह्यकारयत् ।नगरं वाटिकाश्चोद्यानानि सौधानि सेविकाः ॥३०॥दासा गा उपसामग्रीर्भोज्यपेयानि निर्ममे ।रेणुकाऽपि कामधेनुं दोग्ध्रीमुवाच वै पुनः ॥३१॥अयं राजा कार्तवीर्यो ममाऽतिथिस्तवाऽतिथिः ।तस्मात् सर्वं तवैश्वर्यं प्रकटीकुरु मे स्वसः ॥॥३२॥इत्युक्ता कामगौः प्राह कुरु संकल्पमीश्वरि! ।पातिव्रत्यबलात्तेऽहं वैराजस्मृद्धीरानये ॥३३॥अथ द्वयोः प्रभावात्तद्वने सुवर्णपत्तनम् ।सुरराजगृहतुल्यं तदासीद् भगुवंशिनः ॥३४॥दिव्यविभूतिभेदैश्चाऽचिन्त्यरूपं तदाऽभवत् ।हेमरत्नोज्ज्वलमार्गं समुद्यानचतुष्कवत् ॥३५॥राजमार्गादिकल्लोलवालुकास्तबकान्वितम् ।पूर्णचन्द्राभशिखरैः प्रासादैः परिशोभितम् ॥३६॥स्वर्णरौप्यरीतिताम्ररसैः सौधैर्विराजितम् ।रत्नोपलाभिः स्फटिकमिश्ररत्नालिराजितैः ॥३७॥महामणिप्रदीपानां प्रकाशैरक्षतैर्युतम् ।रत्नोज्ज्वलसुवर्णाढ्यवेदीसोपानसद्गृहैः ॥३८॥रत्नमालाढ्यकुड्यादिकपाटार्गलगोपुरैः ।स्वर्णास्तरणसंसक्तदेहल्यजिरशालिभिः ॥३९॥रात्रिगृहान्वितं चतुष्किकातोरणशोभितम् ।दिव्यस्तम्भैः कुण्ड्यचित्रैः स्वर्णसिंहासनादिभिः ॥४०॥पीठकैर्भक्ष्यभोज्यैश्च भाण्डैः पानैरनन्तकैः ।देवोचितान्नसम्पद्भिर्वधूभिश्च मनोहरम् ॥४१॥सुवर्णरत्नदुर्गैश्च कोष्ठकैः साप्तभौमकैः ।परिखाभिश्च दिव्याभिर्जलनालीविराजितम् ॥४२॥विद्युद्दीपैर्दूरयन्त्रैर्दूरदृश्यप्रदर्पणैः ।दूरश्रावणकोशैश्च यानैर्वैहायसैर्युतम् ॥४३॥दीर्घिकाभिर्वापिकाभिः स्नानतडागशोभितम् ।प्रदर्शनैर्विविधैश्च नाटकैः श्रमनोदनैः ॥४४॥मल्लैर्बहुसमायासैः रंजनैर्नर्तकैर्युतम् ।गायकैर्वाद्यशालाभिः राजसंसद्विराजितम् ॥४५॥शस्त्रागारैश्चोपकरणैर्मुक्तिशालाभिरन्वितम् ।स्नानसेवनशालाभिर्विमानैः कामगैर्युतम् ॥४६॥हंसैश्च गरुडैश्चापि मेनाचातकसच्छुकैः ।मयूरैर्देववाण्या वै वदद्भिश्चान्वितं शुभम् ॥४७॥वृक्षवल्लीफलपुष्पदिव्यगन्धसुगन्धितम् ।कृतं वै नगरं तत्र दुग्धेक्षुरसराजितम् ॥४८॥अमृतं च कृतं तत्र प्रतिगृहं ह्रदेषु च ।जलान्तर्यानसंपूर्ण वह्न्यन्तर्यानभूषितम् ॥४९॥रेणुका गौर्निर्ममाते योग्ययोषित्कुमारिकाः ।विचित्रवेषाभरणपुष्पगन्धाम्बरादिभिः ॥५०॥शृंगारशोभाश्रीकान्तिहावभावादिचेष्टितैः ॥चाञ्चल्यौज्ज्वल्यनैर्मल्येषद्धास्याकर्षणादिभिः ॥५१॥सौन्दर्यादिगुणैर्युक्ता मन्दहास्याऽऽस्यशोभनाः ।कुन्दकलिकासदृशदन्तपंक्तिविराजिताः ॥५२॥प्रत्यग्रयौवनभरा वल्गुमिष्टगिरः शुभाः ।प्रेममन्थरनेत्राक्तकटाक्षेक्षणमण्डिताः ॥५३॥प्रीतिप्रसन्नहृदयाः शृंगाररतिसत्प्रभाः ।कल्पवृक्षकुसुमानां हृत्सु हारालिराजिताः ॥५४॥देवांगनाऽधिकाऽत्यन्तसौभाग्यदिव्यतान्विताः ।सौकुमार्याऽऽभिरूप्याढ्यमधुराकृतिराजिताः ॥५५॥पीनवक्षोरुहद्वन्द्वभरानतसुमध्यमाः ।श्रोणीभरानताश्चापि रक्तांघ्रिकरसत्तलाः ॥५६॥हारकेयूरकंकणकण्ठसूत्रादिराजिताः ।कर्णकपोलभालादिविभूषाभिर्विराजिताः ॥५७॥प्रकोष्ठांगुलिकाभूषाकटिभूषाभिराजिताः ।पुष्पभूषात्यभिरामालकपाशसुशोभिताः ॥५८॥कांचीकलापकिंकिणीपरिशिञ्जितनूपुराः ।नर्मसान्त्वनहास्यार्घ्यकेलीगीतिविशारदाः ॥५९॥सुस्वरा सुमधुभाषा मिष्टगंभीरभाषणाः ।रतिप्रगल्भा भावाढ्याः कामयोगविशारदाः ॥६०॥पद्मपत्रनिभनेत्राः सम्पदौदार्यसंभृताः ।गृहकार्यनिपूणाश्च तादृश्यः परिचारिकाः ॥६१॥गृहचरान् भृत्यदासान् शतशोऽथ सहस्रशः ।पाचकान् मर्दकान् पादसंवाहकाँश्च यापकान् ॥६२॥देवालयान् रथाश्वाँश्च मातंगाँश्च खरोष्ट्रकान् ।गोऽजाऽविकानुयुक्तान्निर्ममाते पशून् बहून् ॥६३॥सामन्तांश्च नरेन्द्राँश्च राजन्याँश्च निषादिनः ।सादिनश्च पदातींश्च सेनापतींश्च नायकान् ॥६४॥विप्रादिकाँश्च रथिनः सारथीन् सूतबन्दिनः ।मागधाँश्चारणाँश्चापि नर्तकाँश्च नटाँस्तथा ॥६५॥किन्नरान् बहुरूपाँश्च गणिकाँश्च नपुंसकान् ।चक्राह्वहंसकुररीबकसारसचातकान् ॥६६॥कल्हारकंजकुमुदोत्पलकुन्दकदम्बकान् ।चूतप्रियालपनसान् मधूककदलीतरून् ॥६७॥नागकेतकीपुन्नागमन्दारकुन्दचम्पकान् ।करवीरान् यूथिकाश्च फलपुष्पाणि सर्वशः ॥६८॥सर्वर्तुसौरभान् वायून् मन्दं मन्दं प्रसारिणः ।निर्ममाते रेणुकायुक्कामधेनुर्नियोजिता ॥६९॥राजा त्वातिथ्यसत्कारं देवादीनां हि दुर्लभम् ।जग्राह प्राविशत्पुण्यं पत्तनं स्वकृते कृतम् ॥७०॥सर्वोपभोगनिलयं कौशेयाऽम्बरकोटिभिः ।चित्ररंगौर्णवस्त्रैश्च शोभितं चोज्ज्वलं पुरम् ॥७१॥अन्तःप्रविश्य पुर्यर्द्धिं स्वर्गिलोकविमोहिनीम् ।सबलो विस्मयं प्राप हेतुं विवेद गां ततः ॥७२॥प्रवेशितं च राजानं नार्यश्चन्दनवारिभिः ।प्रसूनलाजाप्रकरैश्चावीवृषन् गवाक्षगाः ॥७३॥ब्राह्मीं तपःश्रियं दृष्ट्वा राजा मुमोह सर्वथा ।शशंस मनसा वाचा मेने क्षत्रोत्तरां नवाम् ॥७४॥अस्याः शतांशतुलनां नोपगन्तुं मम श्रियः ।प्रभवन्तीति मत्वैव मानगर्वगतोऽभवत् ॥७५॥रत्नहीरकमालादिसपर्यां लब्धवान्नृपः ।कामधेनुकृतसैन्यैः सेवकैश्च प्रवेशितः ॥७६॥कक्षान्तराणि शनकैरतीत्य त्रीणि चार्जुनः ।सद्माऽऽविवेश सौवर्णदीपोज्ज्वलसुभास्वरम् ॥७७॥दधिदर्पणसौगन्ध्यपुष्पदुर्वाऽक्षतादिभिः ।कन्याभिर्वर्धितो राजाऽऽरुरोह स्वर्णविष्टरम् ॥७८॥पुरन्ध्र्यस्तु पुपूजुस्तं राजयोग्याऽर्हणादिभिः ।ताभिश्च साकं नृपतिर्दिनं निनाय नाकवत् ॥७९॥प्रपेदे च सदः सायं मन्त्रिसामन्तनायकैः ।वाद्यविनोदः प्रवृत्तो नृत्यहास्यकथायुतः ॥८०॥विलासा गणिकानां च हासक्रीडादयोऽभवन् ।अर्धरात्र्युत्तर सौधं विश्रामार्थं जगाम सः ॥८१॥राजसैन्यं राजरूपवैभवेषु समेषु वै ।सौधेषु प्राप्तवच्छान्तिं बभूव मुदितं बहु ॥८२॥राजवद् राजसैन्यानां भोज्यं पेयं च भोग्यकम् ।सर्व चाऽभूत् समं तेन वसामोऽत्रैव ते जगुः ॥८३॥स्वपन्तमेत्य राजानं सूतमागधबन्दिनः ।प्रातः प्रबोधयितुं तं जगुरुच्चैर्मधुस्वरैः ॥८४॥वीणावेणुरवोन्मिश्रैस्तालमूर्छासुमिश्रितैः ।विनिद्राक्षः समुत्थाय राजा नैत्यकमाचरत् ॥८५॥सेवितो वारयोषाभिः समुपेत्य तपोनिधिम् ।ननामाऽथ ऋषिः प्राह व्युष्टा रात्रिः सुखेन किम् ॥८६॥वन्या मृगसधर्माणो वयं वन्येन पोषिताः ।राजानस्तु वने क्लेशं गणयन्ति प्रदुःसहम् ॥८७॥इत्युक्तः प्रहसन् राजा मुनिं प्राह विनिर्मदः ।भवत्प्रभावसंजातविभवाऽऽहतचेतसः ॥८८॥इतो न गन्तुमिच्छन्ति सैनिका मे सुखालयाः ।नैव चित्रं तव विभो! तपःसिद्धस्य योगिनः ॥८९॥कामधेन्वास्तथा पतिव्रताया योषितश्च ते ।स्वर्गं त्वत्रैव सञ्जातं का स्मृद्धिः क्षुद्रभूभृतः ॥९०॥गमिष्यामि गृहं ब्रह्मन्ननुजानातु मां भवान् ।तथेत्युक्तश्च मुनिना संप्रतस्थे पुरीं स्वकाम् ॥९१॥चिन्तयामास धेनुं तां सर्वकामदुहां वराम् ।किं मे सकलराज्येन कपर्दिकोपमेव वै ॥९२॥ऋद्धमैन्द्रपदं धेनोः कलां नार्हति षोडशीम् ।धेन्वा .कृतं वने स्वर्गं धेन्वा क्षणेन नाशितम् ॥९३॥एवंप्रभावा सा धेनुः राज्ययोग्या न तापसे ।दत्वा मूल्यं गवाश्वादि त्वानेतव्या मया पुरे ॥९४॥इति निर्णीय राजा सः प्रेषयामास मन्त्रिणम् ।चन्द्रगुप्तः ऋषिं प्राह राजा वै भुवि रत्नभाक् ॥९५॥रत्नान्यादाय राज्ञे त्वं गां रत्नं दातुमर्हसि ।प्राहर्षिर्होमधेनुर्मे दातव्या नैव कस्यचित् ॥९६॥क्रयविक्रयोर्नाऽहं कर्ता न नृपतेर्वशः ।प्रसह्य हरणे त्वायुर्नाशस्ते भूभृतस्तथा ॥९७॥इत्युक्तः क्रोधमापन्नो मन्त्री बुद्ध्वा तु गां तदा ।विचकर्ष यथाशक्तिर्जमदग्निः रुरोध तम् ॥९८॥मन्त्र्याज्ञप्ता मुनिं भृत्याः कषाभिर्जघ्नुरत्यथ ।दूरे चक्रुः ऋषिः सेहे गां प्रसह्य प्रजगृहुः ॥९९॥सा तु व्योमगता पश्चाद् वत्सां धृत्वा ययुर्हि ते ।ऋषिर्ममार तावत्तु पर्शुरामो ह्युपस्थितः ॥१००॥वनादागत एवासौ मातरं रुदतीं सुतः ।श्रुत्वाऽऽक्रोशं च रामेति रामेत्येवं पुरो द्रुतम् ॥१०१॥समिद्भारं त्ववतार्य दृष्ट्वा वै पितरं मृतम् ।सान्त्वयामास जननीं रुदतीं साश्रुलोचनः ॥१०२॥रेणुका शोकमापन्ना तदा वैधव्यशंकया ।त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत्। ॥१०३॥तदा रामो मातरं स्वामुवाचाऽऽवेशतः खलु ।त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ॥१०४॥तावत्संख्यमहं क्षत्रं हनिष्ये मा शुचं व्रज ।अथ सा रेणुका स्वामिव्रता पुत्रानुवाच ह ॥१०५॥अहं पतिव्रता पुत्राः स्वर्गतं पितरं तु वः ।अनुगन्तुमिहेच्छामि वह्निं प्रज्वाल्य देहतः ॥१०६॥यथा तेन प्रवर्तिष्ये परत्रापि सहाऽनिशम् ।भर्तुर्मम भविष्यामि पितृलोकप्रियाऽतिथिः ॥१०७॥तावत्तत्राऽतिगंभीरा वागुवाचाऽशरीरिणी ।पतिव्रतेऽत्र मा कार्षीः साहसं धैर्यमावह ॥१०८॥कुरु पत्युः प्रबोधाय संकल्पं त्वं पतिव्रते ।अचिरेणैव भर्ता ते भविष्यति सचेतनः ॥१०९॥इत्युक्ता सा पतिदेहं निनाय कुटिकागृहे ।सती संकल्पयामास भर्तुरुत्थानजीवनम् ॥११०॥तावत्तत्र समायातो भृग्वर्षिः सुरवन्दितः ।मृतसञ्जीवनीविद्यावारिधिस्तमजीवयत् ॥१११॥जमदग्निरुत्थितश्च ननाम तं पितामहम् ।पप्रच्छ राज्ञा पापं किं कृतं येन मृतोप्यहम् ॥११२॥भृगुः प्राह वशिष्ठेन शप्तो नाशाय स नृपः ।द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ॥११३॥तेन पुत्रश्च ते रामो हनिष्यति तमर्जुनम् ।एकविंशतिवारं स निःक्षत्रां क्ष्मां करिष्यति ॥११४॥दत्रात्रेयाद्धरेरंशाल्लब्धैश्वर्यः स जीवति ।रामशस्त्रैर्हतश्चाद्य परलोकं गमिष्यति ॥११५॥इत्युक्त्वाऽर्चनमादाय ययौ गृहं भृगुस्ततः ।रामश्चक्रे प्रतिज्ञां चाऽर्जुनं नाशयितुं तदा ॥११६॥जमदग्निश्च तं प्राह सतां धर्मं स्मरन् द्विजः ।साधवो ये महाभागाः संसारान्मोक्षकारिणः ॥११७॥न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि ।क्षमाधना महाभागा ये च दान्तास्तपस्विनः ॥११८॥तेषां चैवाऽक्षया लोकाः सततं साधुकारिणाम् ।यस्तु दुष्टैश्च दण्डाद्यैर्वचसापि प्रताडितः ॥११९॥न तु क्षोभमवाप्नोति स साधुः परिकीर्त्यते ।ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् ॥१२०॥क्षमयाऽर्हणतां प्राप्ताः साधवो ब्राह्मणा वयम् ।तस्मान्निवारये पुत्र! क्षमां कुरु तपश्चर ॥१२१॥इति पित्रा समादिष्टः पर्शुराम उवाच तम् ।सः शमः साधुदीनेषु न खलेषु कदाचन ॥१२२॥तस्मादस्य वधः कार्यः कार्तवीर्यस्य वै मया ।इत्युक्तवन्तं तं पुत्रं जामदग्निरुवाच वै ॥१२३॥इतो व्रज त्वं ब्रह्माणं तदुक्तकारको भव ।इत्युक्तः स ययौ व्योम्ना ब्रह्माणं तं ननाम च ॥१२४॥वृत्तान्तं स्वप्रतिज्ञां च कथयामास सर्वथा ।ब्रह्मा प्राह शृणु पुत्र! गच्छ त्वं शंकरं प्रति ॥१२५॥दिव्यं पाशुपतं चास्त्रं दास्यति कृष्णवर्म च ।पश्चाद् विजेष्यसि पुत्र! शंभुमाराध्य सर्वथा ॥१२६॥इत्याज्ञया ययौ रामः शिवं कैलासमुत्तमम् ।ननामोवाच कार्यार्थी ब्रह्मोक्तं सर्वमेव च ॥१२७॥शिवस्तस्मै ददौ मन्त्रं कवचं विजयप्रदम् ।नागपाशं पाशुपतं ब्रह्मास्त्रं वारुणं तथा ॥१२८॥नारायणास्त्रमाग्नेयं वायव्यं गारुडं तथा ।गान्धर्वं जृंभणास्त्रं च गदां शक्तिं त्रिशूलकम् ॥१२९॥दण्डं परशुं शस्त्रास्त्रजालं रामः प्रहर्षितः ।ययौ नत्वा पुष्करं सः साधयामास सर्वथा ॥१३०॥अगस्त्योक्तेन मार्गेण कृष्णमाराध्य भक्तितः ।कृष्णं साक्षाद् दृष्टवाँश्च कृष्णः प्राह भृगूद्वहम् ॥१३१॥मम चक्रावतारं हि कार्तवीर्यं विनाशय ।मदंशावेशयुक्तस्त्वं क्षौण्यां विचर भार्गव! ॥१३२॥रामश्चाहं पुनर्भूत्वा हरिष्ये तेज एव ते ।इत्युक्त्वाऽन्तर्दधे कृष्णो रामो माहिष्मतीं ययौ ॥१३३॥युद्धं वव्रेऽर्जुनाद् रामोऽर्जुनो युद्धाय निर्ययौ ।अनेकाऽक्षौहिणीयुक्तो ददर्शाऽपशकुनं पथि ॥१३४॥सरजस्का दिशो व्योम निस्तेजस्त्वं ग्रहादिकम् ।मुक्तकेशां छिन्ननासां रुदतीं च दिगम्बराम् ॥१३५॥कृष्णवस्त्रपरीधानां वनितां स ददर्श च ।कुचैलं पतितं भग्नं नग्नं काषायवाससम् ॥१३६॥अंगहीनं ददर्शाऽसौ नरं दुःखितमानसम् ।गोधां च शशकं शल्यं रिक्तकुंभं सरीसृपम् ॥१३७॥कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् ।स्वदक्षिणे शृगालं च कुर्वन्तं भैरवं रवम् ॥१३८॥रोगिणं पुल्कसं चैव वृषं च श्येनभल्लुकौ ।दृष्ट्वाऽपि प्रययौ योद्धुं कालपाशाऽऽवृतो हठात् ॥१३९॥शतपुत्रानर्जुनं च शताऽक्षौहिणिकायुतान् ।दारयामास संग्रामे रामः शस्त्रास्त्रमण्डलैः ॥१४०॥ततो ययौ स कैलासं दर्शनार्थं शिवस्य वै ।गोपुरस्थगणेशेन रुद्धो दन्तं गणेशितुः ॥१४१॥भंक्त्वा दृष्ट्वा शिवां शंभुमाजगाम पितुर्गृहम् ।ददर्श पितरौ रामः पपात पादयोस्तयोः ॥१४२॥उवाच कार्तवीर्यस्य हननं वामनुग्रहात् ।रामं पिता सान्त्वयित्वा प्रायश्चित्तं ददौ ततः ॥१४३॥महेन्द्राद्रिं ययौ प्रायश्चित्तं रामश्चकार ह ।तत्र कृत्वाऽऽश्रमपदं तपस्तेपे सुदुष्करम् ॥१४४॥ततः कदाचिद् विपिने चतुरंगबलान्विताः ।अन्ये सहस्रार्जुनजाः पुत्रास्तदाश्रमं ययुः ॥१४५॥जमदग्नेः शिरो हृत्वा प्रययुः स्वपुरीं प्रति ।भर्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ॥१४६॥समुद्भाव्य चिताग्निं च विवेश भस्मतां गता ।भर्त्रा सह सती वैहायसा यानेन चाम्बरे ॥१४७॥देवर्षिपूजिता स्वर्गं ययौ पश्चात् तदात्मजाः ।अन्ये चक्रुस्तदूर्ध्वं यत्कर्तव्यमनन्तरम् ॥१४८॥ततः काले गते रामः स्वाश्रमं त्वाययौ वनात् ।पितुस्तु जीवहरणं शिरोहरणमित्यपि ॥१४९॥मातुश्च मरणं श्रुत्वा क्षत्रनाशे मनो दधे ।क्षत्रवंश्यानशेषेण हत्वा तद्देहलोहितैः ॥१५०॥करिष्ये तर्पणं पित्रोरिति निश्चित्य संययौ ।प्राप्य माहिष्मतीं रामः टंकारान् धनुषोऽकरोत् ॥१५१॥सहस्रार्जुनपुंत्राश्च राजानश्चतुरंगिणः ।युयुधिरे समागत्य हता रामेण दुद्रुवुः ॥१५२॥उदैरयत् भार्गवोऽस्त्रं तदा कालाग्निनामकम् ।पुरीं प्राकारसहितां प्रददाहाऽस्त्रपावकः ॥१५३॥भस्मावशेषं तद्राज्यं कृत्वा निःक्षत्रियां महीम् ।महेन्द्राद्रिं ययौ रामस्तपसे धृतमानसः ॥१५४॥वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीम् ।भूयोऽपि विरलं पृथ्व्यां क्षत्रमुत्पादितं द्विजैः ॥१५५॥जघान भूमौ निःशेषं साक्षात् काल इवान्तकः ।यथा यथा क्षितौ भूयः क्षत्रवंशः प्रकाशितः ॥१५६॥त्रिःसप्तकृत्वः पृथ्वीं चक्रे निःक्षत्रियां मुहुः ।ततो मूर्धाभिषिक्तानां षट्सहस्रद्वयं पुनः ॥१५७॥जीवग्राहं गृहीत्वैव कुरुक्षेत्रं जगाम सः ।सरसां पञ्चकं तत्र खानयित्वा भृगूद्वहः ॥१५८॥जघान तत्र वै राज्ञः शरीरप्रभवाऽसृजा ।सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥१५९॥पितॄन् सन्तर्पयामास श्राद्धं पित्रोश्चकार ह ।ततो निवृत्तः रामोऽसौ गयातीर्थं ययौ पुनः ॥१६०॥समन्तपंचकं तीर्थं कुरुक्षेत्रेऽभवद्धि तत् ।यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः ॥१६१॥गयायां पितरस्तस्य पितृलोकादुपागताः ।जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः ॥१६२॥प्राहुः राम! महत्कर्म कृत्वा तर्पितवानसि ।वधाच्च विनिवर्तस्व प्रायश्चित्तं पुनः कुरु ॥१६३॥शममाप्नुहि भद्रं ते इत्युक्त्वाऽन्तर्दधुश्च ते ।रामस्तीर्थानि सर्वाणि जगाम शुद्धिकाम्यया ॥१६४॥ततो ययौ महेन्द्राद्रिं हयमेधं चकार सः ।कश्यपाय ददौ पृथ्वीं चचार भार्गवस्तपः ॥१६५॥इति ते कथिता लक्ष्मि! पर्शुरामचमत्कृतिः ।पातिव्रत्यं रेणुकायाः पुत्रस्य पितृभक्तता ॥१६६॥क्षत्रियाणां च दौरात्म्यं फलं विनाश इत्यपि ।पठनाच्छ्रवणाच्चास्य तत्तद्भक्तिफलं भवेत् ॥१६७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पतिव्रताया रेणुकायाः कामधेन्वाश्च प्रभावेण पर्शुरामकृतक्षत्रियनाशो मृतजमदग्निसजीवनता रेणुकाजमदग्न्योश्च स्वर्गनिवास इत्यादिनिरूपणनामा एकाशीत्यधिकत्रिशततमोऽध्यायः ॥३८१॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP