संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| अध्यायः ४२१ कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ४२१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४२१ Translation - भाषांतर श्रीनारायण उवाच-शृणु लक्ष्मि! चमत्कारं तीर्थराजे प्रयागके ।भरद्वाजस्य वसतस्त्रिवेण्या भार्यया सह ॥१॥ब्रह्मपुत्री मानसी या जातमात्रा महासती ।शतचन्द्रसमा रूपे युवती च पतिव्रता ॥२॥ब्रह्मसरोऽग्रगण्याऽऽसीत् त्रिनद्यंशसमुद्भवा ।भरद्वाजं लक्षवर्षतपस्विनं प्रयागके ॥३॥कुंभस्नाने ब्रहालोकादागता तं ददर्श सा ।अहो दिव्यो वरयोग्यः ऋषिश्चात्र विराजते ॥४॥इति सञ्चिन्त्य सेवायां छायायां तस्य संस्थिता ।ब्रह्मणा कुंभकालस्य कृत्वा स्नानं तदुत्तरम् ॥५॥त्रिवेण्या मानसं ज्ञात्वा भरद्वाजाय साऽर्पिता ।गंगाया यमुनायाश्च सरस्वत्याश्च वै कलाः ॥६॥त्रिवेण्यै चार्पिता नाम्ना त्रिवेणीं तां च कन्यकाम् ।प्रसंसमर्प्य ऋषये ब्रह्मा सत्यस्थलं ययौ ॥७॥त्रिवेणी पातिव्रत्येन भरद्वाजं तपस्विनम् ।निषेवते सदा भक्त्या पातिव्रत्याऽभिवृद्धया ॥८॥प्रातःस्नानादिना नित्यं पादाऽवमर्दनेन च ।पूजावस्तुप्रदानेन भोज्यार्पणेन सर्वदा ॥९॥ब्रह्मज्ञानेन च नित्यं सन्ध्यावन्दनकर्मभिः ।शय्यायां सेवनैश्चापि सेवते सा पतिव्रता ॥१०॥कामधेनुः सदा यत्र कल्पद्रुर्वर्तते सदा ।सोमवल्ली सदा तत्र करे चिन्तामणिः स्थितः ॥११॥यत्र धर्मवती नारी पातिव्रत्यपरायणा ।सर्वं तत्र च रत्नानामुपस्थानं प्रवर्तते ॥१२॥एकदा भरतस्तत्र साकेतकोसलेश्वरः ।ससैन्येनाऽऽगमत् तीर्थविध्यर्थं माघतापसः ॥१३॥सैन्यं संस्थाप्य वै दूरं जगाम दर्शनाय सः ।भरद्वाजस्य ऋषिषु प्रवरस्य गुरोस्तदा ॥१४॥ननाम भरतस्तस्य पादयोर्दण्डवन्मुदा ।भरद्वाजस्य पत्न्याश्च पादयोः स ननाम ह ॥१५॥भरताय तदाऽर्घ्यं च पाद्यं दत्वा फलानि च ।आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥१६॥साकेतायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।भरतोऽपि भरद्वाजं पप्रच्छ कुशलादिकम् ॥१७॥शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु ।तथेति तु प्रतिज्ञाय भरद्वाजो महायशाः ॥१८॥प्रसन्नः प्राह चात्रैव वसाऽऽश्रमेऽत्र पर्वणि ।स्वागतं ते च सत्कारं सेवां यथागुणं तथा ॥१९॥करिष्ये तीर्थवासोऽस्ति यावत्ते नृपपुंगव! ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥२०॥सन्ति त्वयि गुणाः सर्वे वसाऽत्र त्वाश्रमे मम ।इत्युक्तः स च भरतस्तथेत्येवमुवाच तम् ॥२१॥कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।भरतं ऋषितुल्यं स आतिथ्येन न्यमन्त्रयत् ॥२२॥अब्रवीद् भरतस्त्वेनं नन्विदं भवता कृतम् ।पाद्यमर्घ्यमथातिथ्यं वने यदुपपद्यते ॥२३॥अथोवाच भरद्वाजो भरतं प्रहसन्निव ।जाने त्वां प्रीतिसंयुक्तं तोषयिष्ये यथाधनम् ॥२४॥सेनायास्तव सर्वस्याः कर्तुमिच्छामि सत्कृतिम् ।मम प्रीतिर्यथारूपा त्वमर्हो मुनिराड् यथा ॥२५॥किमर्थं चापि निक्षिप्य दूरे सैन्यमिहाऽऽगतः ।कस्मान्नेहोपयातोऽसि सबलः प्रियभक्तराट् ॥२६॥भरतः प्रत्युवाचेदं प्रांजलिस्तं तपोधनम् ।न सैन्येनोपयातोऽस्मि भगवन् भगवद्भयात् ॥२७॥राज्ञा हि भगवन्नित्यं राज्याऽधिकारिणाऽथवा ।यत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥२८॥वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥२९॥ते वृक्षानुदकं भूमिमाश्रमेषूटजाँस्तथा ।न हिंस्युरिति तेनाऽहमेक एवाऽऽगतस्ततः ॥३०॥आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।तथाऽनुचक्रे भरतः सेनायाः समुपागमम् ॥३१॥तावदृषिः सतीं भार्यां त्रिवेणीं प्राह शोभने! ।पातिव्रत्येन धर्मेण विरचय्य सुपत्तनम् ॥३२॥कुरु राज्यसमं चास्य स्वागतं सत्कृतिं प्रिये ।इत्युक्ता सा सती पत्नी नत्वाऽनुग्रहकृत्पतिम् ॥३३॥अग्निशालां प्रविश्याऽथ पीत्वाऽऽपः परिमृज्य च ।आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥३४॥आह्वये विश्वकर्माणमहं त्वष्टारमत्र वै ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्३५आह्वये लोकपालाँस्त्रीन् देवानिन्द्रपुरोगमान् ।आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥३६॥प्राक्स्रोतसश्च या नद्यस्तिर्यक्स्रोतस इत्यपि ।पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥३७॥अन्याः स्रवन्तु दुग्धादि पेयानि मधुराणि च ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥३८॥आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।तथैवाऽप्सरसो देवगन्धर्वाश्चापि सर्वशः ॥३९॥घृताचीमथ विश्वाचीं मिश्रकेशीमलंबुषाम् ।नागदत्तां च हेमां च सोमामद्रिं कृतस्थलीम् ॥४०॥शक्रं याश्चोपतिष्ठन्ति ब्रह्माण याश्च भामिनीः ।सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥४१॥वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् ।दिव्यनारीफलं शश्वत् तत्कौबेरमिहैव तु ॥४२॥इह मे भगवन् सोमो विधत्तामन्नमुत्तमम् ।भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥४३॥विचित्राणि च माल्यानि पादपप्रच्युतानि च ।रसादीनि च पेयानि खाद्यानि विविधानि च ॥४४॥एवं समाधियुक्ता सा तेजस्विनी पतिव्रता ।वह्निं ध्यात्वाऽस्मरत् सर्वान् समाजग्मुश्च ते पृथक् ॥४५॥चन्दनपर्वतौ स्पृष्ट्वाऽनिलः स्वेदनुतः शिवः ।सुप्रियात्मा सुखः शान्तो ववौ सौरभपूरितः ॥४६॥देवैः कृताः स्वर्गपुष्पवृष्टयो दिव्यताप्रदाः ।घनाश्चन्दनबिन्दुभिरभ्यवर्षन्त वै मनाक् ॥४७॥देवदुन्दुभिघोषाश्च मंगलश्रवणास्तदा ।शुश्रुविरे तथा भूमो ननृतुश्चाप्सरोगणाः ॥४८॥प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ।स्वागतार्थं च वाद्यानि ह्यवाद्यन्त यदा ततः ॥४९॥भरतः सैन्यमादाय समायातः सकौतुकः ।ददर्श तस्य तत्सैन्यं विधानं विश्वकर्मणः ॥५०॥कृता तत्र महाभूमिः समन्तात्पञ्चयोजनम् ।शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः ॥५१॥तत्र बिल्वा कपित्थाश्च पनसा सहकारकाः ।आमलक्यः खर्जुराश्च बभूवुः फलभूषिताः ॥५२॥उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।आजगाम नदी वृक्षवल्लीफलसमन्विता ॥५३॥चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनः ।हर्म्यप्रासादसंयुक्ततोरणानि शुभानि च ॥५४॥सितमेघनिभं चापि राजवेश्म सुतोरणम् ।शुक्लमाल्यकृताकारं दिव्यसुगन्धमिश्रितम् ॥५५॥चतुरस्रमसंबाधं शयनासनयानवत् ।दिव्यैः सर्वरतेर्युक्तं दिव्यभोजनवस्त्रवत् ॥५६॥उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।क्लृप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥५७॥प्रविवेश महाभक्तो भरतो रत्नवेश्म तत् ।अनुजग्मुश्च सैन्यस्य मन्त्रिणः सपुरोहिताः ॥५८॥बभूवुश्च वशिष्ठाद्या दृष्ट्वा वेश्ममुदान्विताः ।तत्र राजासनं दिव्यं व्यजनं छत्रमित्यपि ॥५९॥भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ।आसनं शोभयामास दिव्यं देवार्हमेव तत् ॥६०॥आनुपूर्व्या निषेदुश्च सर्वे मन्त्रिपुरोहिताः ।ततः सेनापतिः पश्चात्प्रशास्ता च न्यषीदत ॥६१॥तावत्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।उपातिष्ठन्त भरतं त्रिवेण्याश्चानुशासनात् ॥६२॥आसामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।रम्याश्चावसथा दिव्यास्त्रिवेण्याः सम्प्रसादजाः ॥६३॥तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥६४॥सुवर्णमणिमुक्तैश्च प्रवालैश्च सुभूषिताः ।आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥६५॥याभिरनुगृहीताश्च नराः स्युर्दिव्यवर्ष्मणः ।आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥६६॥नारदाद्याश्च गन्धर्वाः कान्त्या सूर्यसमा ययुः ।ते गान्धर्वकलाभिश्च भरतस्याऽग्रतो जगुः ॥६७॥अलम्बुषा मिश्रकेशी पुण्डरीकाऽथ वामना ।उपानृत्यन्त भरतं भरद्वाजस्य शासनात् ॥६८॥यानि माल्यानि देवेषु यानि चैत्ररथे वने ।प्रयागे तान्यदृश्यन्त त्रिवेण्यास्तेजसा तदा ॥६९॥बिल्वा मार्दगिका आसन् शम्या ग्राहा विभीतकाः ।अश्वत्था नर्तकाश्चासन् त्रिवेण्यास्तेजसा तदा ॥७०॥ततश्च सरलास्तालास्तिलकाश्च तमालकाः ।प्रहृष्टास्तत्र चायाताः कुब्जा भूत्वाऽथ वामनाः ॥७१॥शिंशपाऽऽमलकीजम्बूनवरंगादयो द्रुमाः ।सेवकाः फलदा भूत्वा भरद्वाजाऽऽश्रमेऽवसन् ॥७२॥द्राक्षाचिर्भटिकानागवल्लीसोमादिवल्लिकाः ।शर्करावल्लिका मिष्टा याश्चान्याः कानने लताः ॥७३॥प्रमदारूपधारिण्यो भरद्वाजाश्रमेऽवसन् ।मिष्टान् पिबत भो भृत्या आसवान् वै यथेप्सितान् ॥७४॥पायसं परमान्नानि भक्ष्यन्तां च बुभुक्षितैः ।फलानि देह्यचोश्यानि भक्ष्यन्तां सैन्यपुंगवैः ॥७५॥सकृत्वोद्वर्तनं नार्यो नदीतीरेषु वल्गुषु ।स्नापयन्त्येकमेकं स्म नरं ताः सप्त चाष्ट च ॥७६॥संवाहयन्त्या उत्पेतुर्नार्यो विपुललोचनाः ।पाययन्ति करान् धृत्वा मध्वादिकं वरांगनाः ॥७७॥हयान् गजान् खरानुष्ट्रान् वृषभान् घोटकान् वरान् ।अभोजयन्वाहनपास्तेषां भोज्यं यथायथम् ॥७८॥इक्षूंश्च मधुलाजाँश्च भोजयन्ति स्म वाहनान् ।मत्तप्रमत्तमुदितास्तदा चमूः प्रसंबभौ ॥७९॥तर्पिताः सर्वकामैश्च रक्तचन्दनपूजिताः ।अप्सरोभिर्वर्धिताश्च सैन्या उदैरयँस्तदा ॥८०॥अहो सौध्यान्यहो वस्तून्यहो दास्यश्च सेविकाः ।अहो कल्पलताश्चात्र स्वर्गोऽयमिति चाब्रुवन् ॥८१॥नृत्यन्तश्च हसन्तश्च गायन्तश्चापि सैनिकाः ।संप्रहृष्टा विनेदुश्च नरा नार्यः सहस्रशः ॥८२॥भरतस्याऽनुयातारो माल्योपेताः सहस्रशः ।तृप्ताश्चाश्चर्यसम्पूर्णा भरद्वाजं ववन्दिरे ॥८३॥धन्योऽयं मुनिराजोऽस्ति त्रिवेणी यस्य कामिनी ।सर्वसिद्धिकरा साध्वी यत्प्रतापादिदं शुभम् ॥८४॥यद्यपि स्याद्वने वासो यस्य पत्नी पतिव्रता ।स्वर्गं तस्य करे चास्ते किमस्य राज्यवैभवैः ॥८५॥या पत्नी स्वपतेः पादोदकं पीत्वाऽनलाऽन्तिके ।स्थित्वेच्छति महादिव्या विभूतीस्तास्तु तत्क्षणम् ॥८६॥समायान्ति किमु स्वर्गं परं नास्मात् कदाचन ।ततः सर्वत्र वै सन्तु साध्व्यो नार्यः पतिव्रताः ॥८७॥तथा तासां स्वामिनश्च भरद्वाजोपमा नराः ।पत्नीव्रतपराः सन्तु येषां स्वर्गं करे सदा ॥८८॥इति वदन्तः सर्वे वै सहस्रशो हि सैनिकाः ।लक्षाधिमानवाः साकेतस्य विषयवासिनः ॥८९॥तैर्थिकाः कोटिशश्चान्ये कुंभपर्वणि चागताः ।स्वर्गं दिव्यं भरद्वाजकृतं विलोक्य ते तदा ॥९०॥कंभरां च महालक्ष्मीं गोपालकृष्णमीश्वरम् ।कृष्णनारायणं तत्र स्थितं पत्रासनं प्रभुम् ॥९१॥त्रिवेणीं च नदीरूपां तथा तीर्थानि कोटिशः ।भरद्वाजप्रियां पत्नीं त्रिवेणीं युवतीं तथा ॥९२॥विलोक्य दर्शनं कृत्वा पूतास्ते दिव्यतां ययुः ।ततो भुक्तवतां तेषां तदन्नममृतोपमम् ॥९३॥दिव्यानुद्वीक्ष्य भक्ष्याँश्चाऽभवत् तद्भक्षणे मतिः ।प्रेष्याश्चेट्यश्च वध्वश्च बलस्था देशवासिनः ॥९४॥यात्रालवश्च किंकर्यो दासा दास्यश्च नैकशः ।बभूवुस्ते भृशं प्रीताः सर्वे नूत्नाम्बरास्तथा ॥९५॥कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः ।तृप्ता बभूवुस्ते नान्यत् तृणाद्यं वै तदाऽऽर्थयन् ॥९६॥नाऽशुक्लवासास्तत्राऽऽसीत् कश्चिद्वै क्षुधितस्तदा ।फलादिसद्रसैः सूपैः क्वथिकाभिश्च पायसैः ॥९७॥पूर्णा ह्यासन् ह्रदास्तत्रौदनानां पर्वतास्तथा ।बभूवुश्चाश्रमे पार्श्वे कूपाः पायसकर्दमाः ॥९८॥ताश्च कामदुघा गावो द्रुमाश्चासन् मधुच्युतः ।वाप्यश्चासवपूर्णाश्च स्वर्णपात्राणि कोटिशः ॥९९॥राजतानि च पात्राणि ताम्राणां कोटयस्तदा ।पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ॥१००॥न्यर्बुदानि च पात्राणि शातकुंभमयानि च ।स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ॥१०१॥हैयंगवीनकूटानि तक्राणां कुण्डकानि च ।ह्रदाः पूर्णरसालानां तिक्ताम्ब्लमिष्टचूर्णकाः ॥१०२॥पर्पटानां समूहाश्च पोलिकानां तथाऽद्रयः ।मिष्टान्नानां महाशृंगाण्यभवन् तत्र चाश्रमे ॥१०३॥बभूवुर्व्यञ्जनानां च शर्कराणां च सञ्चयाः ।चूर्णानि लेपयोग्यानि स्नानानि विविधानि च ॥१०४॥ददृशुर्भाजनस्थानि तीर्थेषु सरितां जनाः ।शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ॥१०५॥शुक्लाँश्चन्दनकल्काँश्च सम्पुटेष्ववतिष्ठतः ।दर्पणानुत्तमाश्चित्रवाससां बहुसंचयान् ॥१०६॥मुखवासान् बहुविधान् चूर्णताम्बुूलचर्वणान् ।पादुकोपानहांचैव युग्मान्यत्र सहस्रशः ॥१०७॥आंजनीः कंकतान् कूर्चान् दन्तकान् छत्रचामरान् ।मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥१०८॥प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥१०९॥आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान् ।नीलवैदूर्यवर्णाश्च मृदुप्राऽऽवाससंचयान् ॥११०॥भक्षणार्क्षं पशूनां ते ददृशुस्तत्र सर्वशः ।दोलाश्च विविधास्तत्र भवने भवने शुभाः ॥१११॥वातयन्त्राणि रम्याणि विद्युद्दीपाः सहस्रशः ।शीतोष्णजलकुण्डानि द्यूतगृहाणि वै तथा११२॥विमानभवनान्येव स्वर्गयानानि तान्यपि ।जलान्तर्यानवर्याणि दूरश्रवणयन्त्रिकाः ॥११३॥दूरदर्शनपेट्यश्चातीतक्रीडाप्रदशिकाः ।नटनर्तकचाटादिक्रीडांगणानि भूरिशः ॥११४॥व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वाऽऽतिथ्यं कृतं तावन् महेन्द्रादधिकं तदा ॥११५॥भरद्वाजत्रिवेणीभ्यां कृतं स्वर्गं नवं हि तत् ।भरद्वाजाश्रमे कुंभदिनरात्रिर्गता सुखम् ॥११६॥प्रातः स्नानं विधायैव भरताद्यास्तदा पुनः ।भोजनादिविधिं कृत्वा सम्पूज्यर्षिं त्रिवेणिकाम् ॥११७॥दत्वा दानान्यनेकानि ययुः साकेतधाम ते ।प्रतिजग्मुश्च ते सर्वे गन्धर्वाश्च वरांगनाः ॥११८॥सर्वे ये तत्र चाहूताः त्रिवेण्या पत्युराज्ञया ।प्रतिजग्मुः कृत्रिमं तत् सर्वमदृश्यतां गतम् ॥११९॥इति लक्ष्मि! प्रतापस्ते पातिव्रत्यवृषस्य वै ।कथितो यश्चतुर्दशलोकेषु प्रथितः प्रिये ॥१२०॥इति श्रीलक्ष्मीनाराणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये भरतार्थं प्रयागे भरद्वाजपत्न्या त्रिवेण्या नवीन-स्वर्गं रचितमिति तन्निरूपणनामा एकविंशत्यधिकचतुश्शततमोऽध्यायः ॥४२१॥ N/A References : N/A Last Updated : March 31, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP