संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८७ Translation - भाषांतर श्रीनारायण उवाच--ततो लक्ष्मि! यथाजातं शृणु मूर्तिप्रघट्टनम् ।एवं दिने दिने याते दिव्यगन्धोऽनुभूयते ॥१॥पारिजातप्रसूनानां वृष्टिर्या मर्त्यदुर्लभा ।दिव्यसंगीतनादाश्च गीतिका रुचिरास्तथा ॥२॥श्वेतवारिबिन्दवश्च चन्दनानां च बिन्दवः ।ऐरावतादिवारणेन्द्राणां मदा बभूविरे ॥३॥अदृश्यदेवतासंघैः पूज्यते व्योममार्गतः ।उपासांचक्रिरे देवा दिव्यचिह्नानि जज्ञिरे ॥४॥प्राप्ते पञ्चदशाहे च स्वयं पूर्णो बभूव ह ।दिव्यसिंहासनसंस्थो वेदिकायां व्यदृश्यत ॥५॥चतुर्मूतिर्जगन्नाथो बलो भद्रा सुदर्शनम् ।सर्वाभरणशोभादिसम्पूर्णं वै चतुष्टयम् ॥६॥भद्रा चेयं स्वयं लक्ष्मीः सर्वचैतन्यरूपिणी ।त्वमासीः मे प्रिये भेदस्तव क्वचिन्न युज्यते ॥७॥क्षणं न सहसे त्वं मां मोक्तुं लीलावतारिणम् ।एवं तु मूर्तयस्तेन चतस्रो वै प्रकाशिताः ॥८॥व्योमवाण्यभवत्तत्र राजन् रंगे प्रकारय ।नीलं विष्णुं, बलं श्वेतं, रक्तं चक्रं, प्रचित्रय ॥९॥भद्रामरुणां च नानालंकारशोभितां तथा ।विना वै चित्रकारं तु नान्यः कश्चिद् विलोकयेत् ॥१०॥गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ।वर्षे वर्षेऽपि संस्कार्याः पूर्वसंस्कारमोचनात् ॥११॥वल्कललेपसहिता मूर्तिर्दिव्या चिरन्तनी ।वल्कललेपनाशे तु दुर्भिक्षं मरणं तथा ॥१२॥सन्ततेश्च क्षयः स्याद्वै नेक्ष्यास्ता अपवारणाः ।प्रमादान्मानवैश्चापि दृष्टाः स्युर्भयहेतवः ॥१३॥तस्मात् सचित्रा द्रष्टव्या बहुशृंगारचित्रिताः ।नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ॥१४॥उत्तरे च नृसिंहस्य सहस्रकरमुच्छ्रयम् ।प्रासादं शिखराढ्यं च सुदिव्यं सुदृढायतम् ॥१५॥कारयित्वा प्रतिष्ठाप्य तत्रैता विनिवेशय ।नीलमाधवसेवाकृच्छबरो वैष्णवोत्तमः ॥१६॥विश्वावसुः पुरा मित्रं पुरोहितस्य तेऽभवत् ।शबरस्य तथा त्वपुरोहितस्य च सन्ततिः ॥१७॥नियुज्यतां च पूजायां सदा सर्वोत्सवादिषु ।इतिश्रुत्वा व्योमवाचं भूपस्त्वावृतिवस्त्रकम् ॥१८॥क्षणं चोत्तार्य मूर्तीस्ताः पूर्णा ददर्श शोभनाः ।रत्नसिंहासस्थाश्च तेजोव्याप्ताः सुवर्तुलाः ॥१९॥कृष्णं पद्मस्थितं नीलं पार्श्वे च धवलं बलम् ।फणामण्डलविस्तीर्णं मध्ये भद्रां तयोः शुभाम् ॥२०॥विष्णोर्वामस्थितां कृष्णहस्ते सुदर्शनं तथा ।क्षणं दृष्टास्तथा सर्वैः पुनर्वस्त्रेण चावृताः ॥२१॥सर्वे नेमुस्ततश्चित्रशिल्पी रंगादि चाकरोत् ।ततश्च वेदविधिना पूजां सूक्तैरकारयत्। ॥२२॥पौरुषेण तु सूक्तेन कृष्णं राजा ह्यपूजयत् ।लक्ष्मीसूक्तेन च भद्रां द्वादशार्णेन वै बलम् ॥२३॥सुदर्शनं सौदर्शन्यां ततो दानान्यदापयत् ।अश्वमेधाऽङ्गभूताश्च कोटिशो गा ददौ धनम् ॥२४॥तासां खुरोद्धृतेर्योगाद् गर्तोऽभूत्पावनः परः ।दानाऽम्बुनापि संसृष्टस्तीर्थं चेन्द्रसरो हि तत् ॥२५॥बभूव तारकं पित्रुद्धारकं जलदानतः ।स्नानात्स्वर्गप्रदं पानाद्वैकुण्ठधामदं तथा ॥२६॥दानात्स्मृद्धिप्रदं वासान्मोक्षदं मरणादपि ।तीर्थानां परमं ख्यातं सर इन्द्रद्युतिकृतम् ॥२७॥ततः प्रासादघटनामुपचक्राम भूपतिः ।पूर्णे तु मन्दिरे जाते सौवर्णकलशान्विते ॥२८॥शुभे काले मुहूर्ते च विप्रान् प्रपूज्य देवताः ।स्वस्तिवाचं च कर्मर्द्धिं वाचयित्वा नृपस्ततः ॥२९॥अर्घ्यं ददौ जगन्नाथ सौधस्थित्यै चिरं क्षितिम् ।सम्प्रार्थ्य शिल्पिनोऽभ्यर्च्य वास्तुयागं विधाय च ॥३०॥कृत्वा महोत्सवं पूजां ददौ दानानि भोजनम् ।राजा सभायामगदद् यन्मयोपार्जितं धनम् ॥३१॥जगन्नाथालयार्थं तत्सर्वं ददामि मुक्तये ।कलेवरमिदं क्षेत्रं यत्राऽहंभाववान् विभुः ॥३२॥तत्सेवया च राज्यर्द्धिः सफला मेऽस्तु तत्पदे ।एष दारुवपुर्विष्णुः सुखदो धामबान्धवः ॥३३॥अथ मूर्तेः पृष्ठदेशादागत्याऽच्युतनामकः ।विप्रो जगाद रहसि तेजोमण्डलशोभितः ॥३४॥परधामाऽक्षरधामाऽमृतधामाऽव्याकृतम् ।गोलोंक चापि वैकुण्ठं क्षीरोदं श्वेतद्वीपकम् ॥३५॥बदरीं चान्यधामानि यदि गन्तुं समिष्यते ।अत्र स्थेयं तदा क्षेत्रे दिव्ये श्रीपुरुषोत्तमे ॥३६॥परब्रह्माऽक्षरब्रह्ममुक्तब्रह्माऽवतारकान् ।व्यूहान् दिव्यान् विभवाँश्च तदंशान् द्रष्टुमिष्यते ॥३७॥पुरुषोत्तममूर्तेश्च कर्तव्यं दर्शनं तु तैः ।ईशलोकान् सत्यलोकान् वैराजान् स्वर्गसंज्ञकान् ॥३८॥मानुषान् दिव्यपातालान् यदि भोक्तुं समिष्यते ।दानं स्नानं पूजनं च कर्तव्यं त्वस्य तैरिह ॥३९॥ऐश्वर्याणि समग्राणि विद्याश्च सकलाः कलाः ।गुगान् सामर्थ्यसत्तादि यदि प्राप्तुं समिष्यते ॥४०॥तदाऽयं श्रीजगन्नाथः सेव्यतां यावदर्पणैः ।इदं दारुमयं ब्रह्म भुक्तिमुक्तिप्रदायकम् ॥४१॥सच्चिदानन्दकैवल्यमुक्तिदं दर्शनादपि ।नाण्वप्यत्र प्रभेदोऽस्ति धाम्नि श्रीपुरुषोत्तमे ॥४२॥तस्माद् राजन्नत्र वासं कुरु मोक्षं प्रसाधय ।विद्वत्तमोऽसि भक्तश्च सांगोपांगममुं भज ॥४३॥पत्रपुष्पजलकन्दकणवस्त्रसुचन्दनम् ।जलमण्वप्यर्पितं स्यादब्जगुण जगत्प्रभौ ॥४४॥लक्ष्मीर्माता ऋद्धिदा सा भोगान् दास्यति भक्तके ।दात्रे दास्यामि सर्वं मे नात्र कार्या विचारणा ॥४५॥इत्युक्त्वाऽदृश्यतां यातो विप्रो मूर्तौ हरेस्ततः ।सर्वेषां समभूद् दिव्यमाश्चर्यं गोचरो हरिः ॥४६॥आत्मना वर्तते मूर्तौ प्रेम्णाऽश्रूणि ह्यवासृजन् ।नारदः स्थिरतां यातो ध्यानमुद्रामनैमिषीम् ॥४७॥कुर्वन् समाधिप्रजडः प्रेममग्नोऽभवत् क्षणम् ।आनन्दः प्रासरत्तत्र गोलोके इव तत्क्षणम् ॥४८॥कार्यं पूर्णं त्वद्य जातं प्रोक्त्वा नारद आह तम् ।एनमाराध्य तिष्ठाऽत्र भूप यामि पितामहम् ॥४९॥प्रासादं कुरु भूपाल धनेन महता ततः ।नृसिंहं च प्रतिष्ठाप्य विमुच्यसे सुखी भव ॥५०॥कृतं निवेदयिष्यामि ब्रह्माणं तव दासताम् ।इन्द्रद्युम्नश्च तं प्राह निवसाऽत्र मया सह ॥५१॥मन्दिरं कारयित्वा च यास्यावो नौ पितामहम् ।आवां विज्ञपयिष्यावः सः समागत्य वै स्वयम् ॥५२॥महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ।ओमित्यङ्गीचकारैव नारदश्चाऽथ भूपतिः ॥५३॥यियासुस्त्वरितं कर्म मन्दिरस्याऽन्वचालयत् ।सहस्रशस्ततः शिल्पिवर्यांस्तत्र न्ययोजयत् ।वित्तव्ययस्तु कोटीनां न संख्यातुं प्रशक्यते ॥५४॥नृपतेः श्रद्धया भक्त्या सत्त्वभावेन श्रीरपि ।प्रसन्ना मन्दिरं कर्तुं तदा साहाय्यमाचरत् ॥५५॥गर्भप्रतिष्ठां विधिवत् कृत्वा धृत्वा च ताम्रजाम् ।वज्रपातादिविघ्नघ्नां न्यस्य पार्श्वे सुपट्टिकाम् ॥५६॥शिखरस्य घट्टनार्थं चाज्ञाप्याऽमात्यकोत्तमान् ।गिरिशृंगोपमं कर्तुं शिखरं गगनंगमम् ॥५७॥राजा शृण्वन् देवगाथां प्रासादविषयां शुभाम् ।भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः ॥५८॥ब्रह्मा विष्णुस्तथा लक्ष्मीः का चात्र निम्नता भवेत् ।प्रासादः कार्यते तादृङ् न भूतो न भविष्यति ॥५९॥नेदृग् वै वर्तते चोर्ध्वंगमः पृथ्व्यां स्थलान्तरे ।इति शृण्वन्ननामाऽसौ नारदं चाह नारदः ॥६०॥तीर्थैर्मन्त्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः ।व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितम् ॥६१॥न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ।अतः परं न शोचस्व भक्तियोगेऽतिरेकिणि ॥६२॥पितामहं द्रष्टुकामो गन्ता चेदन्तिकं विभोः ।उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ॥६३॥स्वयं च भगवानेव तुभ्यं वरं प्रदास्यति ।प्रतिष्ठापिते प्रासादे तस्मिन् काले स्वयंभुवा ॥६४॥अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ।तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम् ॥६५॥इत्युक्त्वा नारदो भूपो नत्वा कृष्णं बलं सतीम् ।अनुज्ञां प्रार्थयामास ब्रह्मलोकगतिं प्रति ॥६६॥उभौ दिव्यविमानेन ब्रह्माणं प्रति जग्मतुः ।नारदो भक्तियोगेन चेन्द्रद्युम्नोऽपि वैष्णवः ॥६७॥चतुर्दशभुवनानि जिग्यतुः कृपया हरेः ।राजाऽप्यचिन्तयद् याने ब्रह्मलोके क्षणं च यत् ॥६८॥पृथ्व्यां युगशतं याति प्रासादस्य तु किं भवेत् ।पुनरागमने मे तु लयं यास्यति मत्कृतम् ॥६९॥कथं प्रतिष्ठां संवीक्ष्य गमिष्यामि कृतार्थताम् ।इतिचिन्तापरं भूपं नारदः प्राह मा शुचः ॥७०॥कृष्णनारायणः स्वामी कालस्य दैर्घ्यकारकः ।ह्रस्वताधायकः सोऽपि क्षणं सूक्ष्मं करिष्यति ॥७१॥सत्यभूलोकयोः काले त्वदर्थं समतां प्रभुः ।स्वेच्छया संविधायैव निजकार्यं करिष्यति ॥७२॥यस्य कार्येषु भगवान् सहायोऽस्ति चतुर्मुखः ।तत्र कालकृतं द्रव्यकृतं विघ्नं न जायते ॥७३॥पश्याऽग्रतश्चन्द्रकोट्याह्लादकं तेजसां चयम् ।विजानीहि ब्रह्मणश्च सद्मनस्तं समागतम् ॥७४॥पश्य ब्रह्मपुरं त्वेतत् सभां पश्य सुशोभनाम् ।ततः परं च वैकुण्ठं जलोपरि हि वर्तते ॥७५॥ततः परं च वैराजं धाम तस्मात्परेऽमृतम् ।परवैकुण्ठकं चापि गोलोकं चापि तत्परम् ॥७६॥तत्परं चाक्षरं धाम तत्परं परमं पदम् ।पुरुषोत्तमधामाऽस्ति यत्परं नान्यदस्ति वै ॥७७॥इन्द्रद्युम्नं वदन्नित्थं नारदस्य विमानकम् ।ब्रह्मसभोत्तरद्वारं समासाद्य स्थिरं ह्यभूत् ॥७८॥नृपं च नारदं दृष्ट्वा ननाम द्वारपालकः ।ब्रह्माज्ञां च समागृह्य प्रावेशयच्च तौ सभाम् ॥७९॥ब्रह्माणं प्रणमन् दूरे सावित्रीशारदान्वितम् ।राजा तस्थौ क्षणं तावद् ब्रह्मा भूपं समाह्वयत् ॥८०॥एहि राजन् स्वागतं ते साक्षात् त्वं भगवत्प्रियः ।नारदस्य तु योगेन समायातोऽसि दुर्गमे ॥८१॥गृहाण चामृतं भोज्यं पिब स्वाद्वामृतं रसम् ।वद किं चागमने ते कारणं हृदयंगमम् ॥८२॥इत्युक्तो नृपतिः प्राह प्रासादः कृपया तव ।जातोऽस्ति तत्र चागत्य प्रतिष्ठापय माधवम् ॥८३॥आगत्य श्रीजगन्नाथं स्थापयिष्यसि चेत् पितः ।त्वदनुग्रहः सफलो भवेन्मयि पितामह ॥८४॥प्रसीद मां कुरुष्वेदं जगन्नाथस्त्वमेव यत् ।इतिस्तुतस्तदा ब्रह्मा प्राह भूपं तु सादरम् ॥८५॥राजन् कृतस्त्वया सत्यं प्रासादो भगवत्स्थितौ ।नास्मिन् काले तव राज्यं न वा त्वत्सन्ततिर्नृप ॥८६॥अत्राऽऽगतस्य ते कालः पृथ्व्यां भूयान् गतो नृप ।मन्वन्तराधिकः कालो युगानां शतकं गतम् ॥८७॥तव वंशोऽपि विच्छिन्नः कोटिशः क्षितिपा गताः ।किन्तु राजन् दिव्यक्षेत्रे नाम्ना श्रीपुरुषोत्तमे ॥८८॥कालस्य ह्रासशक्तिर्या कालश्च संहृतौ मया ।श्रीकृष्णस्य निदेशेन यावन्मन्दिरपूर्णता ॥८९॥सत्यलोकसमास्तत्र क्षणा देशाश्च तत्प्रजाः ।कृता मयाऽऽज्ञया हरेस्तत्र सन्ति त एव वै ॥९०॥श्रीस्वामिना मुकुटस्य मणिर्व्योम्नि रविः कृतः ।सत्यलोकसमं चाहर्निर्माति दिव्यतां नयन् ॥९१॥तस्माद् गच्छ महाराज! तवाऽनुपदमेव ह ।आयाम्येव प्रतिष्ठार्थं संभारान् कुरु चोचितान् ॥९२॥पूर्वे परार्धे भो राजन् क्षेत्रं श्रीपुरुषोत्तमम् ।नीलाऽश्मवपुरास्थाय न तत्याज जनार्दनः ॥९३॥साम्प्रतं मे द्वितीयं तु परार्धं समुपस्थितम् ।दारुमूर्तिरयं देवो मदायुः स्थास्यते पुनः ॥९४॥श्वेतद्वीपस्थकृष्णस्य रोमाणि कल्पपादपाः ।तन्मध्याद् वटवृक्षस्तु दारुमूर्त्यर्थमाहृतः ॥९५॥स्वयमुत्पतितः सिन्धोः सलिले सत्यपूरुषः ।घोरसंसारनाशार्थं मया पूर्वं प्रयाचितः ॥९६॥अनेकभक्तभक्त्या च दारुवर्ष्मा जनार्दनः ।श्रुत्वैवं ब्रह्मवचनं प्रणिपत्य पितामहम् ॥९७॥विमानेन नारदेनाऽऽजगामेन्द्रद्युतिर्भुवम् ।मन्दिरं सुभगं दिव्यं पूर्णं वीक्ष्य जहर्ष सः ॥९८॥ननाम दण्डवद्भूमौ श्रीनृसिंहं ननाम च ।शिल्प्यादीन् प्राह भूपश्च स्वयं ब्रह्मा पितामहः ॥९९॥एतत्प्रतिष्ठानविधौ सुरैः सहाऽऽगमिष्यति ।तावत् पद्मनिधिस्तत्र ब्रह्मप्रेरित आगतः ॥१००॥राजा सत्कारपूजादि चक्रे स्वागतमाचरत् ।नारदः सर्ववस्तून्यालिख्य सञ्चयपत्रके ॥१०१॥प्रतिष्ठार्थं ददौ पद्मनिधये सोऽपि सत्वरम् ।सम्पादनं सुवस्तूनामकारयत्तथा शुभाम् ॥१०२॥शालां स्वर्णमयीं तद्वन्नगरं नैकयोजनम् ।मण्डपं च तथा कुण्डं कारयामास सत्वरम् ॥१०३॥कारयामास च रथत्रयं सौवर्णमुत्तमम् ।रथं षोडशचक्रं च विष्णोर्वै गरुडध्वजम् ॥१०४॥पद्मध्वजे सुभद्राया वरं द्वादशचक्रकम् ।बलस्य च चतुर्दशचक्रकं दर्पणध्वजम् ॥१०५॥अथवा सीरिणः कार्यः सीरध्वजः समुत्तमः ।स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः ॥१०६॥तलस्थत्वादसौ तालस्तेन तालाङ्कितो बलः ।हस्तषोडशविस्तारो रथश्चक्रधरस्य वै ॥१०७॥चतुर्दश बलस्यापि सुभद्रायास्तु द्वादश ।न वासितव्यो देवोऽसावप्रतिष्ठे रथे यतः ॥१०८॥प्रासादे मण्डपे वापि पुरे तन्निष्फलं भवेत् ।राजा रथप्रतिष्ठां च कारयामास सत्वरम् ॥१०९॥रथस्येशानदिग्भागे शालां कृत्वा सुशोभनाम् ।तन्मध्ये मण्डपं कृत्वा वेदीं तत्र च निर्मलाम् ॥११०॥चतुरस्रां चतुर्हस्तमितां हस्तोच्छ्रिता तथा ।प्रकारयेत् पूर्वरात्रावुत्तरतः शुभे क्षणे ॥१११॥स्वस्ति प्रवाच्य चांकुरार्पणं प्रकारयेत्ततः ।द्वात्रिंशद्देवताभ्यश्च बलिं दद्याद् यथाविधि ॥११२॥प्रातर्वेद्यां मण्डले स्वस्तिके कुंभं निधापयेत् ।पञ्चपादपक्वाथेन पुण्यतोयैश्च पल्लवैः ॥११३॥रत्नगन्धौषधिगणैः पञ्चगव्यैः प्रपूरयेत् ।पूजयेद् वेष्टयेद् वस्त्रामावाहयेच्च तं हरिम् ॥११४॥तं पूजयेच्च विधिना वायव्यां समिधस्तथा ।आज्यं चरुं मन्त्रयित्वाऽष्टसाहस्रं हुनेत् ततः ॥११५॥सम्पातान्प्रापयेत् कुंभे रथं शंगारयेत्ततः ।सुगन्धयेद् धूपयेच्च ध्वजे न्यस्य समीरणम् ॥११६॥प्रपूज्य गरुडं प्रार्थ्य रथमूर्ध्नि निवेशयेत् ।तं कुंभं सेचयेत् प्लावयेद्रथं गरुडोपरि ॥११७॥ततः पूर्णाहुतिं दत्वा दक्षिणां भूयसीं ददेत् ।भोजयेच्च जनान् बलरथं प्रपूजयेत्ततः ॥११८॥द्वादशाक्षरमन्त्रेण लक्ष्मीसूक्तेन श्रीरथम् ।प्रार्थयेत् कमलं कृष्णनाभेस्त्वं चासनात्मकम् ॥११९॥जातं चाऽसि च देवानामाबोधार्थं स्थिरं भव ।इति पद्मध्वजे चोर्ध्वं समुच्छ्रयेन्नमेत्ततः ॥१२०॥रथे प्रतिष्ठिते चैवं देवानारोप्य सर्वशः ।मनुष्यैश्च नरैः स्त्रीभिर्गजाश्ववृवभादिभिः ॥१२१॥नेतव्यास्ते रथा ग्रामे भ्रामयित्वा सुरालयम् ।रथे स्थित्वा विप्रवर्यैर्बलिर्दातव्य उत्तमः ॥१२२॥बलिं गृह्णन्तु भो देवा आदित्या वसवो ग्रहाः ।मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगादयः ॥१२३॥असुरा यातुधानाश्च रथदेवा विनायकाः ।दिक्पाला लोकपालाश्चर्षयः कुर्वन्तु स्वस्ति च ॥१२४॥अविघ्नमाचरन्त्वेते मा सन्तु परिपन्थिनः ।सौम्या भवन्तु तृप्ताश्च दैत्या भूतगणादयः ॥१२५॥ततो वैदिकसूक्तैश्च चालयेत् तान् रथान् शनैः ।तत्रोत्पातान् शृणु लक्ष्मि! हानिदा ये भवन्ति३ ॥११६॥ईषाभंगे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ।तुलाभंगे वैश्यनाशः शम्या शूद्रक्षयस्तथा ॥११७॥धुराभंगे त्वनावृष्टिः पीठभंगे प्रजाभयम् ।चक्रभंगे परराज्यं ध्वजपातेऽन्यभूपतिः ॥१२८॥मूर्तिभंगे मरणं च पर्यस्ते देशविप्लवः ।अधोमुखे रथे जाते सर्वजानपदक्षयः ॥१२९॥एवं जाते बलिकर्म शान्तिहोमं प्रकारयेत् ।पूर्वोत्तरे च दिग्भागे रथस्याऽग्निं प्रकल्पयेत् ॥१३०॥समिद्भिर्घृतमध्वाज्यमूलाग्राभिश्च होमयेत् ।शान्तिवाचं स्वस्तिवाचं भग्नांगे हवनं चरेत् ॥१३१॥स्वस्ति भवतु भक्तेभ्यः स्वस्ति पुंस्त्रीभ्य इत्यपि ।गोपशुभ्यः स्वस्ति चास्तु जगतः स्वस्ति चास्तु वै ॥१३२॥शान्तिरस्तु शिवं चास्तु सर्वतः स्वस्ति चास्तु नः ।स्वामिनाथ जगन्नाथ रक्षां शान्तिं करोतु नः ॥१३३॥इति लक्ष्मि! कारयेत्तु शान्तिग्रहार्चनादिकम् ।राज्ञा तत्कारितं सर्वं नारदेनर्षिणा तदा ॥१३४॥इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चतुःप्रतिमानां सम्पूर्णता, पूजनं, मूर्त्यर्थं प्रासादनिर्माणम्, इन्द्रद्युम्ननारदयोर्ब्रह्माणं प्रति गमनम्, प्रतिष्ठार्थं पद्मनिधेरागमनम्, रथानां निर्माणं, पूजा, ध्वजादिः, रथे विघ्नफलम्, शान्तिकर्मादि चेति निरूपणनामा सप्ताशीत्यधिकपञ्च-शततमोऽध्यायः ॥५८७॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP