संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५३५

कृतयुगसन्तानः - अध्यायः ५३५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो देवी पार्वती शंकरं पतिम् ।
तुष्टाव प्रार्थयामास स्मृत्वा स्वाप्नं हरेर्वचः ॥१॥
प्राणेश! श्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
प्राह मातर्मम क्षेत्रं कथं नायासि वै क्वचित् ॥२॥
इत्येवं कथिता चाऽहं स्वप्ने भगवता प्रिय! ।
तत्क्षेत्रं द्रष्टुमिच्छामि गोपालेश्वरमण्डितम् ॥३॥
यत्र श्रीभगवान् विष्णुः कृष्णनारायणः प्रभुः ।
वर्तते मुक्तकोट्याद्यैर्द्रष्टुमिच्छामि तत्स्थलम् ॥४॥
यत्तन्त्रं लोकचक्रं वै यत्तन्त्रं लयचक्रकम् ।
स यत्र वर्तते देवो द्रष्टुमिच्छामि तत्स्थलम् ॥५॥
यदधीनं हि लोकानां गोपायनं प्रवर्तते ।
स कृष्णो वर्तते यत्र द्रष्टुमिच्छामि तत्स्थलम् ॥६॥
महाभूतानि सर्वाणि येन धृतानि वर्ष्मणि ।
स धृतो येन देशेन द्रष्टुमिच्छामि तत्स्थलम् ॥७॥
यस्मान्मत्स्यस्तथा कूर्मो वाराहो नरसिंहकः ।
कपिलश्च हरिश्चापि वासुदेवः पृथुस्तथा ॥८॥
दत्तात्रेयस्तथा हंसः ऋषभो वामनः प्रभुः ।
पर्शुरामस्तथा यज्ञनारायणः कुमारकाः ॥९॥
सनकाद्यास्तथा रामो हयग्रीवश्च नारदः ।
व्यासो बुद्धस्तथा कल्किर्हंसश्च मोहिनी तथा ॥१०॥
विष्णुश्चैते ह्यवतारा जायन्ते लोकरक्षकाः ।
स राजते यत्र देशे द्रष्टुमिच्छामि तत्स्थलम् ॥११॥
राधा रमा सती लक्ष्मीः पद्मा पद्मावती प्रभा ।
पार्वती ललिता कृष्णा जया माणिकी तूलसी ॥१२॥
वृन्दा श्रीः कमला सीता रुक्मिणी द्रौपदी शिवा ।
गंगा सरस्वती हंसा शारदा मंजुला रतिः ॥१३॥
मूर्तिश्च मानसा सन्ध्या गायत्री मूलप्रकृतिः ।
सावित्री देविका मुक्तिः शान्तिर्भक्तिश्च योषितः ॥१४॥
यस्माज्जाता मातरश्च लोकानां सुखदायिकाः ।
स राजते यत्र देशे द्रष्टुमिच्छामि तत्स्थलम् ॥१५॥
धर्मार्थकाममोक्षाणामाश्रयो भगवाँस्तु यः ।
प्रलयस्य पुनः सृष्टेर्द्रष्टुमिच्छामि तत्स्थलम् ॥१६॥
सहस्रक्रमणो देवः सहस्रज्ञानरश्मिवान् ।
सहस्रकंधरो यत्र द्रष्टुमिच्छामि तत्स्थलम् ॥१७॥
यन्नाभौ कल्पनामात्राज्जातं पैतामहं गृहम् ।
यल्ललाटाद्धर्मबिन्दोर्जातः शिवापतिः प्रभुः ॥१८॥
यस्य वै हृदयाल्लक्ष्मीपतिः सम्भूत एव च ।
सोऽपि यस्मात् समुत्पन्नस्तस्य प्रप्रपितामहः ॥१९॥
यत्र संराजते शंभो द्रष्टुमिच्छामि तत्स्थलम् ।
दुग्धाब्धौ शयनं चक्रे शेषपर्यंकमास्थितः ॥२०॥
यः स यस्मात्समुत्पन्नस्तस्यापि चावतारिणम् ।
अनादिश्रीकृष्णनारायणमिच्छामि वीक्षितुम् ॥२१॥
हव्यादैश्चापि क्रव्यादैर्भावादैरमृतादनैः ।
अनदनैस्तथा यो वै रमते ह्यनुरूपतः ॥२२॥
बालरूपं स्वप्नदृष्टं द्रष्टुमिच्छामि तं प्रभुम् ।
त्रयाणां च चतुर्णां च यो गतिः परमेश्वरः ॥२३॥
पञ्चानां षोडशानां च द्रष्टुमिच्छामि तं प्रभुम् ।
तेजांसि यं श्रयन्ते च तपांसि चार्पणानि च ॥२४॥
क्रतवस्त्यागसन्यासाः श्रयन्ते यं परेश्वरम् ।
कान्तकान्तं च तं शंभो! द्रष्टुमिच्छामि सत्वरम् ॥२५॥
इत्युक्तः शंकरो देवो भक्तिं विलोक्य योषितः ।
उवाच मधुरं देवीं स्मरन् कृष्णनरायणम् ॥२६॥
धन्ये मान्ये सदा पूज्ये कृष्णप्रिये पतिव्रते ।
हृष्यामि त्वद्वचः श्रुत्वाऽऽप्यायितं भक्तिवारिणा ॥२७॥
धन्योऽहं यद्गृहे पत्नी नारायणे दृढव्रता ।
भक्तिमती स्वेष्टदेवे जगदुद्धारकारिणी ॥२८॥
न मया सदृशो देवि! भाग्यवान् भुवनेष्वपि ।
यत्पत्नी श्रीकृष्णनारायणदास्याभिरञ्जिता ॥२९॥
ममापि वर्तते साध्वि! द्रष्टुमिच्छा हि तत्स्थलम् ।
वहुकालो गतो यस्मात्पुनर्यास्यामि वै त्वया ॥३०॥
सौभाग्यं वर्धतां कान्ते प्रसन्नयसि यन्मनः ।
व्योममार्गेण यास्यावो बहुपूजोपचारकैः ॥३१॥
अनादिश्रीकृष्णनारायणस्य विधिनाऽर्चनम् ।
करिष्यावः कार्तिके वै स्थास्यावस्तत्र शोभने ॥३२॥
शिवरात्रिं करिष्यावस्तत्र वै रैवताचले ।
ततोऽक्षयतृतीयायां स्नास्यावः सोमनाथके ॥३३॥
श्रावणं च करिष्यावो गोमत्यां कृष्णपत्तने ।
नवरात्रं चमत्कारे कृत्वा कैलासमेव तु ॥३४॥
आयास्यावो महादेवि! वद नन्दीश्वरं तथा ।
गणेशं कार्तिकेयं च योगिनीमण्डलं वद ॥३५॥
दुर्गानां मण्डलं चापि रुद्रानेकादशापि च ।
गंगां च वीरभद्रं च चण्डं प्रचण्डमित्यपि ॥३६॥
शृंगिं भृंगिं च रीटिं किरीटिं चेशानमित्यपि ।
अग्निं च मंगलं चन्द्रं कालं भैरवमित्यपि ॥३७॥
दुर्वाससं तथा लाभं तोषं सिद्धीश्च वै वद ।
ऋद्धिं च हनुमन्तं च तथाऽन्यान् मम सेवकान् ॥३८॥
तवापि सेविका देवीर्वद यात्रार्थमुत्सुकान् ।
सर्वान् वाहनसामग्रीरुपदाऽऽगृह्य यान्त्विति ॥३९॥
इत्येवं शंकराल्लब्ध्वा समाज्ञां पार्वती सती ।
सुप्रसन्ना समुत्थाय घोषयामास सर्वथा ॥४०॥
सन्नह्यन्तां सुयात्रार्थं द्रुतं सौराष्ट्रमण्डले ।
यत्रास्ते श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥४१॥
सोमनाथो वामनश्च भवेशो गोपिकापतिः ।
तत्र यात्राकृते सर्वैर्गन्तव्यं व्योमगामिभिः ॥४२॥
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।
अनादिश्रीकृष्णनारायणं च लोमशं मुनिम् ॥४३॥
मातरं कंभरालक्ष्मीं पितृगोपालकृष्णकम् ।
दृष्ट्वाऽर्चयित्वा सेवित्वा यास्यामः कृतकृत्यताम् ॥४४॥
एवं कैलासवासास्ते बहुरत्नादिसंभृताः ।
ऊर्जकृष्णस्य सप्तम्यां यात्रां चक्रर्मुदान्विताः ॥४५॥
दुन्दुभयो ह्यवाद्यन्त प्राज्ञायन्त जयेरणाः ।
प्रावर्तन्ताऽम्बरे सर्वे त्वाययुर्घटिकान्तरे ॥४६॥
व्योम्नि कोटिगणदेवीवाहनैः समलंकृतः ।
महादेवस्तु तैः पृष्ठः समुवाच स्थले स्थले ॥४७॥
अयं केदारनाथोऽहं दक्षेश्वरस्तथा ह्यहम् ।
अर्बुदे पुष्करं चेदं सिद्धक्षेत्रमिदं तथा ॥४८॥
रणेश्वरं च मे क्षेत्रं सौराष्ट्रं चेदमागतम् ।
सालेशोऽयं महाविष्णुर्भद्रा चेयं महापगा ॥४९॥
शत्रुञ्जिता नदी चेयं गोरक्षस्य च धूनिका ।
अश्वपट्टसरश्चेदं पश्चिमोत्तरसेतुमत् ॥५०॥
मध्यद्वीपे मन्दिरं च यत्र कुंकुमवापिका ।
अनादिश्रीकृष्णनारायणालयोऽयमुत्तमः ॥२१॥
दक्षिणे वृक्षविस्तारे लोमशस्याश्रमो ह्ययम् ।
व्याघ्रारण्यं तथा दूरं दीर्घं चेदं विलोक्यते ॥५२॥
पश्चिमे रैवतश्चायं पञ्चयोजनतः परः ।
इत्युक्त्वा शंकराद्यैश्च पार्वतीयुक्ततद्गणैः ॥१३॥
साक्षताः पुष्पांजलयश्चन्दनद्रवमिश्रिताः ।
व्योममार्गादर्पिताश्च साप्तभौमालयोपरि ॥५४॥
अनादिश्रीकृष्णनारायणो विजयतेतराम् ।
इतिशब्दैर्ध्वनिभिश्च दिशोऽपूर्यन्त सर्वतः ॥५५॥
लोमशः कंभरालक्ष्मीर्गोपालकृष्ण ऊर्ध्वगान् ।
ऋषयश्च विलोक्यैतानभिजग्मुस्तदाऽम्बरे ॥५६॥
जयशब्दा नमःशब्दा धन्यशब्दास्तदाऽभवन् ।
मिलित्वा चाऽवतेरुश्च पश्चिमे सेतुमण्डले ॥५७॥
तेरुनाम्नाप्रदेशः सोऽभवत्पश्चिमदिग्भवः ।
सेतुना च कृतं तैर्वै पूर्वे गत्वा प्रदक्षिणम् ॥५८॥
उज्ज्वलः स प्रदेशोऽभूत् ततः पूर्वं गताश्च ते ।
अमराणां गतेर्योगादमरा भूमिकाऽभवत् ॥५९॥
दुन्दुभिरवयोगेन दुन्दुरवाऽभवच्च भूः ।
व्याघ्रारण्यमुखे गत्वा सेतुना ते च देवताः ॥६०॥
दक्षिणपश्चिमसेतुं समागत्य ततश्च ते ।
वापीद्वीपं साप्तभौमं मन्दिरं, जग्मुरुत्सुकाः ॥६१॥
लोमशाद्याः ऋषयश्च स्वागतं शुभमाननम् ।
चक्रुर्देवाधिदेवस्य शंभोः सत्याः सुपूजनम् ॥६२॥
कौशासनानि प्रददुरर्घं जलं फलानि च ।
सौधान्तःस्थं कृष्णनारायणं द्रष्टुं ययुस्ततः ॥६३॥
अनादिश्रीकृष्णनारायणो यत्र विराजते ।
चिरंजीविशतैर्युक्तो ऽ मुक्तकोटिभिरर्चितः ।६४॥
अवतारैः शोभितश्च देवैः संसेवितः प्रॄभुः ।.
ऊर्जकृष्णस्य सप्तम्यां निशायां पूजितश्च तैः ॥६५॥
राधारमादिपत्नीभिरसंख्याभिरभिष्टुतः ।
शंकराद्यैर्वेदमन्त्रैर्वर्णितः षोडशादिभिः ॥६६॥
नीराजितस्ततः कृष्णः शृंगारितः पुनः पुनः ।
पार्वत्या कस्तूरिकया बिन्दुर्भाले सकुंकुमः ॥६७॥
कृतः साक्षतशोभश्च शंभुना तिलकं शुभम् ।
चन्दनेन कृतं रम्यं पार्वत्या तु ततः पुनः ॥६८॥
कोटिकन्दर्पलावण्यभृतं हरिकपोलकम् ।
सचन्द्रकं कृतं त्वार्द्रकुंकुमेन पुनः पुनः ॥६९॥
रञ्जयामास देवेशी दृष्ट्वा कृष्णं मनोहरम् ।
उपदा विविधा रत्नसौवर्णादीनि चार्पयत् ॥७०॥
दण्डवत् कृतवन्तस्ते संभाषां विदधुर्मिथः ।
गोपालनन्दनो बालः कृष्णनारायणः प्रभुः ॥७१॥
पूजोत्तरं स्वयं स्वस्याऽऽसनादुत्थाय सत्वरम् ।
ननाम पादयोः शंभोः पार्वत्याश्च परेश्वरः ॥७२॥
आतिथ्यविधिना पादौ प्रक्षाल्य सलिलं पपौ ।
संकल्पेन च सैन्यानां निवासार्थं तु लोमशः ॥७३॥
चकाराऽऽरैवतं यावन्नगरं वर्तुलं महत् ।
पञ्चविंशतिसंख्याकयोजनानां भुवोन्तरे ॥७४॥
वासयामास तान् सर्वान् भोज्यपानाऽऽश्रमादिभिः ।
सेवयामास सर्वांश्च कृष्णनारायणः स्वयम् ॥७५॥
श्रीमद्गोपालकृष्णश्च शंभुं प्राहाऽऽश्रुनेत्रकः ।
धन्योऽहं कृतकृत्योऽहं मद्धाम पावितं त्वया ॥७६॥
सर्ववन्द्येषु मूर्धन्यं पदं दत्तं त्वया च मे ।
एते परेश्वराश्चान्ये यन्ममाश्रममागताः ॥७७॥
धन्येयं पृथिवी शुभ्रा यावदण्डं भविष्यति ।
तावच्च पावनी तीर्थरूपा ख्याता भविष्यति ॥७८॥
कंभराख्या महालक्ष्मी पार्वतीं प्राह शोभनम् ।
लोकमातुः किमु वाच्यं पाविताऽहं त्वया सति! ॥७९॥
त्वया दुःखविहन्त्र्या च वर्धितो मम बालकः ।
तपोभिर्या न दृश्याऽस्ति सा दृष्टाऽद्य मया सति ॥॥८०॥
पूर्वेषां संभवानां प्रस्मारितं पुण्यमत्र वै ।
स्वागतं सर्वथा हैमि शांभवि शान्तिमावह ॥८१॥
अहं दासीसमेता च सेवां करोमि शं वह ।
उक्त्वैवं कम्भरालक्ष्मीः पादसंवाहनं तदा ॥८२॥
पार्वत्यास्त्वतिथिरीत्या चक्रेऽन्यसेवनादिकम् ।
पर्यंकेषु सुदिव्येषु कैलासादधिकेषु च॥०॥
विभान्तिं लब्धवन्तस्ते शंकराद्यास्तु देवताः ।
भोजनानि सुपानानि ताम्बूलकानि भावतः ॥५॥
ददुः कृष्णजनाः सर्वे संजगृहुः सुखास्तु ते ।
सुषुपुः शंकराद्या वै कृष्णनारायणस्तदा ॥८५॥
पार्वतीं मातरं प्राह मद्वाक्यं पालितं सति ।
स्वागतं ते प्रकुर्वन्ति रमाद्या मम चांगनाः ॥८६॥
इयं मे पार्वतीनाम्नी प्रभेयं तत्सहायिनी ।
माणिकीयं मम कान्ता लक्ष्मीरियं पतिव्रता ॥८७।
राधेयं ललिता चेयं जयेयं कमला त्वियम् ॥
पद्मिनी भार्गवी चेयं मुक्तेयं देविका त्वियम् ॥८८॥
चम्पेयं हेमभेयं च शान्तेयं वाजिनी त्वियम् ।
मौक्तिकेयं मंजुलेयं हंसेयं सगुणा त्वियम् ॥८९॥
एवमन्याः सहस्राणि विद्यन्ते ता इमेऽत्र वै ।
तव सेवां प्रकुर्वन्तु याम्यहं निजमन्दिरम् ॥९०॥
इत्युक्त्वा श्रीकृष्णनारायणो जगाम मन्दिरम् ।
सुष्वाप च सुखं प्रातस्तूर्याणि विविधानि च ॥९१॥
अवाद्यन्त हि दिव्यानि प्रबोधं लेभिरे जनाः ।
ऊर्जकृष्णाष्टमी चेयं जयन्ती श्रीहरेर्मम ॥९२॥
अनादिश्रीकृष्णनारायणस्याऽऽसीत्ततश्च तै ।
शंकराद्या नित्यकार्यं कृत्वा सज्जाः सुशोभनाः ॥९३॥
प्रातः पूजां चाभिषेकं कर्तुं मन्दिरमाययुः ।
देवताः शंकरेन्द्राद्या मुनयः ऋषयस्तथा ॥९४॥
पितरः कश्यपाश्चान्ये ब्राह्मणा मानवास्तथा ।
मुक्ता देव्यः सुरकन्या नागकन्याश्च भोगिनः ॥९५॥
गन्धर्वाः किन्नरा गुह्या सन्तः किंपुरुषादयः ।
साध्व्यः पतिव्रता ब्रह्मव्रतिन्यो योगयोषितः ॥९६॥
मातरो वनदेव्यश्च नद्यः पुर्यश्च धेनवः ।
गोप्यश्चैताः पयःकुल्या दधिकुल्या घृतानि च ॥९७॥
मधुकुल्याः शर्कराः संगृह्य तीर्थजलानि च ।
सौवर्णकलशान्नीत्वा फलाऽक्षतसमन्वितान् ॥९८॥
जलयात्रादिविधया कृत्वा मूर्धसु गीतिकाः ।
आययुः सर्वनाथाधिश्रितं दिव्यसुमन्दिरम् ॥९९॥
पुष्पमालाश्चन्दनानि कस्तूरीश्चाऽक्षतास्तथा ।
पुष्पसाररसाँश्चापि सुगन्धितेलकानि च ॥१००॥
मृद्यद्रव्याणि रम्याणि रक्तपातानि यानि च ।
ता आदाय समाजग्मुः कृष्णनारायणं प्रति ॥१०१॥
अनादिश्रीकृष्णनारायणः स्वणाम्बरं शुभम् ।
परिधाय सरस्तीरे स्वर्णसिंहासने वरे ॥१०२॥
निषसादाथ दैवाद्यैर्बृहस्पत्यादिभिस्तदा ।
भूतशुद्धिं कारयित्वा प्रदायाऽऽचमनानि च ॥१०३॥
अर्घं दत्वा जलस्नानं कारयित्वा ततः परम् ।
दुग्धकुंभे दुग्धस्नानं कारितं शुभदर्शनम् ॥१०४॥
धनवो व्योममार्गेण पयांसि मुमुचुस्तदा ।
गोप्यो देव्यादिकाः कृष्णे ववृषुर्दधि पिच्छलम् ॥१०५॥
देवा घृतानि मुमुचुर्मधूनि .वनदेवताः ।
पृथ्व्याद्याः प्रददुस्तस्मिन् शर्करास्नानमुज्ज्वलम् ॥१०६॥
अब्धयः सरितस्तीर्थोत्तमान्यदुर्जलानि च ।
अभिषेकं शुभं चक्रुस्ततश्चन्दनतैलजम् ॥१०७॥
लेपं सम्मर्दनं कृत्वा स्नापयित्वाऽम्बराणि च ।
ददुर्दिव्यानि देवाश्च भूषाश्च धनदा ददुः ॥१०८॥
श्रांगारिकं तथाऽन्येऽन्याः सर्वं महोत्तमं ददुः ।
मुकुटं कुण्डले हारानूर्मिकाः शृंखलादिकाः ॥१०९॥
छत्रं सुचामरे कृष्णं धारयित्वा तु देवताः ।
वैदिकैर्मुख्यसूक्ताद्यैर्नीराजनं व्यधुर्मुदा ॥११०॥
क्षमां पुष्पांजलिं दत्वा भोजनं पुरतो न्यधुः ।
भगवान् बुभुजे पानं पपौ ददौ समागतान्॥१११॥
प्रसादं कानके पात्रेऽक्षय्यं कोटिगुणं यतः ।
अथ तान् भोजयामासुर्गालवाद्या महर्षयः ॥११२॥
सायं प्रणर्तनं चक्रुर्गायनं कीर्तनानि च ।
दानानि विविधान्येवाऽसंख्यकानि ददौ हरिः ॥११३॥
रात्रौ नीराजनं चक्रुर्जुहुवुश्च हुताशने ।
उत्सवस्य परिहारं कृत्वा सुषुपुरीश्वराः ॥११४॥
सर्वे शान्ता योगनिद्रां गता युगलकोटयः ।
पठनाच्छ्रवणात्त्वस्य तद्यात्राफलभाग्भवेत् ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ध्यानस्थशंकरात् ज्ञात्वा कुंकुमवापीक्षेत्रं जिगमिषुसगणशंकरपार्वतीशक्तिसतीदेवदेवीतीर्थदिव्येश्वरादिसमस्तविभूतिदेहिभिः समागत्योर्जकृष्णाष्टमीजयन्त्या
श्रीकृष्णनारायणाऽर्चनं कृतमित्यादिनिरूपणनामा पञ्चत्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३५॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP