संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५६९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! शंभुः परमवैष्णवः ।
पार्वतीं प्राह माहात्म्यं मम तीर्थादिसंभवम् ॥१॥
चन्द्रद्वीपः प्रभासेतुस्ताम्रपार्णेय इत्यपि ।
गभस्तिमान् नागद्वीपः सौम्यो गन्धर्व इत्यपि ॥२॥
वारुणः कौमारिकेयश्चैते देशा हि नार्मदाः ।
नर्मदाजलसिक्तास्ते तद्वारिपानकारिणः ॥३॥
देहिनः पुण्ययोगेन स्वर्गे मोक्षे प्रयान्ति च ।
जीवाः कर्मफलं स्वेषां प्राप्नुवन्ति शुभाशुभम् ॥४॥
श्रेयोऽर्थं च तपो होमं दानं ध्यानं च पूजनम् ।
कारुण्यं नर्मदास्नानं कर्तव्यं शुभलब्धये ॥५॥
आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् ।
कुवलयाश्वो राजर्षिः पुरा कृतयुगेऽभवत् ॥६॥
अनेकानि सहस्राणि दानानि विविधानि च ।
दत्तानि तेन राज्ञा वै सर्वतीर्थेषु भावतः ॥७॥
इष्टाश्च क्रतवस्तेन वर्जयित्वा तु नर्मदाम् ।
राजा कुवलयाश्वः स दानधर्मपरायणः ॥८॥
राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल ।
लक्षमेकं हयानां च दन्तिनामयुतं तथा ॥९॥
हेममाणिक्यरत्नानि वासांसि विविधानि च ।
श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ ग्रहे ॥१०॥
शेषं द्रव्यं च तत्क्षेत्रे सर्वं कंकरवन्नृपः ।
अञ्जलिना प्रतिस्थलं विकीर्य स्नानमाचरत् ॥११॥
ततो जगामाऽवध्यायां निजे राज्येऽभजद्धरिम् ।
अथ राजा मुचुकुन्दो विष्णुभक्तो जितेन्द्रियः ॥१२॥
दैत्यानामधिपश्चासीत् स च सूर्यग्रहे ययौ ।
नर्मदामोंकारनाथं वैदूर्यसिद्धपर्वतम् ॥१३॥
नर्मदाकपिलायोगे कोटितीर्थेऽवसच्च सः ।
लक्षमेकं तु दोग्ध्रीणामयुतं वाजिनां तथा ॥१४॥
सहस्रं दन्तिनां चैव रथानां च सहस्रकम् ।
कामिकानां तु यानानां सहस्रं हेममालिनाम् ॥१५॥
धनं धान्यं सुवासांसि रत्नानि विविधान्यपि ।
स्नानं कृत्वा यथायोग्यं विप्रेभ्यः प्रददौ तदा ॥१६॥
ददावोंकारनाथाय दक्षिणां च शतायुतम् ।
यो यं कामयते कामं तं तस्मै स प्रयच्छति ॥१७॥
एवं कृत्वा परं तीर्थे स्वालयं पुनराययौ ।
अथ कालान्तरे भूपौ स्वस्वपुण्यप्रभावतः ॥१८॥
स्वर्गं प्राप्तौ चाप्सरोभिः सेविताविन्द्रसदृशौ ।
मुचुकुन्दरथस्तूर्ध्वं सदा प्रयाति वै दिवि ॥१९॥
कुवलयाश्वयानं तु तदधो याति सर्वदा ।
उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः ॥२०॥
कुवलयाश्वो राजर्षिर्मुचुकुन्दो महाबलः ।
लोकान्तरमुभावेतौ विमानस्थौ समागतौ ॥२१॥
तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि ।
योजनानां सहस्रेण ह्युपर्युपरि वर्तते ॥२५॥
अवध्याऽधिपतेर्यानमधोभागे प्रवर्तते ।
श्रुत्वा तद्धर्मराजोऽपि पप्रच्छ चित्रगुप्तकम् ॥२३॥
कतरं पूजये राज्ञोर्वद् मेऽर्घादिकर्मभिः ।
पुण्यबलं द्वयोर्वीक्ष्य प्राह वै चित्रगुप्तकः ॥२४॥
मुचुकुन्दं प्रथमं प्रार्चय रेवाप्रतापतः ।
सप्तर्षीनपि पप्रच्छ तेऽब्रुवन् चित्रगुप्तवत् ॥२५॥
मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय ।
दानेन कापिलेनेज्यो दानवेन्द्रोऽतिपुण्यवान् ॥२६॥
एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् ।
अञ्जलिं तु ततो बद्ध्वा यानस्याऽग्रे व्यवस्थितः ॥२७॥
कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मान्वितौ भवान् ।
निर्जितास्ते त्रयो लोका दानेनाऽनेन भूतले ॥२८॥
ओंकारदक्षिणस्याऽन्ते मूर्तौ कापिलसंगमे ।
सप्तकल्पवहातीरे पुण्यसंख्या न विद्यते ॥२९॥
एवमुक्त्वा पूजयित्वा दर्शयामास मार्गकम् ।
विष्णोर्वैकुण्ठलोकस्य मुचुकुन्दो जगाम ह ॥३०॥
अथाऽऽसाद्य ततो भूपं कुवलयाश्वमेव तु ।
धर्मराजः स्वयं प्राह स्वागतं ते करोमि वै ॥३१॥
राजा प्राह विरोधो वै देवदानवयोः सदा ।
त्वं देवो वै कथं दैत्यं प्राक् प्रपूजितवानसि ॥३२॥
मां त्यक्त्वा दानवेन्द्रः स पाद्यार्घ्येण त्वयाऽर्चितः ।
विपरीतं तु तत्सर्वं धर्मराज कृतं कथम् ॥३३॥
यमः प्राह यथाकर्म कर्तव्यं मेऽवशिष्यते ।
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ॥३४॥
कुरुक्षेत्रादधिकं वै पुण्यं स्यान्नार्मदे स्थले ।
कलां नार्हन्ति तीर्थानि सार्धं कल्पगया क्वचित् ॥३५॥
कर्मसाक्षी तु सर्वेषां यथान्यायं करोमि हि ।
स राजा विस्मयापन्नो द्रुतं नत्वा यमेश्वरम् ॥३६॥
नर्मदां स्नातुकामश्च कपिलासंगमं प्रति ।
आययौ संगमे सस्नौ दिव्ययानं हि भूभृतः ॥३७॥
तदा तूर्ध्वं गतं पूर्णे विष्णुलोकं सनातनम् ।
एतादृशं परं पुण्यप्रदं तीर्थं हि नार्मदम् ॥३८॥
भुक्तिमुक्तिप्रदं पापक्षालकं कमले प्रिये! ।
जना पापा अपि यान्ति मुक्तिं रेवाजलाप्लवात् ॥३९॥
तीर्यते विष्णुधर्मेण संसाराब्धिः सुदुस्तरः ।
रक्ता मूढाश्च लोका वै प्रवर्तन्तेऽतिपापके ॥४०॥
ते नात्मानं विजानन्ति न कृष्णं नहि देवताः ।
न शृण्वन्ति परं श्रेयः सति चक्षुषि नेक्षते ॥४१॥
समे पथि शनैर्यान्तो प्लवन्ते स्म पदे पदे ।
यममुक्ता अपि जीवा न जानन्ति प्रबोधिताः ॥४२॥
क्लिश्यन्ते ते वृथा नानारागलोभवशा नराः ।
दृष्ट्वा गर्भखनिं कष्टां प्रत्यक्षां त्रासबोधिनीम् ॥४३॥
मोक्षमार्गं न बुद्ध्यन्ति तेषां रेवा विमुक्तिदा ।
प्रेतभूता प्रजाः सर्वा यमलोकाधिकारिकाः ॥४४॥
शिवः प्राह शणु शैले! पुराख्यानं वदामि ते ।
सूर्येण कथितं त्वासीत्पुराख्यानं तु नार्मदम् ॥४५॥
यमाय निजपुत्राय लोकतारणहेतवे ।
आश्रयेन्नर्मदां देवीं सप्तकलावहां सतीम् ॥४६॥
स्नानावगाहनात्पानात् तथा दानक्रियादिभिः ।
धामदा मोक्षदा स्वर्गप्रदा श्रेयःप्रदा हि सा ॥४७॥
ध्यायमाना नर्मदा पापिनां पापविनाशिनी ।
संस्मृता कीर्तिता नाम्ना स्वर्गदा याम्यवारिणी ॥४८॥
नर्मदे नर्मदे चोक्त्वा पापो याम्यं न पश्यति ।
नरकस्थोऽपि रेवां स हरिं हरं स्मरेद् यदि ॥४९॥
मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः ।
वैदूर्यपर्वतः ऋक्षस्तथा चामरकण्टकः ॥५०॥
ओंकारो नर्मदा चैते भुक्तिमुक्तिफलप्रदाः ।
सिद्धेश्वरं च यज्ञेशं मध्यस्थं शशिभूषणम् ॥५१॥
कपिलेशं चतुर्थं तच्छिवक्षेत्रं प्रमुक्तिदम् ।
तेषां पूजां प्रकुर्वन्ति पुष्पधूपाऽऽर्त्तितर्पणैः ॥५२॥
शिवलोकं तु ये यान्ति शाश्वतं पदमैश्वरम् ।
गोदानं हेमदानं च तिलदानं तथैव च ॥५३॥
अन्नदानं पयोदानं सर्वोपस्करमित्यपि ।
प्रासादाऽऽरामदानं च ददाना यान्ति मोक्षणम् ॥५४॥
यमलोकं न ते यान्ति भक्ता भगवतो ननु ।
लोको विचारणीयोऽयं मिश्रितो वर्तते सदा ॥५५॥
सन्मानं चापमानेन वियोगे नेष्टसंगमः ।
यौवनं जरया ग्रस्तं सौख्यं कष्टादुपद्रुतम् ॥५६॥
बलिभिः पलितैश्चापि जर्जरीकृतविग्रहः ।
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्यं प्रियंकरम् ॥५७॥
तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।
अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम् ॥५८॥
यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।
जराऽभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः ॥५९॥
अशक्तत्वाद् दुराचारैर्भृत्यैश्च परिभूयते ।
धर्ममर्थं च कामं च मोक्षं न जरया युतः ॥६०॥
शक्तः साधयितुं तस्माच्छीघ्रं धर्म समाचरेत् ।
वातपीतकफादीनां वैषम्यं व्याधिमण्डलम् ॥६१॥
देहे तिष्ठति नित्यं वै बहुदुःखकरं मुहुः ।
दुःखानि स्वात्मवेद्यानि किं तत्र वेद्यते परैः ॥६२॥
एकोत्तरं मृत्युशतं हे नित्यं प्रवर्तते ।
तत्रैकं कालरूपं च शेषास्त्वागन्तुकाः स्मृताः ॥६३॥
कालः प्रतिक्षणं देहं क्षपयत्येव शान्तिमान् ।
आगन्तुकाः क्षपयन्ति तत्त्वानि हि प्रतिक्षणम् ॥६४॥
आगन्तुका मृत्यवस्तु नात्यन्तं मारयन्ति वै ।
भेषजादिप्रतिस्पर्द्धिसाधनैर्विद्रवन्ति ते ॥६५॥
कालमृत्युः क्षणाद्यात्मा महाकालात्मकस्तथा ।
जपहोमप्रदानाद्यैर्भैषजैश्च न शाम्यति ॥६६॥
अपमृत्युस्तु देहस्य विषमद्यादिसंभवः ।
सर्वेषां जलपातादिवह्निपातादिसंभवः ॥६७॥
क्षयं करोति वृष्ट्यादि कीटानां जलपूरतः ।
ज्ञाताऽयं पुरुषो नित्यमपमृत्योर्बिभेति च ॥६८॥
विविधा व्याधयः कष्टाः सर्पाद्याः प्राणिनोऽपि च ।
विषाणिनोऽभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥६९॥
आवृतं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम् ।
स्वस्थं कर्तुं न शक्नोति कालग्रस्तं हि देहिनम् ॥७०॥
नौषधं न तपो दानं न मित्राणि न बान्धवाः ।
परित्रातुं समर्था नो कालग्रस्तं प्रवासिनम् ॥७१॥
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः ।
नास्ति मृत्युसमः कालो देहिनां सुखमानिनाम् ॥७२॥
सद्भार्यासुतमित्राणि राज्यैश्वर्यसुखानि च ।
मृत्युश्छिनत्ति सर्वाणि वार्यमाणोऽपि वेगतः ॥७३॥
इद्ं तै कथितं पुत्र धर्मराज मयाऽर्थवत् ।
परिणामे भवेत् सर्वं सर्वथा कालभोजनम् ॥७४॥
तस्मात् सर्वप्रयत्नेन सेव्या नारायणी सृतिः ।
सर्वदुःखहरा रेवा सर्वशोकविनाशिनी ॥७५॥
यान् यान् कामयते कामान् तांस्तान् रेवा प्रयच्छति ।
ज्ञानं ध्यानं चाध्ययनं रेवासेवनमेव तत् ॥७६॥
यज्ञो दानं तपः सत्यं लक्ष्मि! रेवाम्बुसेवनम् ।
ब्रह्मकूर्चसहस्राणि रेवातोयसमानि न ॥७७॥
गोदानं तत्र वै दत्तं गोमेधायुतपुण्यदम् ।
शशांकोऽभूत् पुरा राजा नर्मदातीरमाश्रितः ॥७८॥
दानं यज्ञं तपश्चक्रे पर्वतेऽमरकण्टके।
ददौ चार्धप्रसूतां गां ब्राह्मणाय महात्मने ॥७९॥
दानस्याऽस्य प्रभावेण दिव्यूर्ध्वयायानगोऽभवत् ।
यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ॥८०॥
तावद्गौः पृथिवी ज्ञेया सशैलवनकानना ।
स्वर्णशृंगी रूप्यखुरी सवत्सा कांस्यदोहना ॥८१॥
नर्मदास्नानयुक्ता च सकुशा तिलसंयुता ।
ओंकाराऽमरयोर्मध्ये कोटितीर्थे शशांककः ॥८२॥
एताः सहस्रसंख्याका ब्राह्मणेभ्यो ह्यकल्पयत् ।
स राजा दानपुण्येन दिव्ययानेन वै दिवि ॥८३॥
राजते तु तदा नेदुर्देवदुन्दुभयो दिवि ।
तत्क्षणे यानमारूढो हरिश्चन्द्रोऽपि भूपतिः ॥८४॥
कुरुक्षेत्रे गोसहस्रं दत्वा यानेन चाययौ ।
धृतस्वर्णातपत्रस्तु वीज्यमानश्च चामरैः ॥८५॥
योजनानां सहस्रेण हरिश्चन्द्रो ह्यधःस्थितः ।
एवं दृष्ट्वा निम्नभावं जगामाऽजं स सत्वरम् ॥८६॥
विषण्णवदनोऽपृच्छत् पितामहं तु कारणम् ।
मया तु कौरवे क्षेत्रे दानं दत्तमनन्तकम् ॥८७॥
शशांकेन तु रेवायां दानं दत्तमनन्तकम् ।
कथं पुण्यं नार्मदं तु कुरुक्षेत्राद् विशिष्यते ॥८८॥
येनाऽहमस्मि निम्नस्थो हरिश्चन्द्रः समूर्ध्वगः ।
श्रुत्वा ब्रह्मा हरिश्चन्द्रं प्राह मा खेदमावह ॥८९॥
शशांकेन पुरा सूर्यग्रहेऽद्र्यमरकण्टके ।
अनेकानि सहस्राणि कृतानीष्टानि भूपते ॥९०॥
अन्यतः सर्वतीर्थानि चैकतोऽमरकण्टकम् ।
तोलितं च मया पूर्वममरेशो विशिष्यते ॥९१॥
सेव्यतां कल्पगा देवी यदिच्छेत्परमं पदम् ।
हरिश्चन्द्रस्ततो नत्वा ययावमरकण्टकम् ॥९२॥
नर्मदायास्तटे द्रव्यं धनं गाश्च ददौ तदा ।
अथ पुण्योदयेनाऽस्य विमानं चोर्ध्वगं ह्यभूत् ॥९३॥
तदा सन्तोषमापन्नः कृत्वा राज्यं चिरं ततः ।
ययौ वैकुण्ठमेवाऽयं नर्मदायाः प्रभावतः ॥९४॥
यद्यप्यनेन दत्तानि कौरवे च बहून्यपि ।
दानानि तत्फलं नैव नार्मदेन समं ह्यभूत् ॥९५॥
एवं वै नार्मदं तीर्थं सर्वश्रेयस्करं परम् ।
भुक्तिदं मोक्षदं चापि कोटितीर्थसमन्वितम् ॥९६॥
एतत्सर्वं समाख्यातं शिवायै शंकरेण ह ।
मया तुभ्यं महालक्ष्मि! प्रोक्तं तन्नार्मदं फलम् ॥९७॥
यः शृणोति जनो लक्ष्मि गोसहस्रफलं लभेत् ।
पठनाच्छ्रवणात्स्मृतेर्लभेद्वै तादृशं फलम् ॥९८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुवलयाश्वमुचुकुन्दविमानवैषम्ये हरिश्चन्द्रशशांकविमानवैषम्ये नर्मदामरकण्टकमाहात्म्याधिक्यादिकथननामैकोनसप्तत्यधिकपञ्चशततमोऽध्यायः ॥५६९॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP