संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५८९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! महावेदीमहोत्सवं वदामि ते ।
वैशाखशुक्लतृतीयातिथौ तु वरयेद् द्विजम् ॥१॥
तक्षाणं वृणुयाच्चापि वनयागाय वै वनम् ।
गत्वा वृक्षमध्यभुवि वह्नावष्टोत्तरं शतम् ॥२॥
हुत्वाऽऽज्यं वृक्षमूलेऽपि बलिं दत्वा च क्षेत्रपे ।
वृक्षमूले द्विजः किञ्चिच्छिन्द्यात् ततस्तु वर्धकिः ॥३॥
काष्ठान्यादाय च रथं कुर्याद् गणेशमर्चयेत् ।
द्वाविंशतिकरोच्छ्रायं चतुर्द्वारं रथं हरेः ॥४॥
षोडशचक्रसंयुक्तं गरुडध्वजशोभितम् ।
चतुर्दशारं शेषस्य भद्राया द्वादशारकम् ॥५॥
एवं सांगान् कारयित्वा चाकचक्यायेच्च तान् ।
बृंहयेत् सत्पटैः शृंगारयेत् सद्रत्नकैश्च तान् ॥६॥
आषाढशुक्लद्वितीयोरुणोदयेऽर्चयेद्धरिम् ।
ततो यात्रां कारयेच्च गुण्डिकामण्डपं प्रति ॥७॥
राज्योपचारैः रचयेदुत्सवं लक्षमानवैः ।
नातः परतरं विष्णोर्यान्त्रातरमवेक्ष्यते ॥८॥
चातुर्मास्ये स्थापयेच्च कार्तिकेऽन्नानि चार्पयेत् ।
विष्णोः प्रसादं भुञ्जीत तत्पावित्र्यं श्रिया कृतम् ॥९॥
नैवेद्यान्नं जगद्भर्तुर्गांगं वारि समं द्वयम् ।
अपि कुक्कुरचाण्डालस्पृष्टं दिव्यं जलान्नकम् ॥१०॥
यात्रा द्वादश वै कार्या मोक्षदा जगदीशितुः ।
वैशाखशुक्लतृतीये रथनिर्माणयात्रिका ॥११॥
ज्येष्ठे यात्रां पञ्चतीर्थी पद्भ्यां गत्वा समाचरेत् ।
ज्येष्ठे कार्या गुण्डिकाभिगतिर्वै रथयात्रिका ॥१२॥
ज्येष्ठे प्रासादाभिगतिस्तुर्या दक्षिणयात्रिका ।
आषाढे शयनीयात्रा कर्तव्या माश्चतुष्टयी ॥१३॥
भाद्र पार्श्वपरिवृत्तिर्यात्रा पूजनरूपिणी ।
कुमुदे बोधिनीयात्रा महोत्सवस्वरूपिणी ॥१४॥
मार्गे प्रावरणयात्रा और्णवस्त्रादिधारणम् ।
पौषे पुष्यस्नानयात्रा तपःस्नानात्मिका शुभा ॥१५॥
पौषे सूर्योत्तरयानयात्रा पुण्यात्मिका मता ।
माघे वसन्तयात्रा च पूजोत्सवात्मिका मता ॥१६॥
फाल्गुने पुष्पदोलाया दोलायाः श्रावणेऽथवा ।
एवं महोत्सवाः कार्या मोक्षदा जगदीशितुः ॥१७॥
जगन्नाथपुरे दिव्ये जातिभेदो न विद्यते ।
नरनारीप्रभेदोऽपि तत्र कार्यो न सर्वथा ॥१८॥
सर्वे चतुर्भुजा दिव्या दृश्यन्ते तु द्विहस्तकाः ।
वसन्ति सर्वे मुक्ता मे पुण्यपुञ्जप्रदायकाः ॥१९॥
सर्वं प्रासादिकं मेऽस्ति दिव्यं दोषविहीनकम् ।
गोलोकं चापि वैकुण्ठं मया पृथ्व्यां समाहितम् ॥२०॥
नार्यो लक्ष्म्यो नरा नारायणा मे जगदीशितुः ।
कृपया च प्रतापेनाऽनुग्रहेण मता मम ॥२१॥
भोज्याऽन्नपानवस्त्रादि नाऽशुद्धं तत्र विद्यते ।
एकादशीमया तत्राऽन्नाशने तु वशीकृता ॥२२॥
मत्प्रसादान्नभोज्यैर्न दूषणं किन्तु भूषणम् ।
साधुसेवा गुरुसेवा मम सेवाऽत्र मुक्तिदा ॥२३॥
मया गोपीविहारैर्दीयते शश्वद्धि दर्शनम् ।
दिव्या क्रीडा कामरूपा संशयात्मविनाशिनी ॥२४॥
दिव्यभावात्मनां मोक्षानन्दसन्दोहदायिनी ।
एवं स्वात्मनि विज्ञाय दिव्यतां यान्ति देहिनः ॥२५॥
अहं गोपीपतिर्वृन्दावने कुंकुमवापिके ।
पुरुषोत्तमभूमौ च दुर्गभूमौ प्रसिद्धिमान् ॥२६॥
यस्मै यस्मै प्रसन्नः स्यां नान्यत्तस्याऽवशिष्यते ।
आनन्ददाता वै चास्मि यथा यैर्मत्त इष्यते ॥२७॥
लक्ष्मि! क्षेत्रे मोक्षदे मे स्थापनं जगदीश्वरे ।
दर्शनं स्पर्शनं दूरस्मरणं चापि मोक्षदम् ॥२८॥
तुभ्यं मया कथितोऽयं कृतसन्तानखण्डकः ।
लक्ष्मीनारायणसंहितायाः प्रथमकोत्तमः ॥२९॥
अत्राऽऽरम्भे नारदस्य वैकुण्ठे द्रवता हरौ ।
मुक्तादीनां द्रवमुक्तिः साकारत्वं परेऽक्षरे ॥३०॥
गोलोकस्य प्रनिर्माणं राधार्थं कृष्णरूपतः ।
वैकुण्ठस्य च निर्माणं लक्ष्म्यर्थं चाक्षरेशितुः ॥३१॥
वासुदेवात्समारभ्य परमेष्ठ्यन्तसर्जनम् ।
ब्रह्मविष्णुमहेशानामनेकत्वं ततः परम् ॥३२॥
अव्याकृतस्य च बद्रिकाश्रमस्य च दिव्यता ।
ब्रह्मणा वीक्षिता सृष्टिर्नारायणतनौ धियै ॥३३॥
ब्रह्मविष्ण्वोर्महत्त्वे च विवादः कवचादिकम् ।
ब्रह्मतेजोमयशंभुलिंगाविर्भावकीर्तनम् ॥३४॥
लिङ्गान्तवीक्षणे मृषावादी ब्रह्मा च केतकी ।
अपूज्यतां सदा प्राप्तौ विष्णोश्च पूज्यतेति च ॥३५॥
अण्वण्डानां समुत्पत्तिरावरणेषु वासिनः ।
क्षणादिकमहाकालगणना च ततः परम् ॥३६॥
ब्रह्मणा च गुणाऽज्ञानाऽधर्माद्या मानसाः कृताः ।
धर्मरुद्रकृतान्तानां सृष्टिः रुद्रलयस्तथा ॥३७॥
सात्त्विकरुद्ररुद्राणीदासदासीप्रसर्जनम् ।
सनकादिशान्तसृष्टिर्वेदप्राकट्यमित्यपि ॥३८॥
माहात्म्यं च सतां दिव्यगीतादिसृष्टिरित्यपि ।
उपनिषत्कन्यकानां सृष्टिर्विद्याप्रसर्जनम् ॥३९॥
ब्रह्मप्रियादिगायत्रीसरस्वतीप्रसर्जनम् ।
एकादशीजयन्त्यादिभक्त्याराधनसर्जनम् ॥४०॥
महालक्ष्मीरमाराधासतीगंगादिसर्जनम् ।
साध्वीनां दिव्यनारीणां दिव्यचिह्नगुणादिकम् ॥४१॥
नारायणावतारात्मनरनारीप्रचिह्नकम् ।
पतिव्रताया उत्पत्तिः सामर्थ्यं च ततः परम् ॥४२॥
कुंकुमाऽक्षतताम्बूलनारिकेलरसादिकम् ।
रक्तगैरिकधात्वादि यथोत्पन्नं तथोदितम् ॥४३॥
कामधेनुसमुत्पत्तिः कामदेवादिसर्जनम् ।
पत्नीव्रतद्विजोत्पत्तिः पितृसेवामहत्त्वकम् ॥४४॥
पत्नीव्रतस्य माहात्म्यम् ऋणानुबन्धिपुत्रता ।
गर्भे निषेके प्राबल्यं कालदेशादिजं तथा ॥४५॥
निषेकसमयो रजोदोषापहरणं व्रतम् ।
आद्ये दिने ब्रह्मणस्तु ब्राह्मणानां प्रसर्जनम् ॥४६॥
सत्यलोके मानसी चर्षीणां सृष्टिः प्रकाशिता ।
महर्जनतपःस्वेव पितॄणां सर्जनं तथा ॥४७॥
पितृभ्यो देयमन्नादि हव्यवृक्षादिकं तथा ।
सूर्योत्पत्तिर्हिरण्यादि धाम चन्द्रोद्भवस्तथा ॥४८॥      
रोहिण्यां पक्षपातेन चन्द्रस्य क्षयरुग्णता ।
सौराष्ट्रे सोमनाथस्य स्थापनात् क्षयहीनता ॥४९॥
देवमानुषभूतादिदैत्यदानवजंगमाः ।
यथा सृष्टा उदितास्ते युगवर्षादिसिद्धयः ॥५०॥
सिद्धिह्रासो नगराद्यौषधिवर्णाश्रमादिकम् ।
विश्वरूपस्य हत्यायाश्चतुर्धादानमित्यपि ॥५१॥
दध्यञ्चास्थिकृतवज्रं वृत्रनाशोऽश्वमेधकः ।
वराहस्याऽवतारश्च पृथोश्चाऽवतरस्तथा ॥५२॥
मिथुनीसृष्टिसञ्चारः स्वप्नं मृत्युप्रदं तथा ।
चक्रवर्तिप्रचिह्नानि हिंसापक्षिप्रपातनम् ॥५३॥
द्वापरस्य स्वभावाश्च रैवतं नारदागमः ।
तत्त्वोद्देशो विवरश्च भुवो विवरपूरणम् ॥५४॥
रैवतस्य चन्द्रभावो मण्यंशो रैवतः स्वयम् ।
खद्वांगस्य तपश्चाऽश्वपट्टसरसि वर्णितम् ॥५५॥
कुंकुमवापिकातीर्थं गोपालकृष्णकोद्भवः ।
कम्भराया महालक्ष्म्याः प्रादुर्भावः समीरितः ॥५६॥
लक्ष्मीनारायणजन्म बर्हिषांगदकोद्भवः ।
पन्नीव्रतर्षेश्च गले मृतसर्पप्रसञ्जनम् ॥५७॥
ऋषेः पुत्रस्य शापेन कुहकदंश इत्यपि ।
प्रायोपवेशनं राज्ञः कथायाः स्थापनं तथा ॥५८॥
मूर्तिध्यानं व्रतदायास्तटे धन्वन्तरेर्गमः ।
सर्पसत्रे रक्षणं च सूर्यस्यापि विवाहनम् ॥५९॥
सूर्यपत्न्यास्तु संज्ञाया रूपद्वयस्य धारणम् ।
श्राद्धदेवयमयमीजननं च ततः परम् ॥६०॥
छायायामश्विनीवैद्याद्युत्पत्तिश्च ततः परम् ।
याम्यमार्गपुराणां वर्णनं नारकवर्णनम् ॥६१॥
नारकाणां फलं कर्म जन्मचिह्नादिकं तथा ।
शारीरदैवचिह्नानि श्रियाश्चिह्नानि योषिताम् ॥६२॥
शवौर्ध्वदैहिकं प्रेतपीडा तस्या निवारणम् ।
प्रेतता प्रेतभोज्यादि सूतकं पिण्डकार्पणम् ॥६३॥
दानफलं पिण्डब्रह्माण्डैक्यं निषेकनिर्मितिः ।
मृतानां दानकार्याद्यैर्गतयो मुक्तिसाधनम् ॥६४॥
नारायणबलिश्चापि धन्वन्तरेः कथा तथा ।
सोमजन्म गुरुपत्न्या अपहृतिर्बुधोद्भवः ॥६५॥
धन्वन्तरित्रयजन्म दिवोदासकथानकम् ।'
शंभोर्वाराणसीत्यागो दिवोदासे सविघ्नता ॥६६॥            
योगिन्यर्कविधातृश्रीगणेशस्वप्नवर्तनम् ।
विष्णोर्नास्तिक्यकरणं राज्ञः प्रतापनाशनम् ॥६७॥
लक्ष्मीनारायणसंहितायाः सप्ताहवाचनम् ।
विश्वेश्वरप्रतिष्ठा च राज्ञो भक्तिविवर्धनम् ॥६८॥
इन्द्रसदसि च गुरोरवमानं दुर्वाससः ।
मालाया अवमानं च श्रीह्रासोऽब्धिप्रमन्थनम् ॥६९॥
रत्नोत्पत्तिरमृतार्थे दैत्यानां वञ्चनं तथा ।
सुरासुररणः पश्चात् पार्वत्यै मन्त्रयोजनम् ॥७०॥
पुण्यव्रतं च पुत्रार्थं कृष्णदर्शनमित्यपि ।
कार्तिकेयसमुत्पत्तिर्देवसेनापतित्वकम् ॥७१॥
तारकासुरनाशश्च तारकाख्यानमित्यपि ।
भिक्षार्थं श्रीकृष्णगतिर्गणेशोत्पत्तिरित्यपि ॥७२॥
शिरोनाशो गजमस्तकस्य सन्धानमर्चनम् ।
शनेर्दृष्टेः फलं चेति गणेशकार्तिकेययोः ॥७३॥
पृथ्वीप्रदक्षिणं चापि विवाहो मल्लिकार्जुनम् ।
नरनारायणप्रादुर्भावः पित्रोः प्रसेवनम् ॥७४॥
शंभोवैष्णवदीक्षाया ग्रहः सत्या अपि ग्रहः ।
तप्तचक्रांकनपुण्यं मन्त्रार्थास्तिलाकानि च ॥७५॥
धाम्नां नामानि च परब्रह्मधाम्नः प्रवर्णनम् ।
अक्षरवर्णनं चापि गोलोकवर्णनं तथा ॥७६॥
स्थानानां गोपुरादीनां पट्टांगनानां वर्णनम् ।
महावैकुण्ठकथनं सप्तव्यूहादिवर्णनम् ॥७७॥
दासदासीभवनानां पार्षदानां च वर्णनम् ।
द्वितीयवैकुण्ठकस्य वर्णनं च जलोपरि ॥७८॥
तृतीयश्वेतद्वीपस्य वर्णनं सोपभूतिकम् ।
चतुर्थक्षीरवार्धिस्थवैकुण्ठवर्णनं तथा ॥७९॥
शंभोर्भस्माऽवगुण्ठादिशंकाया वारणं तथा ।
हयग्रीवाऽसुरोत्पत्तिर्मत्स्यावतरणं तथा ॥८०॥
नौकाया धारणं हिरण्याक्षनाशो वराहतः ।
जयस्य विजयस्याऽपि वैकुण्ठात्तु विवासनम् ॥८१॥
वाराहेण यथास्थानं पृथिव्याः स्थापनं ततः ।
तपो हिरण्यकशिपोः रुद्राच्च वरदानकम् ॥८२॥
प्रह्लादस्य ततो द्वेषो नृहरेरुद्भवस्ततः ।
हिरण्यकशिपोर्नाशः प्रह्लादस्य प्ररक्षणम् ॥८३॥
रैवताद्रौ वामनस्य प्रतापश्च प्रदक्षिणम् ।
मयराजस्य यज्ञश्च तीर्थानि विविधानि च ॥८४॥
अदितेश्च तपश्चर्या वामनोत्पत्तिरित्यपि ।
बलेर्यज्ञे याचना चेन्द्राय त्रिलोकदानकम् ॥८५॥
पयोव्रतं मृगीकुण्डकथा शकुनकानि च ।
तीर्थविधिर्व्रतादीनि चेन्द्रेश्वरकथानकम् ॥८६॥
शिवरात्रिमहिमादि मन्दराद्यागमस्तथा ।
अनेकतीर्थागमनं महालक्ष्मीप्रपूजनम् ॥८७॥
अलक्ष्म्याश्च समुत्पत्तिर्वासस्थानानि यान्यपि ।
द्वादश्यां हरिवासत्वं स्थानं लक्ष्म्याः समर्चनम् ॥८८॥
रेवतीजन्म च दुर्दमेन सह विवाहनम् ।
रेवतस्य तथा जन्म कृतवाचो गृहे पुनः ॥८९॥
रेवतीजन्म च विवाहनं बलेन प पुनः ।
तीर्थे दामोदरकुण्डे श्राद्धादिकफलं तथा ॥९०॥
पत्नीव्रतद्विजस्याऽत्र सर्वधामप्रदर्शनम् ।
द्वयोर्नारायणयोश्च श्राद्धकर्मप्रवर्तनम् ॥९१॥
वस्त्रापथस्य तीर्थानि राधालक्ष्म्यादिसंभवः ।
मघुकैटभनाशार्थं मोहिनीभवनं हरेः ॥९२॥
महिषासुरनाशार्थं कात्यायनीप्रकाश्यता ।
ब्रह्मणो वीर्यतो जन्म महर्षीणां पुरोदितम् ॥९३॥
सतीजन्म दक्षजन्म पुनर्नारदजन्म च ।
शुंभनिशुंभयोर्जन्म कालीचामुण्डिकाजनुः ॥९४॥
रक्तबीजादिनाशश्च देवीसैन्योद्भवस्तथा ।
शुंभादीनां विनाशश्च सतीप्राकट्यकोत्सवः ॥९५॥
गोपगोपीगणोत्पादो देव्युत्पत्तिश्च नैकधा ।
शंभोर्वैराजभालोत्था सत्यास्तपसि वर्तनम् ॥९६॥
विवाहश्च वालखिल्याद्युत्पत्तिर्वेधसोऽपि च ।
कैलासपुरनिर्माणं शिवस्याऽऽत्मनिवेदिता ॥९७॥
दक्षयज्ञे द्विजानां च शापाः सत्या विनाशनम् ।
वीरभद्रकृतयज्ञभंगो दक्षस्य वै तपः ॥९८॥
शंभोर्भस्माऽस्थिधारित्वं पार्वतीजन्म इत्यपि ।
पितृकन्यास्तिस्र एता मेना धन्या कलावती ॥९९॥
तासां पुत्र्यः शिवा चापि सिता राधा हरिप्रियाः ।
कालीमन्त्रोत्सवश्चापि पार्वतीगुणवर्णनम् ॥१००॥
पार्वतीतप एवाऽथ मंगलोत्पत्तिरेव च ।
शंभोर्गोलोकधेन्वां वै वृषरूपोद्भवस्तथा ॥१०१॥
ब्रह्मवीर्याद्ब्रह्मपर्यो ब्रह्मसरस इत्यपि ।
शंभोर्वीर्याच्च हनुमान् वायुद्वारा समुद्गतः ॥१०२॥
शनैश्चरः पन्नतिश्च कामदाहो वरस्ततः ।
गौरीतपः शंकरस्य दर्शनं च गृहं गतिः ॥१०३॥
शंभोश्च नर्तनं शिवनिन्दा लग्नविनिर्णयः ।
मंगलं मण्डपशोभा पत्रिका वरयात्रिका ॥१०४॥
मेनाशोकनिवृत्तिश्च वरस्यापि प्रपूजनम् ।
कुलदेवीपूजनं च शिवस्य मण्डपागमः ॥१०५॥
विवाहः कालिकायाश्च गौरी जाता ततः परम् ।
लिंगपातो द्वादशज्योतिर्लिंगानां समुद्भवः ॥१०६॥
गुरुपूजामहिमादि सन्ध्यापित्रादिकोद्भवः ।
स्वर्णोत्पत्तिर्नारदस्य तथा गन्धर्वपुत्रता ॥१०७॥
मरणं जीवदानं च वैष्णवत्वं मृतिस्तथा ।
पुनर्नारदजन्मापि कैलासगमनम् ऋषेः ॥१०८॥
शंकराद् ब्रह्मज्ञानं च बदर्यागमनम् ऋषेः ।
तीर्थानि मार्कंडकस्य चिरजीवित्वकारणम् ॥१०९॥
पञ्चशिलादितीर्थानि सोमकुण्डादयस्तथा ।
उर्वश्याश्च समुत्पत्तितीर्थादीनि शुभानि च ॥११०॥
नारदस्य विवाहश्च तथाऽग्निवंशवर्णनम् ।
काश्यपीयप्रजोद्देशः कल्पादीनां च वर्णनम् ॥१११॥
कलेर्धर्मा अथाऽऽनर्ताऽऽनीतसौराष्ट्र्देशता ।
द्वारिकावर्णनं चापि गोमत्यादिकवर्णनम् ॥११२॥
नृगराजसमाख्यानं दुर्वाससो रथे स्थितिः ।
गोपीतटाकमाहात्म्यं ब्रह्मकुण्डादितीर्थकम् ॥११३॥
कुशादिदैत्यनाशश्च पट्टराज्ञीस्थलानि च ।
कृष्णार्चनं सोमशर्मपितृप्रमोक्षणं तथा ॥११४॥
शंखपिण्डारकतीर्थं गोदावर्यास्तथाऽऽगमः ।
वज्रलेपाऽघनाशित्वं मायानन्दकथानकम् ॥११५॥
त्रिस्पृशैकादशी दैत्यमुरनाशादिकं तथा।
उन्मीलनी पक्षवर्धा तथान्यासां व्रतानि च ॥११६॥
स्वर्णांगदस्य च वैश्वानरस्य लुंभकस्य च ।
केतुमतः कपिलाया गान्धर्वयोः कथास्तथा ॥११७॥
पर्शुरामजयो धात्रीकथा मेधाविनः कथा ।
ललितयोः कथा वरूथोद्धारादिप्रकीर्तनम् ॥११८॥
धृष्टबुद्धेर्विमुक्तिश्च शलभामोक्षणं तथा ।
क्रत्वाख्यानं हेममाल्याख्यानं वामनकृच्छ्रकम् ॥११९॥
श्रावणानां महासिद्धिः रतेः कामाभिप्रापणम् ।
पुरुरवोपाख्यानं च हरिश्चन्द्रकथा ततः ॥१२०॥
मान्धातृकथनं शूद्रतपो धर्मस्य नाशनम् ।
चन्द्रसेनकथा वेदशिरःकथानकं तथा ॥१२१॥
इन्द्रसेनचन्द्रभागाकथा चाण्डालमोक्षणम् ।
कृच्छ्रव्रतानि च शाकटायनस्यर्द्धिवर्धनम् ॥१२२॥
पुण्डरीककुमुद्वत्योरक्षराख्यपदे गतिः ।
उद्यापनं च प्रतिपद्व्रतानि च बहून्यपि ॥१२३॥
द्वितीयायास्तृतीयायाश्चतुर्थ्याश्च व्रतान्यपि ।
पञ्चम्याः षष्ठिकायाः सप्तम्या व्रतानि यान्यपि ॥१२४॥
अष्टम्या नवम्याश्च दशम्याश्च व्रतान्यपि ।
एकादश्या द्वादश्याश्च त्रयोदश्या व्रतानि च ॥१२५॥
चतुर्दश्याः पूर्णिमाया अमायाश्च व्रतानि च ।
दोलाव्रतं रथयात्रा धनुर्मासो वसन्तकः ॥१२६॥
संक्रान्तिहोलिकापुष्पदोलाश्च शारदोत्सवः ।
लक्ष्मीनारायणव्रतं सुमतेश्च कथानकम् ॥१२७॥
हरिपञ्चकसंज्ञं च व्रतं वारव्रतानि च ।
रुक्मांगदसमाख्यानं विद्धाऽऽख्यमोहिनीकृतम् ॥१२८॥
यमस्य शोचनं मोहिन्याश्च जन्म ततः परम् ।
रुक्मांगदस्य पत्नीत्वं व्रतभंगकरं वचः ॥१२९॥
धर्मांगदाख्यपुत्रस्य शिरोऽर्पणादिकं ततः ।
मोहिन्या दाहनं पश्चाद् विद्धातिथित्वमित्यपि ॥१३०॥
पुरुषोत्तममासस्य व्रतदानमहत्त्वकम् ।
बदर्यां मलमासस्य तिरस्कारे ततः परम् ॥१३१॥
अक्षरं धाम गमनं पुरुषोत्तमनामिता ।
तृतीयार्चाफलं रमाकृतं चतुर्थिकाव्रतम् ॥१३२॥
शारदा श्रीहरेः पत्नी जाता वै पञ्चमीव्रतात् ।
मेनाधन्याकलानां तु षष्ठीव्रतेन ईश्वराः ॥१२३॥
जामातरोऽभवन् शंभुरामकृष्णाः परेश्वराः ।
पतयः पार्वतीसीताराधानां परमेश्वराः ॥१३४॥
सप्तमीव्रततः सिद्धिबुद्धिभ्यां श्रीगणेश्वरः ।
पतिः प्राप्तश्च गोलोकेश्वरः श्रीकृष्ण एव यः ॥१३५॥
अष्टमीव्रततो घण्टाकम्बुदुन्दुभिप्रभृतेः ।
वाद्यगणस्य देवानां सन्निधौ वसतिः सदा ॥१३६॥
नवमीव्रततो वह्निसुवर्णयोः प्रपूज्यता ।
दशमीव्रततः पृथ्व्यामवतारो हरेः सदा ॥१३७॥
एकादशीव्रतान्मूर्त्या नरनारायणोद्भवः ।
द्वादशीव्रततः सावित्री ब्रह्माणमवाप ह ॥१३८॥
त्रयोदशीव्रताज्जयाललितापार्वतीप्रभाः ।
अनादिश्रीकृष्णनारायणं प्रापुः पतिं मुदा ॥१३९॥
चतुर्दशीव्रताल्लक्ष्मीर्माणिकी चापतुः पतिम् ।
अनादिश्रीकृष्णनारायणस्वामिनमीश्वरम् ॥१४०॥
पूर्णाव्रतात्प्रेयसीश्रेयस्योः पतिर्नरायणः ।
अन्यपक्षे प्रतिपदि व्रतात् सहस्रनेत्रकः ॥१४१॥
राजा ह्यवाप च पदं वैराजं चैश्वरं शुभम् ।
द्वितीयाया व्रतात् सर्वहुतो नृपः ऋतम्भरा ॥१४२॥
पत्नी जातौ परमेष्ठी गायत्री चेति दैवतौ ।
तृतीयाया व्रताद् ब्रह्मसविता नृपतिस्तथा ॥१४३॥
भूरिशृंगा च तत्पत्नी सूर्यसंज्ञे बभूवतुः ।
चतुर्थीव्रतकरणात् समित्पीयूषभूपतिः ॥१४४॥
सप्तविंशतिपत्नीभिः सह चन्द्रो बभूव ह ।
पञ्चमीव्रतकरणाद् वसुदाननृपस्तथा ॥१४५॥
राध्यासा तस्य पत्नी च हिरण्मयौ बभूवतुः ।
षष्ठीव्रतेन च देवयवगिरिक्षितौ पुरा ॥१४६॥
पत्नीभ्यां सह माहेन्द्रपदमवापतुर्दिवि ।
सप्तमीव्रतकरणात्सन्ध्या जाता ह्यरुन्धती ॥१४७॥
सन्ध्या द्वेधा समुत्पन्ना कामस्य यौवने गतिः ।
अष्टमीव्रतकरणाद् गोपालकृष्णसद्गृहे ॥१४८॥
कम्भरालक्ष्मीसुतोऽभूत् श्रीकृष्णपुरुषोत्तमः ।
नवमीव्रतकरणात् शतमखनृपगृहे ॥१४९॥
द्युवर्णायां रामादित्यनरादित्यौ बभूवतुः ।
दशमीव्रतकरणाद् विकुण्ठायाः स्वरूपतः ॥१५०॥
षट्श्रीरूपाणि चत्वारि वैकुण्ठान्यभवन्पुरा ।
एकादशीव्रतेनापि वम्री दशप्रचेतसाम् ॥१५१॥
पत्नी जाता वृक्षपुत्री ब्रह्मतनुविराजिता ।
द्वादशीव्रतकरणाज् ज्योष्ट्री त्रेधा हरेः प्रिया ॥१५२॥
त्रयोदशीव्रतेन सुदुघा पञ्चपतिप्रिया ।
चतुर्दशीव्रताद् दृढधन्वा मोक्षमवाप ह ॥१५३॥
अमाया व्रतकरणात् कदर्यमोक्षणादिकम् ।
धर्मपत्न्यश्च तत्पुत्राः ब्रह्माद्या ब्रह्मदर्शकाः ॥१५४॥
व्रताराधनया जाता हरेर्दर्शनकारिणः ।
जालंधरसमाख्याने वृन्दाया राधिकाशपात् ॥१५५॥
कालनेमिसुता त्वं च जालन्धरोद्भवस्तथा ।
देवपराजयो जालंधरगृहेऽवसद्धरिः ॥१५६॥
जालंधरो ययौ नेतुं पार्वतीं कैलकासनम् ।
वृन्दापातिव्रत्यभंगो जालन्धरविनाशनम् ॥१५७॥
वृन्दादत्तो धर्मदेवे शापो वृन्दा तु तूलसी ।
लक्ष्म्यास्तुलसीरूपत्वं गंगाद्याः सरितस्तथा ॥१५८॥
पद्मावत्यास्तूलसीत्वं सीता कुशध्वजोद्भवा ।
सुदामा शंखचूडोऽभूत् युद्धं तस्य च शंभुना ॥१५९॥
तुलसीशिलभंगश्च विष्णुः शालशिलात्मकः ।
पूजामाहात्म्यं तुलसीविष्ण्वोर्विवाहनं तथा ॥१६०॥
गण्डकीविष्णुसालंकायनाख्यानानि चक्रकम् ।
शालग्रामात् हरिहरक्षेत्रे तीर्थानि वै ततः ॥१६१॥
रुरुऋषीकेशतीर्थं लोहार्गलादिकं तथा ।
माथुरक्षेत्रमाहात्म्यं कृष्णावतरणं पुरा ॥१६२॥
निषादस्य राजजन्म राक्षसस्य च मोक्षणम् ।
भाण्डीरादिकतीर्थानि प्रक्रमणं वनानि च ॥१६३॥
विप्रस्य ब्रह्महत्यादिनाशनं कपिलात्ततः ।
वाराहमूर्तिदिव्यत्वं प्रतिष्ठानादिकं ततः ॥१६४॥
विश्रामघाटस्नानेन राक्षसत्वनिवारणम् ।
डाकिन्यादिमोक्षणं च कृष्णनारायणकृतम् ॥१६५॥
सुभद्रस्य सुतप्राप्तिर्गौकर्णं तीर्थमित्यपि ।
कुंकुमवापिकोद्याने वृक्षवल्ल्यादिदिव्यता ॥१६६॥
शुकमोक्षश्च गोकर्णद्वारा प्रेतप्रमोक्षणम् ।
पाञ्चालद्विजमुक्तिश्च भगिनीरतिनाशिका ॥१६७॥
साम्बे क्षोभजपापानां क्षालनं कृष्णयोषिताम् ।
ध्रुवतीर्थे कोटिपित्रुद्धारो दासीकृतः पुरा ॥१६८॥
निमिना पुत्रतृप्त्यर्थं श्राद्धं कृतं विधानतः ।
मेधातिथेः कथा श्राद्धे पितरश्च प्रदर्शिताः ॥१६९॥
नाचिकेतःकथा याम्यपुरीप्राकारवर्णनम् ।
नारकाणां दर्शनं च फलोदयसमीरणम् ॥१७०॥
पतिव्रताया माहात्म्ये जनकस्त्री वने पुरा ।
सम्पद्वती च सञ्जाता पातिव्रत्यकथा तथा ॥१७१॥
धेनुसेवा साधुसेवा सावित्र्यां वेददर्शनम् ।
सरमा गोरक्षयित्री दैत्यान् ददाह शापतः ॥१७२॥
अश्वपतिगृहे पुत्री सावित्री तपसाऽभवत् ।
कर्मफलानां कथनं सत्यवतश्च जीवनम् ॥१७३॥
पद्मायाः पिप्पलादेन विवाहो धर्मशापनम् ।
महालक्ष्म्याः कथा दिव्या नहुषस्य च सर्पता ॥१७४॥
अहल्यया काशिरक्षेन्द्रस्य भगांगता तथा।
सीतारामवनावासो रावणादिविनाशनम् ॥१७५॥
पातिव्रत्ये राधिकाया उपदेशप्रशंसनम् ।
गृहगोधाकथा चापि काष्ठिलायाः कथानकम् ॥१७६॥
स्त्रीधर्माणां वर्णनं च हरिण्या वनरक्षणम् ।
रेणुकायाः कथा दिव्या भार्गव्याश्च कथा तथा ॥१७७॥
भार्गव्याः श्रीकृष्णनारायणेन च विवाहनम् ।
च्यवनर्षिकथा तेन सुकन्याया विवाहनम् ॥१७८॥
माण्डव्यस्य कौशिकस्य कथा सूर्योदयादिकम् ।
मदालसाविवाहश्च पुत्राणामुपदेशनम् ॥१७९॥
अलर्कस्याऽऽत्मविज्ञानं दत्तात्रेयस्य शिष्यता ।
पद्मिन्या जन्म च तथा नारायणविवाहनम् ॥१८०॥
वेंकटाद्रौ तोण्डमानकृतवाराहमन्दिरम् ।
ऋक्षविश्वासस्य हन्तुः धर्मगुप्तादिकस्य च ॥१८१॥
मुक्तिश्च सुमतिभद्ररामानुजप्रमोक्षणम् ।
जाबालितुम्बुरुतीर्थं व्यासस्य पूजनादिकम् ॥१८२॥
ब्रह्महत्यानिवारश्च सुवर्णमुखर्यागमः ।
वाराहोद्भव आञ्जन्यास्तपः पक्षजडीभवः ॥१८३॥
महेन्द्रादिजडीभावः ख्यातेरुज्जीवनं तथा ।
जयन्ती देवयानी च शुक्रकथा तथोदिता ॥१८४॥
नारदस्य पुनरुज्जीवनं मालावतीकृतम् ।
वीरायाश्च प्रभावत्याश्चमत्कारौ तथोदितौ ॥१८५॥
शक्तिपत्न्या शिलारूपा जाताः शप्ता यमादयः ।
अम्बरीषसमुत्पत्तिः श्रीमत्याश्चापि मोक्षणम् ॥१८६॥
दरिद्रताबुभुक्षाकलहादीनां निवासनम् ।
दासीकिंकरीपण्यस्त्रीदानधर्मनिरूपणम् ॥१८७॥
पातिव्रत्यं हरौ कृष्णे बाले नागिनीसंधृतम् ।
लक्ष्म्यादिसत्युद्भवश्चाऽसंख्यपत्नीसमुद्भवः ॥१८८॥
अनादिश्रीकृष्णनारायणस्य दर्शनं पुरा ।
श्रीमच्छ्रीकम्भरालक्ष्मीगोपालकृष्णयोस्तपः ॥१८९॥
चतुर्युगानां धर्माश्च ततो वै सन्निरूपिताः ।
त्रिवेण्या नूतनं स्वर्गं भरद्वाजगृहे कृतम् ॥१९०॥
शबरीपम्पयोः रामयोगेन मोक्षणं तथा ।
चित्रलेखाचमत्कारा महीसागरसंगमे ॥१९१॥
कलहाया राक्षसीत्वं ततश्च मोक्षणं परम् ।
चोलराजविष्णुदासकथा कैकयीजन्म च ॥१९२॥
गोकुलकन्यकामोक्षो गोपीनां कृष्णमेलनम् ।
वीरबाहोः कान्तिमत्याः मुक्तिर्जन्मत्रयोत्तरम् ॥१९३॥
कालिन्द्या उद्धवस्यापि चान्यासां पतिवर्तनम् ।
दानकनृपतेर्यात्रा नारकाणां च मोक्षणम् ॥१९४॥
संहितायाः कथाश्रावात् पिशाचत्वविमोक्षणम् ।
हेमन्तस्य पातिव्रत्याद् राज्यप्राप्तिः प्रमोक्षणम् ॥१९५॥
पतिद्वेष्ट्र्याः शुनीत्वं चोर्वशीत्वं च ततः परम् ।
विधूमस्याऽलम्बुषाया मोक्षणं परिकीर्तितम् ॥१९६॥
विद्याधरसुदर्शस्य वेतालत्वनिवारणम् ।
जरत्कार्वीचमत्कारः सुमित्रायाः प्रभावनम् ॥१९७॥
पुण्यनिधेः सुता लक्ष्मीः नारायणकृपादिकम् ।
तपतो धर्मदेवस्य वर्धिनी सेविकाऽभवत् ॥१९८॥
गान्धर्वीणां कुलदेवीत्वादिकं विप्रगोत्रकम् ।
स्त्रीणां मोक्षः तुलस्यादिवृक्षाणां देवतात्मता ॥१९९॥
सुयज्ञराजसूये च कृतघ्नानां विवेचनम् ।
सुयज्ञस्य तत्पत्न्याश्च गोलोकगमनं तथा ॥२००॥
ताराया हरणं चन्द्ररक्षणं धर्मबोधनम् ।
दाशार्हनृपतेः कृष्णमन्त्रग्रहणे योग्यता ॥२०१॥
सीमन्तीन्या जले मग्नः स्वपतिश्चोपजीवितः ।
कन्यावेषस्य पुत्रस्य पुत्रीत्वं समजायत ॥२०२॥
पुण्यकेन व्रतेनापि गणेशपुत्रलाभनम् ।
शबरदम्पतीभस्म पुनस्तयोश्च जीवनम् ॥२०३॥
शारदायाः कृष्णभक्त्या कृष्णपतिप्रमेलनम् ।
शिवाऽच्युतौ चक्रतुर्वारवनिताप्रमोक्षणम् ॥२०४॥
बन्दुलायाः समुद्धारो विन्ध्याद्रेर्वर्धनं तथा ।
लोपामुद्रापातिव्रत्यं काशीयात्रादिकं ततः ॥२०५॥
जमदग्नेर्विनाशश्च रेणुकायाः सतीव्रतम् ।
मनोरमासतीत्वं च सहस्रार्जुननाशनम् ॥२०६॥
गणेशस्यैकदन्तत्वं गृहपत्यस्य रक्षणम् ।
सुशिलाया राज्यलाभो मोक्षणं पतिभक्तितः ॥२०७॥
स्त्रीणां पवित्रता श्रेष्ठचिह्नान्यपि बहून्यपि ।
द्रौपद्या कृतदुर्वासोभोजनाभ्यागमादिकम् ॥२०८॥
कद्रूविनतासम्वादः सूर्याश्वविषयस्तथा ।
विनतायाश्च दासीत्वं गरुडेन विनाशितम् ॥२०९॥
लीलावत्यास्तथा मोक्षो धूतपापा पतिव्रता ।
धर्मदेवं पतिं प्राप्ता कलावत्याश्चमत्कृतिः ॥२१०॥
गान्धर्वी कृष्णयोगेन गोलोकधामगाऽभवत् ।
सप्तर्षिप्रमदाः कृष्णयोगेन दिव्यतां गताः ॥२११॥
सुरसा नामिनी कृष्णभक्त्या सौभाग्यमागता ।
मण्डुकी शिवभक्त्या च गन्धर्वी समजायत ॥२१२॥
पारावतद्वयं भक्त्या मुक्तिमवाप शाश्वतीम् ।
यमस्य धर्मराजत्वं पौलोम्या इन्द्रभार्यता ॥२१३॥
अभिजिन्नृपतेः पुत्रप्राप्तिर्गोलोकमोक्षणम् ।
दुर्वाससः कदल्याश्च विवाहः कदलीद्रुमः ॥२१४॥
अम्बरीषाद्भयं तस्य वारणं भक्तसेवनम् ।
त्वाष्ट्रस्य तु चतुःषष्टिकलापत्नीप्रलाभनम् ॥२१५॥
काश्यां व्यासचमत्कारः पार्वतीमहिमा तथा ।
अग्निशर्मा वाल्मिकी चाऽभवन्मुक्तिं ततो गतः ॥२१६॥
अवन्त्यां लक्ष्मणस्याऽपि मनोमालिन्यमित्यपि ।
वह्निस्पृष्टाः ऋषिपत्न्यः शुद्धा वै पञ्चमीव्रतात् ॥२१७॥
व्यासजन्म नर्मदायाः पातिव्रत्यादिकं शुभम् ।
अनसूयातपःसिद्ध्या त्रिदेवाः पुत्रतां गताः ॥२१८॥
पुरुहूतामोक्षणं च ऋष्यशृंगविघातनम् ।
लोमशेन कृतं चेन्द्रगर्वस्यापि विनाशनम् ॥२१९॥
धन्वन्तरेर्गर्वभंगश्चाष्टावक्रस्य मोक्षणम् ।
कलशस्य तु व्याघ्रत्वं धेनुयोगाच्च मोक्षणम् ॥२२०॥
शर्मवत्या मोक्षणं च कुष्ठिविप्रस्य मोक्षणम् ।
माधव्याः कृष्णपत्नीत्वं शाण्डिल्याश्च चमत्कृतिः ॥२२१॥
अम्बावृद्धाकन्ययोः पादुकापूजनमित्यपि ।
ज्येष्ठे राज्याभिषिक्ते च वृष्ट्यभावेन चानले ॥२२२॥
विश्वामित्रकृतश्चामिषहोमोऽग्निस्तिरोऽभवत् ।
गजमत्स्यादिशापाश्च अजापालचमत्कृतिः ॥२३॥
दशरथस्य च शनेः रोहिणीवेधरोधनम् ।
अष्टषष्टिप्रतीर्थानि दमयन्त्या समर्पितम् ॥२२४॥
दानं जगृहुर्विप्राश्च व्योम्नो निपेतुरेव ते ।
भद्रिकायाश्चमत्कारः कर्णोत्पलाकथानकम् ॥२२५॥
याज्ञवल्क्यचमत्कारो वास्तुपुंसः कथानकम् ।
पूर्णकलाचमत्कारो दीर्घिकायाश्चमत्कृतिः ॥२२६॥
फलवत्या योगिनीत्वं व्यासपुत्रस्य योगिता ।
तिलोत्तमानिमित्तेन शंभोः पञ्चाऽऽस्यतोदिता ॥२२७॥
विश्वामित्रस्य तपसा ब्रह्मर्षित्वमथाऽभवत् ।
साभ्रमत्याः समुत्पत्तिः पिप्पलादोद्भवस्तथा ॥२२८॥
पञ्चपिण्डिकात्मगौरीव्रतं सौभाग्यदं शुभम् ।
हाटकेश्वरजे यज्ञे गायत्र्या विप्रता तथा ॥२२९॥
श्रीकृष्णस्याऽऽगमस्तत्र विश्वावसुश्च राक्षसः ।
अष्टषष्टिमातृगणागमश्च कुलदेवताः ॥२३०॥
राजपुत्रीविप्रपुत्र्योर्मोक्षणं कृष्णयोगतः ।
देवलीला नागनदी विप्रपुत्र्याश्च मोक्षणम् ॥२३१॥
ब्रह्मा शप्तश्च मोहिन्या शुद्धो नागनदीजले
षण्ढोत्पत्तिर्हिंगुलाजादीक्षया मोक्षणं तथा ॥२३२॥
शंभोर्गर्वविनाशश्चाऽन्धकनाशो हरेण च ।
इन्द्रद्युम्नस्य च कथा लोमशाश्रम इत्यपि ॥२३३॥
कुंकुमवापिकाक्षेत्रं नारदे वेदवेदिता ।
ब्राह्मीविद्या जन्मदिव्यं लोमशस्य पुराभवः ॥२३४॥
कपिलस्य च विज्ञानं नैकाऽवताररूपता ।
वसोश्च धर्मव्याधत्वं वैशालरैभ्यमोक्षणम् ॥२३५॥
आवट्यस्य चमत्कारः स्वप्नादिफलवर्णनम् ।
सूर्यचन्द्राऽदर्शनं सहेतुकं व्याधतोद्भवः ॥२३६॥
जयन्त्यां महिमा प्रोक्तः सनत्कुमारकेण च ।
युद्धं मणिकृते दुर्जयस्य गौरमुखस्य च ॥२३७॥
महातपाभिहितं च वेदान्तज्ञानमित्यपि ।
कुंकुमवापिकाश्रैष्ठ्यं पार्वत्यै शंभुनोदितम् ॥२३८॥
ऊर्जकृष्णजयन्त्यां कैलासवासिसमागतिः ।
रैवते सोमनाथे च तलश्यामे प्रभासके ॥२३९॥.
उष्णग्रामे च तीर्थानि सिंहमुक्तिस्तथोदिता ।
न्यंकुमत्यां देविकायां सूर्यतीर्थानि राष्ट्रके ॥२४०॥
च्यवनाऽगस्तिवैशालभद्राश्वतीर्थकानि च ।
गुप्तप्रयागोन्नतादिभीमनाथादयस्तथा ॥२४१॥
द्वारिका च चमत्कारपुरं चार्बुदमित्यपि ।
अगस्त्यदिव्यता मंकणकतीर्थादि चार्बुदे ॥२४२॥
नर्मदा ऋक्षकः शैलः कन्याभेदादितीर्थकम् ।
मत्स्यातापीसंगमश्च तथाऽन्ये संगमा अपि ॥२४३॥
बिल्वाम्रकादितीर्थानि सत्यतपसो मोक्षणम् ।
अमरकण्टकजालेश्वरौंकारादयस्तथा ॥२४४॥
धेनुदानं चन्द्रसेनमुक्तिर्गालवमोक्षणम् ।
एरण्डीसंगमो धुन्धुमारमुक्त्यादिवर्णनम् ॥२४५॥
सुखदुःखादिभावाश्च कार्तिकादिप्रशंसनम् ।
मुचुकुन्दादिदृष्टान्तैर्नर्मदायाः प्रशंसनम् ॥२४६॥
सोमशर्माख्यविप्रस्य मायानिषादिनीजनुः ।
रैभ्यस्यापि चमत्कारो नकुलस्य सुवर्णता ॥२४७॥
यज्ञतीर्थशुक्लतीर्थभृगुक्षेत्रादिकानि च ।
दीक्षा भागवती गुडाकेशासुरस्य ताम्रता ॥२४८॥
पूजापराधाः शमनं शृगालगृध्रयोः कथा ।
खञ्जरीटस्य मुक्तिश्च सेवयितुः फलानि च ॥२४९॥
नलमेघविनाशश्च समुद्रसंगमादयः ।
श्रीपुरुषोत्तमक्षेत्रे नीलपर्वतसत्कथा ॥२५०॥
वटस्य दिव्यता विप्रक्षत्रिययोः प्रमोक्षणम् ।
इन्द्रद्युम्नस्य च साक्षाद्दर्शन गमनं पुरीम् ॥२५१॥
बिल्वेशादिकथा यज्ञावभृथादिनिर्वर्तनम् ।
पूर्णता प्रतिमानां च प्रासादस्य च निर्मितिः ॥२५२॥
ब्रह्मणश्चागमस्तत्र प्रतिष्ठा रथनिर्मितिः ।
अवतारादिकभावस्तथा यात्रोत्सवादयः ॥२५३॥
ग्रन्थवक्तुः प्रपूजादि कृतसन्तानगाः कथाः ।
संक्षेपात्कथिताश्चान्या गौण्यश्चाऽवान्तराश्च याः ॥२५४॥
आख्यानानि चोपव्याख्यानानि सन्ति ह्यनेकशः ।
धर्मार्थकामनास्वापमोक्षदानि निसर्गतः ॥२५५॥
पूर्वकल्पोपकल्पादिसंवृतानि च सन्ति वै ।
तपतामृषिमान्यानां मुनीनां भूभृतां तथा ॥२५६॥
कन्यकानां च बालानां नारीणां भक्तयोषिताम् ।
साधूनां वृक्षवल्लीनां तीर्थानां सरितां तथा ॥२५७॥
देवादीनां पशूनां च पक्षिणां रक्षसां तथा ।
आख्यानानि प्रकीर्णानि प्रसंगे कथितानि वै ॥२५८॥
असुराणां विनाशार्थं देवोद्योगाश्च वर्णिताः ।
पाप्युद्धारकथा दिव्या देवानुग्रहतश्च याः ॥२५९॥
बह्व्यस्ताः कथिताश्चात्र वैदिक्यश्च तथाविधाः ।
अध्यायानां वाचनेन विदिताः स्युः समन्ततः ॥२६०॥
तीर्थाख्यानचमत्कारा अवान्तरोपदेशनाः ।
तत्तत्प्रकरणालोकाद् विदिताः स्युः समन्ततः ॥२६१॥
समुद्रस्य तरंगाणां संख्याः कर्तुं न शक्यते ।
संहिताया विषयाणां गणना शक्तिवर्जिता ॥२६२॥
इत्येवं क्रमणाध्यायः कृतसन्तानकस्य वै ।
कथितः सुगमार्थाय तत्तत्कथासुमार्गणे ॥२६३॥
कथार्थानां वाचनेन स्मरणेन श्रवेण च ।
संहिताफलभाक् स्याच्च क्रमणाध्यायशीलनात् ॥२६४॥
सर्वतीर्थफलं सर्वयज्ञफलं प्रजायते ।
सर्वदानफलं मोक्षफलं तस्य प्रजायते ॥२६५॥
आस्य खण्डस्य यः पारायणं मासेन कारयेत् ।
तस्याऽश्वमेधसहस्रयज्ञजं जायते फलम् ॥२६६॥
सर्वतीर्थफलं स्याच्च सर्वदानफलं भवेत् ।
पत्रे पत्रे कृष्णनारायणयोगोऽत्र वर्णितः ॥२६७॥
योगिनां योगजं पुण्यमेतस्य श्रवणाद्भवेत् ।
आत्मा ब्रह्मदशापन्नः श्रोतॄणां जायतेऽनया ॥२६८॥
वक्तुस्तत्र कथा का वै वक्ता नारायणः स्वयम् ।
श्रोत्री यत्र स्वयं लक्ष्मीर्वेदोऽयं सामसंभवः ॥२६९॥
दिव्यसामानि सन्त्यत्र प्रत्यध्यायं पदानि वै ।
यदुच्चारयितारं वै प्रम धाम नयाम्यहम् ॥२७०॥
यथा त्वं मे प्रिया लक्ष्मि! तथेयं संहिता प्रिया ।
लेखयित्वा गृहे रक्ष्या सम्पन्मोक्षप्रदायिनी ॥२७१॥
दिव्योऽहं दिव्यरूपा त्वं दिव्येयं संहिता मम ।
नाऽन्यशास्त्रेण तुल्यत्वं स्थिता सर्वोच्छ्रया यतः ॥२७२॥
त्वं द्वितीयस्वरूपेण संहितात्मतयाऽसि मे ।
श्रोतव्या सावधानेन मण्डपे तोरणान्विते ॥२७३॥
स्वर्णसिंहासने स्थाप्या स्वर्णवस्त्रादिशोभिता ।
नित्यं चन्दनपुष्पाद्यैः फलधान्यधनादिभिः ॥२७४॥
आरार्त्रिवाद्यघोषाद्यैर्धूपदीपाऽक्षतादिभिः ।
कुंकुमाऽगुरुगन्धाद्यैः पूजनीया जयारवैः ॥२७५॥
ततः संपूजयेद् व्यासं स्वामिश्रीकृष्णवल्लभम् ।
लक्ष्मीनारायणरूपं धनाऽन्नाम्बरभूषणैः ॥२७६॥
दुग्धघृतशर्कराद्यैस्तोषयेद् बहुसेवनैः ।
मत्तो न्यूनो नाऽस्य वक्ता प्रवेशस्तत्र मे तदा ॥२७७॥
तदाशीर्वादवचनं सफलं व्यासपीठजम् ।
तत्पादजलपानेन ध्वंसन्ते पापराशयः ॥२७८॥
तत्पुष्पहारलाभेन महेन्द्रस्मृद्धिमाप्नुयात् ।
तस्य दर्शनमात्रेण कृष्णदर्शनजं फलम् ॥२७९॥
तस्य स्पर्शनमात्रेण कृष्णस्पर्शनजं फलम् ।
तस्य सेवनलाभेन कृष्णसेवाफलं लभेत् ॥२८०॥
दिव्ययोगाद् भवेद् दिव्यो नरो वा प्रमदाऽपि वा ।
एनां कृत्वा प्रमूलं च वदिष्यन्ति कथा जनाः ॥२८१॥
व्यासा ग्रन्थान् करिष्यन्ति ह्येतदाधारविस्तृतान् ।
पुरातनानि भावानां हृदयान्यत्र सन्ति हि ॥२८२॥
तत्प्रकाशप्रकर्त्रे वै व्यासपीठाधिवासिने ।
आचार्यश्रीकृष्णस्वामिस्वरूपाय महात्मने ॥२८३॥
राज्ञा देयानि गोवाजिगजग्रामधनानि च ।
अन्यैश्चापि यथास्मृद्धिं देयं सन्तोषकारि यत् ॥२८४॥
ब्रह्माण्डदानजं पुण्यं भवेद् वाचकपूजनात् ।
यानोद्यानभवनानि दासदासीकुलानि च ।
राज्योपचारयोग्यानि देयानि वाचकाय वै ॥२८५॥
यद्यदिष्टतमं स्वस्य देयं व्यासाय शार्ङ्गिणे ।
कृतसन्तानकश्चाऽयं सत्यकालीनचेष्टिकः ॥२८६॥
सत्यधर्मैः पूरितश्च सर्वधर्मैर्विशिष्यते ।
शृंगारयित्वा बहुधा गजे याने च मस्तके ॥२८७॥
धृत्वा चामरछत्राद्यैर्वर्धयित्वा महोत्सवैः ।
गीतकीर्तननृत्यैश्च वाद्यवैदिकसंस्तवैः ॥२८८॥
सहस्रशो जनैर्ग्रामे पत्तने नगरे गृहे ।
राजधान्यां राजगृहे श्रेष्ठिभिश्च निजालये ॥२८९॥
निधनैर्भावयुक्तैश्च पूजनीयो विशेषतः ।
कुमारिकाभिः कलशैर्जलपत्रफलान्वितैः ॥२९०॥
स्वागतेन वर्धयित्वा कुंकुमाद्यैश्च भावनैः ।
वन्दनीयो मंगलात्मा सौभाग्यवरलब्धये ॥२९१॥
सपतिकाभिरन्याभिः स्वेष्टसौख्यादिलब्धये ।
जनैर्दारसुताद्यर्थं स्त्रीभिः सौभाग्यवृद्धये ॥२९२॥
विद्याधनसमृद्ध्यर्थं चारोग्यर्द्ध्यादिलब्धये ।
कृतसन्तानकः खण्डः पूजनीयोऽतिदानकैः ॥२९३॥
पूगीफलं धनं स्वर्णं स्पर्शयित्वा स्वकं तदा ।
स्वकोशे रक्षणीयं यद् धनवृद्धिकरं भवेत् ॥२९४॥
साधनानि च सर्वाणि नाऽनेन तुलनानि वै ।
अतुल्यं पूजयित्वैनं भ्रामयित्वा सुपत्तनम् ॥२९५॥
अशेषं नियतस्थाने स्थापनीयोऽतिभावुकैः ।
परंधामाऽक्षरंधामाऽमृतं गोलोकमुत्तमम् ॥२९६॥
वैकुण्ठं श्वेतद्वीपं च श्रीधामेच्छेत्तदाप्नुयात् ।
स्वर्गं माहेन्द्रराज्यं वा पारमेष्ठ्यं पद्ं च वा ॥२९७॥
वैराजं वा नागराज्यं यदिच्छेत्तल्लभेत च ।
अहं दिव्यस्वरूपोऽस्मि कृतसन्तानमूर्तिकः ॥२९८॥
अध्यायैर्नवतियुक्तपञ्चशतमितैरयम् ।
श्लोकैस्तु पञ्चपञ्चाशत्साहस्रैः केशरूपिभिः ॥२९९॥
मस्तकं मे हि बोद्धव्यः कण्ठोर्ध्वं चायमेव हि ।
ब्रह्मरन्ध्रं मम लक्ष्मि विद्यते, त्वयि चात्र ते ॥३००॥
सौभाग्यपुण्यमूर्धाऽस्ति सर्वथा सर्वमंगलः ।
त्वां मां कृतं भजेत यः सर्वार्थानाप्नुयाद्ध्रुवम् ॥३०१॥
      
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावेदी (स्थनिर्माण) महोत्सवः, द्वादशयात्राः, कृतसन्तानोक्तकथानिर्देशाः, ग्रन्थवक्तृपूजादिमहिमेतिनिरूपणनामैकोननवत्यधिकपञ्चशततमोऽध्यायः ॥५८९॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP