संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५८६

कृतयुगसन्तानः - अध्यायः ५८६

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच--
शृणु लक्ष्मि नारदस्तं नृपं प्राह कथां शुभाम् ।
बिल्वेशस्य कपोतेश्वरस्य ते कथयाम्यहम् ॥१॥
पुरा कुशस्थली साऽऽसीत् तीक्ष्णकुशैः समावृता ।
तत्र तप्त्वा तपः शंभुः पूज्यः स्यामिति वाञ्च्छया ॥२॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जपन् स तोषयामास हरिं श्रीपुरुषोत्तमम् ॥३॥
कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि द्विजः ।
कपोतेश्वरतां यातस्तत्र सम्पूज्यतां गतः ॥४॥
तस्य संपूजका यान्ति श्रीपतिं पुरुषोत्तमम् ।
अथैकदा दानवास्तु भक्षयन्ति जनान् बहून् ॥५॥
पातालाद्वै समागत्य तत्र श्रीनीलमाधवः ।
विवरं पूरयामास बिल्वफलं तदन्तरे ॥६॥
निक्षिप्य द्रुममकरोत् स्थापयामास शंकरम् ।
तेन दानवरोधश्च जातस्तत्र बिलेश्वरः ॥७॥
शंकरः समभूत्तस्याऽर्चनाद् याति परं पदम् ।
अथ राजा विमानेन ययौ श्रीपुरुषोत्तमम् ॥८॥
तदाऽभूद् दुर्निमित्तं च स्पन्दो वामाऽक्षिहस्तयोः ।
पप्रच्छ नारदं राजा चापशकुनकारणम् ॥९॥
नारदः प्राह तृतीये सायं वालुकयाऽऽवृतः ।
नीलमाधवदेवोऽत्राऽदृश्यतां च गतो भुवि ॥१०॥
श्रुत्वा राजा शोकमग्नो बभूव तु क्षणोत्तरम् ।
प्राह पुरोहितं याहि मत्सुतं चाभिषेचय ॥११॥
मालवेषु सदाऽथाऽत्र निवत्स्यामि युगान्तरम् ।
प्राणान्न धारयिष्यामि न द्रक्ष्यामि यदा हरिम् ॥१२॥
आयुःशेषं करिष्यामि सफलं क्षेत्रमास्थितः ।
इति द्रवन्तं राजानं नारदः प्राह धैर्यतः ॥१३॥
हरेर्माया तादृशी वै मा मोहं याहि तत्र वै ।
मामुवाच स्वयं ब्रह्मा गच्छेन्द्रद्युम्नकं प्रति ॥१४॥
जगन्नाथः प्रयात्येषः न च द्रक्ष्यति माधवम् ।
न शोकस्तत्र कर्तव्यो वाच्य एवं स भूपतिः ॥१५॥
तत्कृते परमात्मानं प्रसाद्य पुरुषोत्तमम् ।
श्वेतद्वीपान्नयिष्यामि सहस्रान्ते महाक्रतोः ॥१६॥
इन्द्रद्युम्नोऽश्वमेधानां सहस्रेण यजन् हरिम् ।
तिष्ठतु च तदन्ते स द्रक्ष्यति दारवीं तनुम् ॥१७॥
सोऽवतारो हरेः पुनस्तेन ख्यातिं गमिष्यति ।
पुरा स्म मणिमूर्तिस्तु चतुर्धाऽवस्थितो हरिः ॥१८॥
दिव्यदारुवपुर्भूयश्चतुर्धाऽवतरिष्यति ।
आयाहि राजन् पश्यावो वालुकादिशमैश्वरीम् ॥१९॥
नीलाद्रौ वर्तते देवो नृसिंहो विघ्ननाशकः ।
पश्यामस्तं महोग्रं स विघ्ननाशं करिष्यति ॥२०॥
नीलमाधवशैलं च दृष्ट्वा यास्याव एव ताम् ।
कपोतेशस्थलीं तस्यां शालां सहस्रवार्षिकीम् ॥२१॥
विनिर्मायाऽश्वमेधेन यज श्रीपुरुषोत्तमम् ।
नृसिंहप्रतिमां तत्र यज्ञे पूजय नित्यदा ॥२२॥
विघ्ननाशो भवेद् येन तवेष्टं स करिष्यति ।
इत्युक्तश्चेन्द्रद्युम्नस्तां दिश नत्वा ययौ पुरः ॥२३॥
तदा नारदसंसर्गाद् विदित्वा तु गिरेः शिरः ।
दिव्यसिंहवपुश्चास्ते कृष्णागुरुतरोरधः ॥२४॥
व्यात्तास्यो भीमदशनः पिंगसटाकुलो हरिः ।
हिरण्यकशिपोर्वक्षो दारयन् नखरैः प्रभुः ॥२५॥
अरुणाभो ललज्जिह्वः शंखचक्रधरो हरिः॥
किरीटमुकुटाढ्यश्च स्फारनेत्रभयंकरः ॥२६॥
दृष्ट्वा राजा प्रजाः सर्वे आनर्चुस्तं हरीश्वरम् ।
ततो ययुर्नीलमणिमाधवस्य स्थलं शुभम् ॥२७॥
न्यग्रोधं विपुलायामं शैलसान्नाहमुच्छ्रितम् ।
वालुकाभिः पूरितं च द्रुमं नारायणात्मकम् ॥२८॥
तथा स्थानं यत्र देवः स्वर्णसैकतसंवृतः ।
नारदो दर्शयामास नमन् स्मरन् मुहुः प्रभुम् ॥२९॥
वटमूलात् प्रतीच्यां हि नृसिंहस्योत्तरे नृप ।
अतिष्ठन् माधवो यत्र चतुर्मूर्तिधरः प्रभुः ॥३०॥
अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ।
पुरे पौरेः स्थापिताऽन्या माधवस्य प्रतिकृतिः ॥३१॥
सापि मुक्तिप्रदा चास्ते का कथा ब्रह्मस्थापिता ।
आविर्भावतिरोभावौ प्रजायेते युगे युगे ॥३२॥
अनुग्रहार्थं भक्तानां स्थितोऽत्र करुणालयः ।
इति सन्दर्शितं स्थानमिन्द्रद्युम्नो ननाम तत्॥ ॥३३॥
तुष्टाव परया प्रीत्या ध्यात्वा भूगर्भसंस्थितम् ।
सर्वेऽप्युपाया भगवन् भवन्ति तव दर्शने ॥३४॥
त्वयि दृष्टे प्रभिद्यन्ते वासनाकुलकोटयः ।
त्वमेव शरणे दीनमनुगृह्णीष्व मां विभो ॥३५॥
चर्मकृच्चक्षुषा पश्यामीश त्वां तत्प्रयोजनम् ।
इतिब्रुवन्तं चाकाशवाणी जगाद तं नृपम् ॥३६॥
मा चिन्तां व्रज भूपाल व्रजिष्ये त्वद्दृशोः पथम् ।
पैतामहं वचः प्राह नारदो यत्कुरुष्व तत्। ॥३७॥
अथाऽऽह नारदस्तं च श्रद्दधानं नृपं तदा ।
व्यवसाये सुकृतीनां देवा यान्ति सहायताम् ॥३८॥
तद् गच्छ राजंस्तत्रैव नीलकण्ठस्य सन्निधौ ।
स्थापयामि नृसिंहं च यागं कुरु च तत्पुरः ॥३९॥
दक्षिणे नीलकण्ठस्य धनुःशतान्तरे द्रुमः ।
चन्दनस्य वर्ततेऽस्य पश्चिमे भूमिका शुभा ॥४०॥
वाजिमेधसहस्रस्य क्षेत्रं दिव्यं भविष्यति ।
विश्वकर्मसुतस्तत्र प्रासादं घट्टयिष्यति ॥४१॥
गच्छ त्वमहमत्रैव स्थास्यामि दिनपञ्चकम् ।
आराध्यैनं दिव्यसिंहं साक्षाच्छ्रीपुरुषोत्तमम् ॥४२॥
प्रत्यर्चायां प्रतिष्ठाप्य प्राणेन्द्रियमनोयुतम् ।
नयिष्ये तत्र वै राजँश्चन्दनद्रुमसन्निधौ ॥४३॥
सन्निधावस्य यागस्तु फलातिशयवान् भवेत् ।
इत्युक्तो नृपतिस्तत्र ययौ ध्याने मुनिः स्थितः ॥४४॥
तावन्मनुष्यरूपेण पुत्रो वै देवशिल्पिनः ।
समाययौ त्वष्टृसुतो विश्वकर्मा तु सत्वरम् ॥४५॥
प्रासादं नरसिंहस्य पश्चिमाननमुत्तमम् ।
चतुर्थे दिवसे शीघ्रं पूर्णं चकार शोभनम् ॥४६॥
ततः प्रभाते विमले नारदः सुरमण्डलैः ।
देवीभिः सह नृत्यैश्च वादित्रैर्जयघोषणैः ॥४७॥
सुशोभितां विमानस्थां मणिरत्नाद्यलंकृताम् ।
मालासुगन्धलिप्तां च तेजःपरिधिशोभिताम् ॥४८॥
रम्यां प्रतिष्ठितप्राणां देवीभिरभिवारिताम् ।
आदाय नरसिंहस्य प्रत्यर्चां प्रत्युपस्थितः ॥४९॥
राजाद्यास्तं प्रणिपत्य स्थापयामास मन्दिरे ।
धरारमाभ्यां सहितामिन्द्रद्युम्नोऽतितुष्टुवे ॥५०॥
हयमेधसहस्रान्ते यथा त्वां चर्मचक्षुषा ।
दिव्यरूपं प्रपश्यामि तथाऽनुक्रोशय प्रभो ॥५१॥
यथा चेज्यसहस्रं मे निर्विघ्नं तत्समाप्यते ।
यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते' ॥५२॥
इति स्तुत्वा विररामाऽऽरार्त्रिकं प्रचकार सः ।
ज्येष्ठशुक्लद्वादशी या स्वातीनक्षत्रसंयुता ॥५३॥
तस्यां प्रतिष्ठितः क्षेत्रे दिव्यसिंहो महर्षिणा ।
पूजयित्वा वाजिमेधसहस्रफलमाप्नुयात् ॥५४॥
पञ्चामृतैर्वा क्षीरेण नारीकेलरसेन वा ।
सपायसैरुपचारैर्जपापुष्पैः प्रपूजयेत् ॥५५॥
सर्वोपचारैः सन्तुष्य नृसिंहधाम चाप्नुयात् ।
वैशाखस्य चतुर्दश्यां शनेर्दिने स्वात्यृक्षके ॥५६॥
आद्यावतारो नृहरेः सन्ध्यायां तं प्रपूजयेत् ।
अथ यज्ञे समायाताः सुराः ऋषयो वैष्णवाः ॥५७॥
पितरो वेदयज्ञादिकुशला भूसुरास्तथा ।
त्रैलोक्ये ये च राजानः सिद्धा विद्याधरादयः ॥५८॥
किन्नरा देवगान्धर्वाश्चारणा वैष्णवाश्च ये ।
समायाता मण्डपश्च योजनद्वयभूतले ॥५९॥
कृतश्च वेदिका क्रोशे कुण्डो मध्ये विशालकः ।
कृतः क्रोशद्वये विप्रा यज्ञीयास्तत्र संस्थिताः ॥६०॥
मध्ये नृपाणां देवानामृषीणां च शचीपतिम् ।
पुरोधसा समं पूर्वमर्चयामास ऋद्धिभिः ॥६१॥
ततः सिद्धान् देवमुनीन्देवान् राज्ञश्च वैष्णवान् ।
विप्रादीन् पूजयामास प्राह यान्तु प्रसन्नताम् ॥६२॥
महेन्द्र! चानुजानीहि प्रयक्ष्ये यज्ञपूरुषम् ।
हयमेधसहस्रेण यावत्तत्पूर्णतां व्रजेत् ॥६३॥
तावत्त्वं त्रिदशैः सार्धं सदोमध्यगतो वस ।
नीलमाधवप्राप्त्यर्थं यजामि नेन्द्रताऽऽप्तये ॥६४॥
पुनः प्रकाशिते कृष्णे श्रेयो वोऽपि भविष्यति ।
श्रुत्वा देवास्तदा प्राहुर्वयं सानुमतास्तव ॥६५॥
सुखं यजस्व राजेन्द्र वैकुण्ठं भक्तवत्सलम् ।
वयं तावन्नररूपा भजिष्यामोऽत्र वै हरिम् ॥६६॥
अथ यज्ञसमारम्भे भगवन्तमपूजयत् ।
पितॄन् विप्रान् वरयित्वा सपत्नीक उपस्थितः ॥६७॥
स्वस्तिवाच्यं द्विजान् शुद्धान् पुण्याहं वृद्धिकर्म च ।
निर्वर्त्य वरयामास ऋत्विजस्तेऽपि तं नृपम् ॥६८॥
सपत्नीकं दीक्षयित्वा वेद्यामाहवनीयकम् ।
प्रज्वलन्तं प्रणीयाऽथ मुमोच प्रोक्षितं हयम् ॥६९॥
ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ।
अधिष्ठाय सदःस्थश्च भुक्त्यर्थं सन्दिदेश ह ॥७०॥
सर्वान् सर्वविधान्येव भोज्यानि समदापयत् ।
चतुर्दशसु लोकेषु यानि भोज्यानि सन्ति च ॥७१॥
यज्ञार्हाणि विचित्राणि सात्विकानि ह्यदापयत् ।
कामगावः कल्पवृक्षाश्चिन्तामणयः सर्वशः ॥७२॥
कल्पलताः सिद्ध्यश्च यथेष्टं रचयन्ति तत् ।
लक्ष्मीः स्वयं स्थिता तत्र सर्वस्मृद्धिसुभोगदा ॥७३॥
न न्यूनं चाभिलषितं तद्यज्ञे चाऽभवत्तदा ।
चतुर्दशनिवासानां वैभवाः सदृशास्तदा ॥७४॥
वैराजानां यथा तद्वद् आसन् स्वामिप्रतापतः ।
यत्रक्रियास्तथा मन्त्रा विषयश्च क्रमाः स्वराः ॥७५॥
यथार्था एव तत्राऽऽसन् न वै कर्मोपघातकम् ।
एवं प्रवर्तते यज्ञो विरतौ तु हरेः कथाः ॥७६॥
प्रवर्तन्ते ब्रह्मविद्याः सद्भिः सतीभिरीडिताः ।
लक्ष्मीनारायणसंहितायाः कथा प्रजायते ॥७७॥
अग्निमुखाः सुरास्तृप्ता नाऽस्मरन्ताऽमरावतीम् ।
पातालवासिनः सर्वे तृप्तास्तद्भोजनैः सदा ॥७८॥
सर्वे चेतनमूर्ताश्च तत्तद्भोजनपानकैः ।
यथा तृप्ताः पुनर्गन्तुं गेहं नेच्छां व्यधुर्निजम् ॥७९॥
इत्थं प्रवर्तितो यज्ञश्चेन्द्रद्युम्नस्य भूभृतः ।
त्रैलोक्यतृप्तिदः क्षेत्रे ह्यपूर्वः पुरुषोत्तमे ॥८०॥
जगदीशप्रसादाय पितामहनिदेशतः ।
एकोनं क्रमशः संस्था अवाप पृथिवीपतिः ॥८१॥
सहस्रं हयमेधस्य, नृपतिर्दिव्यतां व्रजेत्, ।
सोमाभिषेकतः पूर्वं सप्तमी या च रात्रिका ॥८२॥
तस्यास्तुरीयप्रहरे स्वप्ने राजा ददर्श ह ।
प्रत्यक्षं श्वतद्वीपं च क्षीरसागरमध्यगम् ॥८३॥
तत्र सन्मण्डपे दिव्ये वरसिंहासनस्थितम् ।
ददृशे शंखचक्रादिधरं श्रीपरमेश्वरम् ॥८४॥
मेघवर्णं वनमालाधरं लावण्यशोभितम् ।
सौन्दर्यश्रीनिकेतं च सर्वदिव्यविभूषणम् ॥८५॥
दक्षपार्श्वे स्थितं शेषमनन्तं श्वेतवर्णकम् ।
फणासहस्रकैश्छत्रीकृता येन वितानिका ॥८६॥
सकुण्डलं नीलवस्त्रं हलादियुक्चतुर्भुजम् ।
हारकेयूरवलयमुद्रिकाभिरलंकृतम् ॥८७॥
दक्षपार्श्वस्थितां भद्रां लक्ष्मीं ददर्श वै तदा ।
वराऽभयाऽब्जहस्तां च कुंकुमाभां सुलोचनाम् ॥८८॥
त्रैलोक्ययुवतीवृन्ददृष्टान्ताद्भुतविग्रहाम् ।
पद्मासनां लावण्यादिगुणाढ्यां सुविभूषिताम् ॥८९॥
पितामहं च ददृशे पुरतोऽस्य कृताञ्जलिम् ।
वामपार्श्वस्थितं चक्रं नानामणिविभूषितम् ॥९०॥
सनकाद्यैर्मुनीन्द्रैश्च स्तूयमानं विलोक्य सः ।
स्वप्नाद् बहिः समागत्य नमश्चकार वै मुहुः ॥९१॥
मेने सहस्रं सफलं यज्ञानां स्वकृतार्थताम् ।
शशंस नारदस्याऽग्रे यथा स्वप्नोऽन्वभूयत ॥९२॥
तत्फलं नारदः प्राह दशाहे हरिदर्शनम् ।
प्रत्यक्षं स्यात् ततो यज्ञं पूर्णं कुरु यथार्थतः ॥९३॥
ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका ।
दीयन्ते सर्वदानानि सुत्याऽभूत् कल्पवल्लिका ॥९४॥
तन्मध्येऽवभृथे स्नातुं कृतो यत्र ह्रदो महान् ।
दक्षिणे तटभूदेशे बिल्वेश्वरसमीपतः ॥९५॥
नियुक्ताः सेवकास्तत्र दृष्ट्वा वटं ससंभ्रमाः ।
न्यवेदयन्त नृपतिं दृष्टो वृक्षस्तटे महान् ॥९६॥
सामुद्रे च जले मूलं शाखाः स्नानगृहाऽभिगाः ।
शंखचक्रांकितः सोऽस्ति सर्वत्र सूर्यसन्निभः ॥९७॥
सुगन्धो देवभूवृक्षो विप्णुर्व्याजेन चागतः ।
नारदः प्रहसन् प्राह पूर्णाहुतिः प्रजायताम् ॥९८॥
स्वप्ने विष्णुस्त्वया दृष्टो दृष्टो वटस्तथाऽनुगैः ।
समाप्याऽवभृथं स्नानं कृत्वोत्सवं तटे तथा ॥९९॥
महावेद्यां स्थापयाऽत्र यज्ञेशं तरुरूपिणम् ।
विचार्येत्थं ययतुश्च द्रुमं भूपतिनारदौ ॥१००॥
दृष्ट्वा वृक्षं चतुःशाखं चतुर्भुजं जलाद् बहिः ।
आकर्षयित्वा मनुजैः पूजयामासतुश्च तौ ॥१०१॥
गीतवादित्रनिर्घोषैर्वेदमन्त्रादिभिः सह ।
स्रग्गन्धाऽलंकृतं वृक्षं महावेदीं विनिन्यतुः ॥१०२॥
सहस्रैरुपचारैश्च वेद्यां पुपूज भूपतिः ।
केन मूर्तिः कथं कार्येत्युवाच नारदं नृपः ॥१०३॥
तावदाकाशवाणी चाऽभवत्तत्र शुभावहा ।
प्रच्छाद्यतां महावेदी तरुयुक्ता शुभाऽम्बरैः ॥१०४॥
पञ्चदशदिनान्येव स्वयं मूतिर्भविष्यति ।
नारायणः स्वयं तत्र वृद्धवर्धकिरूपधृक् ॥१०५॥
उपस्थितः स वै वृद्धः शस्त्रपाणिः कलान्वितः ।
एनमन्तःप्रविश्यैव द्वारं बध्नन्तु यत्नतः ॥१०६॥
बहिर्वाद्यानि कुर्वन्तु यावत्तु घटना भवेत् ।
श्रुतो हि घटनाशब्दो बाधिर्याऽन्धत्वदायकः ॥१०७॥      
सन्ताननाशकश्चापि राष्ट्रस्य नाशकोऽपि च ।
नाऽन्तःप्रवेशनं कुर्यान्न पश्येच्च कदाचन ॥१०८॥
नियुक्तदन्यः पश्येच्चेद् राज्ञो राष्ट्रस्य चैव ह ।
द्रष्टुश्चापि महाभीतिरन्धता चक्षुषोर्द्वयोः ॥१०९॥
तस्मान्नाऽवेक्षणं कार्यं यावत्प्रतिमनिर्मितिः ।
निर्व्यूढस्तु स्वयं देवः कृत्यान्ते संवदिष्यति ॥११०॥
वर्द्धकिर्घटयिष्यामीत्युक्त्वा चान्तर्दधे तदा ।
वेद्यां नारायणः काष्ठे वस्त्राऽधो न व्यदृश्यत ॥१११॥
वेदीं राजा बन्धनैश्च रक्षयामास सर्वशः ।
यदुवाच गिरां देवी तद्वत्परिचचार ह ॥११२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बिल्वेशकपोतेशकथा, राज्ञोऽपशकुनानि, दिव्यनृसिंहादिदर्शनम्, कपोतेशस्थल्यां यज्ञमण्डपादिकरणम्, अवभृथाऽन्ते व्योमवाण्या कथितवटवृक्षस्य वेद्यामाच्छादनमित्यादिनिरूपणनामा षडशीत्यधिकपञ्चशततमोऽध्यायः ॥५८६॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP