संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५८०

कृतयुगसन्तानः - अध्यायः ५८०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
भृगुक्षेत्रे सोमतीर्थं यत्राऽऽश्चर्यमभूत् पुरा ।
शम्बरो नाम राजाऽभूत्तस्य पुत्रस्त्रिलोचनः ॥१॥
त्रिलोचनसुतः कण्ठः पापनिष्ठो बभूव ह ।
वने विभ्रमतस्तस्य मृगयूथमदृश्यत ॥२॥
शरैस्तान् हतवाँस्तेषु द्विजो मृगस्वरूपधृक् ।
हतस्तेन च पापेन ब्रह्महत्यात्मकेन सः ॥३॥
कण्ठः क्षितिं भ्रमन्प्राप्तो नर्मदानागसंगमम् ।
स्नातो रेवाजले वारि पपौ चाथ मृगादनः ॥४॥
वृक्षच्छायां समाश्रित्य सुप्तस्ततः क्षणान्तरे ।
तत्र सोमेश्वरं बाणं समानर्च जलादिभिः ॥५॥
तावत् कश्चिद् ब्राह्मणो वै समायाति च मार्गगः ।
रक्तवस्त्रधरा नारी मार्गे तमाह भो द्विज ॥६॥
मम भर्ता सोमतीर्थे तिष्ठत्येनं रुषा वद ।
तव पत्नी त्वदर्थं सा वटस्था त्वां समीक्षते ॥७॥
इत्युक्तः स ब्राह्मणस्तु कण्ठमागत्य चाह तत् ।
मया वटे स्थिता दृष्टा पाशहस्ता भयंकरा ॥८॥
तव भार्या त्वाह मां त्वं भर्तारं प्रेषयाऽत्र मे ।
संगमादर्धक्रोशे सा दूरे तिष्ठति भामिनी ॥९॥
कण्ठः स्वं प्रेषयामास भृत्यं यत्र स्थिता हि सा ।
गत्वा भृत्यः पप्रच्छैनां काऽसि कथं च तिष्ठसि ॥१०॥
स्त्र्युवाच तं कण्ठभृत्यं ब्रह्महत्या मृगोद्भवा ।
मृगघ्नं सम्प्रतीक्षेऽत्र तदर्थं चोद्भवो मम ॥११॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥१२॥
नर्मदानागसंगेऽत्र तटे क्रोशार्धमात्रके ।
न संविशेद् ब्रह्महत्या तेन तिष्ठामि चात्र वै ॥१३॥
गच्छ त्वं प्रेषयेः शीघ्रं मया मुक्तं पतिं मम ।
भृत्य आगत्य राजानं कण्ठमाह तथैव च ॥१४॥
राजा शोकं जगामाऽऽशु पपात धरणितले ।
उवाच प्राणसन्त्यागं करोम्यत्र तु संगमे ॥१५॥
शीघ्रमानीयतां वह्निरिन्धनानि बहून्यपि ।
आनीतं यत्क्षणात् सर्वं भृत्यैः राजा तु संगमे ॥१६॥
स्नात्वा वह्निं प्रसंज्वाल्य नत्वा श्रीसोमनाथकम् ।
त्रिःप्रदक्षिणकं कृत्वा हृदि कृत्वा जनार्दनम् ॥१७॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
जपन् विवेश विष्णुं श्रीपतिं ध्यायन् चतुर्भुजम् ॥१८॥
स्मरन्नारायणं कृष्णं सुगतिं मे कुरु त्विति ।
तावद् विमानं दिव्यं वै विष्णुपार्षदसेवितम् ॥१९॥
आगतं तं चमत्कारं दृष्ट्वा भृत्या अपि ध्रुवम् ।
कृत्वा च निश्चयं मोक्षे विविशुस्ते हुताशनम् ॥२०॥
विमानस्था दिव्यरूपा भूत्वा ते पार्षदोत्तमाः ।
ययुर्दिव्यं हरेः स्थानं लक्ष्मीमाणिक्यशोभितम् ॥२१॥
प्रभापार्वतीसंजुष्टं हंसामंजुलिकाश्रितम् ।
चम्पादयारमाहैमीमुक्तादेवीसमर्चितम् ॥२२॥
कृष्णनारायणं तास्तु सेवन्ते ब्रह्मधामगाः ।
सोमतीर्थप्रसंगे देयानि दानानि भावतः ।
पितरस्तस्य तृप्यन्ति वंशो मुक्तिं प्रयाति च ॥२३॥
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।
भ्रूणहा 'शुद्ध्यति तत्र ह्येवमेव न संशयः ॥२४॥
ऋणमोचनसंज्ञं च तीर्थं गच्छेत्ततः परम् ।
दिव्यैः पैत्र्यैर्मानुषैश्च ऋणैरात्मकृतैरिह ॥२५॥
मुच्यते तत्स्थले स्नात्वा स्वर्गे देवः प्रमोदते ।
अथोत्तरे तटे वारौ वैष्णवं तीर्थमुत्तमम् ॥२६॥
जलशायीति वै नाम्ना विष्णुरास पुराऽत्र वै ।
नलमेघः पुरा दैत्यो बभूव सुरकष्टदः ॥२७॥
देवा जग्मुर्हरिं प्राहुर्दैत्यनाशाय माधवम् ।
भगवान् गरुडारूढश्चक्रं नीत्वा समाययौ ॥२८॥
नलमेघसखा धुन्धुमारो युद्धाय निर्गतः ।
हिमालयस्य वै द्रोण्यां विष्णुना घातितश्च सः ॥२९॥
अथाययौ महारुष्टो नलमेघो हरिं प्रतिं ।
युयुधे बहुधा तत्र विष्णुना सोऽपि घातितः ॥३०॥
सुदर्शनेन चक्रेण दृष्टस्तत्र तदालयः ।
महागुहान्तरे कन्या दिव्या दैत्येण रक्षिताः ॥३१॥
मानुष्यश्चाथ देव्यश्च गान्धर्व्यः शैल्य इत्यपि ।
चतुर्दशसहस्राणि हत्वा हत्वा जनान् बहून् ॥३२॥
ता दृष्टा विष्णुना तत्र दैत्यस्य कामिनी तथा ।
नाम्ना सा मंगलादेवी रुरोदाति मुहुर्भृशम् ॥३३॥
श्रुत्वा दैत्यवधं भक्ता कृष्णनारायणं पतिम् ।
वव्रे च वव्रिरे कन्याः सर्वाः श्रीमाणिकीपतिम् ॥३४॥
अक्षराधिपतिं सतां पतिं ता गरुडस्थिताः ।
समानीता नर्मदायां स्नापिता विष्णुना ततः ॥३५॥
तीर्थं कृत्वा जलशायिस्वरूपं भगवान् स्वयम् ।
नर्मदायां स्वीचकार ताः सर्वाः शयने क्षणम् ॥३६॥
अथ कुंकुमवाप्यां स भगवान् गरुडस्थितः ।
सर्वाभिः सह पत्नीभिः समाययौ निजस्थलम् ॥३७॥
लोमशेन च ताः सर्वा उपनीतवतीकृताः ।
नित्यं तिष्ठन्ति ता विष्णोः पार्श्वे धाम्नि क्षितावपि ॥३८॥
अश्वपट्टसरस्तीर्थे प्रासादेषु हरिप्रियाः ।
मुक्ताः स्युस्ते च शृण्वन्ति य इमां वैष्णवीं कथाम् ॥३९॥
ते धन्या मानुषे लोके पुण्याः पुण्यतमाः खलु ।
येषां भवति संयोगः साक्षात् कृष्णस्य भूतले ॥४०॥
दिव्यास्ते वै प्रजायन्ते नरा नार्यः स्थिरं चरम् ।
ब्रह्माश्रये जले दिव्ये स्नात्वा दिव्या भवन्ति ते ॥४१॥
अथ तीर्थं परं चन्द्रादित्याख्यं पावनं चरेत् ।
चण्डमुण्डौ पुरा त्वास्तां दानवौ नर्मदातटे ॥४२॥
सुतपश्चेरतुस्तत्र ध्यायतो भास्करं च तौ ।
सूर्यः प्रतोषितः प्राह वृणुतं सद्वरं तदा ॥४३॥
अजेयौ सर्वदेवानां वरं वृण्वः प्रदेहि तत् ।
तथास्त्विति रविः प्राह ताभ्यां संस्थापितो रविः ॥४४॥
चन्द्रः संस्थापितश्चापि चन्द्रादित्यं तत्तीर्थकम् ।
व्यासतीर्थं ततो गच्छेद् व्यासमूर्तिं प्रपूजयेत् ॥४५॥
सिद्धशंभुं पूजयेच्च द्वीपेश्वरं समर्चयेत् ।
मार्कण्डेयेश्वरं तीर्थं संकर्षणेश्वरं तथा ॥४६॥
श्रीकृष्णो राधया सार्धं बलेनापि विराजते ।
एरण्डीनामकं तीर्थं ततो गच्छेत्तु पावनम् ।
अत्रेः पत्नी चानसूया ह्यपुत्रा त्वास भामिनी ॥४७॥
तपस्तेपे यत्र रेवातटे एरण्डिसंगमे ।
गते वर्षशते तस्या विष्णुरुद्रपितामहाः ॥४८॥
ददुरागत्य च वरं निजतुल्यसुतार्थकम् ।
पुत्रास्तस्या अत्रितुल्या ब्रह्मविष्णुमहेश्वराः ॥४९॥
बभूवुस्ते चन्द्रदत्तदुर्वासश्च वै त्रयः ।
तत्तीर्थं पापतापानां शामकं पुत्रमोक्षदम् ॥५०॥
धूमपातं ततो गच्छेत् ततः सागरसंगमम् ।
अर्घं ददाति रेवायै नित्यदा सरितां पतिः ॥५१॥
नर्मदा वदति तत्र मदीये संगमे जनाः ।
स्नात्वा पितॄन् तर्पयिष्यन्त्येषां सप्तकुलान्यहम् ॥५२॥
तारयिष्यामि भक्ताँश्च मोक्षयिष्यामि संकटात् ।
अहं वै नर्महास्यादि ददामि शार्ङ्गिणे मुहुः ॥५३॥
रमयामि हरिं नित्यं ममोत्संगे तदात्मिका ।
नृ-नराणां म-मोक्ष च द-ददामीति नर्मदा ॥५४॥
एवं सा नर्मदा देवी मोक्षदा वर्तते परा ।
नर्मदायास्तव सख्या लक्ष्मि माहात्म्यमुत्तमम् ॥५५॥
ऋक्षाद्रावुदितं सत्यै शंभुना तन्मयोदितम् ।
भक्त्या श्रुत्वा जनः सर्वो मम धाम प्रयाति च ॥५६॥
सती श्रुत्वा शंकरात्सा विमानवरमास्थिता ।
कोटिगुणैः सेविता च शंकरेण समन्विता ॥५७॥
शस्तानि च तीर्थानि कर्तुं ययौ मुदान्विता ।
आसमुद्रं गता शैली पुपूज तीर्थदेवताः ॥५८॥
कोटिरत्नादिदानानि ददौ पश्चात् स्वयं सती ।
भार्गवीं च भृगुकच्छे मिलित्वा व्योममार्गतः ॥५९॥
कैलासं प्रययौ साध्वी शंकरानुमता प्रिया ।
तीर्थजलानि प्रददौ कैलासवासिनोऽपि च ॥६०॥
एवं यात्रा कृता चैषा शंकरेण महात्मना ।
लोकानां पावनार्थं वै स्वयं ब्रह्मात्मको यतः ॥६१॥
महाभागवतो भक्तः शंकरो लोकशंकरः ।
सर्वेषां शं-प्रदाता स कैलासे हैमपर्वते ॥६२॥
वर्तते मम पूर्वे स यत्र तपः करोम्यहम् ।
बदरीवृक्षमाश्रित्य बहुवर्षव्यतिक्रमात् ॥६३॥
एकैकेन फलेनैव बदर्यां निर्वहाम्यहम् ।
तत्राऽहं दश कोट्यश्च दशवर्षं दशार्बुदम् ॥६४॥
दश भूमेस्तथाऽन्यानि पद्मानि तपसि स्थितः ।
दैवा मां नैव पश्यन्ति कथं च मनुजाः खलु ॥६५॥
अहं पश्यामि तान्सर्वान् तपःस्थितः समागतान् ।
तोषयन्तस्ततः स्तोत्रैर्मदिच्छयैव ते च माम् ॥६६॥
पुरःस्थितं प्रपश्यन्ति यावत्कार्यं च तत्क्षणम् ।
श्रीबदर्याश्रमं पुण्यं यत्र भक्तः स्थितः स्मरेत् ॥६७॥
स याति वैष्णवं धाम राधालक्ष्म्यादिसेवितम् ।
मम योगरतो भक्तो मे मुक्तिफलभाग् भवेत् ॥६८॥
योऽवगच्छति तीर्थेषु मां प्रभुं स च मुच्यते ।
लक्ष्मीः प्राह वचः श्रुत्वा नारायणस्य वै तदा ॥६९॥
दास्यां मे प्रणयं कृत्वा विज्ञाप्यं शृणु केशव ।
मृदुना सुस्वभावेन वक्ष्यामि त्वां जनार्दन ॥७०॥
अल्पप्राणबला नार्यो भोगक्षेत्राणि योषितः ।
मालिन्येन सदा युक्ता धर्माचारविवर्जिताः ॥७१॥
पराधीना पत्यधीना अपत्यवशवर्तिकाः ।
मलमूत्रक्षालनादावशुद्धाः सर्वदा स्त्रियः ॥७२॥
अशुद्धौ तव पूजादि कथं स्यात्तच्च मे वद ।
राजस्वल्ये तव पूजा कथं स्यात्तच्च मे वद ॥७३॥
नारायणस्तदा प्राह साधु पृष्टं त्वयाऽनघे ।
भक्तानां योषितां सौख्यप्रदं मोक्षप्रदं तथा ॥७४॥
बालक्षालनसक्तानां सक्तानां वस्त्रक्षालने ।
पतिसेवापराणां च स्थितानामृतुधर्मके ॥७५॥
गृहाऽशुद्ध्यादिसंस्कारशोधनादिककर्मसु ।
प्रसक्तानां न वै नित्यं शुद्धिर्यस्माद् विलोक्यते ॥७६॥
तासां वै मम भक्तानां योषितां तु कृते मया ।
मनोमूर्तिर्मया चोक्ता मानसे निवसाम्यहम् ॥७७॥
स्त्रियः स्वभावतः शुद्धा निर्मिता ब्रह्मणा पुरा ।
क्षेत्रं वै सर्वथा शुद्धं तेन भेत्तव्यमेव न ॥७८॥
शुद्धत्वेऽपि निमित्तेष्वशुद्धकार्येषु सत्स्वपि ।
कृतेषु स्नानमात्रेण स्त्रियः शुद्धा भवन्ति वै ॥७९॥
यद्वा सुचित्रमूर्तेर्मे दर्शनं दूरतः सदा ।
यावद्रजस्वलाधर्मस्तावद्दिनचतुष्टयम् ॥८०॥
कर्तव्यमेव नान्यत्तु चान्यच्चेन्मानसं चरेत् ।
तेनाऽहं संप्रतुष्टोऽस्मि नार्युद्धारपरायणः ॥८१॥
दहकार्यं सदा शुद्धावशुद्धावपि सुन्दरि! ।
चित्तं न्यस्य मयि कुर्यान्मम भक्तिपरायणः ॥८२॥
न सा लिप्यति दोषेण ममाऽनुग्रहकारणात् ।
शृणु लक्ष्मि! तथाऽन्यच्चशुद्धोऽहं सर्वदा प्रभुः ॥८३॥
न चाऽशुद्धिर्लौकिकी मां स्पृशतीह कदाचन ।
मद्योगाद्दिव्यतां यान्ति सर्वाश्चापि ह्यशुद्धयः ॥८४॥
किन्त्वाचारप्ररक्षार्थं शुद्ध्यादिकं कृतं मया ।
पुरुषा वा स्त्रियो वापि न पुमांसो न वा स्त्रियः ॥८५॥
इन्द्रियाणि निगृह्यैव चित्तं मय्यनुवेश्य च ।
मयि सन्न्यासयोगेन शुद्ध्यन्त्येव न संशयः ॥८६॥
मम मूर्तौ सदा न्यस्तं चित्तं येन विवेकतः ।
यस्यां कस्यामवस्थायां पुंसा षण्ढेन वा स्त्रिया ॥८७॥
स च शुद्धो भवत्येव पूजादि स्वयमाचरेत् ।
स्वातन्त्र्येणाऽचरेत्पूजामरण्ये निर्जनेऽथवा ॥८८॥
असहाये चरेत्पूजां गणयामि न दूषणम् ।
मनो बुद्धिश्च चित्तं च आत्माधीनाः शरीरिणाम् ॥८९॥
मयि संयुज्य सत्प्रेम्णा न वै लिम्पन्ति मानवाः ।
चित्तं मनश्च बुद्धिश्च मत्संस्थं च समं यदि ॥९०॥
यत्किञ्चित्कुर्वतः कर्म पद्मपत्रमिवांऽभसि ।
संयोगान्न च लिप्येत समत्वादेव नान्यथा ॥९१॥
भक्ता दिवानिशं चात्र कुर्वन्तः कर्मसंकरम् ।
तेऽपि यान्ति परां सिद्धिं यदि चित्तं मयि स्थितम् ॥९२॥
जाग्रतः स्वपतो वापि शृण्वतः पश्यतोऽपि च ।
यो मां चित्ते चिन्तयति मच्चित्तस्य तु किं भयम् ॥९३॥
दुर्वृत्तमपि चाण्डालं ब्राह्मणं वापि तादृशम् ।
मन्मानसं प्रशंसामि नान्यचित्तं कदाचन ॥९४॥
यजन्तः सर्वधर्माणं मां च ज्ञानेन संस्कृताः ।
मयि सन्यस्तचित्ताश्च मम भक्तिपरायणाः ॥९५॥
ये मत्सेवां प्रकुर्वन्ति हृदि मां रक्षयन्ति ये ।
ते चेत् स्वपन्ति भुञ्जन्ति रमन्ते कामयन्त्यपि ॥९६॥
प्रवर्तन्ते निवर्तन्ते ते सर्वे लक्ष्मि मे प्रियाः ।
यतः प्रशान्तचित्तास्ते - मय्येव कृतनिश्चयाः ॥९७॥
चित्तनाशो हि लोकस्य संसारस्य च मोक्षणम् ।
तस्माच्चित्तं मयि न्यस्य मां स्पृशन्तु स्त्रियः सदा ॥९८॥
मच्चित्तः सततं यो मां भजेत प्रेमपूरितः ।
मनृपार्श्वं प्राप्य परमं मद्भावायोपपद्यते ॥९९॥
राजस्वल्ये पञ्चमेऽह्नि ऋतुदानेन शुद्ध्यति ।
शुद्ध्यर्थं च सुतार्थं च दातव्यमृतुदानकम् ॥१००॥
ऋतुकालाऽभिगमनं ब्रह्मचर्यं मया कृतम् ।
एवं स्थितेऽपि गच्छेन्न स्यान्नैष्फल्यमृतोस्तदा ॥१०१॥
विरक्तयोः कृते नाऽयं नियमः संगमार्थकः ।
सकामयोः कृते योगः ऋतौ गमः प्रशस्यते ॥१०२॥
महाभागवतो भक्तः शुद्धिं रक्षन् यथोदिताम् ।
मम सेवां प्रकुर्वीत दास्यभावेन भामिनि ॥१०३॥
दासीभावेन भक्ता च या मे सेवां करोति च ।
नरा नार्यश्च ते स्निग्धा नित्यं ते मे हृदि स्थिताः ॥१०४॥
अज्ञाते रजसो दोषे मम स्पर्शादिकं भवेत् ।
तदा स्नात्वा च मां स्नापयित्वाऽपि पञ्चमे दिने ॥१०५॥
यद्वा चान्यः स्नापयेन्मां मालाशतं जपेन्मम ।
रजस्वला क्षमां तत्र प्रार्थयेद् भगवन् प्रभो ॥१०६॥
अजानन्त्या कृतः स्पर्शः क्षम्यतां करुणाकर ।
इत्युक्त्वा श्रीकृष्णनारायणं नमेत् प्रशुद्ध्यति ॥१०७॥
एवं दुष्यति नो लक्ष्मि नारी वा पुरुषोऽपि वा ।
ततः कुर्वन्ति कर्माणि ते यथावन्मम प्रियाः ॥१०८॥
पर्वाण्यनुदिनं भद्रे मम चित्तानुसारिणः ।
कर्माणि मम सेवासु कुर्वन्तु नरयोषितः ॥१०९॥
अवश्यं तान्नयिष्येऽहं मम लोकं परात्परम् ।
मातापितृसहस्राणि पुत्रदारशतानि च ॥११०॥
चक्रवत्परिवर्तन्ते यन्मोहान्मां न जानते ।
अज्ञानेनावृतो लोको मोहेन च वशीकृतः ॥१११॥
संगैश्च बहुभिर्बद्धस्तेन मां न च विन्दति ।
गच्छत्यन्यत्र माता वै पिता चान्यत्र गच्छति ॥११२॥
पुत्राश्चान्यत्र गच्छन्ति प्रमदाऽन्यत्र गच्छति ।
जायते चात्मनां स्थाने स्वस्वकर्मसमुद्भवे ॥११३॥
ज्ञानमूढा जना लक्ष्मि संसारे सन्ति मोहिताः ।
अल्पकालं परं मत्वा बद्ध्यन्ते नश्वरेऽपि च ॥११४॥
भविष्यन्ति पुनस्ते तु न मे मूर्त्या सहाऽऽसते ।
यस्यैतद्विदितं लक्ष्मि! ब्राह्मं ज्ञानं मदात्मकम् ॥११५॥
मयि न्यस्य स्वमात्मानं मुच्यते नात्र संशयः ।
य एतच्छ्रुणुयान्नित्यं कल्यमुत्थाय मानवः ॥११६॥
पुष्कलां लभते सिद्धिं मम लोकानुयायिनीम् ।
लक्ष्मिरूपाः सर्वनार्यो नरा मद्वद् भवन्ति च ॥११७॥    
  
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सोमतीर्थे कण्ठस्य ब्रह्महत्यानाशः, जलशायितीर्थे नलमेघदानवनाशश्चतुर्दशसहस्रकन्यानां श्रीकृष्णनारायणपत्नीत्वं, चन्द्रादित्यतीर्थम्, आसमुद्रान्ततीर्थानि, शंकरस्य कैलासगमनम्, अशुद्धनरनारीणां मोक्षोपायकथनमित्यादिनिरूपणनामाऽशीत्यधिकपञ्चशततमोऽध्यायः ॥५८०॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP