संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५८३ Translation - भाषांतर श्रीनारायण उवाच-अथ तेऽत्र चमत्कारं कथयामि शृणु प्रिये ।मूर्तिरूपोऽस्म्यहं दिव्यो मोक्षदः सुखदः शुभः ॥१॥यथा पृथ्व्यादितत्त्वानि जीवात्मनो हि मूर्तयः ।अमूर्तस्य गृहं मूर्तं तथा मे प्रतिमा गृहम् ॥२॥एकतत्त्वात्मकं चात्मस्वरूपं चर्मचक्षुषा ।वीक्ष्यते न ततश्चाऽहं मूर्त्यात्मा दृश्यतां गतः ॥३॥पृथ्वीशरीरकश्चाऽहं वारिशरीरकस्तथा ।तेजशरीरकश्चापि वायुशरीरकस्तथा ॥४॥आकाशमूर्तिकश्चाहं तन्मात्रामूर्तिकस्तथा ।मनोबुद्ध्यादिशरीरश्चात्मेश्वरशरीरकः ॥५॥ब्रह्मशरीरकश्चाऽहं मुक्तशरीरकस्तथा ।सर्वशरीरकश्चाहं सर्वं दिव्यं मदाश्रयात् ॥६॥दिव्यत्वे वेदमन्त्रादिकर्मकाण्डः प्रयोजकः ।प्रतिष्ठा कारणं तत्र मुख्यं मम प्रवेशने ॥७॥ततोऽहं तच्छरीरेण सर्वं करोमि देहिवत् ।यद्येवं मां विजानीयान्मुक्तो भवति मच्छ्रितः ॥८॥निश्चेष्टो दारुवर्ष्माऽपि दिव्यलीलाविलासकृत् ।क्षमेऽहं स्वल्पभक्त्याऽपि भक्ताऽपराधकोटिकम् ॥९॥कुरुक्षेत्रे पुरा त्वास्तां ब्राह्मणक्षत्रियावुभौ ।सखायौ धर्महीनौ च वृत्तच्युतौ विमोहितौ ॥१०॥पण्ययोषित्सहवासौ स्वधास्वाहाविवर्जितौ ।पारलौकिकचिन्ता तु तयोः स्वप्नेऽपि नागता ॥११॥एकदा तु कुरुक्षेत्रे विष्णुयागो व्यवर्तत ।अगच्छतां यज्ञवाटमपश्यतां क्रियाविधिम् ॥१२॥शृण्वानौ वैदिकान् मन्त्रान् पापं तयोर्न्यवर्तत ।धर्मे मतिस्तयोर्जाता पुण्डरीकाऽम्बरीषयोः ॥१३॥विवेकोऽपि समुद्भूतस्तरितुं वै भवार्णवम् ।कृतपापप्रपुञ्जानां क्षालनार्थं च भूसुरान् ॥१४॥अपृच्छतामभिवाद्य विज्ञाप्य कल्मषं निजम् ।सुरामिषव्यवायादि चौर्यं नार्यादिहिंसनम् ॥१५॥तच्छ्रुत्वा वैष्णवश्रेष्ठो महाभागवतो द्विजः ।दिव्यक्रियापरश्चैतावुवाच भक्तिसंभृतम् ॥१६॥भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ।मुक्तिं चेद् वाञ्च्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ॥१७॥क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ।तमाराध्य जगन्नाथं लक्ष्मीराधाप्रभापतिम् ॥१८॥पापक्षयं तथा मुक्तिं प्रयस्यथाऽक्षरे पदे ।तन्मा विलम्बं कुरुत प्रयातं तत्र सत्वरम् ॥१९॥उत्कले नीलशैले च वारिधेः सन्निधौ तटे ।इत्युक्तौ तौ ऋषीन्नत्वा ययतुः पुरुषोत्तमम् ॥२०॥ध्यायन्तौ मनसा विष्णुं शुद्धाहारव्रतावुभौ ।गत्वा स्नात्वा सर्वतीर्थाश्रयाब्धौ मन्दिरं प्रति ॥२१॥द्वारि कृत्वा दण्डवच्च तिष्ठन्तौ दर्शनेच्छया ।भगवन्तं निरीक्षन्तौ नाऽपश्यतां यदा हि तौ ॥२२॥निराशौ तु तदा भूत्वाऽऽरभेतेऽनशनं व्रतम् ।कीर्तयन्तौ हरेर्नामाऽभवतां लीनमानसौ ॥२३॥अथ तृतीयरात्रौ तौ ज्योतिरेकमपश्यताम् ।पुनर्लयं गतं ज्योतिस्तौ चोपवसतां स्थिरौ ॥२४॥मध्ये सप्तमरात्रेश्च तौ श्रीहरिमपश्यताम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥२५॥चतुर्भुजं सायुधं च रत्नाढ्यपादुकास्थितम् ।कमलाक्षं हास्यमुखं वामे लक्ष्मीं स्वबाहुना ॥२६॥पार्श्वे चाकर्षयन्तं च गृह्णन्तं श्रीकराच्छुभम् ।ताम्बूलकं मुखे चाक्ष्णोः प्रेमप्रवाहपूरितम् ॥२७॥तेजःपरिधिसंव्याप्तं सखीभिः परिवारितम् ।रत्नवेत्रकराभिश्च तथा चामरपाणिभिः ॥२८॥धृतगन्धप्रदीपाभिर्भूषिताभिर्विभूषणैः ।रत्नछत्रं धृतवत्या शोभितं पुरुषोत्तमम् ॥२९॥धूपपात्रं धृतवत्या धूपितं पुरुषोत्तमम् ।कांचित् सहासां पश्यन्तं हसन्तं सुमनोहरम् ॥३०॥तथा स्तुवतो देवांश्च सिद्धांश्च सनकादिकान् ।नारदाद्याँश्च गन्धर्वान् प्रह्लादादींश्च वैष्णवान् ॥३१॥नृत्यन्तं च प्रसादार्थमग्रतोऽप्सरसो गणम् ।एवं सर्वं च तौ दृष्ट्वा दिव्यज्ञानौ बभूवतुः ॥३२॥त्रिः परिक्रम्य तं कृष्णनारायणं कृताञ्जली ।तुष्टुवाते मुहुस्तौ च हृदयस्थं दृशोश्चरम् ॥३३॥आवां कामार्थलुब्धौ च पापमात्राभिचारिणौ ।ऋषीणां कृपया चात्र शरणं ते ह्युपागतौ ॥३४॥अनुकम्पय नौ नाथ सुदीनौ शरणागतौ ।मूढौ दुष्कृतकर्माणौ पतितौ भवसागरे ॥३५॥कोऽन्यस्त्वत्सदृशो बन्धुर्महाभयनिवारकः ।स्वार्थशून्यः पराथैकध्येयोऽनाथपतिः प्रभुः ॥३६॥नारायणेति त्वन्नाम चतुर्वर्गैकसाधनम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥३७॥मन्त्रस्ते मोक्षदश्चातिपापिनां पावकोऽस्ति हि ।जप्तो भवान् परं पारं प्रापयत्येव तेन हि ॥३८॥तन्नौ प्रसीद देवेश दृढां भक्तिं प्रदेहि नौ ।घोराद् दुस्तरखाताच्च समुत्तारय केशव ॥३९॥इन्द्रियाणि मनो बुद्धिस्तव मूर्तौ वसन्तु नः ।आत्मा संस्कारसहितश्चार्पितस्तव पादयोः ॥४०॥प्रसीद देव सर्वात्मन्नसंख्येयशिरोभुज ।असंख्यघ्राणनयनपाणिपाद नमोऽस्तु ते ॥४१॥षङ्विंशस्त्वं चान्तरात्मन् निष्प्रपंचः प्रवर्तसे ।चतुष्पुमर्थमूर्तिस्त्वं जगन्नाथ नमोऽस्तु ते ॥४२॥त्वदाराधनया कृष्ण भवन्ति सर्वसिद्धयः ।योगाभ्यासं विना चास्मै कृष्णाय ते नमोनमः ॥४३॥भक्तिं दृढां प्रदेह्यावां नास्त्यन्यत्प्रार्थनीयकम् ।यावत्प्राणान्धारयावस्तावद्भक्तिर्दृढा त्वयि ॥४४॥ततः पारेऽपि ते भक्तिं देहि नारायणप्रभो ।अगाधभवपंकेऽत्र निमग्नयोः परायणम् ॥४५॥दास्यं नाथ सदा देहि चानुकम्पय नौ विभो ।इतिस्तुवन्तौ तौ भक्तौ पेततुर्दण्डवत् क्षितौ ॥४६॥प्रसीदेति वदन्तौ च मुहुश्चक्रतुर्दर्शनम् ।दिव्यदृष्ट्या विलोक्यैवं नेमतुश्च मुहुर्मुहुः ॥४७॥तावददृश्यतां यातो लक्ष्मीनारायणः पतिः ।तावुभौ चर्मनेत्राभ्यां पुण्डरीकाम्बरीषकौ ॥४८॥मायया दर्शनं दिव्यं स्वप्नदृष्टमबुध्यताम् ।ततः सिंहासनस्थं श्रीपतिं ददृशतुः पुनः ॥४९॥काष्ठरूपं दिव्यकल्गिशोभाढ्यमुकुटान्वितम् ।ललाटफलके स्वर्णवर्णबिन्दूर्ध्वपुण्ड्रकम् ॥५०॥नवजीमूतसंकाशं फुल्लपद्मायतेक्षणम् ।सद्रत्नसारजडितसौवर्णकुण्डलोज्ज्वलम् ॥५१॥रक्ताधरं तिलपुष्पनासिकं वनमालिनम् ।शंखचक्रगदापद्मायुध चायतवक्षसम् ॥५२॥मन्दहास्याननं दिव्यस्वर्णकटकबाहुकम् ।श्रीवत्सकौस्तुभमौक्तिकादिहाराढ्यवक्षसम् ॥५३॥आजानुयुगलं स्वर्णशृंखलाढ्यप्रकोष्ठकम् ।सद्रत्नखचितोर्मिकाशोभिताङ्गुलिकाकरम् ॥५४॥अभयं दर्शयन्तं च करेण मालिकान्वितम् ।क्षौमपिशंगधौत्रं च दिव्यचन्दनचर्चितम् ॥५५॥पुष्पहारालिसंशोभद्वक्षःस्थलस्थितश्रियम् ।पुष्पगुच्छान्वितकरं सुवर्तुलकपोलकम् ।धनुःकम्मानिकाकाराऽधरद्वयमनोहरम् ॥५६॥ईषद्गोचरश्मश्रुसत्सूक्ष्मरेखाऽधरान्वितम् ।कामकोटिप्रलावण्यप्रेमाऽब्धिकंजलोचनम् ॥५७॥आह्वयन्तं कटाक्षेण ज्ञापयन्तं च हृच्छ्रयम् ।सप्तविंशतिहारालिसौवर्णरशनाकटिम् ॥५८॥मञ्जीरकिंकिणीजालशब्दितचरणद्वयम् ।अलक्तकादिसंलग्नशोणरूपाढ्यपत्तलम् ॥५९॥सूक्ष्मचन्द्रकृतावासोन्नतवर्तुलसन्नखम् ।धनुर्ध्वजत्रिशूलस्वस्तिकमत्स्यादिहस्तकम् ॥६०॥ऊर्ध्वरेखाऽर्धचन्द्रादिवज्राॆकुशादिपत्तलम् ।नवयौवनपूरस्थं चित्तचौरं पतिं प्रभुम् ॥६१॥अद्राष्टां च तौ सुभक्तौ श्रीस्वामिपुरुषोत्तमम् ।तौ श्रीहरेर्दक्षभागे ददृशाते हलायुधम् ॥६२॥संकर्षणं प्रभुं शेषं नैकब्रह्माण्डसत्फणम् ।तं बलं यत्सहस्रादिफणामण्डलभूषितम् ॥६३॥धवलं समुकुटं च सौवर्णकुण्डलाञ्चितम् ।दिव्यमालाधरं नीलाम्बरं पंकजनेत्रकम् ॥६४॥प्रोन्नतपीनवक्षःस्थमणिहारालिराजितम् ।शंखचक्रगदापद्ममूशलहलधारिणम् ॥६५॥अथ मध्ये तयोः सौम्यां भद्रां चम्पकसूज्ज्वलाम् ।ददृशाते च तौ रम्यां समारब्धसुयौवनाम् ॥६६॥कुंकुमारुणबिन्द्वाढ्यललाटफलकोज्ज्वलाम् ।सौवर्णतन्तिकाराजद्भावकेसरचन्दनाम् ॥६७॥कबरीभारशोभाढ्यां धम्मिलाकर्षणान्विताम् ।कर्णनासागलबाहुप्रकोष्ठकटिभूषणाम् ॥६८॥विद्युत्प्रभोज्ज्वलशाटीकञ्चुकीघर्घरीयुताम् ।सर्वलावण्यसहितां लक्ष्मीं कृष्णप्रियां ध्रुवाम् ॥६९॥ताम्बूलकमलाद्यैश्च शोभितां व्यजनान्विताम् ।दिव्यनेपथ्यसौन्दर्यसौरतानन्दवासिनीम् ॥७०॥अद्राष्टां च शतसूर्यसमैकारसुदर्शनम् ।सहस्रार च भक्तानां रक्षाकरं प्रमुक्तिदम् ॥७१॥दार्वग्रनिर्मितं चक्रं हरिं भद्रां बलं तथा ।चतुर्धाऽवस्थितं कृष्णं दृष्ट्वा तौ विप्रबाहुजौ ॥७२॥विस्मयं जग्मतुः प्रातः श्रद्दधतुश्च दिव्यताम् ।न दारुप्रतिमा चेयं साक्षाद् ब्रह्म प्रकाशते ॥७३॥दारुमिश्रेण भगवान् तीर्थराजतटे स्थितः ।वटमूले दिव्यरूपो यं दृष्ट्वा मुच्यते जनः ॥७४॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।क्षितौ यदावतरति चतूरूपः प्रकाशते ॥७५॥जगन्नाथस्य निकटे चावां स्थास्याव एव तु ।इति निश्चित्य भक्तौ द्वौ कृष्णे भक्तिपरायणौ ॥७६॥तत्र स्थितौ चिरं संप्रजयन्तौ कृष्णमानसौ ।दिव्यौ भूत्वा ययौ श्रीमत्कृष्णनारायणाक्षरम् ॥७७॥मुक्तिपदं परं धामाऽपुनरावृत्तिलक्षणम् ।एवं ये भजमानास्तमनादिश्रीनरायणम् ॥७८॥वासं यास्यन्ति पुरुषोत्तमपुर्यां नराः स्त्रियः ।दिव्याश्चतुर्भुजा भूत्वा प्रयास्यन्ति ममाऽक्षरम् ॥७९॥अपि कीटपतंगाद्या वियुज्यन्तेऽसुभिश्च ये ।तेऽपि कृष्णस्य सामर्थ्यात् प्रयास्यन्ति परं पदम् ॥८०॥सकामाः स्वर्गमेष्यन्ति लोकान् वैराजसंज्ञकान् ।ऐश्वराँस्तेषु वै दिव्यान् भोगान् भुक्त्वा ततः परम् ॥८१॥प्रयास्यन्ति मम लोकं चाक्षरादपि तूत्तमम् ।इत्याह भगवान् लक्ष्मीं चोत्कले पुरुषोत्तमे ॥८२॥दक्षिणस्योदधेस्तीरे वसन्ति वैष्णवा मम ।नरा नार्यो धर्मयुक्ता मम भक्तिपरायणाः ॥८३॥ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ।स्वर्णरेखामहानद्योर्मध्ये देशः स उत्कलः ॥८४॥भूस्वर्ग एष एवाऽस्ति देशः श्रीपुरुषोत्तमः ।धर्मार्थकाममोक्षाणां प्रदो नारायणाश्रयात् ॥८५॥नार्यः पतिव्रता यत्र नरा पत्नीव्रतस्थिताः ।सदा कृतयुगो यत्र मद्भक्तेषु प्रवर्तते ॥८६॥तेषां तु दर्शनाल्लक्ष्मि! मुक्तिर्भवति शाश्वती ।पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं लभेज्जनः ॥८७॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने श्रीजगन्नाथपुर्यां विप्रक्षत्रिययोर्भगवत्साक्षात्कारेण मुक्तिरित्यादिनिरूपणनामा त्र्यशीत्यधिकपञ्चशततमोऽध्यायः ॥५८३॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP