संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ५७२

कृतयुगसन्तानः - अध्यायः ५७२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! महातीर्थं कुब्जाम्रकं प्रमोक्षदम् ।
नर्मदायां समागत्य कुब्जारेवासमागमे ॥१॥
व्यवस्थितं ध्रुवं साप्तकल्पं वै शंकरोऽवदत् ।
पार्वत्यै तीर्थयात्रायामृक्षपर्वतसंस्थितः ॥२॥
अथान्यान्यपि तीर्थानि कथयामि निशामय ।
माहिष्मत्याः पश्चिमे वै तीर्थं शोकविनाशनम् ॥३॥
अशोकवनिकाख्यातं मातंगाश्रमशोभितम् ।
तत्र या पूजयेद् गौरीं तृतीयायां पतिव्रता ॥४॥
कन्या लभेत् पतिं स्वेष्टं द्रव्यरूपबलान्वितम् ।
मातंगो नाम देवर्षिस्तपस्तेपेऽत्र दुष्करम् ॥५॥
प्राग्जन्मनि निषादः स जातिस्मरो ह्यभूत् सदा ।
पापनाशकरे स्थाने महर्षीणां समागमात् ॥६॥
धर्मज्ञाताऽभवच्छ्रेष्ठो रागहीनश्च बोधवान् ।
नर्मदासेवनाच्चापि पुण्यवानभवद्धि सः ॥७॥
निर्विण्णश्च जटावल्कलाऽम्बरः श्वपचोऽपि ह ।
अशोकवनिकासंस्थः कन्दमूलफलाशनः ॥८॥
वर्षाणां स सहस्रं वै तपस्तेपेऽतिदारुणम् ।
एवं वै तपतस्तस्य जटाग्रेभ्यो विनिःसृताः ॥९॥
यक्षिण्यः श्यामवर्णाश्च तेजस्विन्यो विभूषिताः ।
एकाशीतिसहस्राणि सस्नुस्ता नर्मदाजले ॥१०॥
स्नानमात्रेण ताः प्रापुर्यक्षलोकान् सुवाहनैः ।
मन्त्रयन्त्रविहीनोऽपि नमः शिवाय संगृणन् ॥११॥
सिद्धिमानभवत्तस्य पुरः शंकर आययौ ।
भक्तं प्राह वरं स्वेष्टं वृणीष्व शंकरोऽस्म्यहम् ॥१२॥
मातंगः प्राह मन्नाम्ना तीर्थं ख्यातमिदं भवेत् ।
चाण्डालाः श्वपचाश्चर्मकारा ये पापयोनयः ॥१३॥
अत्राऽऽगत्य पवित्राश्च मुक्तिमाप्नुयुरेव च ।
मातंगेश्वरलिंगं च नत्वेयुर्मोक्षणं तथा ॥१४॥
एनं वरं प्रदेह्यत्र यद्यहं तेऽस्मि भक्तिमान् ।
श्रुत्वा तच्छंकरः प्राह तथाऽस्त्विति पुनस्ततः ॥१५॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इत्येनं जप मातंग! मुक्तिस्ते वैष्णवी परा ॥१६॥
भविष्यति न सन्देहस्तथा त्वज्जातिवर्तिनाम् ।
अस्य मन्त्रस्य योगेन वैकुण्ठे मोक्षणं भवेत् ॥१७॥
देहि मन्त्रं मयोक्तं च कुरु सर्वांश्च वैष्णवान् ।
इत्युक्त्वा शंकरश्चान्तर्धानं ययौ ततः परम् ॥१८॥
मतंगो निजवर्णेभ्यो देहिभ्यः प्रददौ मनुम् ।
प्रेषयामास स बहून् चाण्डालान् वैष्णवान् पुरा ॥१९॥
गोलोकं श्रीहरेर्धाम स्वयं यानं च कामिकम् ।
समारुह्य ययौ चैत्रे मोक्षं वै परमं शुभम् ॥२०॥
अशोकवनिकं चैतन्मातंगतीर्थमुच्यते ।
तिलपिष्टादिदानेन सक्तूदानेन तर्पणे ॥२१॥
पितरो जलपानेन मुक्तिं यान्ति न संशयः ।
तत्रैव दक्षिणे भागे तीर्थं मृगवनाभिधम् ॥२२॥
तत्र स्नात्वाऽर्चयेद् विष्णुं शंखचक्रगदाधरम् ।
एकादश्यां निराहारः पूजयेत् परमेश्वरम् ॥२३॥
पतिव्रता पतिं कृष्णनारायणं प्रपूजयेत् ।
स्नानदानप्रभावेण लोकं प्राप्नोति वैष्णवम् ॥२४॥
व्याधः कश्चिद् दुराचारो निर्दयश्च पुराऽभवत् ।
सधनुष्को मृगाँस्तत्र जघान च तृषाकुलः ॥२५॥
विना जल द्रुमच्छायामाश्रित्य क्षणमास्थितः ।
निद्रां ययौ च तत्पश्चाद् वनसंघर्षजोऽनलः ॥२६॥
उत्थितश्च ददाहाऽसौ वनं व्याधमृगान्वितम् ।
अथ मासान्तरे वर्षा जाता भस्मास्थिखण्डकाः ॥२७॥
नर्मदायां गताः सर्वे वृष्टिपूरेण वाहिताः ।
मृगास्ते नर्मदायोगाद् गान्धर्वा देवकोटयः ॥२८॥
अभवँश्च स वै व्याधो राजाऽभवद्धि भूतले ।
तदन्ये प्राणिनश्चापि नर्मदाजलयोगतः ॥२९॥
यक्षाद्या अभवन् देवा दशवर्षसहस्रकम् ।
स्वर्गं भुक्त्वा ततस्तेऽपि तथा राजाऽस्य गायकाः ॥३०॥
वैष्णवेनैव यानेन संप्राप्ता वैष्णवं पदम् ।
अवशः स्ववशो वापि प्राणाँस्त्यजति नार्मदे ॥३१॥
दिव्यवर्षसहस्रं स विष्णुलोके प्रमोदते ।
अङ्गारावर्तसंभेदो गोसहस्रफलप्रदः ॥३२॥
अङ्गारेश्वरदेवश्च तत्र तिष्ठति संगमे ।
स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥३३॥
चतुर्थ्यां मंगले वारे हिरण्यपुरुषं शुभम् ।
कृत्वा रक्तेन वस्त्रेण वेष्टयेत् सघृतं तथा ॥३४॥
गूढं दद्याद् ब्राह्मणाय मंगलं पुरुषं ददेत् ।
दानतीर्थप्रभावेण शक्रार्धासनभाग्भवेत् ॥३५॥
युवनाश्वः पुरा राजा कोसलाया ह्यभून्महान् ।,
चक्रवर्ती कृतयुगे सर्वधर्मपरायणः ॥३६॥
अभिवाद्य वशिष्ठं स समुवाच पुरोहितम् ।
कस्मिन् स्थाने यजेद् यज्ञं तीर्थे देशे सुरालये ॥३७॥
वशिष्ठस्तं समुवाच नैमिषं तीर्थमुत्तमम् ।
सफलो हयमेधश्च कोटिकोटिगुणोत्तरः ॥३८॥
मत्स्येन विष्णुना चोक्तं सूर्येणापि तथोदितम् ।
मनुपुत्राय यज्ञार्हं युवनाश्व! तवोदितम् ॥३९॥
श्रुत्वा राजा गुरोर्वाक्यं समादिदेश मन्त्रिणः ।
यज्ञोपस्करमादाय समागच्छत सत्वरम् ॥४०॥
घोषणा च कृता लोके आहूताश्च सुराः क्रतौ ।
ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा ॥४१॥
शंभुश्च वसवश्चापि रुद्रा आदित्यकास्तथा ।
अश्विनौ च दिशां पाला लोकपालाश्च सर्वशः ॥४२॥
धेनूनां दशलक्षाणि हेमरत्नान्वितानि हि ।
लक्षमेकं वाजिनां सद्दन्तिनामयुतत्रयम् ॥४३॥
मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम् ।
नानाविधानि द्रव्याणि भक्ष्यभोज्यानि सर्वशः ॥४४॥
यज्ञद्रव्यं च यच्चान्यत् तत्सर्वसहितो नृपः ।
नानासहस्रयानैश्च नानावाद्यसहस्रकैः ॥४५॥
वेदघोषेण महता गीतिकैर्नादयन् दिवम् ।
विवेश नैमिषं तीर्थं यत्र श्रीहरिदर्शनम् ॥४६॥
अनादिश्रीकृष्णनारायणं दृष्ट्वा ततो नृपः ।
दीनानामयुतायाऽसौ ददौ सुवर्णलक्षकम् ॥४७॥
भूषणानि ददौ स्नात्वा रूप्यकाण्यमितानि तु ।
ओं नमो विष्णवे प्रोक्त्वा जलदर्भौ निधाय वै ॥४८॥
संकल्प्य स्वर्णपात्रे स यज्ञवाटमकारयत् ।
दशकोशमितां भूमिं यज्ञयूपमयीं नृपः ॥४९॥
हेमयूपसुशोभाद्यामकारयच्च मण्डपान् ।
वेदिका यज्ञकुण्डानि मुख्यकुण्डान्वितानि च ॥५०॥
ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः ।
मुदिता देवताः सर्वा जयशब्दान् वदन्ति वै ॥५१॥
यज्ञं समाप्य च राजा सान्तःपुरपरिच्छदः ।
यावद् यानं समारुह्य निःसृतो नैमिषाद् वनात् ॥५२॥
तावत् कश्चिद् वानरस्त्वागत्योवाच नृपं मुहुः ।
तिष्ठ तिष्ठ शृणु राजन् मिथ्याहंकारवान् भवान् ॥५३॥
किं ते यज्ञविधानेन फलं मन्ये न चाधिकम् ।
पुराऽमरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः ॥५४॥
वर्जयित्वा मुखं मेऽभूत् कण्ठाऽधो हेमवर्णकम् ।
अस्माकं शिशवः सर्वे तत्राऽभवन् हिरण्मयाः ॥५५॥
कपिलानर्मदायोगे यज्ञतोयप्रभावतः ।
स्नानाऽवगाहनात्पानाल्लुण्ठनात्कर्दमे क्रतोः ॥५६॥
गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः ।
अथाऽहं लुलितो यज्ञे तव नैमिषसंभवे ॥५७॥
पंकेन लिप्तं गात्रं मे क्षालितं यज्ञवारिणा ।
न किञ्चित् फलमासीन्मे न गात्रं स्वर्णतां गतम् ॥५८॥
अहंकारगतो यज्ञस्तव सर्वो निरर्थकः ।
गवां त्वयाऽयुतं दत्तं धनं धान्यमनन्तकम् ॥५९॥
स्वर्णं रूप्यं तथा दत्तं किन्तु सर्वं निरर्थकम् ।
एतत्ते कथितं राजन् क्रतुस्ते नहि तादृशः ॥६०॥
सत्यधर्मस्य नृपतेर्यथाऽभून्नर्मदातटे ।
स्वस्ति वोऽस्तु गमिष्यामि नर्मदां स्वर्णरूपदाम् ॥६१॥
श्रुत्वा त्वदीयं यज्ञं वै नैमिषारण्यमागतः ।
निराशोऽहं प्रगच्छामि नाऽभून्मे कांचनं मुखम् ॥६२॥
वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीत् तदा ।
कोऽसि वानररूपस्त्वं वद मे श्रेयसां निधे ॥६३॥
कपिः प्राह कदम्बाख्यो जाबालिपुत्र आत्मवित् ।
जातिस्मरः फलचौर्याद् वानरत्वमुपागतः ॥६४॥
कृतानि सर्वतीर्थानि वेषेणानेन भूपते ।
न श्रेयो मेऽभवत् किंचित्तीर्थेषु त्वल्पमित्यपि ॥६५॥
केवलं नार्मदे क्षेत्रे सत्यधर्ममखोत्तमे ।
वपुर्हिरण्मयं सर्वं मुखवर्जं ममाऽभवत् ॥६६॥
वानरस्य वचः श्रुत्वा राजा तु नैमिषं पुनः ।
ययौ श्रीपरमेशं तं ह्यादिदेवं विभुं हरिम् ॥६७॥
तुष्टाव परया प्रीत्या भगवन्तं नरायणम् ।
भगवन्नैमिषे क्षेत्रे मया यज्ञः प्रसाधितः ॥६८॥
अत्रान्ते श्रावयामास ह्येको वानररूपधृक् ।
न यज्ञे ते मम लाभो वृथा यज्ञस्ततस्तव ॥६९॥
स त्विच्छति मुखं स्वस्य हिरण्मयं क्रतूत्तरम् ।
हिरण्मयं मुखं तस्य यथा स्यात् तत् तथा कुरु ॥७०॥
श्रुत्वा श्रीभगवानाह मूर्तिस्थो युवनं नृपम् ।
नर्मदायां पुनर्यज्ञं सत्यधर्मः करिष्यति ॥७१॥
तत्र तस्य मुखं स्वर्णं भविष्यन्ति न संशयः ।
वदैनं वानरं याहि राजँस्त्वं कोसलां पुरीम् ॥७२॥
राजा श्रुत्वा तु नैमिषं हरिं नत्वा पुरीं ययौ ।
वानरश्च ययौ रेवाकपिलासंगमं पुनः ॥७३॥
तत्र गत्वा सत्यधर्मं नैमिषाख्यानमाह सः ।
सत्यधर्मश्च तच्छ्रुत्वा हरेर्वचः प्रमाणयन् ॥७४॥
प्रचकार पुनर्यज्ञं वानरोऽवभृथोत्तरम् ।
कर्दमे स्वमुखं लुण्ठन् प्रावेशयन्मुहुर्मुहुः ॥७५॥
हेमीभूतवपुर्जातो मुखं सर्वं च कानकम् ।
अभवच्च तदा त्यक्त्वा शरीरं वानरस्य सः ॥७६॥
देवदुन्दुभिनादेन सत्कृतश्चाप्सरां गणैः ।
हंसयुक्तेन यानेन ययौ वैकुण्ठमेव सः ॥७७॥
तत्र यज्ञे श्वापदाद्याः कणं भुक्त्वा दिवं गताः ।
एवं वै नार्मदं तीर्थं सर्वोपरि प्रवर्तते ॥७८॥
श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं भवेत् ।
शंकरः पार्वतीं प्राह मया लक्ष्मि! तवोदितम् ॥७९॥
स्वद्रव्येण तु यो यज्ञं करोति नार्मदे तटे ।
भुक्त्वा स पुष्कलान् भोगान् विष्णुलोके महीयते ॥८०॥
धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।
नर्मदातीरमाश्रित्य विष्णुलोके महीयते ॥८१॥
प्रत्यक्षधेनुं यो दद्याद्धेमरत्नविभूषिताम् ।
घृतधेनुं गुडधेनुं शर्कराधेनुमित्यपि ॥८२॥
रेवाकपिलयोर्योगे विष्णुलोके महीयते ।
शृणु चान्यां कथां चापि पापतापप्रणाशिनीम् ॥८३॥
वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः ।
तेन चायतनं विष्णोः कृष्णनारायणस्य ह ॥८४॥
कारितं नर्मदातीरे स्वर्गकलशशोभितम् ।
तदायतनपुण्येन नर्मदायाः प्रभावतः ॥८५॥
मोदते वैष्णवे लोके मैत्रेयो वै चतुर्भुजः ।
अथाऽयं वीरणो राजा शुश्राव देवदूततः ॥८६॥
राजँस्तव गुरुः स्वर्गं निम्नीकृत्य गतो हरेः ।
वैकुण्ठं त्वं कथं नैव यास्यसि दर्शनाय वै ॥८७॥
देवदूतस्य तच्छ्रुत्वा पप्रच्छ च कथं गतिः ।
देवदूतस्तदा प्राह यज्ञमाचर नार्मदे ॥८८॥
तटे रम्ये हरिं कृष्णं तोषयित्वा प्रयास्यसि ।
वीरणोऽपि क्रतुं श्रेष्ठं वैष्णवं प्रचकार ह ॥८९॥
देवास्तत्र समायाता मैत्रेयोऽपि नरायणः ।
लक्ष्म्याद्या मातरश्चापि राजा सर्वा ह्यतोषयत् ॥९०॥
अथाऽवमृथकं स्नानं कृत्वा दत्त्वा च दक्षिणाः ।
वीरणो दिव्ययानेन भूत्वा दिव्यो हि वैष्णवः ॥९१॥
चतुर्भुजाभिः कन्याभिर्वीज्यमानोऽतिसुन्दरः ।
चतुर्बाहुधरः कृष्णनारायणं रटन् मुहुः ॥९२॥
देवैश्च पार्षदैर्मार्गे वर्धितः स्वागतीकृतः ।
ययौ विष्णोः परं धाम वैकुण्ठं नित्यशान्तिदम् ॥९३॥
रन्तिदेवोऽपि राजर्षिः कृत्वा यज्ञाँश्च नार्मदे ।
क्षेत्रे बिल्वाँस्तथाऽऽम्राँश्च समर्प्य परमेश्वरम् ॥९४॥
तोषयित्वा हरिं देवान् तीर्थं बिल्वाम्रकं तदा ।
कृत्वा चाज्ञां समादाय नारायणस्य शार्ङ्गिणः ॥९५॥
प्रजाश्च वैष्णवीर्भक्ताः काश्चिन्नीत्वा सहापि च ।
तटे चान्ते हरेर्धाम ययौ सकुलबान्धवः ॥९६॥
दधीचिर्नाम राजर्षिरवन्तीनृपतिः पुरा ।
नर्मदायास्तटे गत्वा दत्वा चेन्द्राय पृष्ठगम् ॥९७॥
वंशास्थि च ततो भक्त्या ययौ नारायणं पदम् ।
यदस्थिजातशस्त्रैर्वै देवा जिग्युर्महासुरान् ॥९८॥
अमासोमसमायोगे स्नात्वा बिल्वाम्रके प्रिये ।
भुक्तिं मुक्तिं जना यान्ति नार्मदक्षेत्रयोगतः ॥९९॥
विश्वे देवाः परां सिद्धिं बिल्वाम्रके समाप्नुयुः ।
पाठकाः श्रावकाश्चापि यास्यन्ति परमां गतिम् ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽशोकवनिकायां मातंगाश्रमः, अंगारेश्वरम्, सत्यधर्मस्य यज्ञे नकुलस्य स्वर्णरूपता, वीरणस्य मोक्षः, इत्यादिनिरूपणनामा द्वासप्तत्यधिकपञ्चशततमोऽध्यायः ॥५७२॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP