संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः| कृतयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ अध्यायः ३५६ अध्यायः ३५७ अध्यायः ३५८ अध्यायः ३५९ अध्यायः ३६० अध्यायः ३६१ अध्यायः ३६२ अध्यायः ३६३ अध्यायः ३६४ अध्यायः ३६५ अध्यायः ३६६ अध्यायः ३६७ अध्यायः ३६८ अध्यायः ३६९ अध्यायः ३७० अध्यायः ३७१ अध्यायः ३७२ अध्यायः ३७३ अध्यायः ३७४ अध्यायः ३७५ अध्यायः ३७६ अध्यायः ३७७ अध्यायः ३७८ अध्यायः ३७९ अध्यायः ३८० अध्यायः ३८१ अध्यायः ३८२ अध्यायः ३८३ अध्यायः ३८४ अध्यायः ३८५ अध्यायः ३८६ अध्यायः ३८७ अध्यायः ३८८ अध्यायः ३८९ अध्यायः ३९० अध्यायः ३९१ अध्यायः ३९२ अध्यायः ३९३ अध्यायः ३९४ अध्यायः ३९५ अध्यायः ३९६ अध्यायः ३९७ अध्यायः ३९८ अध्यायः ३९९ अध्यायः ४०० अध्यायः ४०१ अध्यायः ४०२ अध्यायः ४०३ अध्यायः ४०४ अध्यायः ४०५ अध्यायः ४०६ अध्यायः ४०७ अध्यायः ४०८ अध्यायः ४०९ अध्यायः ४१० अध्यायः ४११ अध्यायः ४१२ अध्यायः ४१३ अध्यायः ४१४ अध्यायः ४१५ अध्यायः ४१६ अध्यायः ४१७ अध्यायः ४१८ अध्यायः ४१९ अध्यायः ४२० अध्यायः ४२१ अध्यायः ४२२ अध्यायः ४२३ अध्यायः ४२४ अध्यायः ४२५ अध्यायः ४२६ अध्यायः ४२७ अध्यायः ४२८ अध्यायः ४२९ अध्यायः ४३० अध्यायः ४३१ अध्यायः ४३२ अध्यायः ४३३ अध्यायः ४३४ अध्यायः ४३५ अध्यायः ४३६ अध्यायः ४३७ अध्यायः ४३८ अध्यायः ४३९ अध्यायः ४४० अध्यायः ४४१ अध्यायः ४४२ अध्यायः ४४३ अध्यायः ४४४ अध्यायः ४४५ अध्यायः ४४६ अध्यायः ४४७ अध्यायः ४४८ अध्यायः ४४९ अध्यायः ४५० अध्यायः ४५१ अध्यायः ४५२ अध्यायः ४५३ अध्यायः ४५४ अध्यायः ४५५ अध्यायः ४५६ अध्यायः ४५७ अध्यायः ४५८ अध्यायः ४५९ अध्यायः ४६० अध्यायः ४६१ अध्यायः ४६२ अध्यायः ४६३ अध्यायः ४६४ अध्यायः ४६५ अध्यायः ४६६ अध्यायः ४६७ अध्यायः ४६८ अध्यायः ४६९ अध्यायः ४७० अध्यायः ४७१ अध्यायः ४७२ अध्यायः ४७३ अध्यायः ४७४ अध्यायः ४७५ अध्यायः ४७६ अध्यायः ४७७ अध्यायः ४७८ अध्यायः ४७९ अध्यायः ४८० अध्यायः ४८१ अध्यायः ४८२ अध्यायः ४८३ अध्यायः ४८४ अध्यायः ४८५ अध्यायः ४८६ अध्यायः ४८७ अध्यायः ४८८ अध्यायः ४८९ अध्यायः ४९० अध्यायः ४९१ अध्यायः ४९२ अध्यायः ४९३ अध्यायः ४९४ अध्यायः ४९५ अध्यायः ४९६ अध्यायः ४९७ अध्यायः ४९८ अध्यायः ४९९ अध्यायः ५०० कृतयुगसन्तानः - अध्यायः ५७६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७६ Translation - भाषांतर श्रीलक्ष्मीरुबाच-अहं दीक्षां शुभां श्रुत्वा नारायण मुखात्तव ।तव माहात्म्यबोधा च जाताऽस्मि विमला प्रभो ॥१॥अहो देवस्य माहात्म्यं चातुर्वर्ण्यसुखावहम् ।दीक्षादानेन वै ज्ञातं तथाऽन्यद् भक्तकारणात् ॥२॥पृच्छामि चापराधेषु किं फलं किं निवारणम् ।तव पूजापराणां त्वं शुद्धिं वद जनार्दन ॥३॥श्रीनारायण उवाच-शृणु लक्ष्मि प्रवक्ष्यामि चापराधविशोधनम् ।शुद्धो भागवतो भूत्वा मम पूजापरायणः ॥४॥आपद्गतोऽपि राजान्नं भुंक्ते यः पापसंभृतम् ।निरये तेन पापेन वासस्तस्य प्रजापते ॥५॥राजा प्रवर्तते कुर्वन् कर्म तामसराजसम् ।दारुणं गर्हितं तस्य चान्नं पापभरं महत् ॥६॥धार्मिकेन न भोक्तव्यं राजान्नं नरकप्रदम् ।यद्वा राज्ञां तु भोक्तव्यं भोज्यं भागवतैर्नरैः ॥७॥स्थापयित्वा तु मां लक्ष्मि! निवेद्य मां च सर्वशः ।धन्यधान्यसमृद्धानि दत्वा मां स्वीकरोति चेत् ॥८॥सिद्धं भागवतैर्भक्तैर्मम शेषप्रसादिकम् ।भुञ्जानस्य न वै पापलेपस्तत्र प्रजायते ॥९॥अप्रसादं च राजान्नं भुंक्ते तस्य तु पद्मजे ।चान्द्रायणेन शुद्धिः स्यान्मम भक्तस्य वै तथा ॥१०॥दन्तकाष्ठमचर्वित्वा चाऽकृत्वा मुखशोधनम् ।स्नात्वा स्पृशति मां चेत् स दुर्गन्धिमुखवान् यतः ॥११॥पुण्यहीनो भवेद् भक्तो ममाऽपराधतस्ततः ।मनुष्यः किल्बिषी लक्ष्मि कफपित्तमलान्वितः ॥१२॥पूयशोणितदुर्गन्धि मुखमस्य यतः सदा ।शुद्ध वायुं समाचम्य दुर्गन्धं च विमुञ्चति ॥१३॥तेन मे मूर्तिसामीप्येऽपराधस्तस्य जायते ।दन्तकाष्ठेन शुद्धिः स्यात्सुगन्ध्यधद्रव्ययोजनात् ॥१४॥अपराधे तथा जाते व्योमशायी दिनद्वयम् ।भवेत् ममाऽतिभजनं कुर्यात् कृष्णपरायणः ॥१५॥शतमालाजपं कुर्यादपराधो न विद्यते ।अथ कृत्वा मैथुनं चाऽस्नातः शवात्मको हि सः ॥१६॥तदपराधपाकश्च लालाख्ये निरये पतेत् ।मनुष्यस्य परो धर्मः स्नानं ध्यानं च पूजनम् ॥१७॥अस्नातो मलमूत्राढ्यो मलाख्ये निरये पतेत् ।प्रायश्चित्तं तस्य कार्यं भक्तियुक्तेन चेतसा ॥१८॥यावकं वा च पिण्याकं भक्षयेद्वै दिनत्रयम् ।तुर्यं चोपवसेत् तेन शुद्धिर्भक्तस्य जायते ॥१९॥अथ स्पृष्ट्वा शवं गत्वा श्मशानं स्नाति नैव यः ।तस्याऽशुद्धस्य पितरः पतन्ति सोऽपि वै पतेत् ॥२०॥श्मशाने जम्बुका भूत्वा भवन्ति शवभक्षकाः ।प्रायश्चित्तं तस्य कार्यं मम भक्तेन चांजसा ॥२१॥एकाहारो दिनैक्यं च दिनैक्यं चाप्युपोषितः ।पञ्चगव्यं ततः पीत्वा शुद्ध्यत्येव न संशयः ॥२२॥नारीं रजस्वलां स्पृष्ट्वा यो मां स्पृशति निर्घृणः ।तेन पापेन भक्तोऽपि याम्ये याति रजोमये ॥२३॥अन्धस्ततः प्रजायेत दरिद्रो बुद्धिवर्जितः ।शुद्धिस्तस्यापराधस्योपोषणं त्वेकमेव ह ॥२४॥आकाशशयनं स्नानं सवस्त्रं गव्यप्राशनम् ।कृत्वा मुच्येदशुद्धेः स मम कर्मपरायणः ॥२५॥स्पृष्ट्वा तु मृतकं लक्ष्मि! यो मत्क्षेत्रेषु तिष्ठति ।न स्नाति मां स्पृशत्येषश्चाण्डालजन्म चाप्नुयात् ॥२६॥अन्धः स जायते पश्चान्मण्डुको मक्षिका भवेत् ।टिट्टिभो वा मशकश्च कृकलासः खरोऽथवा ॥२७॥मार्जारो वानरो वापि जायते त्वपराधवान् ।शुद्यर्थं तादृशो भक्तो मम कर्मपरायणः ॥२८॥एकाहारं पञ्चदशदिनानि वर्तयेत्ततः ।पञ्चगव्यं प्राशयेच्च शुद्ध्यत्येवाऽपराधतः ॥२९॥स्पृशमानेन मां लश्मि मुञ्चत्यपानवायुकम् ।तेन दोषेण जायेत मक्षिका मूषकस्तथा ॥३०॥श्वा वा कूर्मः प्रजायेत ततः स मानवो भवेत् ।अतो नक्तं त्रीण्यहानि वर्तयेत् तेन शुद्ध्यति ॥३१॥शतमालाजपं कुर्यात् स्नायाद् भक्तिपरायणः ।पुरीषं मुच्यते यस्तु वातेन सह दोषतः ॥३२॥मम पूजास्थितो वापि ममान्यकर्मतत्परः ।पुरीषनरके याम्ये पतेत् तेन ततः परम् ॥३३॥मनुष्यो जायते लक्ष्मि मम कर्मपरायणः ।प्रायश्चित्तं ततः कार्यं जले शयनमित्यपि ॥३४॥आकाशशयनं चापि दिनैक्यं प्रसमाचरेत् ।शतमालाजपं कुर्यादपराधात्प्रमुच्यते ॥३५॥स्नात्वाऽपि यदि मार्गेषु मलिनेषु प्रगच्छति ।अप्रक्षालितपादाद्यो यो हि मामुपसर्पति ॥३६॥सोऽप्यशुद्धः पापवान् स्यान्मम विप्रियकारकः ।तेन दत्तं गन्धमाल्यं न वै गृह्णामि भावतः ॥३७॥तेन प्रक्षालनं कृत्वा पादयोः करयोस्तथा ।आचम्य च यथान्यायं शुद्धः सन् मामुपस्पृशेत् ॥३८॥मलत्यागं तथा कृत्वा सप्तवारं तु मृत्तिकाम् ।प्रक्षालनेन्द्रिये दत्वा करयोश्च तथा ददेत् ॥३९॥पादयोः पञ्चवारं च ततः पात्रं परिमृजेत् ।गण्डूषान् सप्त कृत्वा च ततः स्नानं समाचरेत् ॥४०॥मद्भक्तो वै भवेच्छुद्धः पूजको नान्यथा प्रिये ।गन्धांशहस्तयुक्तश्चेत्स्पृशेन्मां दोषभाग्भबेत् ॥४१॥प्राणायामं चाचमनं कृत्वा प्रक्षालयेत् करौ ।एवं शुद्धिर्भवेल्लक्ष्मि नाऽपराधस्तदा भवेत् ॥४२॥यस्तु क्रोधसमायुक्तो मम भक्तोऽपि मानवः ।प्रस्पृशेन्मम गात्राणि स तदा दोषभाग्भवेत् ॥४३॥तेन पापेन चिल्ली स्यात् ततः श्येनो भवेत् स च ।मृत्कटिको भवेत् कीटः क्रोधेन कृष्णवर्णवान् ॥४४॥क्रुद्धेन न च कर्तव्यं लोभेन त्वरया न च ।मत्पूजनं विधानेन कर्तव्यं मोक्षदं हिं तत् ॥४५॥स्नात्वा मालाशतं कुर्यात् क्रोधशुद्धिस्ततो मता ।अकर्मण्येन पुष्पेण यो मामर्चयते भुवि ॥४६॥मूर्खो भागवतश्चापि वानरो जायते ततः ।मार्जारो वा बलीवर्दः छागो बा ग्रामकुक्कुटः ॥४७॥महिषो वा भवेत् पुष्पदाता यन्मे न रोचते ।तच्छुद्ध्यर्थं चैकभोजी भवेद्वै दिनसप्तकम् ॥४८॥सर्वपापप्रमुक्तः स्यान्मम लोके गतिर्भवेत् ।रुधिराक्ताम्बरयुक्तो यदि मामुपसर्पति ॥४९॥रजस्वलारजोयुक्तवस्त्राढ्यो मां च सर्पति ।तेन दोषेण जायेत श्वपचो नात्र संशयः ॥५०॥मासमेकान्नभोजी स्यान्मालासहस्रकं जपेत् ।अन्तिमे तु दिने कुर्यादुपवासं स शुद्ध्यति ॥५१॥अन्धकारे विना दीपं स्पृशते मां स दोषभाक् ।अन्धजन्म भवेत् तस्य प्रायश्चित्तं वदामि च ॥५२॥एकाहारं पञ्चदिनं नेत्राच्छादनपूर्वकम् ।कुर्यान्मालाशतं चापि जपेच्छुद्धो भवेत्तदा ॥५३॥कृष्णवस्त्रं न वै धार्यं पूजायां मम सर्वथा ।तेन दोषेण नकुलः कच्छपो वा भवेत्ततः ॥५४॥पारावतो भवेद्वापि प्रायश्चित्तं वदामि ते ।सप्ताहं चैकभोजी स्यान्मालाशतं प्रकारयेत् ॥५५॥ततः शुद्धिर्भवेत्तस्य मम लोकगतो भवेत् ।वाससा चाऽप्यधौतेन यो मे कर्माणि चाचरेत् ॥५६॥स च हस्ती तथोष्ट्रो वा हयो वा जम्बुकोऽथवा ।सारंगो वा भवेत्तस्माच्छुद्धिः कार्या प्रयत्नतः ॥५७॥उपवासं चरेदेकं जपेच्च शतमालिकाः ।अथोच्छिष्टं शुनौ यत्तद् दद्याच्चेन्मे च कर्मणि ॥५८॥सारमेयो भवेत्सोऽपि गोमायुर्घूक एव वा ।शुद्धिः कार्या शाकमूलफलाशिना दिनत्रयम् ॥५९॥पञ्चगव्यं चतुर्थे च पिबेदुपवसेत्तथा ।अपराधो विनश्येद्वै मम लोकगतो भवेत् ॥६०॥दीपप्रकाशने कृष्णकज्जला चाङ्गुलिर्भवेत् ।दग्धवर्तिगन्धयुक्ता क्षालनीया प्रयत्नतः ॥६१॥करस्याऽक्षालने स्पर्शे मम स्यादपराधनम् ।कुष्ठी तेन भवेद्रोगी तस्माद्धस्तं विशोधयेत् ॥६२॥अपराधे संजाते शतमालाजपं चरेत् ।सोपवासं तेन शुद्धिर्भवेत् कर्मण्यको भवेत् ॥६३॥श्मशानं यो जनो गत्वा त्वस्नात्वैव तु मां स्पृशेत् ।जम्बुको गृध्रको वा स जायते वा पिशाचकः ॥६४॥ततश्चोपवसेच्चैकदिनं मालासहस्रकम् ।जपेत्तेन भवेच्छुद्धिर्नान्यथा स्नानमात्रतः ॥६५॥श्रीलक्ष्मीरुवाच-श्मशानं त्वपवित्रं चेच्छंभुर्भागवतोत्तमः ।तव भक्तः कथं चास्ते श्मशाने दोषभाग्यथा ॥६६॥श्रीनारायण उवाच-शृणु लक्ष्मि पुरावृत्तं शंभोस्ते कथयाम्यहम् ।श्मशानं नास्ति शुद्धं वै यदशुद्धं सदा मतम् ॥६७॥केनचित्तु निमित्तेन शंभुर्वासमरोचयत् ।प्रायश्चित्तस्वरूपं तं वासं न मनुते सदा ॥६८॥यद्यपि शंकरो भक्तोत्तमो मे वर्तते महान् ।श्मशाने वसतस्तस्य गृह्णामि नाऽर्चनादिकम् ॥६९॥प्रायश्चित्तोत्तरं सर्वं गृह्णामि नान्यथा क्वचित् ।शंकरो नाशयामास त्रिपुराणि तथाऽसुरम् ॥७०॥बालान् वृद्धाँस्तथा स्त्रीश्च त्रिपुरे वासिनस्ततः ।तेन पापेन संलिप्तो नष्टैश्वर्यश्च शंकरः ॥७१॥नष्टयोगबलो नष्टमायाबलो बभूव ह ।विवर्णवदनो भूत्वा न शक्नोति विचेष्टितुम् ॥७२॥मृतप्रायोऽभवच्छापैरासुरस्त्रीसमर्पितैः ।नष्टसंज्ञो हतज्ञानो नष्टानन्दो यथाऽबलः ॥७३॥ततोऽहं तं समापन्नो विलोक्य शंकरं ततः ।अवोचं मा शुचः श्रेयः करिष्ये तव वै द्रुतम् ॥७४॥मया दृष्टः शंकरश्च तदा दिव्येन चक्षुषा ।तावद्रुद्रस्य सामर्थ्यं प्रकाशमगमत्पुनः ॥७५॥मयोक्तं तव पापस्य नाशार्थमहमागतः ।श्रुत्वोवाच हरो मां च पापसन्तप्तलोचनः ॥७६॥हे विष्णो त्वत्प्रसादेन हतस्त्रिपुरकाऽसुरः ।निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ॥७७॥बालवृद्धा हताश्चापि दग्धानि त्रिपुराणि च ।तत्पापस्य प्रभावेण न शक्नोमि विचेष्टितुम् ॥७८॥प्रणष्टैश्वर्यमायश्च नष्टज्ञानात्मसद्बलः ।किं कर्तव्यं मया विष्णो पापावस्थेन साम्प्रतम् ॥७९॥विष्णो तत्त्वेन मां ब्रूहि पापस्याऽस्य विशोधनम् ।एवं प्रार्थयमानस्य मया रुद्रस्य भाषितम् ॥८०॥कपालमालां सन्धार्य समलो विहर क्षितौ ।शंभुः पप्रच्छ मां कीदृक् समलत्वं प्रकीर्त्यते ॥८१॥मयोक्तं वै श्मशानं च मलं पूतिकमुच्यते ।श्मशाने वास एवाऽत्र समलत्वं प्रकीर्त्यते ॥८२॥तत्राऽऽदाय कपालानि रम तत्रैव शंकर ।भूतप्रेतादिभृत्यैश्च सार्धं वस समाशतम् ॥८३॥तावत्पूजा मम नैव कर्तव्या बाह्यतः क्वचित् ।मानसं पूजनं कार्यं नापराधो भविष्यति ॥८४॥पूर्णे वर्षशते याते गौतमस्याश्रमं व्रज ।प्रसादाद् गौतममुनेर्भविता गतकिल्बिषः ॥८५॥ततः पापविनाशेन शरीरशुद्धिमाचर ।वर्षमात्रं व्रतं पयोव्रतं गृहाण शुद्धिकृत् ॥८६॥ब्रह्मकूर्चं च वा श्रेष्ठं व्रतं मासिकमित्यपि ।करिष्यसि तथा शुद्धः पूजनार्हो भविष्यसि ॥८७॥पश्चात् त्वया श्मशाने न वस्तव्यं कर्हिचिच्छव! ।यदीच्छसि मम पूजायोग्यत्वं वैष्णवं वृषम् ॥८८॥रुद्रायैवं वरं दत्वा तत्रैवाऽन्तर्हितोऽभवम् ।रुद्रोपि भ्रमते वर्षशतं श्मशानके स्थले ॥८९॥विना तु कृतसंस्कारो ममादेशपरायणः ।वर्षशते गते रुद्रो ययौ वै गौतमाश्रमम् ॥९०॥गौतमेन तदा तस्योपदेशः सम्प्रकीर्तितः ।रूपद्वयं सदा रुद्र प्रधारय क्रियावशात् ॥९१॥पापं सर्वं गतं तेऽत्र शुद्धोऽसि वैष्णवो महान् ।महाभागवतं रूपं सदा गृहाण सात्त्विकम् ॥९२॥कैलासे सर्वदा तिष्ठ भक्तेष्वपि च सात्त्विकः ।छायात्मकं द्वितीयं च रूपं धारय भैरवम् ॥१३॥भूतप्रेतपिशाचानामुपास्यं समलं च तत् ।श्मशानवासयोग्यं च तामसानां सदाश्रयम् ॥९४॥इत्युक्तः शंकरो धृत्वा रूपद्वयं ततः पुनः ।श्मशानस्थो न मे भक्तो न वा वैष्णव इत्यपि ॥९५॥कैलासस्थो हि मे भक्तः पूजार्हो वैष्णवोत्तमः ।इत्येतत् कथितं लक्ष्मि! श्मशानं समलं सदा ॥९६॥श्मशानस्थाः समला वै न वै शुद्धाः शवस्थले ।पश्चाद् रुद्रस्य भूताद्यैस्तामसैस्तादृशैर्जनैः ॥९७॥शंकरस्य तु कैलासं श्मशानं चेति वर्ण्यते ।वस्तुतो नैवमेवाऽस्ति श्मशानं शंकरप्रियम् ॥९८॥श्मशानं नैव कस्यापि लक्ष्मि वै भवति प्रियम् ।देवानां तु कथं तत् स्यात् प्रियं सत्त्वक्रियावताम् ॥९९॥इति ते कथितं तत्त्वं प्रायश्चित्तं वदामि ते ।पञ्चगव्यं प्राशनीयं सोपवासं दिनैकके ॥१००॥सवस्त्रं स्नानमाप्तव्यं तुलसीपत्रभोजनम् ।विमुक्तस्तेन पापेन मम कर्मार्हणो भवेत् ॥१०१॥मद्यपानप्रकर्ता तु भ्रष्टो भवति देहतः ।ब्रह्मकूर्चव्रतेनाऽस्य शुद्धिर्भवति सर्वथा ॥१०२॥उलूकः स्यादन्यथा सः कीटो भवति वै पुनः ।ब्रह्मकूर्चव्रतं वच्मि शृणु लक्ष्मि! प्रशोधकम् ॥१०३॥मासं वा पक्षकं वा तत् कर्तव्यं देहधारिणा ।पयस्यामलकं शुण्ठीं पलाशपत्रमित्यपि ॥१०४॥शर्करां तुलसीपत्रं क्वाथयेच्च पिबेद् दिने ।यथापच्यं भवेत् तद्वद् विकृतं न यथा भवेत् ॥१०५॥अन्यत् किञ्चिद् भक्षयेन्न जलं पिबेत्तु शान्तये ।ब्रह्मकूर्चव्रतं त्वेतत् पाक्षिकं मासिकं च वा ॥१०६॥यानि कानि च पत्राणि पावनानि हि शाखिनाम् ।क्वाथयेच्च पिबेन्नित्यं पालाशं तत्र निश्चितम् ॥१०७॥पञ्चगव्यं पिबेद्वापि पाक्षिकं मासिकं च वा ।ब्रह्मकूर्चसमं तच्च सर्वपापप्रशोधकम् ॥१०८॥कायाकल्पकरं त्वेतन्मोक्षदं मरणे सति ।शरीरधातुशुद्ध्यर्थं रेचनं क्वाथनं तु तत् ॥१०९॥ब्रह्मभक्त्या कृतं तद्वै मोक्षणार्थं प्रकल्प्यते ।प्रायश्चित्तीकृतं तद्वै पापक्षालनकं भवेत् ॥११०॥रोगनाशकृते चेत्तद्धातुशुद्धिकरं भवेत् ।अपच्यं चेत् क्वचित्तद्वै मरणाय प्रकल्प्यते ॥१११॥पलाण्डुशाकपत्रादिभक्षकः स्याद्धि सूकरः ।श्वा भवेजम्बुको वापि ममापराधकृन्नरः ॥११२॥ब्रह्मकूर्चव्रतं कृत्वा शतमालाजपांश्चरेत् ।तेन शुद्धिर्भवेत्तस्य मम कर्मार्हणो भवेत् ॥११३॥यः पारक्येन वस्त्रेण न धौतेनापि मां स्पृशेत् ।मृगजन्म ह्यवाप्नोति हीनपादैकको भवेत् ॥११४॥माघमासे जले तिष्ठेत्प्रहरद्वयमेव ह ।तेन शुद्धिः शतमाला जपेद् भवति निर्मलः ॥११५॥नवान्नं यो नाऽर्पयेन्मे स्वयं भुंक्ते रसाहृतः ।पापभोक्ता भवेत्तेन कर्तव्यं समुपोषणम् ॥११६॥शतमालाजपश्चापि तेन शुद्ध्यति मानवः ।अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति ॥११७॥यातुधानो भवेत्तेन कर्तव्यं समुपोषणम् ।शतमालाजपश्चापि तेन शुद्ध्यति वैष्णवः ॥११८॥वहन्नुपानहौ पद्भ्यां यस्तु मामुपसंक्रमेत् ।चर्मकारः स जायेत ततः श्वा सूकरो भवेत् ॥११९॥पाक्षिकं चैकभुक्तं च शतमालाः समाचरेत् ।तेन शुद्धिर्भवेत् तस्य मम भक्तस्य पद्मजे ॥१२०॥विना घण्टादिशब्दं तु यो वै मां प्रतिबोधयेत् ।बधिरो जायते तेन कर्तव्यं समुपोषणम् ॥१२१॥शतमालाजपश्चापि मम भक्तः स शुद्ध्यति ।अन्नं भुक्त्वा बहुतरमजीर्णेन परिप्लुतः ॥१२२॥उद्गारेण समावृत्तोऽस्नातश्चाप्युपसर्पति ।वानरो वा शृगालः श्वा छागो वा जायते हि सः ॥१२३॥त्रिदिनं चोपवासी स्यान्मालाशतं च वर्तयेत् ।य एतेन विधानेन प्रायश्चित्तं समाचरेत् ॥१२४॥न स लिप्येत पापेन मम लोकं स गच्छति ।यस्तु भागवतो नित्यं कल्यमुत्थाय वाचयेत् ॥१२५॥पठेद्वा शृणुयाच्चापि मम लोकं स गच्छति ।शंभुनोक्तं हि यत् सत्यै मयोक्तं तव पद्मजे ॥१२६॥आरोग्याणां महारोग्यं मोक्षाणां मोक्षणं परम् ।शोधनानां परा शुद्धिः प्रसन्नानां च पात्रता ॥१२७॥तपः परमं तपसां भक्त्यात्मकं मयोदितम् ।मम भक्तेन कर्तव्यं रक्षसां न विचारणा ॥१२८॥मुमुक्षूणां योगिनां च साध्वीनां च सतामपि ।मम भक्तियुतानां च कृते मयात्र कीर्तितम् ॥१२९॥गर्भविषप्रसक्तानां वासनासंहृतहृदाम् ।नास्तिकानां कृते नैतन्मयोक्तं लक्ष्मि! शोधनम् ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवत्पूजनेऽपराधा ये ते तेषां शुद्धिः शरीरान्तरयोन्यन्तराप्तिर्वा चेत्यादि, शंकरस्य श्मशानप्रियत्वाख्यानमश्मशानवासिता चेत्यादिनिरूपणनामा षटसप्तत्यधिकपञ्चशततमोऽध्यायः ॥५७६॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP